न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 483, कुल 654 में से
संदर्भ में पढ़ें[Header line] प्रवृत्तिपरीक्षा । ४५
न्द्रियव्यापारसाध्यत्वासम्भवात्करणरहितायाश्च क्रियाभिनिर्वृत्तेरदर्शनादिति,
स्मृतिस्तावन्मनोजन्यैवानुमानागमज्ञानं तु परोक्षार्थविषयत्वान्मानसं, संशयो
ऽपि मानसः कश्चिद्दृश्यते, प्रतिभा सा मानसी दर्शितैव- 'श्वो मे भ्राता ऽऽगन्ते'
ति, स्वप्नज्ञानमवरतेन्द्रियग्रामस्य भवत्कथं न मानसम् , तर्को ऽपि संशयवत्क
चिद्विषये मानसो भवत्येव, सुखादीनां तु ज्ञप्तिवदुत्पत्तिरपि मनोनिबन्धेनैव,
कार्याणामात्मगुणानामुत्पत्तौ प्रत्यासन्नकारणान्तरसम्भवेऽप्यात्ममनःसंयोग-
स्यावधृतसामर्थ्यस्यासमवायिकारणत्वादतश्च विषयानुभवजन्ये ऽपि सुखादौ
मनस्संयोगः कारणम् , सुखादीनां च बोधस्वरूपत्वं संवेद्यत्वं च निरस्तम् , अ-
तस्तदुपलब्धौ मनस एव कारणता ।
तदिदं मनः पूर्वकृतशुभाशुभकर्मसंस्कारवताऽऽत्मना तद्वशादेव शरीरदेशे
संयोगं प्रतिपद्यते तत्रैव च जीवनव्यवहारः, विपच्यमानकर्माशयसहित आत्म-
मनःसंयोगो जीवनमिति हि वदन्ति, संयुक्तमात्मना मनस्तेषु तेषूपपत्तिस्थानेषु
नानाविधभोगसाधनतया संसारकारणं भवति, नित्यत्वादात्ममनसोस्संयोग इति
न हि प्रथमो नाम कश्चित्कालः समस्ति आदिसर्गस्यापि पूर्वसर्गसापेक्षत्वात्
ईश्वरोपि कर्मापेक्ष एव विचित्रस्य जगतः स्रष्टेति निर्णीतमेतदिति कृतं विस्तरेण
विदधत्सुखादिभोगं वहच्च तरलेन्द्रियाश्वसारथिताम् ।
बन्धनिमित्तं मन इति मनस्विना यत्नतो हेयम् ॥
प्रवृत्तिलक्षणम् ।
प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः [गो० १।१।१७]
वागिति वर्णात्मकशब्दकारणसंयोगश्चोच्यते नेन्द्रियमिति व्याख्यातम् ,
बुद्धिरिति मन इहोच्यते नोपलब्धिः, शरीरं प्रसिद्धं तेषामारम्भो व्यापारस्सैवा-
रम्भ इति सर्वथा तदीयक्रिया प्रवृत्तिरित्युच्यते ।
प्रवृत्तिभेदाः ।
सा च द्विविधा पुण्या पापिका च, तत्र पापिका-वाचा चतुर्विधा, मनसा त्रिवि-
धा, शरीरेण त्रिविधैवेति दशविधा, वाचा प्रवृत्तिः तत्रानृतपरुषसूचनासम्बद्धव-
चनरूपा चतुर्विधा, परद्रोहापरद्रव्याभिलाषानास्तिक्यानुध्यानरूपा त्रिविधा मन-
सः प्रवृत्तिः, हिंसास्तेयप्रतिषिद्धाचरणरूपा त्रिविधा शरीरेण प्रवृत्तिः, मैथुनकर-
णमेवं प्रकारसुखाद्युपलक्षणं सेयं दशविधा प्रवृत्तिरनवरतमभिज्वलतो निरतिश-
यदुःखवेदनादायिनो नरकानलस्येन्धनम् , पुण्या ऽपि सत्यप्रियहितवचनस्वाध्या-
याध्ययनरूपा चतुर्विधा वाचा प्रवृत्तिर्जपयज्ञो हि स्वाध्यायपाठ उपांशुना ऽन्तः।
संकल्पेन वा, अस्पृहानुकम्पापरलोकश्रद्धात्मिका त्रिविधा मनसा प्रवृत्तिः, दान-