सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

६० न्यायमञ्जर्याम्

तिः, महदहङ्कारतन्मात्राणि सप्त पूर्वापेक्षया विकृतयः उत्तरोत्तरकार्यापेक्षयो
प्रकृतयः, एकादशेन्द्रियाणि पञ्च भूतानि विकृतय एव, अप्रकृतिविकृतिरूपस्तु
शुद्धः पुरुष इति, तदाह—
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ [सा० का० ३]
एवं महदादिविकारवती प्रकृतिरात्मनो भोगं साधयति, कश्चास्य भोगः ?
बुद्धिवृत्यनुपातित्वं–विषयाकारपरिणतेन्द्रियवृत्त्यनुरक्तां बुद्धिवृत्तिं ज्ञानात्मिकां
पुरुषः पश्यति, दर्शनेऽपि न तस्य किञ्चिच्चान्यत्वं किन्तु तदेव दर्शनं यत्तत्र
प्रतिबिम्बनमिति, इत्थं तयोर्बुद्धिपुंसोः संयोगे सति बुद्धिधर्मश्चेतयितृत्वलक्षणो
बुद्धावसन्नपि सन्नेव लक्ष्यते, तदाह—
तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ [ सा० का० २० ]
अपवर्गाय कथमात्मनः प्रकृतिरवकल्पते ? स्वरूपं प्रकाशयतीत्याचक्षते,
अनवधृतप्रकृतिस्वरूपः पुमान्प्रकृतिकृतमखिलमात्मकृतमिति मन्यमानस्तदुपार्-
जितं भुङ्क्ते, यदा तु पृथग्भूतामेनां मन्यते तदा भवत्वियमायासाहेतुरेव
ममेति बुद्धचमानस्तत्कृतमनुपभुञ्जानः स्वरूपनिष्ठ एवावतिष्ठते, प्रकृतिरपि
भवतु दृष्टाऽहमनेन पृथङ् मामेष मन्यत इति न तदभिमुखीभवितुमुत्सहते,
तदाह—
प्रकृतेः सुकुमारतरं न किंचिदस्तीति मे मतिर्भवति ।
या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ [ सां० का० ६१ ]
परस्परं च भग्नह्रसयोः प्रकृतिपुरुषयोर्व्यापकत्वात्सत्यपि संयोगे सर्गो न
प्रवर्तत एवेत्याह—
दृष्टा मयेत्युपेक्षक एको दृष्टाऽहमित्युपरमत्येका ।
सति संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ [सा० का० ६६]
अपरिम्लानकुतूहलो हि पुमान्वञ्चयितुं शक्यते न दृष्टं तत्त्वमिति मत्वा,
सत्यामपि योग्यतायां निवर्तते प्रकृतिर्नटीव रङ्गभूमौ प्रदर्शितनिखिलनिजवृत्त-
वृत्तान्तनैपुणा तत इत्याह-'रङ्गस्य दर्शयित्वा निवर्तते प्रकृतिः' तदेवं प्रकृतिरेव
संसारे प्रवर्तते प्रकृतिरेव मोक्षमनुभवतीत्याह—
तस्मान्न बध्यतेऽद्धा नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाऽऽश्रया प्रकृतिः ॥ [सां० का० ६२]
किमर्थ पुनरसावेव विशेष्यते प्रकृतिरिति ? कि क्रियते स्वभाव एवैष दैव-
हतिकायास्तस्याः—
नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥ [ सां० का० ६० ]

अचेतनत्वादस्याः कथमेवंकारित्वमिति चेदुक्तमत्र—
वत्सविट्वृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ॥
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ [ सां.का. ५७ ]
ननूत्पन्नतत्त्वज्ञाने भोगानानुकूलमहदादिकार्यारम्भपराङ्मुखत्वात्तस्याश्चैक-
त्वादेकस्मिंस्तत्त्वविदि मुक्ते सति सर्वे मुक्ताः स्युः । नैष दोषः, तत्त्वविदमेव
पुमांसं प्रति तस्या औदासीन्यात् , अन्यसाधारणत्वेन तत्कार्यानपायात् , तथा
च पतञ्जलिः—[ पा.२।२२ ] 'कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्' (१)
नन्वेवं यदैव तत्त्वज्ञानमुत्पन्नं तदैव प्रकृत्युपार्जितकर्मफलोपभोगपरिहानितः
पुंसः शरीरपातः स्यान्नेत्याह—'तिष्ठति संस्कारवशाच्चक्रभ्रमिवद्धृतशरीरः, ततः
संसारविरतौ सत्याम्—
प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ [ सां. का. ] इति ।
अहो नु खलु कपिलकविकथारसाक्षिप्तहृदयैरतिबहु प्रसक्तानुप्रसक्त्या
लिखितमस्माभिस्तदियं प्रधानप्रकृतिः प्रथमा महच्छब्दवाच्या सा बुद्धिस्तत्त्व-
विदं प्रति नष्टाऽप्यन्यसाधारणत्वादनष्टैवेति नित्या, नित्यत्वाच्च प्रत्यभिज्ञानु-
सन्धानादिव्यवहारप्रबन्धनिर्वाहणक्षमा बुद्धिः, ज्ञानं तु तस्य वृत्तिः, उपलब्धि-
स्तु पुंसो वृत्तिमद्बुद्धिदर्शनमिति नैषां पर्यायशब्दत्वमिति ।
सांख्यमतनिराकरणम्
अत्र प्रतिविधीयते—आत्मन्येव नित्ये व्यापिनि बोद्धरि ज्ञातर्यवसातरि
धर्माधर्मादियोगिनि प्रत्यभिज्ञानादिकार्याणां कर्तरि सेयं बुद्धिरज्ञा सांख्यैः
कल्पिता, चेतनत्वं ज्ञानादियोगिन्या अपि यत्त्वस्या नाभ्युपगतं सोऽयमतीव
तपस्विनां भ्रमः, य एव बुध्यते जानात्यध्यवस्यति स एव पश्यति चेतयते च,
न खल्वत्र वस्तुरूपभेदं पश्यामह, तत्र बुद्धिर्बुध्यते जानात्यध्यवस्यति पुरुषस्तु
पश्यति चेतयते चेति वञ्चनायैवमुच्यते मुग्धतया वा ।
यच्चेदमुच्यते—'बुद्ध्याध्यवसितमथ पुरुषः पश्यती'ति, तद्व्याख्येयं किमिदं
तस्य द्रष्टृत्वमिति ? प्रतिबिम्बनमिति चेत्किं स्वच्छं पुंसि वृत्तिमती बुद्धिः सं-
क्रामत्युत वृत्तिमत्यां बुद्धौ प्रमातेति । तत्र चितिशक्तिरपरिणामिन्यपरप्रतिसं-
क्रमेति न बुद्धौ पुरुषस्य संक्रमणं, बुद्धौ तु पुंसि संक्रान्तायामपि पुंसः किं वृत्तं

( १ ) अत्र भाष्यम् 'कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमपि अनष्टं
तत् अन्यपुरुषसाधारणत्वात्' इति । 'कृतार्थमिति' बुद्ध्या कृतः समर्पितोऽर्थो
यस्येति कृतार्थमेकं कचिन्मुक्तपुरुषं प्रति गुणादिकं नष्टं प्रयोजनकरणात् राज्ञो राज्य-
वन्नष्टमपि सामान्यतो न नष्टं तस्मिन्मुक्तेऽर्थे अन्यपुरुषे च तस्य साधारणत्वादित्यर्थः,
इति योगवार्तिकम् ।

येन द्रष्टा, संबन्धः द्रष्टृत्वं स्वभाव एवास्येति चेत्किं बुद्धिप्रतिबिम्बनेन, विशि-
ष्टविषयावच्छेद इति चेत्ततः पूर्वमनालम्बनं द्रष्टृत्वमघटमानमिति न नैसर्गिकं
द्रष्टृरूपं पुंसः स्यात्, दर्शनशक्तिः स्वाभाविकीति चेन्न, तस्य भेदाभेदाभ्यां
निरूपयितुमशक्यत्वात्, प्रतिबिम्बपक्षे च परस्परानुरागस्य तुल्यत्वादवियोगाच्च
कथमिदं निर्धार्यताममी पुंधर्मा इति, न हि तयोः पार्थक्येन कदाचित्स्वरूप-
पावधारणं वृत्तम्, अनवधारितकार्यभेदत्वाच्च नानात्वमपि तयोर्दुर्वचम्, चे-
तनाचेतनत्वाद्वोक्तृभोग्यत्वाच्च विस्पष्टं तयोर्नानात्वमिति चेज्, ज्ञानादियोगित्वं
च बुद्धेरचेतनत्वं चेति चित्रम् ।
अपि च कल्पयित्वा भेदधर्मं बुद्धिधर्माः पुंसि पुंधर्माश्च बुद्धावारोपणीया
इति किं भेदेन, भेदे च बुद्धेर्ज्ञानादियोगित्वे च चेतनत्वापत्तेरेकत्र कार्यकार-
णसंघाते चेतनद्वयमनिष्टं प्रसज्येत, नित्यमन्तःकरणमन्तरेण पुंस उपलब्धिर्न
भवेदिति बुद्धेः कल्पना चेत्, अस्त्येव नित्यमन्तःकरणं मनः, तेन करणेन कर्तु-
रात्मनो विषयोपलब्धिक्रिया निर्वर्त्यते सैव च बुद्धिरित्याख्यायते न त्वन्या नि-
त्या बुद्धिरस्तीति, किञ्च कस्य कृते परिदृश्यमानमात्मनो ज्ञानादिक्रियाकर्तृ-
त्वमुत्सृज्य बुद्धेरदृश्यमानमुपेयते, को ऽत्राशयः ।
ननु पुरुषस्य स्वातन्त्र्यात्मककर्तृत्वे सति स्वकृतकर्मफलोपभोगानन्त्याद-
निर्मोक्षः स्यात्, न हि कर्मणां परिक्षयो जन्मकोटिशतैरपि शक्यक्रियो, यदा तु
कर्तारमुदासीनं प्रकृतिर्बध्नाति तदा सैव ज्ञाता सती मोक्ष्यतीति न दूरं मोक्ष-
वर्त्म भविष्यति । अहो बत निखिलमेव मौर्य्यं सांख्यहृदयेष्वेव प्रतिष्ठितमिति
कथमन्यो जन इदानीं मूर्खो भविष्यति, अचेतने हि निरङ्कुशे प्रधाने बन्द्धरि
सुतरामनिर्मोक्षः स्यात्, तत्त्वविदमपि पुमांसं न बध्नाति प्रकृतिरिति कोऽस्या
नियन्ता पङ्ग्वन्धन्यायेन संयोगस्य तदापि तुल्यत्वात्, निवृत्तकुतूहलः पुमानि-
ति चेत्, प्रकृतिरनिर्मुक्तकौतुकाऽभिनववधूरिव स्थितैव ।
अपि च रे मूढ ! पूर्वमेव तपस्विना पुंसा किं कृतं यदसौ बद्धोऽभूत्, द्रष्टृ-
त्वं तु तस्य रूपं तदविनाभूतं कैवल्यदशायामपि तन्न नश्यत्येवेति तदाऽपि तद्ब-
न्धनाय कथं न प्रवर्तते निर्मर्यादा प्रकृतिः, दृष्टाऽस्मीति विरमतीति चेन्, मैवम्,
न ह्यसावेकपत्नीव्रतदुर्ग्रहगृहीता, निःसंख्यपुरुषोपभोगसौभाग्या पण्यवनितेव
नासौ नियमेन व्यवहर्तुमर्हतीत्यास्तामेतत् ।
यच्च 'सत्त्वरजस्तमोभिस्त्रिभिर्गुणैस्समावस्थतया प्रधानशब्दव्यपदेशभाग्भिः
महन्नाम्ना बुद्धिरुत्पद्यते' इत्यादि प्रक्रियाजालमालपितं तन्महान्धपरम्परान्याय-
प्रवृत्तगुरुपाठक्रमोपनतमेव न प्रमाणमूलम्, कार्याद्धि कारणमल्पपरिमाणमुपल-
भ्यते न तु विपर्ययः स्वावयवाश्रितस्य घटादेस्तथा दर्शनात्तदवयवानां तदपेक्षया
ऽल्पत्वादन्गस्यास्यादो(?) महापरिमाणत्वमप्रयोजकम् ।

बुद्धिपरीक्षायां सत्कार्यवादनिरूपणम् । ६३
अपि च बुद्धिर्नाम विषयोपलम्भः अहंकारोऽप्यहंप्रत्ययरूपोऽभिमानो
बुद्धिविशेष एव तेन बाह्यानीन्द्रियाणि जन्यन्ते गन्धादयश्च गुणाः गुणैश्च पृथि-
व्यादीनि भूतानीति महाव्यामोहः, इदं च चित्रं-विषयजन्या हि सुखादयः
प्रसिद्धास्ते च सुखादिजन्या विषयाः संवृत्ता इति, नवेयं विश्वामित्रस्येव सांख्य-
मुनेः सृष्टिः, न च प्रधानास्तित्वमपि प्रमाणवदन्वयादिहेतूनामसाधनत्वात्,
चेतनानां हि संभवेदपि सुखदुःखमोहान्वितत्वमचेतनानि भूतानि सुखदुःखमो-
हवन्तीति सुभाषितम्, घटे पटे शकटे च सुख दुःखमोहाः सन्तीति कः प्रति-
पद्यते, प्रकाशप्रवृत्तिनियमा अपि चेतनेष्वेव दृश्यन्ते नाचेतनेष्वित्यसिद्धत्वाद्धे-
तोर्न प्रधानसिद्धिः ।
अपि च सत्कार्यवादमूल एष तपस्विनां विभ्रमः सर्वं सर्वत्रास्तीति ततो-
ऽन्वयसिद्धिं बुद्धयमानास्ते प्रधानसिद्धावध्यवसिताः, सत्कार्यवादश्च विचार्य-
माणो न समस्येवेति कुतस्त्या हेतुसिद्धिः ।
सत्कार्यवादनिरूपणम्
ननु सत्कार्यवादे कार्यकारणभावो भवति भावानां नान्यथा, तथा हि
चतुष्टयी गतिरिह स्याद् घटादिकार्यं मृत्पिण्डादिना कारणेन क्रियमाणमपि
क्रियते सद्वासद्वा सदसद्वाऽनुभयं वेति, तत्रासतः करणे खरविषाणादेः कर-
णं स्यादसत्त्वे हि घटस्य खरविषाणस्य च को विशेषः, घटस्यापि च प्राक्
प्रध्वंसाभावदशयोरसत्त्वाविशेषात्प्रागभावदशायामिव प्रध्वंसावस्थायामपि क-
रणं भवेत्, असत्करणे नियतोपादानग्रहणं न प्राप्नोति, तैलार्थी हि तिलसर्ष-
पानुपादत्ते न सिकताः असत्त्वे च तैलस्य को विशेषः सर्षपाणां सिकताभ्यः,
असति कार्ये निरालम्बनः कारकव्यापारो भवेन्न ह्यसौ मृत्पिण्डादिविषयो भवि-
तुमर्हति कार्यं चासत्, अपि चाविद्यमाने कारणव्यतिरिक्ते च कार्ये जन्ये
कारणस्य मृत्पिण्डादेर्घटादिकार्यं जनितवतः किमिति न स्वरूपमुपलभ्यते ।
अथ स्वविनाशेन कारणं कार्यस्य जनकमिश्यते तदियमभावाद्भावोत्पत्ति-
र्भवेत्तस्यां च कुतोऽयं नियमो यदनन्तरवृत्त एव मृत्पिण्डाभावः कुम्भमभि-
निर्वर्तयति न चिरातिक्रान्त इत्यतश्च परन्मृत्पिण्डे नष्टे एव स कुम्भोत्पादः
स्याद् ।
अथ स्वाव्यतिरिक्तमेव कारणेन कार्यं जन्यते ? तर्हि कारणस्य सत्त्वात्तद-
व्यतिरिक्तं वक्तुं युक्तं सदसतोर्विप्रतिषेधेनैकत्र समावेशायोगात्, रूपभेदादवि-
रोध इति चेन्न, कार्यस्य विचार्यमाणस्यैकत्वान्, ततश्च तेनैव स्वेन कार्येण रू-
पेणासच्चेन्नासद्भवदसच्च न सदिति, पररूपेण त्वसत्त्वं समस्तभावाना मस्त्येव,
अनुभयात्मकं तु नाम वस्तु नास्त्येवेति, तत्पारिशेष्यात्सदेव कार्यम्, किमिति च

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

६४ न्यायमञ्जर्याम्
नोपलभ्यते इति ? अनुमानेनापि यदुपलब्धं तत्किमनुपलब्धं भवति, प्रत्यक्षेण
तु तदानीमनुपलम्भोऽनभिव्यक्तत्वादभिव्यक्तिसम्पादन एव च कारकप्रयत्नसा-
फल्यं, कार्यं तु सदेवेति ।
सत्कार्यवादखण्डनम्
अत्राभिधीयते, केन रूपेण तदानीं कार्यं सदिति मन्यते यदि कारकव्या-
पारामिनिर्वर्त्येन सलिलाहरणाद्यर्थक्रियासमर्थेन पृथुबुध्नोदराकारतारूपेण चक्र-
मूर्धनि घटोऽस्ति तदाऽभिव्यक्तेनापि रूपेण सत्त्वादत्यन्ताय कारकव्यापार-
वैफल्यमित्थमपि च कारकप्रवृत्तौ तद्व्यापारानुपरमप्रसङ्गः, किं हि तदोपलभ्य
कारकाणि निवर्तेरन्कार्यस्य प्रागप्युपलब्धत्वात् ।
अथ मृत्पिण्डरूपेण तदानीं घटोऽस्तीति कथ्यते, तत्र न ह्यसौ तदानीं
घटोऽस्ति मृत्पिण्ड एवासावदो न स्वरूपमुत्तरकालमपि निवर्तते घटम्तु ततो
निवर्तते, यच्चैवं यदैवासौ निवर्तते तदैवास्ति न ततः पूर्वमिति ।
अथ पूर्वं शक्त्यात्मना तस्यास्तित्वमिदानीमभिव्यक्त्यात्मना क्रियते इति,
तदप्यनुपपन्नमभिव्यक्तिरपि तत्स्वरूपाद्भिन्ना ऽभिन्ना वा सत्यसती वेति विक-
ल्प्यमाना न पूर्वोक्तं दोषमतिवर्तते ।
का चेयमभिव्यक्तिः ? किं कार्यात्मनाऽवस्थानमथ संस्थानविशेष उत प्रती-
तिरिति, यदि कार्यात्मनाऽवस्थानं, तत्पूर्वं नाभूत्तदधुना भूतमित्यसत्कार्यम्,
पूर्वमपि वा यदि तदासीत्तदा पुनः कारकवैफल्यम्, संस्थानमप्यवयवसंनिवे-
शविशेषः सन्नैव, ते अवयवास्तु सन्तीति कस्यात्र विवादः, न खलु परमा-
णवोऽस्माभिर्नाङ्गीकृताः, प्रतीतिस्तु घटस्य चक्षुरादिकारकसामग्र्यधीनत्व-
मृत्पिण्डदण्डचक्रादिकारकचक्रसाध्येति सा चक्रमूर्धनि घटस्य नास्त्येवेत्य-
सन् घटः ।
दर्शनादर्शनाधीने सदसत्त्वे हि वस्तुनः ।
दृश्यस्यादर्शनात्तेन चक्रे कुम्भस्य नास्तिता ॥
चक्रमूर्धवत्प्रध्वंसदशायामनुपलम्भाद् घटनास्तित्वमेवेत्यतश्च 'नासतो वि-
द्यते भावो नाभावो विद्यते सतः' इत्यप्रमाणकं पूर्वापरान्तयोर्भावस्वरूपादर्शनात् ,
शक्त्यात्मना ऽपि यदस्तित्वमस्योच्यते, तत्रापि चिन्त्यम्-केयं शक्तिर्नामेति ? यदि
घटस्वरूपाद्भिन्नाऽसौ, तर्हि पररूपेण घटोऽस्तीति खरूपेणैव घटास्तित्वमुक्तं भ-
वेत्तच्च प्रत्यक्षविरोधान्निरस्तम्, असत्करणपक्षे च यच्चोदितं 'शशविषाणाद्यपि
क्रियेते'ति, तन्न, वचनव्यक्त्यपरिज्ञानात्, यदसत्तत्क्रियते इति नेयं वचनव्यक्ति-
रपि तु यत्क्रियते तदस़दिति ।
स्वरूपसहकार्यादिहेतवो यद्विधायिनः ।
दृश्यन्ते जन्यते वह्निर्न व्योमकुसुमादिकम् ॥

agram Sanskrit Series / Kashi Sanskrit Series), typos occur. Wait, let's check:

  • Let's check line 30 end again:
    भावात्सिक्तवा- or भावात्सिकता-?
    Look at: भा वा त्सि क ता - wait, the letter after त्सि is क! Then after क is ता or वा? It's ता! Wait, why does it look like त्वा? Because there's a hyphen - or is it त्सिकता-?
    Wait, look at line 30: सत्कार्यवादे च सुतरामुपादाननियमो दुर्घटः, सर्वस्य सर्वत्र भावात्सिकता-
    Wait, is there an 'इ' matra? Look at त्सिकता-: त्सि has ि. Then क. Then ता-. Ah, त्सिकता-! Wait, look between क and ता: there is no extra letter, it is भावात्सिकता-! Wait, wait, look closely at क: does it have a loop? It is क! And then ता! Wait, is there a व? No, it's भावात्सिकता-! Wait, why did I think सिक्तवा? Look at the glyph: क has the left loop and

त्तमेष तपस्वी तप्तकृच्छ्रमतिकष्टं कथं चरिष्यतीति महन् ! गतोऽसि का-
रुण्यम् , अन्नं च तावदश्नात्यन्ते च वर्चोऽस्तीति विड्भक्षणात्प्रायश्चित्तीयत
एवायमित्यलं सत्कार्यवादप्रमादेन ।
यत्पुनरत्राभाषि--कारणानुपमर्देन कार्यानुत्पादादभावाद्भावोत्पत्तिर्भवेत्तत्र
चानन्तरवृत्युत्पत्तिनियमो न स्यात्-इति, तदप्ययुक्तम् , मूर्तानां समानदेशत्ववि-
रोधात्कार्यकारणयोरेकदेशत्वं नेष्यते नैतावता भावोत्पत्तिरभावाद्भवितुमर्हति ,
कारणपदेन तदुपादानदर्शनादत एवानन्तर्यनियमो ऽप्युपपन्नः, न च कार्यका-
रणयोरभेदात्सत्कार्यमिति वक्तव्यम् , तयोः प्रत्यक्षसिद्धभिन्नस्वरूपत्वात् ।
यत्तु निरालम्बना कारकप्रवृत्तिरिति चोदितं परिहृतं तद्भाष्यकारेण(१) ‘बु-
द्धिसिद्धं तु तदसत् ( गौ० ३।२।५०।११ ) इति' वृद्धव्यवहारतः कार्यकारण-
भावमवगम्यामुष्मात्कारणादिदमीदृशं कार्यमुत्पद्यत इति बुद्धौ निर्धार्य कारका-
णि कर्ता नियुङ्क्ते इति न निर्विषयः कारकव्यापारः, तदेवं सत्कार्यवादस्य नि-
ष्प्रमाणकत्वात्तन्मूलान्वयादिहेतुसिद्धयभावान्न प्रधानास्तित्वसिद्धिस्तदभावाच्च न
तद्विकृतिर्नित्या बुद्धिरपि तु ज्ञानोपलब्धिरूपैवेति सम्यक्सूत्रितं 'बुद्धिरुपलब्धि-
र्ज्ञानमित्यनर्थान्तरमि’ति, इतश्चानित्या बुद्धिः जानामि ज्ञास्याम्यज्ञासिषमित्यु-
पजननापायधर्मतया पाकादिवत्कालत्रयेऽपि प्रकाशमानत्वाज् ज्ञातृव्यतिरिक्ता-
याश्च बुद्धेरप्रतिभासनात् , अयं तु विशेषः-पाकादिक्रियाणामोदनादिफलावच्छे-
दद्वारकं कालवैतत्यमपि भवति, उपलब्धेस्तु वस्तुस्वरूपप्रकाशनमात्रपरिसमाप्त-
प्रयोजनायाः कालवैतत्यं नास्त्येवात एवानित्यत्वेऽप्युत्पन्नापवर्गीणीमेव बुद्धिमाच-
क्षते शब्दवन्न घटादिवत्कालान्तरस्थायिनीमिति, सा चेयं बुद्धिरात्मान्तःकरण-
शब्ददीपेन्द्रियार्थाद्यनेककारककलापकार्यापि सती न बाह्ये न बाह्यकर्मणि सम-
वैति, न बाह्यकरणे चक्षुरादौ नान्तःकरणे मनसि किन्तु कर्त्तर्येव, कर्त्ताऽपि च
नित्यो विभुरात्मा न भूतसङ्घातस्वभावः कार्यस्तस्या आश्रय इत्यात्मपरीक्षायां
निर्णीतं गुणत्वमपि च तस्यास्तत्रैव दर्शितम् ।
नन्वेवं तर्हि न बुद्धेरनित्यत्वं विनाशकारणाभावाद्, द्विविधो हि गुणानां
विनाशहेतुराश्रयविनाशो विरोधिगुणप्रादुर्भावो वा, नेहाश्रयविनाशो नित्यत्वादा-
त्मनो, न च विरोधिनमस्याः कं चिद् गुणमुपलभामहे। न, शब्दवदाशुविनाशि-
त्वात् , नित्याकाशगुणो ऽपि शब्दः शब्दान्तरमारभ्य यथा विनश्यति तथा बुद्धि-
र्बुद्धयन्तरमारभ्य विनश्यतीति तथा दर्शनात्कल्प्यते, यावांश्च कश्चन विनाशद-
( १ ) बुद्धिसिद्धमिति । तत्कार्यम्, असत्-प्रागभावप्रतियोगि, बुद्धिसिद्धम्-
बुद्धया विषयीकृतम् , तथाहि इह तन्तुषु पटो भविष्यतीति ज्ञात्वा कुविन्दः प्रवर्तते
न तु पटोऽस्तीति ज्ञात्वा तथासति सिद्धत्वेन ज्ञाते इच्छाभावात् प्रवृत्त्यनुपपत्ते-
रित्यर्थः ।

मनसः परीक्षा । ४३
र्शनभेदोपलम्भादिः शब्दस्यानित्यतायां न्याय उक्तः स सर्वोपि बुद्ध्यां प्रयोज-
नीयः, अत एव न बुद्धीनामेकप्रमातृवृत्तीनां यौगपद्यं विद्यते शब्दानामिवैक-
वक्तृप्रयुक्तानाम्, विनश्यदविनश्यद्दशयोस्तु बुद्धयोराशुविनाशत्वेऽपि यौगपद्य-
मनुभवादुपेयत इत्यलमतिविस्तरेण, बुद्धेरनित्यतायां च प्रायेण सर्ववादिनाम-
विवादः, अन्यथा कथमाह जैमिनिः 'सत्संप्रयोगे(१) पुरुषस्येन्द्रियाणां बुद्धि-
जन्म तत्प्रत्यक्षम्'ति ।
अचिररुचिवत्तस्माद् बुद्धिर्निसर्गविनश्वरी
भवति जनकः स्वात्मा तस्याः स एव तदाश्रयः ।
भवमनुभवैस्तापैः पापा तमेव युनक्ति सा(२)
व्यसनजननीमेतामस्मात्त्यजेत् परमार्थवित् ॥
मनसो लक्षणम् ।
युगपज् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ [ गो० १

तत् , व्याप्तित्वे हि बुद्धीनां यौगपद्यं न निवर्त्तेत, अपि चायं"
Wait, why did I think 'अध्यापकं' before? Because the conjunct व्या looks a bit like ध्या, but it is definitely "अव्यापकं"!
Wait, in line 18, is there a double 'त' in निवर्तेत?
"निवर्त्तेत" - yes, there is a doubled त: निवर्त्तेत.

Line 19:
व्यवहार उक्तेऽपि क्वचिद्वचसि कश्चिदाह--नाहमेतदश्रौषमन्यत्र मे मनोऽभूत्-
Wait, let's verify line 19:

  • व्यवहार (vyavahāra)
  • उक्तेऽपि (ukte'pi)
  • क्वचिद्वचसि (kvacidvacasi)
  • कश्चिदाह-- (kaścidāha--)
  • नाहमेतदश्रौषमन्यत्र (nāhametadaśrauṣamanyatra)
  • मे (me)
  • मनोऽभूत्- (mano'bhūt-)
    All exact!

Line 20:
इति, तस्मान्न व्यापकं मनः ।
Matches!

Line 21:
प्रतिशरीरमेकं च तत् , अनेकत्वे पुनरपि ज्ञानयौगपद्यानपायात् ।
Matches!

Line 22:
क्रियावच्च तन्

[Header line] प्रवृत्तिपरीक्षा । ४५

न्द्रियव्यापारसाध्यत्वासम्भवात्करणरहितायाश्च क्रियाभिनिर्वृत्तेरदर्शनादिति,
स्मृतिस्तावन्मनोजन्यैवानुमानागमज्ञानं तु परोक्षार्थविषयत्वान्मानसं, संशयो
ऽपि मानसः कश्चिद्दृश्यते, प्रतिभा सा मानसी दर्शितैव- 'श्वो मे भ्राता ऽऽगन्ते'
ति, स्वप्नज्ञानमवरतेन्द्रियग्रामस्य भवत्कथं न मानसम् , तर्को ऽपि संशयवत्क
चिद्विषये मानसो भवत्येव, सुखादीनां तु ज्ञप्तिवदुत्पत्तिरपि मनोनिबन्धेनैव,
कार्याणामात्मगुणानामुत्पत्तौ प्रत्यासन्नकारणान्तरसम्भवेऽप्यात्ममनःसंयोग-
स्यावधृतसामर्थ्यस्यासमवायिकारणत्वादतश्च विषयानुभवजन्ये ऽपि सुखादौ
मनस्संयोगः कारणम् , सुखादीनां च बोधस्वरूपत्वं संवेद्यत्वं च निरस्तम् , अ-
तस्तदुपलब्धौ मनस एव कारणता ।
तदिदं मनः पूर्वकृतशुभाशुभकर्मसंस्कारवताऽऽत्मना तद्वशादेव शरीरदेशे
संयोगं प्रतिपद्यते तत्रैव च जीवनव्यवहारः, विपच्यमानकर्माशयसहित आत्म-
मनःसंयोगो जीवनमिति हि वदन्ति, संयुक्तमात्मना मनस्तेषु तेषूपपत्तिस्थानेषु
नानाविधभोगसाधनतया संसारकारणं भवति, नित्यत्वादात्ममनसोस्संयोग इति
न हि प्रथमो नाम कश्चित्कालः समस्ति आदिसर्गस्यापि पूर्वसर्गसापेक्षत्वात्
ईश्वरोपि कर्मापेक्ष एव विचित्रस्य जगतः स्रष्टेति निर्णीतमेतदिति कृतं विस्तरेण
विदधत्सुखादिभोगं वहच्च तरलेन्द्रियाश्वसारथिताम् ।
बन्धनिमित्तं मन इति मनस्विना यत्नतो हेयम् ॥
प्रवृत्तिलक्षणम् ।
प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः [गो० १।१।१७]
वागिति वर्णात्मकशब्दकारणसंयोगश्चोच्यते नेन्द्रियमिति व्याख्यातम् ,
बुद्धिरिति मन इहोच्यते नोपलब्धिः, शरीरं प्रसिद्धं तेषामारम्भो व्यापारस्सैवा-
रम्भ इति सर्वथा तदीयक्रिया प्रवृत्तिरित्युच्यते ।
प्रवृत्तिभेदाः ।
सा च द्विविधा पुण्या पापिका च, तत्र पापिका-वाचा चतुर्विधा, मनसा त्रिवि-
धा, शरीरेण त्रिविधैवेति दशविधा, वाचा प्रवृत्तिः तत्रानृतपरुषसूचनासम्बद्धव-
चनरूपा चतुर्विधा, परद्रोहापरद्रव्याभिलाषानास्तिक्यानुध्यानरूपा त्रिविधा मन-
सः प्रवृत्तिः, हिंसास्तेयप्रतिषिद्धाचरणरूपा त्रिविधा शरीरेण प्रवृत्तिः, मैथुनकर-
णमेवं प्रकारसुखाद्युपलक्षणं सेयं दशविधा प्रवृत्तिरनवरतमभिज्वलतो निरतिश-
यदुःखवेदनादायिनो नरकानलस्येन्धनम् , पुण्या ऽपि सत्यप्रियहितवचनस्वाध्या-
याध्ययनरूपा चतुर्विधा वाचा प्रवृत्तिर्जपयज्ञो हि स्वाध्यायपाठ उपांशुना ऽन्तः।
संकल्पेन वा, अस्पृहानुकम्पापरलोकश्रद्धात्मिका त्रिविधा मनसा प्रवृत्तिः, दान-

परित्राणपरिचरणरूपा त्रिविधा शरीरेण प्रवृत्तिरितीयमपि दशविधैव, एषा च
स्वर्गसदनद्वारसोपानकल्पा, सेयमुभयतो विंशतिभेदाः प्रवृत्तिः संक्षेपतो द्विधैव
विधिनिषेधात्मकतदवगमोपायभेदात् ।
विधिनिषेधकारण एव हि सदसत्कर्मावगमः, तत्र विहितानुष्ठानं स्वर्गाय
निषिद्धाचरणं नरकायेत्येवं सुखदुःखोपभोगस्थानशरीरेन्द्रियाद्यनभिसम्बन्धनि-
बन्धनमेषा प्रवृत्तिर्भवन्ती संसारस्य परमं कारणं भवति , यो ह्ययं देवमनुष्य-
तिर्यग्भूमिषु शरीरसर्गो यश्च प्रतिविषयं बुद्धिसर्गो यश्चात्मना सह मनसः सं-
सर्गः स सर्वः प्रवृत्तेरेव परिणामविभवः , प्रवृत्तेश्च सर्वस्याः क्रियात्वात्क्षणिक-
त्वेऽपि तदुपहितो धर्माधर्मशब्दवाच्य आत्मसंस्कारः कर्मफलोपभोगपर्यन्तस्थि-
तिरस्त्येव , न च फलमदत्त्वा धर्माधर्मौ क्षीयेते अन्त्यसुखदुःखसंविद्विरोधिनौ

दोषपरीक्षा । ४७
पञ्चप्रकारो रागपक्षः , स्त्रीसंभोगेच्छा कामः , यदन्यस्मै निवेद्यमानमपि वस्तु
धनवन्न क्षीयते तदपरित्यागेच्छा मत्सरः , अनात्मीयवस्त्वादित्सा स्पृहा, पुन-
र्भवप्रतिसन्धानहेतुभूतेच्छा तृष्णा , निषिद्धद्रव्यग्रहणेच्छा लोभ इत्यभिलाषप्र-
कारभेदाद्रागपक्ष एवायम् , द्वेषपक्षोऽपि पञ्चविधः, क्रोधेर्ष्यासूयाद्रोहोऽमर्ष
इति, अक्षिभ्रूादिविकारहेतुः प्रज्वलनात्मकः क्रोधः, साधारणेऽपि वस्तुनि प-
रस्य दर्शनाद्यसहनमीर्ष्या, परगुणेष्वक्षमाऽसूया, परापकारो द्रोहः, अदर्शितमु-
खादिविकारः परं प्रति मन्युरमर्ष इत्यसहनप्रकारभेदादेव द्वेषपक्षः, मोहपक्षस्तु
चतुर्विधो मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति, अतस्मिंस्तदिति ज्ञानं
मिथ्याज्ञानम् , किं स्विदिति विमर्शो विचिकित्सा, असद्गुणारोपेण स्वो-
त्कर्षबुद्धिर्मानः, कियदेतदित्यवज्ञया कर्तव्याकरणं प्रमादः, स एव मद इत्या-
ख्यायते, सोऽयं तत्त्वापरिज्ञानप्रकारभेदान्मोहपक्षः, एवं त्रय एवैते दोषाः, शो-
कहर्षौ तु सुखदुःखे उच्येते न दोषान्तरम् , तेषां तु मोहः पापतमः इतरयोस्तु
तदधीनात्मलाभात्वात् , मूढस्य हि रागद्वेषौ भवतो मिथ्यासङ्कल्पादुपद्यमानयो-
रनुभावात्कुसङ्कल्पश्च मिथ्याज्ञानप्रवृत्तिरेव, मिथ्याज्ञानस्यैव भगवतः सर्वमिदं
विलसितं योऽयमनेकप्रकारः संसारदुःखभारः, यद्येवं न तर्हि मोहस्य दोषत्वं
दोषकारणत्वादिति न लक्षणानपायात् , सत्यपि दोषान्तरहेतुत्वे स्वयमपि पुरुष-
प्रवृत्तिप्रयोजकत्वलक्षणयोगाद्रागवद् दोषत्वं न मोहो विजहाति ।
दोषशमनोपायः ।
त इमे दोषाः संसारहेतव इति यत्नतः शमनीयाः, कथं पुनरमी शमयितुं
शक्याः? उक्तमत्र नाकस्मिकाः न नित्याः नाज्ञातशमनोपाया न चाशक्यप्रतिक्रिया
इति, विस्तरतश्चैतदपवर्गाह्निके परीक्षिय्यते, मिथ्याज्ञाननिमित्ताः खल्वेते दोषा-
स्तस्मिन्सम्‍यग्ज्ञानप्रभावन्निहते हेतोरभावान्न भवन्त्येवेति ।
नन्वेवं प्रसवविनाशकारणयोरेकत्वादेक एव दोषो भवेदिति त्रित्वं नोपपद्यते;
न, अनुभवसिद्धभेदत्वात्,अनुभूयते हि रागद्वेषमोहानामितरेतरविभक्तं स्वरूपम्,
कारणैकत्वं तु न प्रयोजकमेकस्मादेव ज्वलनसंयोगादुत्पद्यमानानां विनश्यतां च
पार्थिवपदार्थवृत्तीनां गन्धरसरूपस्पर्शानां नानात्वदर्शनात् , अतः सूक्तं दोषाणां
त्रैराश्यमिति ।
संसारकाराभवनप्रवेशमार्गास्त एते त्रय एव दोषाः ।
एषां प्रहाणोद्यममादधानो न जन्ममृत्यू पुनरभ्युपैति ॥
प्रेत्यभावलक्षणम् ।
पुनरुत्पत्तिः प्रेत्यभावः ( गो० १।१।१९ )
कस्येयं पुनरुत्पत्तिरुच्यते आत्मनः शरीरस्य वा, तत्रात्मनो नित्यत्वादुत्प-

४८ न्यायमञ्जर्याम्
त्तिरेव नास्ति का कथा पुनःशब्दार्थस्य, शरीरस्य तूत्पत्तिरस्ति न तु पौनःपुन्येन,
न हि मृतं शरीरं तदेव पुनरुत्पद्यते, तस्मात्पुनरुत्पत्तिः प्रेत्यभाव इत्यवाचकं सू-
त्रम् , उच्यते, पुनःशब्दार्थस्य यत्नत उपदिष्टस्य परिहर्तुमशक्यत्वादात्मनश्च स्था-
यित्वेन क्रियाभ्यावृत्तिसम्भवात्तस्यैव पुनः पुनरुत्पत्तिं ब्रूमः, उत्पत्तिवन्मरणमपि,
सोऽयमात्मन एव मृत्वा पुनर्जन्म प्रेत्यभाव इति ।
ननु जन्ममरणे उभे अपि नित्यत्वादात्मनो न संस्त इत्युक्तम्, सत्यं शरी-
रादिसंयोगवियोगावस्तु तथाऽभिधानान्न दोषः, मरणमात्मनो भोगायतनदेहेन्द्रि-
यादिवियोग उच्यते जन्म तु तत्सम्बन्धः, ते च ते विपच्यमानकर्माशयानुसा-
रेण देहेन्द्रियादित्यागोपादाने एव मरणजन्मनी क्रियाभ्यावृत्त्या भवन्ती प्रेत्यभाव
इत्युच्यते, स एव च संसारः, तदित्थमनुध्यायतः कस्य सचेतसो निर्वेदो नोदी-
यात् , तदुक्तम्--
जरावियोगमरणव्याधयस्तावदास्ताम् ।
जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम् ॥
अथ यैरुत्पद्यमानैर्देहेन्द्रियादिभिरात्मनः सम्बन्धस्तेषां कथमुत्पत्तिरित्युक्तं
सूत्रकृता, व्यक्ताद्व्यक्तानामुत्पत्तिः प्रत्यक्षप्रामाण्यादिति, (गो० ५।१।११) व्यक्ता-
दिति कपिलाभ्युपगतत्रिगुणात्मकान्यक्तरूपकारणनिषेधेन परमाणूनां शरीरादौ
कार्ये कारणत्वमाह ।
परमाणुसाधनम् ।
तथा हि पार्थिवमाप्यं तैजसं वायवीयमिति चतुर्विधं कार्यं स्वावयवाश्रित-
मुपलभ्यते, तत्र यथा घटः सावयवः कपालेष्वाश्रित एवं कपालान्यपि सावय-
वत्वात्तदवयवेषु तदवयवा अपि तदवयवान्तरेष्वित्येवं तावद्यावत्परमाणवो नि-
रवयवा इति, यत्र यावतः कार्यजातस्य स्वावयवाश्रितस्य प्रत्यक्षेण ग्रहणं तत्र
तदेव प्रमाणम् , तदपि हि कार्यं स्वावयवत्वात्परिदृश्यमानकार्यवत् , निरवयवे
तु तस्य परमाणुत्वमेव परमाणुषु च सावयवत्वस्य च हेतोरसिद्धत्वान्नावयवा-
न्तरकल्पना, तेषां हि सावयवत्वे तदवयवाः परमाणवोऽनुमीयन्ते लोष्टस्य प्रवि-
भज्यमानस्य भागास्तद्भागानां च भागान्तराणीत्येवं तावद्यावदशक्यभङ्गत्वमदर्श-
नविषयत्वं च भवति, तद्यत्तयोः परमवयवविभागो न सम्भवति ते परमाणव
उच्यन्ते तेष्वपि हि विभज्यमानेषु तदवयवाः परमाणवो भवेयुर्न ते तदेवमुत्प-
त्तिविनाशक्रमस्येदृशो दर्शनात्सन्ति परमाणवः ।
अत्र हि त्रयी गतिरस्य घटादेः कार्यस्य निरवयवत्वमेव वा ऽवयवानन्त्यं
वा परमाण्वन्तता वा, तत्र निरवयवत्वमनुपपन्नमवयवानां पटे तन्तूनां घटे
च कपालानां प्रत्यक्षमुपलम्भात् , अनन्तावयवयोगित्वमपि न युक्तं मेरुसर्ष-

with a curve? It'sवृत्तं कार्यं! The र्aboveयinकार्यंmight be faint orकायँ`.

Next line:
वत्परिपूर्णावयविनिष्पत्तिः, इत्थं च तन्तुभिः पटः क्रियते न तन्त्ववयवैरंशुभिरि-
Wait, look at the start of the line:
Previous line ends with: तावद्या-
This line starts with: वत्परिपूर्णावयविनिष्पत्तिः!
The व is partially cut or there's a hyphen: वत्परिपूर्णावयविनिष्पत्तिः, इत्थं च तन्तुभिः पटः क्रियते न तन्त्ववयवैरंशुभिरि-

Next line:
Previous line ends with: तन्त्ववयवैरंशुभिरि-
This line:
Starts with त्यथा?
Wait: त्यथा ह्युत्तरोत्तरकार्यारम्भेऽपि?
Wait, इत्यथा? No, "इत्यर्थात्"?
Look at the previous line end: ...रंशुभिरि-
This line starts with:
त्यथा ह्युत्तरोत्तरकार्यारम्भेऽपि? Or त्यन्यथा?
YES! इत्यन्यथा!
Previous line: `...रंशु

स्कारपरिपाकानुरूपप्रसरदीश्वरेच्छाप्रेर्यमाणपरमाणुक्रियानुपूर्वीनिर्वर्त्यमानद्व्य-
णुकादिकार्यक्रमेण शरीराद्यवयविनिर्वृत्तिरिति स्थितम् ।
एतद्विपरीतानि तु मतान्तराणि प्रमाणविरुद्धानि, तथा हि नित्यमेव शरी-
रादि अनुत्पत्तिधर्मकमिति प्रत्यक्षविरुद्धम्, पृथिव्यादेरप्यवयवसंनिवेशविशिष्ट-
तया कार्यत्वादितीश्वरसिद्धौ निर्णीतम्, आकस्मिकत्वमपि शरीरादेः कार्यस्य न
युक्तम्, कारणनियमोपलम्भादनिमित्तायाश्च भावोत्पत्तेरनुत्पत्तेः, अभावादपि भा-
वोत्पत्तिस्तादृगेवेति, गुणात्मकप्रधानविकारमहदहंकारादिकारएकत्वमपि कार्य-
स्य पृथिव्यादेः प्रागेव प्रपञ्चतः प्रतिषिद्धम्, अनारब्धावयवरूपकार्याः परमा-
णव एवैते सञ्चयविशिष्टाः सन्तो लोकयात्रां वहन्तीत्येतदपि न समीचीनं सञ्च-
यस्य भेदाभेदविकल्पाभ्यामनुपपद्यमानत्वात्परमाणूनां चातिसौक्ष्म्यादप्रत्यक्ष-
त्वात्, पौद्गलिककार्यपक्षेऽपि पर्यायान्तरेण परमाणूनां कथनप्रमाणकत्वं वा,
( अप्रामाणिकम् (?) ) शब्दविवर्तत्वं तदनुगमाग्रहणादनुपपन्नम्, परमात्मोपा-
दानत्वमपि न संभवति तस्यैव निष्प्रमाणकत्वात्, न च न कदाचिदनीदृशं
जगदिति पादप्रसारिकामात्रं कर्तुमुचितं सर्गप्रबन्धप्रलयप्रबन्धस्य समर्थितत्वादिति ।
अतश्च पक्षान्तरदुर्बलत्वायथोदितः सिध्यति भूतवर्गः ।
तं यस्तु पश्यन्नपि निह्नुवीत तस्मै नमः पण्डितशेखराय ॥
अनादौ संसारे स्थितमिदमहो मूढमनसां
जनित्वा जन्तूनां मरणमथ मृत्वाऽपि जननम् ।
इयं सा दुःखानां सरणिरिति सञ्चिन्त्य कृतिना
विधातव्यं चेतो जननमरणोच्छेदिनि पदे ॥
फललक्षणम् ।
प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ ( गो० १।१।२० )
प्रवृत्तिदोषाश्च व्याख्याताः, तज्जनितोऽर्थः फलमित्युच्यते, अर्थग्रहणं गौण-
मुख्यभेदप्रदर्शनार्थम्, सुखदुःखे मुख्यं फलं तत्साधनं तु शरीरेन्द्रियविषयादि
गौणम्, सर्व हीदं प्रवृत्तिदोषाक्षिप्तं फलमित्युक्तम्, तदिदमनादिना प्रबन्धेन प्रव-
र्तमानं फलं पुनरुपयुज्यते पुनस्त्यज्यत इति महतः खेदस्य हेतुरिति भाव्यमानं
निर्वेदवैराग्यादिमार्गणापवर्गोपयोगितां प्रतिपद्यते ।
आत्तमात्तं विजहतरत्यक्तं त्यक्तं च गृह्णतः ।
पुंसः फलपटीयन्त्रमहो कष्टः परिश्रमः ॥
तत्पुनः फलं कर्मणा किं सद्य एव सम्पद्यते कालान्तरेण वा ? उच्यते—द्वि-
विधं कर्म विहितं निषिद्धं च, तत्र विधिफलानां कालन

दोग्धि पचतीति समनन्तरमुत्पद्यमानं दृश्यते, विधिफलानां तु नैष नियम इति
शब्दपरीक्षायां चित्राक्षेपपरिहारावसरे निरूपितमेतत्, विधिफलमपि च किं
चन चोदनावचनपर्यालोचनया सद्य इति निश्चीयते वृष्टिरिव कारीर्याः, किञ्चिदै-
हिकफलमपि कर्म वस्तुबलात्कालान्तरापेक्षं भवति पुत्रेष्ट्यादि, न हि सहसैव
निधिलाभवत्पुत्रलाभः सम्भवति गर्भसम्भवहेतुभूतभार्याशरीरम्भादिकसापेक्षत्वात् ,
ज्योतिष्टोमादि तु स्वर्गफलं कर्मफलस्वरूपमहिम्नैव पारलौकिकफलमवतिष्ठते
स्वर्गो हि निरतिशया प्रीतिस्तदन्यथानुपपत्तिपरिकल्पितः कनकगिरिशिखरा-
दिर्वा देशः उभयथाऽपि नैतद्देहोपभोग्यतां प्रतिपद्यते, अनियतफलं तु चित्रादि
कैश्चिदुक्तं तच्च युक्तमयुक्तं वेति तत्रैव परीक्षितम्, निषिद्धस्य तु कर्मणः सर्व-
स्यैव प्रायेण परलोक एव फलं, परदाराभिमर्शणादौ हि क्रियाफलं सुरतसुखादि
सद्यः फलं, निषेधविधिफलं तु नरकपतनं पारलौकिकं स्वर्गवन्नरकस्यापि निरति-
शयदुःखात्मनस्तदन्यथाऽनुपपत्तिकल्पितदेश(स्वभाव)स्य वा एतच्छरीरानुपभोग-
योग्यत्वात्, तीव्रसंयोगनिर्वृत्तकर्म विहितमितरद्वा प्रत्यासन्नविपाकमिहैव भवति
नन्दीश्वरनहुषयोरिवेत्यागमविदः, चौरब्रह्मघ्नादयश्च केचित्प्रत्यासन्नप्रत्यवायाः
प्रायेण दृश्यन्ते एवेत्येवमेष विचित्रः कर्मणां विपाकः ।
यदपि चोच्यते—कर्मकाले फलं नास्ति फलकाले कर्म नास्ति कालान्तरे
च फलस्यान्यत्प्रत्यक्षं कारणमुपलभ्यते सेवादिकम्-इति, तदपि पूर्वं परिहृतम्,
कर्मणां विनाशेऽपि तज्जनितस्यात्मसंस्कारस्य धर्माधर्मशब्दवाच्यस्य भावात्,
दृष्टस्य च सेवादेः कारणस्य व्यभिचाराददृष्टकल्पनाया अवश्यं भावित्वात् । 'ध-
र्मादेरात्मनि फलसमवायात्फलस्य च पुत्रपश्वादेरन्यसमवेतत्वाद्व्यधिकरणत्वं
कर्मफलयोरि'त्यपि न चोद्यम्, मुख्यस्य सुखदुःखात्मनः फलस्य भिन्नाश्रयत्वानु-
पपत्तेः, सुखदुःखे ह्यात्मनि वर्तेते धर्माधर्मौ च तत्स्थावेवेति ।
दृष्टेनैव सुखस्य कारणमतस्तद्धेतुरागेण किं
दुःखस्यापि न तन्निबन्धनमिति द्वेषस्तदर्थेषु कः ।
तस्मात्कर्मनिमित्तकं फलमिति ध्यायन्न कुर्यात्कृती
सङ्गं कर्मणि येन दुस्तरमसौ संसारमापद्यते ॥
दुःखलक्षणम् ।
बाधनालक्षणं दुःखम् ॥ ( गो० १।१।२१ )
बाधना पीडनं सन्तापनं सा लक्षणमस्येति बाधनालक्षणं दुःखम् , तत्र
मुख्ये दुःखे लक्ष्ये लक्षणशब्दो यथाश्रुत एव बाधनयैव हि दुःखस्वरूपं लक्ष्यते
बाधयति पीडयतीति, गौणे तु दुःखे शरीरादौ लक्ष्ये बाधनानुषक्तमिति व्या-
ख्येयम् ।

७६ न्यायमञ्जर्याम्
ननु च पूर्वसूत्राख्यातेन फलग्रहणेनैव दुःखस्योपदिष्टत्वात्किमर्थं पुनरुपदेशः ?
सुखप्रत्याख्यानार्थ इति चेन्न, पूर्वापरविरोधात्सकलप्राणभृदनुभवसाक्षिकत्वेन च
सुखस्य प्रत्याख्यातुमशक्यत्वात्, तत्प्रत्याख्याने च विवक्षिते किमर्थं प्रमेयसूत्रे
फलोपादानम्, फले खलु सुखदुःखे इति व्याख्यातं ततश्च सुखप्रत्याख्याने दुःख-
मेवावशिष्यते तच्चानेन दुःखशब्देनैव निर्दिष्टमिति किं फलग्रहणेन । उच्यते—न
सुखलेशस्य संसारे जन्तुभिरन्तरान्तराऽनुभूयमानस्य प्रत्याख्यानाय दुःखग्रहणं
सर्वत्र तथात्वभावनोपदेशार्थं सन्नपि सुखलवो दुःखमेवेति भावयितव्यः तत्सा-
धनमपि सर्वं दुःखमेवेति मन्तव्यम् ।
न तद्व्यवसितं पुंसां तत्कर्म न तद्वचः ।
न तद्भोग्यं समस्तीह यन्न दुःखाय जायते ॥
तदित्थं दुःखमुत्कृष्टं तिरश्चां, मध्यमं मनुष्याणां, हीनं देवानां, हीनतरं वीत-
रागाणामित्यागमविदः, वीतरागाणां दुःखतानवं युक्तितोऽप्यवगम्यते दुःखस्य
रागनिबन्धनत्वात् ।
तत्त्वतश्चिन्त्यमानं हि सर्वं दुःखं विवेकिनः ।
विषसम्पृक्तमधुवत्सव दुःखीभवत्यदः ॥
सुखाधिगमलोभेन यतमानो हि पूरुषः ।
सहस्रशाखमाप्नोति दुःखमेव तदर्जने ॥
एवं सर्वमिदं दुःखमिति भावयतोऽनिशम् ।
सर्वोपपत्तिस्थानेषु निर्वेदोऽस्य प्रवर्त्तते ॥
निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः ।
क्लेशकर्मप्रहाणाद्विद्वारो निःश्रेयसोदयः ॥
नन्वेवं तर्हि फलग्रहणं न कर्तव्यं दुःखपदेनैव गतार्थत्वादित्युक्तम्, मैवं त-
स्यान्यप्रयोजनत्वात्, प्रवृत्तिदोषजनितत्वेन हि फलमनुचिन्तितवतस्तत्कारण-
योरनुकूलप्रतिकूलयोरस्य रागद्वेषौ मा भूताम्, अभ्यावृत्त्या च ससाधनस्य
फलस्य हानोपादानक्षोभ्यमानस्तत्रात्यन्ताय निर्विद्यतामिति फलग्रहणम्, त-
देवमन्यथा फलस्य निःश्रेयसोपयोगित्वमन्यथा तु फलत्वे सत्यपि दुःखस्येति ।
दीर्घस्य दुःखस्य निमित्तभूतं सुखं च दुःखात्मकमेव सर्वम् ।
मुमुक्षुणा हेयतया विचिन्त्यं देहादिदुःखान्तमिदं प्रमेयम् ॥
इति निपुणमतिर्यो दुःखमेवेति सर्वं
परिहरति शरीरे क्लेशकर्मादिजातम् ।
अजमजरमतत्त्वं चिन्तयन्नात्मतत्त्वं
गतभयमपवर्गं शाश्वतं सोऽभ्युपैति ॥
इति श्रीभट्टजयन्तस्य कृतौ श्रीन्यायमञ्जर्यामष्टममाह्निकम् ॥

चतुर्थ आह्निक: शब्द प्रमाण, वेद-प्रामाण्य व्यवस्था, अपौरुषेयत्व एवं उपसंहार

अपवर्गनिरूपणम् । ७७
तार्किकाभिमतापवर्गनिरूपणम् ।
एवं शरीरादौ दुःखपर्यन्ते हेये प्रमेये निर्णीते यदर्थमेतदुपदेशो यत्परमुपादेयं
प्रमेयं यदर्थः शास्त्रारम्भस्तमपवर्गं लक्षयितुमाह—
तदत्यन्तविमोक्षोऽपवर्गः ॥ ( गो० १।१।२२ )
तदिति प्रक्रान्तस्य दुःखस्यावमर्शः , न च मुख्यमेव दुःखं बाधनास्वभाव-
मवमृश्यते किन्तु तत्साधनं तदनुषक्तं च सर्वमेव, तेन दुःखेन वियोगोऽपवर्गः,
अस्ति प्रलयवेलायामात्मनो दुःखवियोगः स त्वपवर्गो न भवति सर्गसमये पु-
नरक्षीणकर्माशयानुरूपशरीरादिसम्बन्धे सति दुःखसम्भवादतस्तद्व्यावृत्त्यर्थमत्य-
न्तग्रहणम् , आत्यन्तिकी दुःखव्यावृत्तिरपवर्गो न सावधिका, द्विविधदुःखा-
वमर्शिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखवदवमर्शादत्यन्तग्रहणेन च सर्वा-
त्मना तद्वियोगाभिधानान्नवानामात्मगुणानां बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्मा-
धर्मसंस्काराणां निर्मूलोच्छेदोऽपवर्ग इत्युक्तं भवति ।
यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः ।
तावदात्यन्तिकी दुःखव्यावृत्तिर्नावकल्पते ॥
धर्माधर्मनिमित्तो हि सम्भवः सुखदुःखयोः ।
मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥
तदुच्छेदे तु तत्कार्यशरीराद्यनुपप्लवात् ।
नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ॥
इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् ।
उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ॥
प्राणस्य क्षुत्पिपासे द्वे लोभमोहौ च चेतसः ।
शीतातपौ शरीरस्य षडूर्मीरहितः शिवः ॥
तदेवं नवानामात्मगुणानां निर्मूलोच्छेदोऽपवर्ग इति यदुच्यते तदेवेदमुक्तं
भवति तदत्यन्तवियोगोऽपवर्ग इति ।
ननु तस्यामवस्थायां कीदृगात्माऽवशिष्यते ।
स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥
ऊर्मिषट्कातिगं रूपं तदस्याहुर्मनीषिणः ।
संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ॥
वेदान्त्यभिमतापवर्गस्वरूपनिरूपणम् ।
तत्र वेदान्तवादिन आहुः-नायमीदृशो मोक्षः प्रेक्षावतां प्रयत्नभूमिर्भवितुम-

७८ न्यायमञ्जर्याम्
र्इति, को हि नाम शिलाशकलकल्प(१)मपगतसकलसुखसंवेदनसम्पदमात्मानं-
मुपपादयितुं यतेत, सोपाधिसावधिकपरिमप्तानन्दनिःष्यन्दात्स्वर्गादप्यधिकम-
नवधिकनिरतिशयनैसर्गिकानन्दसुन्दरमपरिम्लानतत्सम्वेदनसामर्थ्यं चतुर्थं
पुरुषार्थमाचक्षते विचक्षणाः, यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थाया-
मात्मा भवेत्तत्कृतमपवर्गेण संसार एव वरमवस्था(नं ?) यत्र तावदन्तरान्त-
राऽपि दुःखकलुषितमपि स्वल्पमपिः सुखमुपभुज्यते, चिन्त्यतां तावदिदं किमल्प-
सुखानुभवो भद्रक उत सर्वसुखोच्छेद एव, तस्मान्नित्यसुखमात्मनो महत्त्ववद-
स्तीत्यागमप्रामाण्यादुपगम्यताम् , तच्च संसारदशायामविद्यावरणवशेन नानुभू-
यते तत्त्वज्ञानाभ्यासभावनाभिभूतनिरन्तराविद्यावरणस्त्वात्मा तस्यामवस्थायां
तदनुभवतीति ।
वेदान्त्यभिमतमोक्षस्वरूपखण्डनम् ।
तदिदमनुपपन्नम्, आत्मनो नित्यसुखसत्तायां प्रमाणाभावात्, प्रत्यक्षं
तावदस्मदादीनामन्येषां वा केषां चिदस्मिन्नर्थे न प्रभवतीति केयं कथा, अनु-
मानमपि न सम्भवति लिङ्गलेशानवलोकनादिति ।
ननूक्तमेवानुमानमपवर्गाय यः प्रेक्षावतां प्रयत्नः सुखसिद्धये हि बुद्धिमन्तो
यतन्ते नाश्मकल्पमात्मानं कर्तुमिति तदयमिष्टाधिगमार्थो मुमुक्षोः प्रयत्नः प्रे-
क्षापूर्वकप्रयत्नत्वात् कृष्यादिप्रयत्नवदिति ।
नानिष्टोपरमार्थत्वादनिष्टस्यापि शान्तये ।
सन्तः प्रयतमाना हि दृश्यन्ते व्याधिखेदिताः ॥
अतिदुर्वहश्चायं संसारदुःखभार इति तदुपशमाय व्यवस्यन्तः सन्तो न
निष्प्रयोजनप्रयत्ना भवन्तीत्यनैकान्तिको हेतुः ।
अथागमादवगम्यते विभुत्वेनेव नित्येन सुखेनाविनाकृत आत्मेति, तथा
च पठ्यते विज्ञानमानन्दं ब्रह्मेति, स्यादेतदेवं यद्येतदेव केवलमागमवचन-
मश्रोष्यत वचनान्तरमपि तु श्रूयते ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपह-
तिरस्ति अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशत’ इति ।
ननु भवत्पठितमागमवचनमन्यथा ऽपि व्याख्यातुं शक्यते सशरीरस्येति
प्रक्रमात्सांसारिके सुखदुःखे अनुकूलेतरविषयोपलम्भसम्भवे तदानीमशरीर-
मात्मानं न स्पृशत इत्यर्थः, हन्त तर्हिं यदधीतमपि वेदवचनमानन्दं ब्रह्मेति
संसारदुःखपरिहारक्रमे प्रकरणादेव तद्दुःखापायविषयं व्याख्यास्यते न
( १ ) शिलाशकलकल्पम् — शिलाखण्डादीषदूनं, शिलाखण्डसदृशं निःसुखं
निर्दुःखं चेति यावत् ।

खलु व्याख्यानस्य भगवतः काचिद्भूमिरास्त दृष्टश्च दुःखोपशमे सुख-
शब्दप्रयोगः ।
चिरज्वरशिरोऽर्त्यादिव्याधिदुःखेन खेदिताः ।
सुखिनो वयमद्येति तदपाये (१) प्रयुञ्जते ॥
यदि चानन्दमिति वचनान्नित्यं सुखमात्मन इष्यते, तर्हि ब्रह्मेति वचना-
द्व्यापकत्वमिव विज्ञानमिति वचनाज् ज्ञानमपि नित्यमस्याभ्युपगन्तव्यम्-
तश्च सुखवज् ज्ञानस्यापि नित्यत्वात्संसारेऽपि नित्यसुखोपलब्धिः स्यात्ततश्च
धर्माधर्मफलाभ्यां सुखदुःखाभ्यामस्य नित्यस्य सुखस्य साहचर्यमनुभूयेत ।
अपि च—
सुखवज् ज्ञानवच्चास्य कामं देहेन्द्रियाण्यपि ।
नित्यं प्रकल्प्यतामित्थं मोक्षो रम्यतरो भवेत् ॥
अथ कार्यं सुखज्ञानं हेतुरस्य चिन्तनीयो यत उत्पद्यते इति वाच्यम् , यो-
गसमाधिज इति चेत्तस्य कार्यत्वात्स्वकार्यसुखसंवेदनावसानत्वान्न शाश्वतिकत्वं
स्यात्, अप्रच्यवश्च धर्मस्य निरनुमानको न हि योगसमाधिजो धर्मो न क्षीयते
इत्यत्र किंचिदनुमानमस्ति, विपर्यये तु प्रसिद्धमेवानुमानं सर्वस्य कृतक-
स्यानित्यत्वदर्शनादिति, क्षीणे त्वधर्मे तत्