सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 492, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 492

७८ न्यायमञ्जर्याम्
र्इति, को हि नाम शिलाशकलकल्प(१)मपगतसकलसुखसंवेदनसम्पदमात्मानं-
मुपपादयितुं यतेत, सोपाधिसावधिकपरिमप्तानन्दनिःष्यन्दात्स्वर्गादप्यधिकम-
नवधिकनिरतिशयनैसर्गिकानन्दसुन्दरमपरिम्लानतत्सम्वेदनसामर्थ्यं चतुर्थं
पुरुषार्थमाचक्षते विचक्षणाः, यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थाया-
मात्मा भवेत्तत्कृतमपवर्गेण संसार एव वरमवस्था(नं ?) यत्र तावदन्तरान्त-
राऽपि दुःखकलुषितमपि स्वल्पमपिः सुखमुपभुज्यते, चिन्त्यतां तावदिदं किमल्प-
सुखानुभवो भद्रक उत सर्वसुखोच्छेद एव, तस्मान्नित्यसुखमात्मनो महत्त्ववद-
स्तीत्यागमप्रामाण्यादुपगम्यताम् , तच्च संसारदशायामविद्यावरणवशेन नानुभू-
यते तत्त्वज्ञानाभ्यासभावनाभिभूतनिरन्तराविद्यावरणस्त्वात्मा तस्यामवस्थायां
तदनुभवतीति ।
वेदान्त्यभिमतमोक्षस्वरूपखण्डनम् ।
तदिदमनुपपन्नम्, आत्मनो नित्यसुखसत्तायां प्रमाणाभावात्, प्रत्यक्षं
तावदस्मदादीनामन्येषां वा केषां चिदस्मिन्नर्थे न प्रभवतीति केयं कथा, अनु-
मानमपि न सम्भवति लिङ्गलेशानवलोकनादिति ।
ननूक्तमेवानुमानमपवर्गाय यः प्रेक्षावतां प्रयत्नः सुखसिद्धये हि बुद्धिमन्तो
यतन्ते नाश्मकल्पमात्मानं कर्तुमिति तदयमिष्टाधिगमार्थो मुमुक्षोः प्रयत्नः प्रे-
क्षापूर्वकप्रयत्नत्वात् कृष्यादिप्रयत्नवदिति ।
नानिष्टोपरमार्थत्वादनिष्टस्यापि शान्तये ।
सन्तः प्रयतमाना हि दृश्यन्ते व्याधिखेदिताः ॥
अतिदुर्वहश्चायं संसारदुःखभार इति तदुपशमाय व्यवस्यन्तः सन्तो न
निष्प्रयोजनप्रयत्ना भवन्तीत्यनैकान्तिको हेतुः ।
अथागमादवगम्यते विभुत्वेनेव नित्येन सुखेनाविनाकृत आत्मेति, तथा
च पठ्यते विज्ञानमानन्दं ब्रह्मेति, स्यादेतदेवं यद्येतदेव केवलमागमवचन-
मश्रोष्यत वचनान्तरमपि तु श्रूयते ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपह-
तिरस्ति अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशत’ इति ।
ननु भवत्पठितमागमवचनमन्यथा ऽपि व्याख्यातुं शक्यते सशरीरस्येति
प्रक्रमात्सांसारिके सुखदुःखे अनुकूलेतरविषयोपलम्भसम्भवे तदानीमशरीर-
मात्मानं न स्पृशत इत्यर्थः, हन्त तर्हिं यदधीतमपि वेदवचनमानन्दं ब्रह्मेति
संसारदुःखपरिहारक्रमे प्रकरणादेव तद्दुःखापायविषयं व्याख्यास्यते न
( १ ) शिलाशकलकल्पम् — शिलाखण्डादीषदूनं, शिलाखण्डसदृशं निःसुखं
निर्दुःखं चेति यावत् ।