प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 38, कुल 532 में से
संदर्भ में पढ़ें१२ प्रमाणवार्त्तिके
असिद्धिर्वा दृष्टान्ते संशयोऽथवा ॥ १२ ॥
कुर्वाणस्य तदुपादानादिकं जानानस्य नित्यत्वादिकमन्तरेण स्थित्वाप्रवृत्त्यादि
नोपपद्यत इति स्यादपि तादृशस्याधिकरणसिद्धान्तेन प्रतिपत्तिः । अनेकेनापि तु
नानादेशकालवर्त्तिना स्वस्वकार्यस्योपादानादि जानता क्रियमाणं स्थित्वाप्रवृत्त्यादि
सङ्गतमेव । अत एवैकत्वस्यापि तत एव सिद्धिरयुक्ता; अनेकस्यापि हेतुत्व-
योगात् । पक्षायोगव्यवच्छेद एव तु साध्यस्याधिकरणसिद्धान्तेन सिध्यतु, न तु
तदधिकः; वह्नेरिव चान्दनत्वादिः ॥
नन्वनेक एव ते चेतनावन्तोऽभिमताः¹, न चोपादानादिकं तन्त्वादीनां ते
जानन्ति, नापि तत्कर्तृत्वमात्मनो मन्यन्ते, तत्कथममी कर्त्तारः ? अथाधिपत्यमात्रे-
णैषां कर्तृत्वम्, न तूपकरणाद्यायोजनेन व्यापारेण, यथा—चन्द्रस्य चन्द्र-
कान्तद्रुतौ, तेनोपादानाद्यभिज्ञता कर्तृत्वाभिमानश्च नैषाम् ? एवं तर्ह्युपादानाद्य-
भिज्ञचेतनपूर्वकत्वे साध्ये नेष्टसिद्धिर्वक्तव्या । यद्येवं भवत एव सूक्ष्मेक्षिका,
तदा चेतनापूर्वकत्वमात्रं साध्य, दृष्टान्ते च कुम्भकारत्ववत् सदप्युपादानाद्य-
भिज्ञत्वमप्रयोजकं मन्यस्व² ! ॥
सत्कथं परिहर्त्तव्यमिति चेत् ? तत्किं ³कुम्भकारत्वमपरिहार्यम् । अप्रयोज-
कत्वाद् त्यज्यत इति चेत् ? उपादानाद्यभिज्ञत्वेऽपि समानमेतत् । उपादानादि-
कमजानतोऽपि बुद्धिमतोऽनेकस्याधिष्ठानमात्रेणापि कार्याणामुत्पत्तियोगात् ।
अथ नित्यत्वादिविशिष्टपुरुषपूर्वकत्वमेव साध्यम् ? तदाऽसिद्धिर्दृष्टान्ते ।
साध्यशून्यो दृष्टान्त इत्यर्थः । न हि क्वचिद् दृष्टान्ते तादृशं साध्यमुपलब्धम्,
येन व्याप्तिः प्रतीयेत । असिद्धव्याप्तिकश्च हेतुरनैकान्तिक एव । स्थित्वाप्रवृत्तेः,
अर्थक्रियासमर्थत्वादिति हेत्वोः संशयोऽथ वा अनैकान्तिकत्वम्, तेनैव त्वभिमत-
रूपेण । न ह्यसौ स्थित्वाप्रवर्तमानः कार्येष्वर्थक्रियाकारी वा तथा पुरुषाधिष्ठितः;
अनवस्थाप्रसङ्गात् ॥ १२ ॥
१. बौद्धेनेति शेषः ।
२. बौद्धः प्राह इति शेषः ।
३. साध्ये इति शेषः ।