न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
DevanagariHindipublished654 पृष्ठ
पृष्ठ 475, कुल 654 में से
संदर्भ में पढ़ेंपृष्ठ 475अचेतनत्वादस्याः कथमेवंकारित्वमिति चेदुक्तमत्र—
अचेतनत्वादस्याः कथमेवंकारित्वमिति चेदुक्तमत्र—
वत्सविट्वृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ॥
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ [ सां.का. ५७ ]
ननूत्पन्नतत्त्वज्ञाने भोगानानुकूलमहदादिकार्यारम्भपराङ्मुखत्वात्तस्याश्चैक-
त्वादेकस्मिंस्तत्त्वविदि मुक्ते सति सर्वे मुक्ताः स्युः । नैष दोषः, तत्त्वविदमेव
पुमांसं प्रति तस्या औदासीन्यात् , अन्यसाधारणत्वेन तत्कार्यानपायात् , तथा
च पतञ्जलिः—[ पा.२।२२ ] 'कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्' (१)
नन्वेवं यदैव तत्त्वज्ञानमुत्पन्नं तदैव प्रकृत्युपार्जितकर्मफलोपभोगपरिहानितः
पुंसः शरीरपातः स्यान्नेत्याह—'तिष्ठति संस्कारवशाच्चक्रभ्रमिवद्धृतशरीरः, ततः
संसारविरतौ सत्याम्—
प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ [ सां. का. ] इति ।
अहो नु खलु कपिलकविकथारसाक्षिप्तहृदयैरतिबहु प्रसक्तानुप्रसक्त्या
लिखितमस्माभिस्तदियं प्रधानप्रकृतिः प्रथमा महच्छब्दवाच्या सा बुद्धिस्तत्त्व-
विदं प्रति नष्टाऽप्यन्यसाधारणत्वादनष्टैवेति नित्या, नित्यत्वाच्च प्रत्यभिज्ञानु-
सन्धानादिव्यवहारप्रबन्धनिर्वाहणक्षमा बुद्धिः, ज्ञानं तु तस्य वृत्तिः, उपलब्धि-
स्तु पुंसो वृत्तिमद्बुद्धिदर्शनमिति नैषां पर्यायशब्दत्वमिति ।
सांख्यमतनिराकरणम्
अत्र प्रतिविधीयते—आत्मन्येव नित्ये व्यापिनि बोद्धरि ज्ञातर्यवसातरि
धर्माधर्मादियोगिनि प्रत्यभिज्ञानादिकार्याणां कर्तरि सेयं बुद्धिरज्ञा सांख्यैः
कल्पिता, चेतनत्वं ज्ञानादियोगिन्या अपि यत्त्वस्या नाभ्युपगतं सोऽयमतीव
तपस्विनां भ्रमः, य एव बुध्यते जानात्यध्यवस्यति स एव पश्यति चेतयते च,
न खल्वत्र वस्तुरूपभेदं पश्यामह, तत्र बुद्धिर्बुध्यते जानात्यध्यवस्यति पुरुषस्तु
पश्यति चेतयते चेति वञ्चनायैवमुच्यते मुग्धतया वा ।
यच्चेदमुच्यते—'बुद्ध्याध्यवसितमथ पुरुषः पश्यती'ति, तद्व्याख्येयं किमिदं
तस्य द्रष्टृत्वमिति ? प्रतिबिम्बनमिति चेत्किं स्वच्छं पुंसि वृत्तिमती बुद्धिः सं-
क्रामत्युत वृत्तिमत्यां बुद्धौ प्रमातेति । तत्र चितिशक्तिरपरिणामिन्यपरप्रतिसं-
क्रमेति न बुद्धौ पुरुषस्य संक्रमणं, बुद्धौ तु पुंसि संक्रान्तायामपि पुंसः किं वृत्तं
( १ ) अत्र भाष्यम् 'कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमपि अनष्टं
तत् अन्यपुरुषसाधारणत्वात्' इति । 'कृतार्थमिति' बुद्ध्या कृतः समर्पितोऽर्थो
यस्येति कृतार्थमेकं कचिन्मुक्तपुरुषं प्रति गुणादिकं नष्टं प्रयोजनकरणात् राज्ञो राज्य-
वन्नष्टमपि सामान्यतो न नष्टं तस्मिन्मुक्तेऽर्थे अन्यपुरुषे च तस्य साधारणत्वादित्यर्थः,
इति योगवार्तिकम् ।