न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
DevanagariHindipublished654 पृष्ठ
पृष्ठ 481, कुल 654 में से
संदर्भ में पढ़ेंपृष्ठ 481
मनसः परीक्षा । ४३
र्शनभेदोपलम्भादिः शब्दस्यानित्यतायां न्याय उक्तः स सर्वोपि बुद्ध्यां प्रयोज-
नीयः, अत एव न बुद्धीनामेकप्रमातृवृत्तीनां यौगपद्यं विद्यते शब्दानामिवैक-
वक्तृप्रयुक्तानाम्, विनश्यदविनश्यद्दशयोस्तु बुद्धयोराशुविनाशत्वेऽपि यौगपद्य-
मनुभवादुपेयत इत्यलमतिविस्तरेण, बुद्धेरनित्यतायां च प्रायेण सर्ववादिनाम-
विवादः, अन्यथा कथमाह जैमिनिः 'सत्संप्रयोगे(१) पुरुषस्येन्द्रियाणां बुद्धि-
जन्म तत्प्रत्यक्षम्'ति ।
अचिररुचिवत्तस्माद् बुद्धिर्निसर्गविनश्वरी
भवति जनकः स्वात्मा तस्याः स एव तदाश्रयः ।
भवमनुभवैस्तापैः पापा तमेव युनक्ति सा(२)
व्यसनजननीमेतामस्मात्त्यजेत् परमार्थवित् ॥
मनसो लक्षणम् ।
युगपज् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ [ गो० १