सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 46, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 46

२० प्रमाणवार्त्तिके
३. कारुणिकत्वादपि भगवान् प्रमाणम्
चार्वाकमतनिरसनपूर्वकं परलोकसाधनम्
साधनं करुणाभ्यासात् सा;
बुद्धेर्देहसंश्रयात् ।
असिद्धोऽभ्यास इति चेन्नाश्रयप्रतिषेधतः ॥ ३६ ॥
प्राणापानेन्द्रियधियां देहादेव न केवलात् ।
सजातिनिरपेक्षाणां जन्म जन्मपरिग्रहे ॥ ३७ ॥
चेदिष्यते, एतागच्छत मुमुक्षवो गृध्रानुपास्महे दूरदर्शिनः, दीर्घश्रुतींश्च
वराहानित्युपहसति ॥ ३५ ॥ उक्तमभिमतं प्रामाण्यम् ॥
नन्वीदृशस्य प्रमाणस्य किं साधनम् ? इत्याह—साधनं करुणा । दुःखाद् १,
दुःखहेतोश्च १ समुद्धरणकामता करुणा । सा भगवतः प्रामाण्यस्य साधनम् ।
सैव करुणा ( कथं जायते ? ) इत्यत आह—अभ्यासात् सा । गोत्रविशेषात्
कल्याणमित्रसंसर्गादनुशयदर्शनाच्च कश्चिन्महासत्त्वः कृपायामुपजातस्पृहः सादर-
निरन्तरानेकजन्मपरम्पराप्रभवाभ्यासेन सात्मीभूतकृपया प्रेर्यमाणः सर्वसत्त्वानां
समुदयहान्या दुःखहानाय मार्गभावनया निरोधप्रापणाय च देशनां कर्तुकामः
स्वयमसाक्षात्कृतस्य देशनायां विप्रलम्भसम्भावनाच्चतुरार्यसत्यानि साक्षात् करोतीति
भगवति साधनं कृपा प्रामाण्यस्य ।
बुद्धेर्देहसंश्रयादसिद्धोऽभ्यास इति चेत् “बुद्धिर्देहमाश्रिता; कार्यत्वात् ,
प्रदीपमिव प्रभा”, “शक्तिरूपत्वाद्वा, मद्यमिव मदशक्तिः”, “गुणत्वाद्वा, पटमिव
शुक्लता”—त्रेधाप्याश्रयविनाशे तस्य नाशात् कुतो जन्मान्तराणि, कथं वा तेष्व-
भ्यासः कृपादेः ? इति चार्वाकाः । तदेतन्न युक्तम् ; आश्रयप्रतिषेधतो बुद्धेः ।
बुद्धिरहितः कायो नाश्रयः, कारणत्वात् , गुणित्वात् , शक्तिमत्त्वाद्वा ॥ ३६ ॥
तत्र कारणत्वं प्रतिषेद्धुमाह—प्राणो वायुरूर्ध्वगः, तद्विपरीतोऽपानः,
इन्द्रियाणि चक्षुरादीनि, धीर्बुद्धिः, तासां सजातिनिरपेक्षाणां कारणभूतपूर्वसजा-
तिप्राणादिपुञ्जनिरपेक्षाणां देहादेव केवलान्न जन्म भवति । कुतः ? इत्याह—
१-१. दुःखाद्दुःखहेतोश्च—रा० ।