प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 43, कुल 532 में से
संदर्भ में पढ़ेंप्रमाणसिद्धिः १७
असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते ॥ २४ ॥
स्वभावभेदेन विना व्यापारोऽपि न युज्यते ।
नित्यस्याव्यतिरेकित्वात् सामर्थ्यं च दुरन्वयम् ॥ २५ ॥
येषु सत्सु भवत्येव यत् तेभ्योऽन्यस्य कल्पने ।
तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः ॥ २६ ॥
स्वभावपरिणामेन हेतुरंकुरजन्मनि ।
भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात् ॥ २७ ॥
शस्त्रौषधयोः सम्बन्धाद् व्रणे व्रणरोहणे च वृत्तेऽसम्बद्धस्य व्यापारद्वारेणाप्र-
त्यासन्नस्य स्थाणोः किं कारणत्वं न कल्प्यते; निमित्तस्य समानत्वात् ॥ २४॥
नन्वकारणावस्थातो व्यापारसमावेशादस्ति विशेषः कारणावस्थायाम् ?
इत्याह—स्वभावभेदेन विना न केवलं कारकत्वम् । व्यापारोऽपि निर्व्या-
पारस्य नित्यस्य न युज्यते ।
किञ्च—नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयं दुरवगमम् । न
ह्यस्तीति कारणम्, अपि तु यद्भावात् कार्याभावः स तत्कारणम्; अन्यथाऽऽ-
काशादीनामपि हेतुत्वप्रसङ्गः ॥ २५ ॥
अपि च—येषु कारणेषु सत्सु यत्कार्यं भवत्येव तेभ्यः कारणेभ्योऽन्यस्य
पदार्थस्य तत्कार्यहेतुत्वेन कल्पने सर्वत्र कार्यहेतूनामनवस्थितिः प्राप्नोति,
अपरापरकल्पनया । तस्माद् दृष्टसामर्थ्या एव क्षितिबीजादयः कारणमङ्कुरस्य,
नेश्वरादिरदृष्टसामर्थ्यः ॥ २६ ॥
ननु क्षित्यादिरप्यकारकावस्थातो न विशिष्टस्वभावः कारणावस्थायामङ्कुरस्य ?
इत्याह—उपसर्पणप्रत्ययाद्दृष्टसहकारिणः प्राप्तकार्योत्पादानुगुणातिशयो¹ भूम्यादिः
स्वभावपरिणामेन ²कार्यानुगुणातिशयतारतम्ययुक्तापरापरक्षणलक्षणेनान्त्यावस्था-
प्राप्तोऽङ्कुरजन्मनि हेतुर्भवति, न³ तु पूर्वपरैकरूपः; क्रमाक्रमयोरर्थक्रिया-
विरोधात् । कुत एतदिति चेत् ? तस्य भूम्यादेः कर्षणपांसुप्रक्षेपादिना संस्कारे
तस्याङ्कुरस्य पुष्टतरादिविशेषस्य दर्शनात् ॥ २७ ॥
१. ०तिशया--रा० । २. ०तम्यमुक्ता०--रा० । ३. स--रा० ।
प्र० वा० : २