सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 493, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 493

खलु व्याख्यानस्य भगवतः काचिद्भूमिरास्त दृष्टश्च दुःखोपशमे सुख-
शब्दप्रयोगः ।
चिरज्वरशिरोऽर्त्यादिव्याधिदुःखेन खेदिताः ।
सुखिनो वयमद्येति तदपाये (१) प्रयुञ्जते ॥
यदि चानन्दमिति वचनान्नित्यं सुखमात्मन इष्यते, तर्हि ब्रह्मेति वचना-
द्व्यापकत्वमिव विज्ञानमिति वचनाज् ज्ञानमपि नित्यमस्याभ्युपगन्तव्यम्-
तश्च सुखवज् ज्ञानस्यापि नित्यत्वात्संसारेऽपि नित्यसुखोपलब्धिः स्यात्ततश्च
धर्माधर्मफलाभ्यां सुखदुःखाभ्यामस्य नित्यस्य सुखस्य साहचर्यमनुभूयेत ।
अपि च—
सुखवज् ज्ञानवच्चास्य कामं देहेन्द्रियाण्यपि ।
नित्यं प्रकल्प्यतामित्थं मोक्षो रम्यतरो भवेत् ॥
अथ कार्यं सुखज्ञानं हेतुरस्य चिन्तनीयो यत उत्पद्यते इति वाच्यम् , यो-
गसमाधिज इति चेत्तस्य कार्यत्वात्स्वकार्यसुखसंवेदनावसानत्वान्न शाश्वतिकत्वं
स्यात्, अप्रच्यवश्च धर्मस्य निरनुमानको न हि योगसमाधिजो धर्मो न क्षीयते
इत्यत्र किंचिदनुमानमस्ति, विपर्यये तु प्रसिद्धमेवानुमानं सर्वस्य कृतक-
स्यानित्यत्वदर्शनादिति, क्षीणे त्वधर्मे तत्