सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 477, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 477

बुद्धिपरीक्षायां सत्कार्यवादनिरूपणम् । ६३
अपि च बुद्धिर्नाम विषयोपलम्भः अहंकारोऽप्यहंप्रत्ययरूपोऽभिमानो
बुद्धिविशेष एव तेन बाह्यानीन्द्रियाणि जन्यन्ते गन्धादयश्च गुणाः गुणैश्च पृथि-
व्यादीनि भूतानीति महाव्यामोहः, इदं च चित्रं-विषयजन्या हि सुखादयः
प्रसिद्धास्ते च सुखादिजन्या विषयाः संवृत्ता इति, नवेयं विश्वामित्रस्येव सांख्य-
मुनेः सृष्टिः, न च प्रधानास्तित्वमपि प्रमाणवदन्वयादिहेतूनामसाधनत्वात्,
चेतनानां हि संभवेदपि सुखदुःखमोहान्वितत्वमचेतनानि भूतानि सुखदुःखमो-
हवन्तीति सुभाषितम्, घटे पटे शकटे च सुख दुःखमोहाः सन्तीति कः प्रति-
पद्यते, प्रकाशप्रवृत्तिनियमा अपि चेतनेष्वेव दृश्यन्ते नाचेतनेष्वित्यसिद्धत्वाद्धे-
तोर्न प्रधानसिद्धिः ।
अपि च सत्कार्यवादमूल एष तपस्विनां विभ्रमः सर्वं सर्वत्रास्तीति ततो-
ऽन्वयसिद्धिं बुद्धयमानास्ते प्रधानसिद्धावध्यवसिताः, सत्कार्यवादश्च विचार्य-
माणो न समस्येवेति कुतस्त्या हेतुसिद्धिः ।
सत्कार्यवादनिरूपणम्
ननु सत्कार्यवादे कार्यकारणभावो भवति भावानां नान्यथा, तथा हि
चतुष्टयी गतिरिह स्याद् घटादिकार्यं मृत्पिण्डादिना कारणेन क्रियमाणमपि
क्रियते सद्वासद्वा सदसद्वाऽनुभयं वेति, तत्रासतः करणे खरविषाणादेः कर-
णं स्यादसत्त्वे हि घटस्य खरविषाणस्य च को विशेषः, घटस्यापि च प्राक्
प्रध्वंसाभावदशयोरसत्त्वाविशेषात्प्रागभावदशायामिव प्रध्वंसावस्थायामपि क-
रणं भवेत्, असत्करणे नियतोपादानग्रहणं न प्राप्नोति, तैलार्थी हि तिलसर्ष-
पानुपादत्ते न सिकताः असत्त्वे च तैलस्य को विशेषः सर्षपाणां सिकताभ्यः,
असति कार्ये निरालम्बनः कारकव्यापारो भवेन्न ह्यसौ मृत्पिण्डादिविषयो भवि-
तुमर्हति कार्यं चासत्, अपि चाविद्यमाने कारणव्यतिरिक्ते च कार्ये जन्ये
कारणस्य मृत्पिण्डादेर्घटादिकार्यं जनितवतः किमिति न स्वरूपमुपलभ्यते ।
अथ स्वविनाशेन कारणं कार्यस्य जनकमिश्यते तदियमभावाद्भावोत्पत्ति-
र्भवेत्तस्यां च कुतोऽयं नियमो यदनन्तरवृत्त एव मृत्पिण्डाभावः कुम्भमभि-
निर्वर्तयति न चिरातिक्रान्त इत्यतश्च परन्मृत्पिण्डे नष्टे एव स कुम्भोत्पादः
स्याद् ।
अथ स्वाव्यतिरिक्तमेव कारणेन कार्यं जन्यते ? तर्हि कारणस्य सत्त्वात्तद-
व्यतिरिक्तं वक्तुं युक्तं सदसतोर्विप्रतिषेधेनैकत्र समावेशायोगात्, रूपभेदादवि-
रोध इति चेन्न, कार्यस्य विचार्यमाणस्यैकत्वान्, ततश्च तेनैव स्वेन कार्येण रू-
पेणासच्चेन्नासद्भवदसच्च न सदिति, पररूपेण त्वसत्त्वं समस्तभावाना मस्त्येव,
अनुभयात्मकं तु नाम वस्तु नास्त्येवेति, तत्पारिशेष्यात्सदेव कार्यम्, किमिति च