सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 489, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 489

दोग्धि पचतीति समनन्तरमुत्पद्यमानं दृश्यते, विधिफलानां तु नैष नियम इति
शब्दपरीक्षायां चित्राक्षेपपरिहारावसरे निरूपितमेतत्, विधिफलमपि च किं
चन चोदनावचनपर्यालोचनया सद्य इति निश्चीयते वृष्टिरिव कारीर्याः, किञ्चिदै-
हिकफलमपि कर्म वस्तुबलात्कालान्तरापेक्षं भवति पुत्रेष्ट्यादि, न हि सहसैव
निधिलाभवत्पुत्रलाभः सम्भवति गर्भसम्भवहेतुभूतभार्याशरीरम्भादिकसापेक्षत्वात् ,
ज्योतिष्टोमादि तु स्वर्गफलं कर्मफलस्वरूपमहिम्नैव पारलौकिकफलमवतिष्ठते
स्वर्गो हि निरतिशया प्रीतिस्तदन्यथानुपपत्तिपरिकल्पितः कनकगिरिशिखरा-
दिर्वा देशः उभयथाऽपि नैतद्देहोपभोग्यतां प्रतिपद्यते, अनियतफलं तु चित्रादि
कैश्चिदुक्तं तच्च युक्तमयुक्तं वेति तत्रैव परीक्षितम्, निषिद्धस्य तु कर्मणः सर्व-
स्यैव प्रायेण परलोक एव फलं, परदाराभिमर्शणादौ हि क्रियाफलं सुरतसुखादि
सद्यः फलं, निषेधविधिफलं तु नरकपतनं पारलौकिकं स्वर्गवन्नरकस्यापि निरति-
शयदुःखात्मनस्तदन्यथाऽनुपपत्तिकल्पितदेश(स्वभाव)स्य वा एतच्छरीरानुपभोग-
योग्यत्वात्, तीव्रसंयोगनिर्वृत्तकर्म विहितमितरद्वा प्रत्यासन्नविपाकमिहैव भवति
नन्दीश्वरनहुषयोरिवेत्यागमविदः, चौरब्रह्मघ्नादयश्च केचित्प्रत्यासन्नप्रत्यवायाः
प्रायेण दृश्यन्ते एवेत्येवमेष विचित्रः कर्मणां विपाकः ।
यदपि चोच्यते—कर्मकाले फलं नास्ति फलकाले कर्म नास्ति कालान्तरे
च फलस्यान्यत्प्रत्यक्षं कारणमुपलभ्यते सेवादिकम्-इति, तदपि पूर्वं परिहृतम्,
कर्मणां विनाशेऽपि तज्जनितस्यात्मसंस्कारस्य धर्माधर्मशब्दवाच्यस्य भावात्,
दृष्टस्य च सेवादेः कारणस्य व्यभिचाराददृष्टकल्पनाया अवश्यं भावित्वात् । 'ध-
र्मादेरात्मनि फलसमवायात्फलस्य च पुत्रपश्वादेरन्यसमवेतत्वाद्व्यधिकरणत्वं
कर्मफलयोरि'त्यपि न चोद्यम्, मुख्यस्य सुखदुःखात्मनः फलस्य भिन्नाश्रयत्वानु-
पपत्तेः, सुखदुःखे ह्यात्मनि वर्तेते धर्माधर्मौ च तत्स्थावेवेति ।
दृष्टेनैव सुखस्य कारणमतस्तद्धेतुरागेण किं
दुःखस्यापि न तन्निबन्धनमिति द्वेषस्तदर्थेषु कः ।
तस्मात्कर्मनिमित्तकं फलमिति ध्यायन्न कुर्यात्कृती
सङ्गं कर्मणि येन दुस्तरमसौ संसारमापद्यते ॥
दुःखलक्षणम् ।
बाधनालक्षणं दुःखम् ॥ ( गो० १।१।२१ )
बाधना पीडनं सन्तापनं सा लक्षणमस्येति बाधनालक्षणं दुःखम् , तत्र
मुख्ये दुःखे लक्ष्ये लक्षणशब्दो यथाश्रुत एव बाधनयैव हि दुःखस्वरूपं लक्ष्यते
बाधयति पीडयतीति, गौणे तु दुःखे शरीरादौ लक्ष्ये बाधनानुषक्तमिति व्या-
ख्येयम् ।