प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 50, कुल 532 में से
संदर्भ में पढ़ें२४ प्रमाणवार्त्तिके
क्रमाद् भवन्ती धीः कायात् क्रमन्तस्यापि 'शंसति ॥ ४५ ॥
प्रतिक्षणमपूर्वस्य पूर्वः पूर्वः क्षणो भवेत् ।
तस्य हेतुरतो हेतुर्दृष्ट एवास्तु सर्वदा ॥ ४६ ॥
चित्तान्तरस्य सन्धाने को विरोधोऽन्त्यचेतसः ।
तद्वदप्यर्हतश्चित्तमसन्धानं कुतो मतम् ॥ ४७ ॥
असिद्धार्थः प्रमाणेन किं सिद्धान्तोऽनुगम्यते ।
सहकारिणामपेक्षाऽस्ति । तस्मात् क्रमाद् भवन्ती धीः कायात् क्रमन्तस्यापि
कायस्य शंसति२ ॥ ४५ ॥
ततश्च—प्रतिक्षणमपूर्वस्य बुद्धीन्द्रियकायसमुदायस्य कार्यस्य पूर्वः पूर्वः
क्षणस्तादृशो हेतुर्भवेत्, अतः कारणादनन्तरस्य बुद्धीन्द्रियादेर्हेतुर्मध्यावस्थावद् दृष्ट
एव बुद्धीन्द्रियादिकलापः सर्वदा ऐहिकजन्मादौ वामुत्रिकजन्मादौ चास्तु ॥४६॥
ननु यदि सविज्ञानकायत्वात् तथाभूतजननानुमानेन परलोकसिद्धिः, तदा
'मरणचित्तत्वाच्चित्तान्तराप्रतिसन्धानमर्हच्चरमचित्तवत्' इति कस्मान्नानुमीयते ?
इत्याह—चित्तान्तरस्य सन्धाने को विरोधोऽन्यचेतसो मरणचित्तस्य ! न
कश्चित् । तथा हि—न तावन्मरणचित्तेन चित्तान्तरसन्धानस्य सहानवस्थानलक्षणो
विरोधः; निवर्त्यनिवर्तकत्वाभावात् । नापि परस्परपरिहारस्थितिलक्षणः; अमरण-
चित्तव्यवच्छेदेन मरणचित्तस्यावस्थानात् । तद्वदप्यर्हतश्चित्तमसन्धानं कुतः
प्रमाणात् मतं येन दृष्टान्तः स्यात् । न ह्यर्हन् भवतां३ सिद्धः; तद्धाधनाय
यत्नात् ॥ ४७ ॥
अथाभ्युपगम्यते, तदा तस्य क्लेशविसंयोगकृतमसन्धानम्, नान्यथा । स
च न पृथग्जनानामिति कथं तेषां मरणचित्तमसन्धानम् । क्लेशविसंयोगो हि
प्रतिसन्धानविरोधी लक्ष्यते, न मरणचित्तम् ।
स्यादेतद्—भवत्सिद्धान्तसिद्धमर्हच्चित्तमसन्धानम्, तत एव दृष्टान्त-
सिद्धिः ? अत्राह—असिद्धार्थोऽनिश्चितार्थः प्रमाणेन किं सिद्धान्तोऽनुगम्यते;
१. क्रमं तस्यापि--रा० । २. अनुमापयतीत्यर्थः ।
३. चार्वाकाणामित्यर्थः ।