सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 484, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 484

परित्राणपरिचरणरूपा त्रिविधा शरीरेण प्रवृत्तिरितीयमपि दशविधैव, एषा च
स्वर्गसदनद्वारसोपानकल्पा, सेयमुभयतो विंशतिभेदाः प्रवृत्तिः संक्षेपतो द्विधैव
विधिनिषेधात्मकतदवगमोपायभेदात् ।
विधिनिषेधकारण एव हि सदसत्कर्मावगमः, तत्र विहितानुष्ठानं स्वर्गाय
निषिद्धाचरणं नरकायेत्येवं सुखदुःखोपभोगस्थानशरीरेन्द्रियाद्यनभिसम्बन्धनि-
बन्धनमेषा प्रवृत्तिर्भवन्ती संसारस्य परमं कारणं भवति , यो ह्ययं देवमनुष्य-
तिर्यग्भूमिषु शरीरसर्गो यश्च प्रतिविषयं बुद्धिसर्गो यश्चात्मना सह मनसः सं-
सर्गः स सर्वः प्रवृत्तेरेव परिणामविभवः , प्रवृत्तेश्च सर्वस्याः क्रियात्वात्क्षणिक-
त्वेऽपि तदुपहितो धर्माधर्मशब्दवाच्य आत्मसंस्कारः कर्मफलोपभोगपर्यन्तस्थि-
तिरस्त्येव , न च फलमदत्त्वा धर्माधर्मौ क्षीयेते अन्त्यसुखदुःखसंविद्विरोधिनौ