न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 491, कुल 654 में से
संदर्भ में पढ़ेंअपवर्गनिरूपणम् । ७७
तार्किकाभिमतापवर्गनिरूपणम् ।
एवं शरीरादौ दुःखपर्यन्ते हेये प्रमेये निर्णीते यदर्थमेतदुपदेशो यत्परमुपादेयं
प्रमेयं यदर्थः शास्त्रारम्भस्तमपवर्गं लक्षयितुमाह—
तदत्यन्तविमोक्षोऽपवर्गः ॥ ( गो० १।१।२२ )
तदिति प्रक्रान्तस्य दुःखस्यावमर्शः , न च मुख्यमेव दुःखं बाधनास्वभाव-
मवमृश्यते किन्तु तत्साधनं तदनुषक्तं च सर्वमेव, तेन दुःखेन वियोगोऽपवर्गः,
अस्ति प्रलयवेलायामात्मनो दुःखवियोगः स त्वपवर्गो न भवति सर्गसमये पु-
नरक्षीणकर्माशयानुरूपशरीरादिसम्बन्धे सति दुःखसम्भवादतस्तद्व्यावृत्त्यर्थमत्य-
न्तग्रहणम् , आत्यन्तिकी दुःखव्यावृत्तिरपवर्गो न सावधिका, द्विविधदुःखा-
वमर्शिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखवदवमर्शादत्यन्तग्रहणेन च सर्वा-
त्मना तद्वियोगाभिधानान्नवानामात्मगुणानां बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्मा-
धर्मसंस्काराणां निर्मूलोच्छेदोऽपवर्ग इत्युक्तं भवति ।
यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः ।
तावदात्यन्तिकी दुःखव्यावृत्तिर्नावकल्पते ॥
धर्माधर्मनिमित्तो हि सम्भवः सुखदुःखयोः ।
मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥
तदुच्छेदे तु तत्कार्यशरीराद्यनुपप्लवात् ।
नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ॥
इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् ।
उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ॥
प्राणस्य क्षुत्पिपासे द्वे लोभमोहौ च चेतसः ।
शीतातपौ शरीरस्य षडूर्मीरहितः शिवः ॥
तदेवं नवानामात्मगुणानां निर्मूलोच्छेदोऽपवर्ग इति यदुच्यते तदेवेदमुक्तं
भवति तदत्यन्तवियोगोऽपवर्ग इति ।
ननु तस्यामवस्थायां कीदृगात्माऽवशिष्यते ।
स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥
ऊर्मिषट्कातिगं रूपं तदस्याहुर्मनीषिणः ।
संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ॥
वेदान्त्यभिमतापवर्गस्वरूपनिरूपणम् ।
तत्र वेदान्तवादिन आहुः-नायमीदृशो मोक्षः प्रेक्षावतां प्रयत्नभूमिर्भवितुम-