प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 37, कुल 532 में से
संदर्भ में पढ़ेंप्रमाणसिद्धिः ११
ईश्वरसाधनदूषणम्
१. नैयायिकमतखण्डनम्
स्थित्वा प्रवृत्तिःसंस्थानविशेषार्थक्रियादिषु ।
इष्टसिद्धिः;
योऽधिकरणसिद्धान्तन्यायेन१ नित्यव्यापिसर्वज्ञनित्यबुद्ध्याश्रयात्मविशेषविशिष्टमेव
पक्षे साध्यमुपनयन्ति धूम इव पर्वतवर्त्तिनं दहनम् । न ह्यनित्येन, अव्यापिना वा
नानादेशकालकार्यजातं शक्यक्रियम्, नापि सर्वस्य कार्यस्योपादानकारणान्यसर्व-
विद् वेदयितुं समर्थः; नाप्यनित्यया बुद्ध्याऽतीतानागतकालवर्त्ति वस्तुजातं ज्ञातुं
शक्यम्, तद्वेदनाच्च सर्ववित् । न चैते हेतवोऽसिद्धाः; धर्मिणि सत्त्वनिश्चयात् ।
न च विरुद्धः, सपक्षे सत्त्वात् । नानैकान्तिकाः, साध्यसाधनयोर्व्याप्तिनिश्च-
यात् । न च कालात्ययापदिष्टाः, साध्यसाधनबाधनाभावात् । नापि प्रकरणसमाः,
विपर्ययसाधकहेत्वभावादिति ?
अत्राह—स्थित्वाप्रवृत्तिः२संस्थानविशेषार्थक्रियादिषु साधनेषूपादाना-
द्यभिज्ञबुद्धिमत्पूर्वकत्वे साध्ये इष्टसिद्धिरस्माकम् । वयमपि साधारणासाधारणचेतना-
लक्षणकर्मनिर्मितं जगद्विचित्रमिच्छामः, तत्साधयता च परेण साहायकमनुष्ठितम् ।
येन साध्यगतेन विशेषेण विना धर्मिणि लिङ्गमनुपपन्नम्, तस्यैवाधिकरणसिद्धान्तेन
प्रतीतिः, यथा—पर्वतवर्त्तिनो धूमाद् वन्हेः पर्वतवर्त्तित्वस्य । न ह्यन्यदेशस्थेनाग्निना
जन्यमानस्य धूमस्य पर्वतवर्त्तित्वमुपपद्यते । न त्वेवं नित्यत्वसर्वज्ञत्वव्यापित्वादि
विना चेतनस्य तनुभुवनादिगतं स्थित्वाप्रवृत्त्यादिकमनुपपन्नम् ; नित्यत्वादिविपर्यय-
योगिना चेतनेन क्रियमाणं तद् घटत एव ।
ननूक्तमेव “अनित्याव्यापिनः सर्वदेशकालवर्त्ति कार्यमकार्यम्, असर्वविदश्च
सर्वोपादानाद्यभिज्ञता नास्ति” ( ) इत्यादिना ? सत्यमु-
क्तम्, अयुक्तं तूक्तम्; कर्तुरेकत्वासिद्धेः । एकस्य कर्तुरनेकदेशकालं कार्यं
१. यत्प्रसिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः”—न्या० द० १. १. ३० ।
२. उपदर्शितमर्थं प्राप्तुकामा कायवाग्व्यापारसहाया बुद्धिः=प्रवृत्तिरिति भावः ।