न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 485, कुल 654 में से
संदर्भ में पढ़ेंदोषपरीक्षा । ४७
पञ्चप्रकारो रागपक्षः , स्त्रीसंभोगेच्छा कामः , यदन्यस्मै निवेद्यमानमपि वस्तु
धनवन्न क्षीयते तदपरित्यागेच्छा मत्सरः , अनात्मीयवस्त्वादित्सा स्पृहा, पुन-
र्भवप्रतिसन्धानहेतुभूतेच्छा तृष्णा , निषिद्धद्रव्यग्रहणेच्छा लोभ इत्यभिलाषप्र-
कारभेदाद्रागपक्ष एवायम् , द्वेषपक्षोऽपि पञ्चविधः, क्रोधेर्ष्यासूयाद्रोहोऽमर्ष
इति, अक्षिभ्रूादिविकारहेतुः प्रज्वलनात्मकः क्रोधः, साधारणेऽपि वस्तुनि प-
रस्य दर्शनाद्यसहनमीर्ष्या, परगुणेष्वक्षमाऽसूया, परापकारो द्रोहः, अदर्शितमु-
खादिविकारः परं प्रति मन्युरमर्ष इत्यसहनप्रकारभेदादेव द्वेषपक्षः, मोहपक्षस्तु
चतुर्विधो मिथ्याज्ञानं विचिकित्सा मानः प्रमाद इति, अतस्मिंस्तदिति ज्ञानं
मिथ्याज्ञानम् , किं स्विदिति विमर्शो विचिकित्सा, असद्गुणारोपेण स्वो-
त्कर्षबुद्धिर्मानः, कियदेतदित्यवज्ञया कर्तव्याकरणं प्रमादः, स एव मद इत्या-
ख्यायते, सोऽयं तत्त्वापरिज्ञानप्रकारभेदान्मोहपक्षः, एवं त्रय एवैते दोषाः, शो-
कहर्षौ तु सुखदुःखे उच्येते न दोषान्तरम् , तेषां तु मोहः पापतमः इतरयोस्तु
तदधीनात्मलाभात्वात् , मूढस्य हि रागद्वेषौ भवतो मिथ्यासङ्कल्पादुपद्यमानयो-
रनुभावात्कुसङ्कल्पश्च मिथ्याज्ञानप्रवृत्तिरेव, मिथ्याज्ञानस्यैव भगवतः सर्वमिदं
विलसितं योऽयमनेकप्रकारः संसारदुःखभारः, यद्येवं न तर्हि मोहस्य दोषत्वं
दोषकारणत्वादिति न लक्षणानपायात् , सत्यपि दोषान्तरहेतुत्वे स्वयमपि पुरुष-
प्रवृत्तिप्रयोजकत्वलक्षणयोगाद्रागवद् दोषत्वं न मोहो विजहाति ।
दोषशमनोपायः ।
त इमे दोषाः संसारहेतव इति यत्नतः शमनीयाः, कथं पुनरमी शमयितुं
शक्याः? उक्तमत्र नाकस्मिकाः न नित्याः नाज्ञातशमनोपाया न चाशक्यप्रतिक्रिया
इति, विस्तरतश्चैतदपवर्गाह्निके परीक्षिय्यते, मिथ्याज्ञाननिमित्ताः खल्वेते दोषा-
स्तस्मिन्सम्यग्ज्ञानप्रभावन्निहते हेतोरभावान्न भवन्त्येवेति ।
नन्वेवं प्रसवविनाशकारणयोरेकत्वादेक एव दोषो भवेदिति त्रित्वं नोपपद्यते;
न, अनुभवसिद्धभेदत्वात्,अनुभूयते हि रागद्वेषमोहानामितरेतरविभक्तं स्वरूपम्,
कारणैकत्वं तु न प्रयोजकमेकस्मादेव ज्वलनसंयोगादुत्पद्यमानानां विनश्यतां च
पार्थिवपदार्थवृत्तीनां गन्धरसरूपस्पर्शानां नानात्वदर्शनात् , अतः सूक्तं दोषाणां
त्रैराश्यमिति ।
संसारकाराभवनप्रवेशमार्गास्त एते त्रय एव दोषाः ।
एषां प्रहाणोद्यममादधानो न जन्ममृत्यू पुनरभ्युपैति ॥
प्रेत्यभावलक्षणम् ।
पुनरुत्पत्तिः प्रेत्यभावः ( गो० १।१।१९ )
कस्येयं पुनरुत्पत्तिरुच्यते आत्मनः शरीरस्य वा, तत्रात्मनो नित्यत्वादुत्प-