न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 480, कुल 654 में से
संदर्भ में पढ़ेंत्तमेष तपस्वी तप्तकृच्छ्रमतिकष्टं कथं चरिष्यतीति महन् ! गतोऽसि का-
रुण्यम् , अन्नं च तावदश्नात्यन्ते च वर्चोऽस्तीति विड्भक्षणात्प्रायश्चित्तीयत
एवायमित्यलं सत्कार्यवादप्रमादेन ।
यत्पुनरत्राभाषि--कारणानुपमर्देन कार्यानुत्पादादभावाद्भावोत्पत्तिर्भवेत्तत्र
चानन्तरवृत्युत्पत्तिनियमो न स्यात्-इति, तदप्ययुक्तम् , मूर्तानां समानदेशत्ववि-
रोधात्कार्यकारणयोरेकदेशत्वं नेष्यते नैतावता भावोत्पत्तिरभावाद्भवितुमर्हति ,
कारणपदेन तदुपादानदर्शनादत एवानन्तर्यनियमो ऽप्युपपन्नः, न च कार्यका-
रणयोरभेदात्सत्कार्यमिति वक्तव्यम् , तयोः प्रत्यक्षसिद्धभिन्नस्वरूपत्वात् ।
यत्तु निरालम्बना कारकप्रवृत्तिरिति चोदितं परिहृतं तद्भाष्यकारेण(१) ‘बु-
द्धिसिद्धं तु तदसत् ( गौ० ३।२।५०।११ ) इति' वृद्धव्यवहारतः कार्यकारण-
भावमवगम्यामुष्मात्कारणादिदमीदृशं कार्यमुत्पद्यत इति बुद्धौ निर्धार्य कारका-
णि कर्ता नियुङ्क्ते इति न निर्विषयः कारकव्यापारः, तदेवं सत्कार्यवादस्य नि-
ष्प्रमाणकत्वात्तन्मूलान्वयादिहेतुसिद्धयभावान्न प्रधानास्तित्वसिद्धिस्तदभावाच्च न
तद्विकृतिर्नित्या बुद्धिरपि तु ज्ञानोपलब्धिरूपैवेति सम्यक्सूत्रितं 'बुद्धिरुपलब्धि-
र्ज्ञानमित्यनर्थान्तरमि’ति, इतश्चानित्या बुद्धिः जानामि ज्ञास्याम्यज्ञासिषमित्यु-
पजननापायधर्मतया पाकादिवत्कालत्रयेऽपि प्रकाशमानत्वाज् ज्ञातृव्यतिरिक्ता-
याश्च बुद्धेरप्रतिभासनात् , अयं तु विशेषः-पाकादिक्रियाणामोदनादिफलावच्छे-
दद्वारकं कालवैतत्यमपि भवति, उपलब्धेस्तु वस्तुस्वरूपप्रकाशनमात्रपरिसमाप्त-
प्रयोजनायाः कालवैतत्यं नास्त्येवात एवानित्यत्वेऽप्युत्पन्नापवर्गीणीमेव बुद्धिमाच-
क्षते शब्दवन्न घटादिवत्कालान्तरस्थायिनीमिति, सा चेयं बुद्धिरात्मान्तःकरण-
शब्ददीपेन्द्रियार्थाद्यनेककारककलापकार्यापि सती न बाह्ये न बाह्यकर्मणि सम-
वैति, न बाह्यकरणे चक्षुरादौ नान्तःकरणे मनसि किन्तु कर्त्तर्येव, कर्त्ताऽपि च
नित्यो विभुरात्मा न भूतसङ्घातस्वभावः कार्यस्तस्या आश्रय इत्यात्मपरीक्षायां
निर्णीतं गुणत्वमपि च तस्यास्तत्रैव दर्शितम् ।
नन्वेवं तर्हि न बुद्धेरनित्यत्वं विनाशकारणाभावाद्, द्विविधो हि गुणानां
विनाशहेतुराश्रयविनाशो विरोधिगुणप्रादुर्भावो वा, नेहाश्रयविनाशो नित्यत्वादा-
त्मनो, न च विरोधिनमस्याः कं चिद् गुणमुपलभामहे। न, शब्दवदाशुविनाशि-
त्वात् , नित्याकाशगुणो ऽपि शब्दः शब्दान्तरमारभ्य यथा विनश्यति तथा बुद्धि-
र्बुद्धयन्तरमारभ्य विनश्यतीति तथा दर्शनात्कल्प्यते, यावांश्च कश्चन विनाशद-
( १ ) बुद्धिसिद्धमिति । तत्कार्यम्, असत्-प्रागभावप्रतियोगि, बुद्धिसिद्धम्-
बुद्धया विषयीकृतम् , तथाहि इह तन्तुषु पटो भविष्यतीति ज्ञात्वा कुविन्दः प्रवर्तते
न तु पटोऽस्तीति ज्ञात्वा तथासति सिद्धत्वेन ज्ञाते इच्छाभावात् प्रवृत्त्यनुपपत्ते-
रित्यर्थः ।