सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 478, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 478

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

६४ न्यायमञ्जर्याम्
नोपलभ्यते इति ? अनुमानेनापि यदुपलब्धं तत्किमनुपलब्धं भवति, प्रत्यक्षेण
तु तदानीमनुपलम्भोऽनभिव्यक्तत्वादभिव्यक्तिसम्पादन एव च कारकप्रयत्नसा-
फल्यं, कार्यं तु सदेवेति ।
सत्कार्यवादखण्डनम्
अत्राभिधीयते, केन रूपेण तदानीं कार्यं सदिति मन्यते यदि कारकव्या-
पारामिनिर्वर्त्येन सलिलाहरणाद्यर्थक्रियासमर्थेन पृथुबुध्नोदराकारतारूपेण चक्र-
मूर्धनि घटोऽस्ति तदाऽभिव्यक्तेनापि रूपेण सत्त्वादत्यन्ताय कारकव्यापार-
वैफल्यमित्थमपि च कारकप्रवृत्तौ तद्व्यापारानुपरमप्रसङ्गः, किं हि तदोपलभ्य
कारकाणि निवर्तेरन्कार्यस्य प्रागप्युपलब्धत्वात् ।
अथ मृत्पिण्डरूपेण तदानीं घटोऽस्तीति कथ्यते, तत्र न ह्यसौ तदानीं
घटोऽस्ति मृत्पिण्ड एवासावदो न स्वरूपमुत्तरकालमपि निवर्तते घटम्तु ततो
निवर्तते, यच्चैवं यदैवासौ निवर्तते तदैवास्ति न ततः पूर्वमिति ।
अथ पूर्वं शक्त्यात्मना तस्यास्तित्वमिदानीमभिव्यक्त्यात्मना क्रियते इति,
तदप्यनुपपन्नमभिव्यक्तिरपि तत्स्वरूपाद्भिन्ना ऽभिन्ना वा सत्यसती वेति विक-
ल्प्यमाना न पूर्वोक्तं दोषमतिवर्तते ।
का चेयमभिव्यक्तिः ? किं कार्यात्मनाऽवस्थानमथ संस्थानविशेष उत प्रती-
तिरिति, यदि कार्यात्मनाऽवस्थानं, तत्पूर्वं नाभूत्तदधुना भूतमित्यसत्कार्यम्,
पूर्वमपि वा यदि तदासीत्तदा पुनः कारकवैफल्यम्, संस्थानमप्यवयवसंनिवे-
शविशेषः सन्नैव, ते अवयवास्तु सन्तीति कस्यात्र विवादः, न खलु परमा-
णवोऽस्माभिर्नाङ्गीकृताः, प्रतीतिस्तु घटस्य चक्षुरादिकारकसामग्र्यधीनत्व-
मृत्पिण्डदण्डचक्रादिकारकचक्रसाध्येति सा चक्रमूर्धनि घटस्य नास्त्येवेत्य-
सन् घटः ।
दर्शनादर्शनाधीने सदसत्त्वे हि वस्तुनः ।
दृश्यस्यादर्शनात्तेन चक्रे कुम्भस्य नास्तिता ॥
चक्रमूर्धवत्प्रध्वंसदशायामनुपलम्भाद् घटनास्तित्वमेवेत्यतश्च 'नासतो वि-
द्यते भावो नाभावो विद्यते सतः' इत्यप्रमाणकं पूर्वापरान्तयोर्भावस्वरूपादर्शनात् ,
शक्त्यात्मना ऽपि यदस्तित्वमस्योच्यते, तत्रापि चिन्त्यम्-केयं शक्तिर्नामेति ? यदि
घटस्वरूपाद्भिन्नाऽसौ, तर्हि पररूपेण घटोऽस्तीति खरूपेणैव घटास्तित्वमुक्तं भ-
वेत्तच्च प्रत्यक्षविरोधान्निरस्तम्, असत्करणपक्षे च यच्चोदितं 'शशविषाणाद्यपि
क्रियेते'ति, तन्न, वचनव्यक्त्यपरिज्ञानात्, यदसत्तत्क्रियते इति नेयं वचनव्यक्ति-
रपि तु यत्क्रियते तदस़दिति ।
स्वरूपसहकार्यादिहेतवो यद्विधायिनः ।
दृश्यन्ते जन्यते वह्निर्न व्योमकुसुमादिकम् ॥