सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 490, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 490

७६ न्यायमञ्जर्याम्
ननु च पूर्वसूत्राख्यातेन फलग्रहणेनैव दुःखस्योपदिष्टत्वात्किमर्थं पुनरुपदेशः ?
सुखप्रत्याख्यानार्थ इति चेन्न, पूर्वापरविरोधात्सकलप्राणभृदनुभवसाक्षिकत्वेन च
सुखस्य प्रत्याख्यातुमशक्यत्वात्, तत्प्रत्याख्याने च विवक्षिते किमर्थं प्रमेयसूत्रे
फलोपादानम्, फले खलु सुखदुःखे इति व्याख्यातं ततश्च सुखप्रत्याख्याने दुःख-
मेवावशिष्यते तच्चानेन दुःखशब्देनैव निर्दिष्टमिति किं फलग्रहणेन । उच्यते—न
सुखलेशस्य संसारे जन्तुभिरन्तरान्तराऽनुभूयमानस्य प्रत्याख्यानाय दुःखग्रहणं
सर्वत्र तथात्वभावनोपदेशार्थं सन्नपि सुखलवो दुःखमेवेति भावयितव्यः तत्सा-
धनमपि सर्वं दुःखमेवेति मन्तव्यम् ।
न तद्व्यवसितं पुंसां तत्कर्म न तद्वचः ।
न तद्भोग्यं समस्तीह यन्न दुःखाय जायते ॥
तदित्थं दुःखमुत्कृष्टं तिरश्चां, मध्यमं मनुष्याणां, हीनं देवानां, हीनतरं वीत-
रागाणामित्यागमविदः, वीतरागाणां दुःखतानवं युक्तितोऽप्यवगम्यते दुःखस्य
रागनिबन्धनत्वात् ।
तत्त्वतश्चिन्त्यमानं हि सर्वं दुःखं विवेकिनः ।
विषसम्पृक्तमधुवत्सव दुःखीभवत्यदः ॥
सुखाधिगमलोभेन यतमानो हि पूरुषः ।
सहस्रशाखमाप्नोति दुःखमेव तदर्जने ॥
एवं सर्वमिदं दुःखमिति भावयतोऽनिशम् ।
सर्वोपपत्तिस्थानेषु निर्वेदोऽस्य प्रवर्त्तते ॥
निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः ।
क्लेशकर्मप्रहाणाद्विद्वारो निःश्रेयसोदयः ॥
नन्वेवं तर्हि फलग्रहणं न कर्तव्यं दुःखपदेनैव गतार्थत्वादित्युक्तम्, मैवं त-
स्यान्यप्रयोजनत्वात्, प्रवृत्तिदोषजनितत्वेन हि फलमनुचिन्तितवतस्तत्कारण-
योरनुकूलप्रतिकूलयोरस्य रागद्वेषौ मा भूताम्, अभ्यावृत्त्या च ससाधनस्य
फलस्य हानोपादानक्षोभ्यमानस्तत्रात्यन्ताय निर्विद्यतामिति फलग्रहणम्, त-
देवमन्यथा फलस्य निःश्रेयसोपयोगित्वमन्यथा तु फलत्वे सत्यपि दुःखस्येति ।
दीर्घस्य दुःखस्य निमित्तभूतं सुखं च दुःखात्मकमेव सर्वम् ।
मुमुक्षुणा हेयतया विचिन्त्यं देहादिदुःखान्तमिदं प्रमेयम् ॥
इति निपुणमतिर्यो दुःखमेवेति सर्वं
परिहरति शरीरे क्लेशकर्मादिजातम् ।
अजमजरमतत्त्वं चिन्तयन्नात्मतत्त्वं
गतभयमपवर्गं शाश्वतं सोऽभ्युपैति ॥
इति श्रीभट्टजयन्तस्य कृतौ श्रीन्यायमञ्जर्यामष्टममाह्निकम् ॥