प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 47, कुल 532 में से
संदर्भ में पढ़ेंप्रमाणसिद्धिः २१
अतिप्रसङ्गात्;
यद् दृष्टं प्रतिसन्धानशक्तिमत् ।
किमासीत् तस्य यन्नास्ति पश्चाद् येन न सन्धिमत् ॥ ३८ ॥
न स कश्चित् पृथिव्यादेरंशो यत्र न जन्तवः ।
संस्वेदजाद्या जायन्ते सर्वं बीजात्मकं ततः ॥ ३९ ॥
जन्मपरिग्रहेऽतिप्रसङ्गात् । यदि महाभूतेभ्य एव केवलेभ्यः प्राणादीनां
जन्मग्रहः, तदा सर्वस्माद् भवेयुरिति सर्वं प्राणिमयं जगत् स्यात् ; न चास्त्ये-
तत्, तस्मात् पूर्वसजातिसापेक्षाणामेवाक्षादीनां देहाज्जन्मेति पूर्वजन्मप्रतिबन्ध-
सिद्धिः ॥ ३७ ॥
भाविजन्मपरम्परासिद्ध्यर्थमप्याह—यत् प्राणापानादिमध्यावस्थायां प्राणा-
दीनामुत्पादशक्तियुक्तं दृष्टं तस्य किमासीत् प्रतिसन्धानकालेऽधिकं यत्
पश्चान्मरणकाले नास्ति येन तद्वैकल्यात् तदा न सन्धिमत् समग्राप्रतिबद्ध-
कारणत्वात् प्रतिसन्धानं प्राप्तमित्यर्थः ॥ ३८ ॥
स्यादेतत्—पूर्वसजातिहेतुकमिन्द्रियादि न भवति, किन्तु देहहेतुकमेवेदम्,
न चातिप्रसङ्गः; केषाञ्चिदेव भूतपरिणामानां देहात्मकानां तद्धेतुत्वात्, अन्येषाञ्च
तद्विरुद्धस्वभावानामहेतुत्वात्, सुवर्णबीजाबीजपाषाणवत् ? अत्राह---न स कश्चित्
पृथिव्यादेरंशः प्रदेशो यत्र जन्तवः संस्वेदजाद्याः, आद्यशब्दाज्जरायुजाण्डज-
प्रभृतयः, न जायन्ते, ततः सर्वं भूतपरिणतिजातं प्राणादिजनने बीजात्मक-
मिति नास्ति बीजविरुद्धस्वभावता कस्यचित् । सुवर्णासुवर्णबीजत्वं तु पाषाणा-
दीनां सुवर्णपरमाणूनामेव सदसत्त्वाभ्यामिति विषमो दृष्टान्तः ॥ ३९ ॥
ननु भूतमात्रहेतुकत्वाविशेषेऽपि परिणामस्य यथा विशेषः सुवर्णपरमाणु-
मयत्वेतराभ्याम्, तथा प्राणादिहेतुत्वाभ्यामपि स्यात् ? उक्तमेवात्र सर्वत्र प्राणिनां
दृष्टे सर्वं तद्बीजात्मकमिति नास्त्येवाबीजात्मकता कस्यचित् परिणामस्य । अत्रापि
वा तुल्यः प्रसङ्गः—यदि भूतमात्रहेतुकोऽयं बीजपरिणामः, सर्वस्तथा स्यात्;
हेत्वविशेषे कार्यविशेषायोगात् ।