सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 476, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 476

येन द्रष्टा, संबन्धः द्रष्टृत्वं स्वभाव एवास्येति चेत्किं बुद्धिप्रतिबिम्बनेन, विशि-
ष्टविषयावच्छेद इति चेत्ततः पूर्वमनालम्बनं द्रष्टृत्वमघटमानमिति न नैसर्गिकं
द्रष्टृरूपं पुंसः स्यात्, दर्शनशक्तिः स्वाभाविकीति चेन्न, तस्य भेदाभेदाभ्यां
निरूपयितुमशक्यत्वात्, प्रतिबिम्बपक्षे च परस्परानुरागस्य तुल्यत्वादवियोगाच्च
कथमिदं निर्धार्यताममी पुंधर्मा इति, न हि तयोः पार्थक्येन कदाचित्स्वरूप-
पावधारणं वृत्तम्, अनवधारितकार्यभेदत्वाच्च नानात्वमपि तयोर्दुर्वचम्, चे-
तनाचेतनत्वाद्वोक्तृभोग्यत्वाच्च विस्पष्टं तयोर्नानात्वमिति चेज्, ज्ञानादियोगित्वं
च बुद्धेरचेतनत्वं चेति चित्रम् ।
अपि च कल्पयित्वा भेदधर्मं बुद्धिधर्माः पुंसि पुंधर्माश्च बुद्धावारोपणीया
इति किं भेदेन, भेदे च बुद्धेर्ज्ञानादियोगित्वे च चेतनत्वापत्तेरेकत्र कार्यकार-
णसंघाते चेतनद्वयमनिष्टं प्रसज्येत, नित्यमन्तःकरणमन्तरेण पुंस उपलब्धिर्न
भवेदिति बुद्धेः कल्पना चेत्, अस्त्येव नित्यमन्तःकरणं मनः, तेन करणेन कर्तु-
रात्मनो विषयोपलब्धिक्रिया निर्वर्त्यते सैव च बुद्धिरित्याख्यायते न त्वन्या नि-
त्या बुद्धिरस्तीति, किञ्च कस्य कृते परिदृश्यमानमात्मनो ज्ञानादिक्रियाकर्तृ-
त्वमुत्सृज्य बुद्धेरदृश्यमानमुपेयते, को ऽत्राशयः ।
ननु पुरुषस्य स्वातन्त्र्यात्मककर्तृत्वे सति स्वकृतकर्मफलोपभोगानन्त्याद-
निर्मोक्षः स्यात्, न हि कर्मणां परिक्षयो जन्मकोटिशतैरपि शक्यक्रियो, यदा तु
कर्तारमुदासीनं प्रकृतिर्बध्नाति तदा सैव ज्ञाता सती मोक्ष्यतीति न दूरं मोक्ष-
वर्त्म भविष्यति । अहो बत निखिलमेव मौर्य्यं सांख्यहृदयेष्वेव प्रतिष्ठितमिति
कथमन्यो जन इदानीं मूर्खो भविष्यति, अचेतने हि निरङ्कुशे प्रधाने बन्द्धरि
सुतरामनिर्मोक्षः स्यात्, तत्त्वविदमपि पुमांसं न बध्नाति प्रकृतिरिति कोऽस्या
नियन्ता पङ्ग्वन्धन्यायेन संयोगस्य तदापि तुल्यत्वात्, निवृत्तकुतूहलः पुमानि-
ति चेत्, प्रकृतिरनिर्मुक्तकौतुकाऽभिनववधूरिव स्थितैव ।
अपि च रे मूढ ! पूर्वमेव तपस्विना पुंसा किं कृतं यदसौ बद्धोऽभूत्, द्रष्टृ-
त्वं तु तस्य रूपं तदविनाभूतं कैवल्यदशायामपि तन्न नश्यत्येवेति तदाऽपि तद्ब-
न्धनाय कथं न प्रवर्तते निर्मर्यादा प्रकृतिः, दृष्टाऽस्मीति विरमतीति चेन्, मैवम्,
न ह्यसावेकपत्नीव्रतदुर्ग्रहगृहीता, निःसंख्यपुरुषोपभोगसौभाग्या पण्यवनितेव
नासौ नियमेन व्यवहर्तुमर्हतीत्यास्तामेतत् ।
यच्च 'सत्त्वरजस्तमोभिस्त्रिभिर्गुणैस्समावस्थतया प्रधानशब्दव्यपदेशभाग्भिः
महन्नाम्ना बुद्धिरुत्पद्यते' इत्यादि प्रक्रियाजालमालपितं तन्महान्धपरम्परान्याय-
प्रवृत्तगुरुपाठक्रमोपनतमेव न प्रमाणमूलम्, कार्याद्धि कारणमल्पपरिमाणमुपल-
भ्यते न तु विपर्ययः स्वावयवाश्रितस्य घटादेस्तथा दर्शनात्तदवयवानां तदपेक्षया
ऽल्पत्वादन्गस्यास्यादो(?) महापरिमाणत्वमप्रयोजकम् ।