सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 486, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 486

४८ न्यायमञ्जर्याम्
त्तिरेव नास्ति का कथा पुनःशब्दार्थस्य, शरीरस्य तूत्पत्तिरस्ति न तु पौनःपुन्येन,
न हि मृतं शरीरं तदेव पुनरुत्पद्यते, तस्मात्पुनरुत्पत्तिः प्रेत्यभाव इत्यवाचकं सू-
त्रम् , उच्यते, पुनःशब्दार्थस्य यत्नत उपदिष्टस्य परिहर्तुमशक्यत्वादात्मनश्च स्था-
यित्वेन क्रियाभ्यावृत्तिसम्भवात्तस्यैव पुनः पुनरुत्पत्तिं ब्रूमः, उत्पत्तिवन्मरणमपि,
सोऽयमात्मन एव मृत्वा पुनर्जन्म प्रेत्यभाव इति ।
ननु जन्ममरणे उभे अपि नित्यत्वादात्मनो न संस्त इत्युक्तम्, सत्यं शरी-
रादिसंयोगवियोगावस्तु तथाऽभिधानान्न दोषः, मरणमात्मनो भोगायतनदेहेन्द्रि-
यादिवियोग उच्यते जन्म तु तत्सम्बन्धः, ते च ते विपच्यमानकर्माशयानुसा-
रेण देहेन्द्रियादित्यागोपादाने एव मरणजन्मनी क्रियाभ्यावृत्त्या भवन्ती प्रेत्यभाव
इत्युच्यते, स एव च संसारः, तदित्थमनुध्यायतः कस्य सचेतसो निर्वेदो नोदी-
यात् , तदुक्तम्--
जरावियोगमरणव्याधयस्तावदास्ताम् ।
जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम् ॥
अथ यैरुत्पद्यमानैर्देहेन्द्रियादिभिरात्मनः सम्बन्धस्तेषां कथमुत्पत्तिरित्युक्तं
सूत्रकृता, व्यक्ताद्व्यक्तानामुत्पत्तिः प्रत्यक्षप्रामाण्यादिति, (गो० ५।१।११) व्यक्ता-
दिति कपिलाभ्युपगतत्रिगुणात्मकान्यक्तरूपकारणनिषेधेन परमाणूनां शरीरादौ
कार्ये कारणत्वमाह ।
परमाणुसाधनम् ।
तथा हि पार्थिवमाप्यं तैजसं वायवीयमिति चतुर्विधं कार्यं स्वावयवाश्रित-
मुपलभ्यते, तत्र यथा घटः सावयवः कपालेष्वाश्रित एवं कपालान्यपि सावय-
वत्वात्तदवयवेषु तदवयवा अपि तदवयवान्तरेष्वित्येवं तावद्यावत्परमाणवो नि-
रवयवा इति, यत्र यावतः कार्यजातस्य स्वावयवाश्रितस्य प्रत्यक्षेण ग्रहणं तत्र
तदेव प्रमाणम् , तदपि हि कार्यं स्वावयवत्वात्परिदृश्यमानकार्यवत् , निरवयवे
तु तस्य परमाणुत्वमेव परमाणुषु च सावयवत्वस्य च हेतोरसिद्धत्वान्नावयवा-
न्तरकल्पना, तेषां हि सावयवत्वे तदवयवाः परमाणवोऽनुमीयन्ते लोष्टस्य प्रवि-
भज्यमानस्य भागास्तद्भागानां च भागान्तराणीत्येवं तावद्यावदशक्यभङ्गत्वमदर्श-
नविषयत्वं च भवति, तद्यत्तयोः परमवयवविभागो न सम्भवति ते परमाणव
उच्यन्ते तेष्वपि हि विभज्यमानेषु तदवयवाः परमाणवो भवेयुर्न ते तदेवमुत्प-
त्तिविनाशक्रमस्येदृशो दर्शनात्सन्ति परमाणवः ।
अत्र हि त्रयी गतिरस्य घटादेः कार्यस्य निरवयवत्वमेव वा ऽवयवानन्त्यं
वा परमाण्वन्तता वा, तत्र निरवयवत्वमनुपपन्नमवयवानां पटे तन्तूनां घटे
च कपालानां प्रत्यक्षमुपलम्भात् , अनन्तावयवयोगित्वमपि न युक्तं मेरुसर्ष-