प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 48, कुल 532 में से
संदर्भ में पढ़ें३२ प्रमाणवार्त्तिके
तत् सजात्यनपेक्षाणामक्षादीनां¹ समुद्भवे ।
परिणामो यथैकस्य स्यात् सर्वस्याविशेषतः ॥ ४० ॥
प्रत्येकमुपघातेऽपि नेन्द्रियाणां मनोमतेः ।
उपघातोऽस्ति;
भङ्गेऽस्यास्तेषां भङ्गश्च दृश्यते ॥ ४१ ॥
तस्मात् स्थित्याश्रयो बुद्धेर्बुद्धिमेव समाश्रितः ।
ननु भूतान्यप्यवान्तरानेकविविधविशेषभाञ्जि विचित्राः परिणतीर्जनयन्तीति न
समानताप्रसङ्गः ? न तावत् सविशेषो भूतमात्रात्; सर्वत्र प्रसङ्गात् । न चान्यतः;
अन्यस्याभावात् । अस्माकं तु कर्मापि सहकारि सम्मतम्, तद्वैचित्र्यात् विचित्रं
कार्यजातमुचितम् ।
शक्तिपक्षं निषेद्धुमाह—तत् तस्माद् भूतमात्रहेतुत्वात् सजात्यनपेक्षाणा-
मक्षादीनां¹ समुद्भवे स्वीक्रियमाणे परिणामो यथैकस्य देहस्यातद्भूतप्राणा-
पानेन्द्रियचैतन्यशक्तितया, तथा सर्वस्य लोष्टादेरपि स्याद् हेतोरविशेषतः ।
अत एव हि प्रसङ्गाद् गुणपक्षोऽपि प्रतिक्षिप्तो बोद्धव्यः । तस्मादाश्रयत्वमपि
नास्ति; अनिन्द्रियस्य कायस्य कारणत्व-शक्तिमत्त्व-गुणवत्त्वानामयोगतः² ॥४०॥
सेन्द्रियोऽपि कायो बुद्धेराश्रयो न युक्त इति वक्तुमाह—इन्द्रियाणां
प्रत्येकं यथास्वं प्रत्ययैः उपघातेऽपि सति मनोमतेर्विकल्पबुद्धेः उपघातः
पटुमन्दतादिलक्षणो नास्ति । यद्धि यदाश्रितं तत् तद्विकारे विक्रियते, यथा—
घटस्य दाहादौ तच्छुक्लत्वादि । तस्मान्न तदाश्रिता बुद्धिः ।
विपर्ययमेवाख्यातुमाह—भयशोकादिभिरस्या मनोबुद्धेर्भङ्गे³ विकारे (वा)
सति तेषामिन्द्रियाणां भङ्गो विकारश्च दृश्यते । हर्षादिना च परिपुष्टिरिति
विकल्पबुद्धिविकारविकारित्वादिन्द्रियाण्येव तदाश्रितानि ॥ ४१ ॥
तस्माद् बुद्धेः स्थिराश्रयः समानजातीयः कश्चिन्न सेन्द्रियः कायः ।
१. स्वजात्य०--रा० । २. कारणत्वशक्तिमत्त्वे गुणत्वा०—रा० ।
३. नाशे इत्यर्थः ।