सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

तृतीयपरिच्छेदः ८३
तदाह—
सात्मकत्वेन निरात्मकत्वेन वा प्रसिद्धे प्राणादेरसिद्धिः ।
सात्मकत्वेनानात्मकत्वेन वा विशेषेण युक्ते प्रसिद्धे निश्चिते वस्तुनि
प्राणादेर्धर्मस्यासिद्धेरनैकान्तिकोऽनिश्चितत्वात् । तदेवमसाधारणस्य धर्म-
स्यानैकान्तिकत्वे कारणद्वयमभिहितम् । पक्षधर्मश्च भवन्सर्वः साधारणोऽ-
साधारणो वा भवत्यनैकान्तिकः ।
तस्मादुपसंहारव्याजेन पक्षधर्मत्वं दर्शयति—
तस्माज्जीवच्छरीरसम्बन्धी प्राणादिः ।
तस्मादित्यादिना जीवच्छरीरस्य सम्बन्धी पक्षधर्म इत्यर्थः । यस्मा-
त्तयोरेकत्रापि न निवृत्तिनिश्चयस्तस्मात्ताभ्यां न व्यतिरिच्यते ।
वस्तुधर्मो हि सर्ववस्तुव्यापिनोः प्रकारयोरेकत्र नियतसद्भावो निश्चितः
प्रकारान्तरात्निवर्तेत । तत एवाह—
सात्मकादनात्मकाच्च सर्वस्माद्व्यावृत्तत्वेनासिद्धेः ।
सात्मकादनात्मकाच्च सर्वस्माद्वस्तुनो व्यावृत्तत्वेनासिद्धेरिति । प्राणा-
दिस्तावत्कुतश्चिद्घटादेर्निवृत्त एव । ततः एतावदवसातुं शक्यं सात्मकाद्-
नात्मकाद्वा कियतो निवृत्तः । सर्वस्मात्तु निवृत्तो नावसीयते । ततो न
कुतश्चिद्व्यतिरेकः ।
यद्येवमन्वयोऽस्तु तयोर्निश्चित इत्याह—
ताभ्यां न व्यतिरिच्यते न तत्रान्वेति ।
न तत्र सात्मकेऽनात्मके वार्थेऽन्वेत्यन्वयवान्प्राणादिः ।
कुत इत्याह—
एकात्मन्यप्यसिद्धेः ।
एकात्मनि सात्मकेऽनात्मके वासिद्धेः कारणात् । वस्तुधर्मतया
तयोर्द्वयोरेकत्र वा वर्तते इत्यवसितः प्राणादिर्न तु सात्मक एव निरात्मक
एव वा वर्तत इति कुतोऽन्वयनिश्चयः ।
१ भवन्सर्वः, क० भवत् सर्वः ।

ननु च प्रतिवादिनो न किञ्चित्सात्मकमस्ति । ततोऽस्य हेतोर्न
सात्मकेऽन्वयो न व्यतिरेक इत्यन्वयव्यतिरेकयोरभावनिश्चयः । सात्मके
न तु सद्भावसंशय इत्याह—
नापि सात्मकान्निरात्मकाच्च तस्यान्वयव्यतिरेकयोर-
भावनिश्चयः ।
नापि सात्मकाद्वस्तुनस्तस्य प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः ।
नापि च निरात्मकात् । सात्मकादनात्मकादिति च पञ्चमी व्यतिरेकशब्दा-
पेक्षया द्रष्टव्या ।
कथमन्वयव्यतिरेकयोर्नाभावनिश्चय इत्याह—
एकाभावनिश्चयस्यापराभावनान्तरीयकत्वात् ।
एकस्यान्वयस्य व्यतिरेकस्य वा योऽभावनिश्चयः सोऽपरस्य द्विती-
यस्याभावे निश्चयनान्तरीयको भवति । निश्चयस्याव्यभिचारी तस्य भाव-
स्तत्त्वम् । तस्माद्यत एकाभावनिश्चयोऽपरभावनिश्चयेनान्तरीयकस्तस्मान्न
द्वयोरेकत्राभावनिश्चयः ।
कस्मात्पुनरेकस्याभावनिश्चयोऽपरसद्भावनिश्चयाव्यभिचारीत्याह—
अन्वयव्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वात् ।
अन्वयव्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वादिति । अन्योन्यस्य व्यव-
च्छेदोऽभावः स एव रूपं ययोस्तयोर्भावस्तत्त्वं तस्मात्कारणात् । अन्वय-
व्यतिरेकौ भावाभावौ । भावाभावौ च परस्परव्यवच्छेदरूपौ । यस्य
व्यवच्छेदेन यत्परिच्छिद्यते तत्तत्परिहारेण व्यवस्थितम् । स्वभावव्यवच्छे-
देन च भावः परिच्छिद्यते । तस्मात्स्वाभावव्यवच्छेदेन भावो व्यव-
स्थितः । अभावो हि नीरूपो यादृशो विकल्पेन दर्शितः । नीरूपतां च
व्यवच्छिद्य रूपमाकारवत्परिच्छिद्यते । तथा च सत्यन्वयाभावो व्यतिरेको
व्यतिरेकाभावश्चान्वयः । ततोऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो
भवति । व्यतिरेकाभावे च निश्चितेऽन्वयो निश्चितो भवति । तस्माद्यदि
नाम सात्मकमवस्तु निरात्मकं च वस्तु तथापि न तयोः प्राणादेरन्वय-


१ 'निश्चयेन' इति पाठः क० पुस्तके नोपलभ्यते ।

तृतीयपरिच्छेदः ८५
व्यतिरेकयोरभावनिश्चयः । एकवस्तुन्येकवस्तुनो युगपद्भावाभावविरोधात् ।
तयोरभावनिश्चयायोगात् । न च प्रतिवाद्यनुरोधात्सात्मकानात्मके वस्तुनी
सदसती किं तु प्रमाणानुरोधादित्युभे संदिग्धे । ततस्तयोः प्राणादिमत्त्वस्य
सदसत्त्वसंशयः ।
अत एवान्वयव्यतिरेकयोः सन्देहादनैकान्तिकः ।
यत एव कचिदन्वयव्यतिरेकयोर्न भावनिश्चयो नाप्यभावनिश्चयस्तत
एवान्वयव्यतिरेकयोः सन्देहः । यदि तु कचिदप्यन्वयव्यतिरेकयोरेकस्या-
प्यभावनिश्चयः स्यात्स एव द्वितीयस्य भावनिश्चय इत्यन्वयव्यतिरेकसंदेह
एव न स्यात् । यतश्च न कचिद्भावाभावनिश्चयस्तत एवान्वयव्यतिरेकयोः
संदेहः । संदेहाच्चानैकान्तिकः—
कस्मादनैकान्तिकः—
साध्येतरयोरतो निश्चयाभावात् ।
साध्ये३स्येतरस्य च विरुद्धस्यातः संदिग्धान्वयव्यतिरेकान्निश्चयाभा-
वात् । सपक्षविपक्षयोर्हि सदसत्त्वसंदेहेन साध्यस्य न विरुद्धस्य सिद्धिः४ ।
न च सात्मकानात्मकाभ्यां च परः प्रकारः संभवति । ततः प्राणादि-
मत्त्वाद्धर्मिणि जीवच्छरीरे सं

हेत्वाभासो युज्यते स तस्यासिद्धेः संदेहाच्च व्यवस्थाप्यत इति यस्य यस्य
येन येन योगो यथायोगमिति ।
विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः । स इह
कस्मान्नोक्तः ।
ननु चाचार्येण विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः । हेत्वन्तरसा-
धितस्य विरुद्धं यत्तन्न व्यभिचरति स विरुद्धाव्यभिचारी । यदि वा
विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनादव्यभिचारी च
स्वसाध्याव्यभिचाराद्विरुद्धाव्यभिचारी ।
सत्यमुक्त माचार्येण । मया त्विह नोक्तः । कस्मादित्याह—
अनुमानविषयेऽसंभवात् ।
अनुमानस्य विषयः प्रमाणसिद्धं त्रैरूप्यम् । यतो ह्यनुमानसद्भावः
सोऽनुमानस्य विषयः । प्रमाणसिद्धाच्च त्रैरूप्यादनुमानसद्भावस्तस्मात्तद्दे-
वानुमानविषयः । तस्मिन् प्रक्रान्ते न विरुद्धाव्यभिचारिसंभवः । प्रमाण-
सिद्धो हि त्रैरूप्ये प्रस्तुते स एव हेत्वाभासः संभवति यस्य प्रमाणसिद्धं
रूपम् । न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धमस्तिरूपम् । अतो न
संभवः । ततोऽसंभवो नोक्तः ।
कस्मादसंभव इत्याह—
न हि संभवोऽस्ति कार्यस्वभावयोरुक्तलक्षणयोरनु-
पलम्भस्य च विरुद्धतायाः । न चान्योऽव्यभिचारी ।
न हीति । यस्मान्न संभवोऽस्ति विरुद्धतायाः । कार्यं च स्वभा-
वश्च तयोरुक्तलक्षणयोरिति । कार्यस्य कारणाज्जन्मलक्षणं तत्त्वम् । स्वभा-
वस्य च साध्यव्याप्तत्वं तत्त्वम् । यत्कार्यं यश्च स्वभावः स कथमात्म-
कारणं व्यापकं च स्वभावं परित्यज्य भवेद्येन विरुद्धः स्यात् । अनु-
पलम्भस्य चोक्तलक्षणस्येति । दृश्यानुपलम्भत्वमनुपलम्भलक्षणम् ।
तस्यापि च स्वभावाव्यभिचारित्वान्न विरुद्धत्वसंभवः स्यात् । एतेभ्यो-
१ पदमिदं क० पुस्तके नोपलभ्यते । २ विरुद्धं यत्, ख० यद्विरुद्धं । ३ स्यात्,
ख० स्याद्वेति तत् ।

विचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः ।
Wait, is "तदर्थविचारेषु" spelt with 'र्थ'?
Yes: "तदर्थविचारेषु".

यस्माद्वस्तुबलप्रवृत्तेऽनुमाने न संभवति तस्मादागमाश्रयमनुमानमा-
श्रित्य विरुद्धाव्यभिचार्युक्तः । आगमसिद्धं हि यस्यानुमानस्य लिङ्गत्रैरूप्यं
Wait, let's re-verify line 7:
Is it "विरुद्धाव्यभिचार्युक्तः" or "विरुद्धाव्यभिचार्य्युक्तः"?
In line 7: 'चा' 'र्यु' 'क्तः' -> single 'य' with repha and 'ु'. So "विरुद्धाव्यभिचार्युक्तः ।"
Then: "आगमसिद्धं हि यस्यानुमानस्य लिङ्गत्रैरूप्यं"
Yes, exactly!

तस्यागम आश्रयः ।
Yes, centered / short line.

ननु चागमसिद्धमपि त्रैरूप्यं प्रमाणसिद्धमित्याह । अवस्तुदर्शनबल-
प्रवृत्तमिति । अवस्तुनो दर्शनं विकल्पमात्रं तस्य बलं सामर्थ्यम् । ततः
प्रवृत्तमप्रमाणाद्विकल्पमात्राद्व्यवस्थितं त्रैरूप्यमागर्मसिद्धमनुमान

नहीति । न हेतुषु कल्पनया हेतुत्वव्यवस्थापि तु वस्तुस्थित्या ।
ततो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेष्वस्य संभवो नास्ति ।
अवस्थितं परमार्थसद्वस्तु तदनतिक्रान्ता यथावस्थिता वस्तुस्थितिव्यवस्था
येषां ते यथावस्थितवस्तुस्थितयः । ते हि यथा वस्तु स्थितं तथा
स्थिता न कल्पनायातस्तेषु न भ्रान्तेरवकाशोऽस्ति येन विरुद्धाव्यभिचा-
रिसंभवः स्यात् ।
तत्र विरुद्धाव्यभिचारिण्युदाहरणम्—
तत्रोदाहरणं यत्सर्वदेशावस्थितैः स्वसम्बन्धिभिः
संबध्यते तत्सर्वगतं यथाकाशमभिसंबध्यते सर्वदेशाव-
स्थितैः स्वसम्बन्धिभिर्युगपत्सामान्यमिति ।
यत्सर्वस्मिन्देशेऽवस्थितैः स्वसंबन्धिभिर्युगपदभिसंबध्यते तत्सर्वदे-
शावस्थितैरभिसंबध्यमानत्वं सामान्यस्यानूद्य सर्वगतत्वं विधीयते । तेन
युगपदभिसंबध्यमानत्वं सर्वगतत्वे नियतं तेन व्याप्तं कथ्यते । इह
सामान्यं कणादमहर्षिणा निष्क्रयं दृश्यमेकं चोक्तम् । युगपच्च सर्वैः स्वैः
स्वैः सम्बन्धिभिः समवायेन संबद्धम् । तत्र पैलुकेन कणादशिष्येण
व्यक्तिषु व्यक्तिरहितेषु च देशेषु सामान्यं स्थितं साधयितुं प्रमाणमिदमु-
पन्यस्तम् । यथाकाशमिति । व्याप्तिप्रदर्शनविषयो दृष्टान्तः । आकाशमपि
हि सर्वदेशावस्थितैर्वृक्षादिभिः स्वसंयोगिभिर्युगपदभिसंबध्यमानं सर्वगतं
चाभिसम्बध्यते च सर्वदेशावस्थितैः स्वसंबन्धिभिरिति हेतोः पक्षधर्मत्व-
प्रदर्शनम्—
अस्य स्वभावहेतुत्वं प्रयोजयितुमाह—
तत्संबन्धिस्वभावमात्रानुबन्धिनी तद्देशसंनिहित-
स्वभावता ।
तत्संबन्धीति । तेषां सर्वदेशावस्थितानां द्रव्याणां संबन्धी सामा-
न्यस्य स्वभावः स एव तत्संबन्धिस्वभावमात्रम् । तदनुबध्नातीति तदनु-
१ एकं, ख० एव । २ संबन्धिभिः, ख० स्वसम्बन्धिभिः । ३ च, ख० वा ।

न्घटोwithout hyphen, it would beक्वचिदसद्घटो. With hyphen: क्वचिद्-/सन्घटो? Wait, or सद्घटो? No, it's क्वचिदविद्यमानो घटःin L21, which means "an absent pot somewhere". Wait, could line 24 end withक्वचिद्-and line 25 beअसन्घटो? Look at line 25: the first character is स(sa). It is NOTअ! Wait, why does line 24 end with क्वचिद्-? Wait, look at line 24: क्वचिद्-has a halantaद्! Wait, if it has halanta द्, then सन्->क्वचिद्-सन्घटो? That would mean "a present pot"! But the example is "अविद्यमानो घटः"! Wait, could line 24 end with क्वचिद-? Look at line 24: क्वचिद्-Wait, look at the letter before the hyphen:क् व चि द्with halanta! Wait, could line 25 beऽसन्घटो? Look at the space before सin line 25: Is there an avagrahaऽ`?
Look closely at line 2

६० न्यायबिन्दुः
पक्षधर्मत्वं दर्शयितुमाह—
नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्य-
न्तरालेष्विति ।
नोपलभ्यते चेति । व्यक्तेरन्तरालं व्यक्त्यन्तरं च व्यक्तिशून्यं
चाकाशं दृश्यमपि कस्यांचिद्व्यक्तौ गोसामान्यमश्वादिषु व्यक्त्यन्तरेषु
व्यक्तिशून्ये चाकाशे चोपलभ्यते । तस्मान्न तेष्वस्तीति गम्यते ।
अयमनुपलम्भप्रयोगः स्वभावश्च परस्परविरुद्धार्थ-
साधनादेकत्र संशयं जनयतः ।
अयमनुपलम्भः पूर्वोक्तश्च स्वभावः परस्परविरुद्धौ यावर्थौ तयोः
साधनात्तावेकस्मिन्धर्मिणि संशयं जनयतः । न ह्येकोऽर्थः परस्परविरुद्ध-
स्वभावो भवितुमर्हति । एकेन चात्र व्यक्त्यन्तरेषु व्यक्तिशून्ये चाकाशे
सत्त्वम् । अपरेण चानुपलम्भेनासत्त्वं साध्यते । न चैकस्यैकदैकत्र सत्त्व-
मसत्त्वं च युक्तं तयोर्विरोधात् । तदागम³सिद्धस्य सामान्यस्य सर्वगत-
त्व⁴सर्वगतत्वयोः साध्ययोरेतौ विरुद्धाव्यभिचारिणौ जातौ । यतः सामान्य-
स्यैकस्य युगपत्सर्वदेशावस्थितैरभिसंबन्धित्वं⁵ चाभ्युपगतं दृश्यत्वं च ।
ततः सर्वसम्बन्धित्वात्सर्वगतत्वं दृश्यत्वादन्तरालानुपलम्भादसर्वगतत्वं ।
ततः शास्त्रकारेणैव विरुद्धव्याप्तत्वमपश्यता विरुद्धव्याप्तौ धर्मावुक्त्वा⁶ विरू-
द्धाव्यभिचार्यवकाशो दत्त इति । न च⁷ वस्तुन्यस्य संभवः । इत्युक्ता
हेत्वाभासाः ।
ननु च साधनावयवत्वाद्यथा हेतव उक्तास्तत्प्रसङ्गेन हेत्वाभासास्तथा
साधनावयवत्वाद् दृष्टान्ता वक्तव्यास्तत्प्रसङ्गेन च दृष्टान्ताभासास्तत्कथं
नोक्ता इत्याह—
१ व्यक्तिशून्ये, क० शून्ये । २ पदमिदं ख० पुस्तके नोपलभ्यते । ३ तदागमसिद्धस्य,
क० तदागममसि० (अशुद्धः) ख० तस्मादागम० । ४ सर्वगतत्वासर्वगतत्वयोः, ख०
सर्वगतत्वयोः । ५ अभिसंबन्धित्वं, ख० अभिसंबद्धत्वं । ६ उक्ता विरुद्ध०, ख० उक्तौ ।
इह विरुद्ध० । ७ न च वस्तुन्यस्य, ख० न वस्तुन्यस्य हेतोः ।

तृतीयपरिच्छेदः ६१
त्रिरूपो हेतुरुक्तः ।
त्रिरूपो हेतुरुक्तस्तत्किं दृष्टान्तैः ।
स्यादेतत्तावता नार्थप्रतीतिरित्याह—
तावतैवार्थप्रतीतिरिति न पृथग्दृष्टान्तो नाम साध-
धनावयवः कश्चित् ।
तावतैवेति । उक्तलक्षणेनैव हेतुना भवति साध्यप्रतीतिः । अतः स
एव गमकस्तद्वचनमेव साधनम् । न दृष्टान्तो नाम साधनस्यावयवः ।
यतश्चायं नावयवस्तेन नास्य दृष्टान्तस्य लक्षणं हेतुलक्षणात्पृथगुच्यते ।
कथं तर्हि हेतोर्व्याप्तिनिश्चयो यद्यदृष्टान्तको हेतुरिति चेत् । नोच्यते हेतुर-
दृष्टान्तक एवापि तु न हेतोः पृथग्दृष्टान्तो नाम । हेत्वन्तर्भूत एव दृष्टान्तः ।
तेन नास्य लक्षणं पृथगुच्यते ।
अत एवोक्तं नास्य लक्षणं पृथगुच्यत इति । न त्वेवमुक्तं नास्य
लक्षणमुच्यत इति ।
यद्येवं हेतूपयोगिनोऽपि लक्षणं वक्तव्यमेवेत्याह ।
गतार्थत्वात् ।
गतार्थत्वात् । गतोऽर्थः प्रयोजनमभिधेयं वा यस्य दृष्टान्तलक्षणस्य
तत्तथा तस्य भावस्तत्त्वं तस्मात् । दृष्टान्तलक्षणं ह्युच्यते दृष्टान्तप्रतीतिर्यथा
स्यात् । दृष्टान्तश्च हेतुलक्षणादेवावसितः । ततो दृष्टान्तलक्षणस्य यत्प्रयोजनं
दृष्टान्तप्रतीतिस्तद्गतं निष्पन्नमभिधेयं वा । गतं ज्ञातं दृष्टान्ताख्यम् ।
कथं गतार्थत्वमित्याह—
हेतोः सपक्ष एव सत्त्वमसपक्षाच्च सर्वतो व्यावृत्तो
रूपमुक्तमभेदेन पुनर्विशेषेण कार्यस्वभावयोर्जन्म तन्मा-
त्रानुबन्धौ दर्शनीयावुक्तौ ।
१ 'उक्तः' इति पदं ख० पुस्तके नोपलभ्यते । २ तावतैवेति, क० तावता चेति ।
३ अतः, ख० ततः । ४ तद्वचनं, ख० ततस्तद्वचनम् । ५ पदमिदं ख० पुस्तके नोपल-
भ्यते । ६ पदमिदं ख० पुस्तके नोपलभ्यते । ७ पदमिदं क० पुस्तके नोपलभ्यते ।

६२ न्यायबिन्दुः
हेतो रूपमभेदेनोक्तं सामान्येन साधारणं कार्यस्वभावानुपलम्भा-
नामेतल्लक्षणमित्यर्थः । किं पुनस्तत्सपक्ष एव यत्सत्त्वं विपक्षाच्च सर्वस्मा-
द्व्यावृत्तिर्या रूपद्वयमेतदभेदेनोक्तम् । न च सामान्यमुक्तमपि शक्यं
ज्ञातुम् । अतस्तदेव विशेषनिष्ठं वक्तव्यम् । अतः पुनरपि विशेषेण
विशेषवन्तौ जन्मतन्मात्रानुबन्धौ दर्शनीयावुक्तौ । कार्यस्य जन्म ज्ञातव्य-
मुक्तम् । जन्मनि हि विज्ञाते कार्यस्य सपक्ष एव सत्त्वं विपक्षाच्च सर्व-
स्माद्व्यावृत्तिर्ज्ञाता भवति । स्वभावस्य तन्मात्रानुबन्धो दर्शनीय उक्तः ।
तदिति साधनं तदेव तन्मात्रं साधनमात्रं तस्यानुबन्धोऽनुगमनं साधन-
मात्रभावे भावः साध्यस्य । तन्मात्रभावित्वमेव हि साध्यस्य तादात्म्यम् ।
साधनस्य यदा स्वभावो ज्ञातो भवति तदा स्वभावहेतोः सपक्ष एव
सत्त्वं विपक्षाच्च सर्वस्माद्व्यावृत्तिर्ज्ञाता भवति । तदेवं सामान्यलक्षणं विशे-
षात्मकं ज्ञातव्यं नान्यथा । ततो विशेषलक्षणमुक्तम् ।
किमतो यदि नामैवमित्याह—
तच्च दर्शयता यत्र धूमस्तत्राग्निरसत्यग्नौ न क्वचिद्-
धूमो यथा महानसेतरयोः ।
तत्र सामान्यलक्षणे दर्शयितुकामेन विशेषलक्षणं दर्शयतैवं दर्शनी-
यमिति संबन्धः । यत्र धूमस्तत्राग्निरिति कार्यहेतोर्व्याप्तिर्दर्शिता । व्याप्तिश्च
कार्यकारणभावसाधनात्प्रमाणान्निश्चीयते । ततो यथा महानस इति दर्श-
नीयम् । असत्यग्नौ न भवत्येव धूम इति व्यतिरेको दर्शितः । स च
यथेतरस्मिन्निति दर्शनीयः । वह्निवृत्तिर्हि धूमनिवृत्तौ नियता दर्शनीया ।
सा च महानसादितरत्र दर्शनीया ।
यत्र कृतकत्वं तत्रानित्यत्वमनित्यत्वाभावे कृतक-
त्वासंभवो यथा घटाकाशयोरिति दर्शनीयम् ।
यत्र कृतकत्वं तत्रानित्यत्वमिति स्वभावहेतोर्व्याप्तिर्दर्शिता । अनि-
१ अभेदेनोक्तं, ख० उक्तमभेदेन । २ 'यत्' इति पदं ख० पुस्तके नोपलभ्यते ।
३ विज्ञाते, ख० ज्ञाते । ४ तस्य, ख० साधनमात्रस्य । ५ एवं, ख० एवं च । ६ इतरत्र,
क० इतरत्रेति ।

तृतीयपरिच्छेदः ६३
त्यताभावे न भवत्येव कृतकत्वमिति व्यतिरेको दर्शितः । व्याप्तेश्च
साधकं प्रमाणं साधर्म्यदृष्टान्ते दर्शनीयम् । प्रसिद्धव्याप्तिकस्य च हेतोः
साध्यनिवृत्तौ निवृत्तिर्दर्शनीया। तदवश्यं यथा घटे यथाकाशे चेति दर्शनीयम्।
कस्मादेवमित्याह—
न ह्यन्यथा सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे
शक्ये दर्शयितुम् ।
न हीति । यस्मादन्यथा सामान्यलक्षणरूपे सपक्षविपक्षयोः सद्-
सत्त्वे यथोक्तप्रकारे इति नियते । सपक्ष एव सत्त्वं विपक्षेऽसत्त्वमेवेति
नियमो यथोक्तप्रकारः । ते न शक्ये दर्शयितुम् । विशेषलक्षणे हि दर्शिते
यथोक्तप्रकारे सदसत्त्वे दर्शिते भवतः । न च विशेषलक्षणमन्यथा शक्यं
दर्शयितुम् ।
तत्कार्यतानियमः कार्यलिङ्गस्य स्वभावलिङ्गस्य च
स्वभावेन व्याप्तिः ।
तस्य साध्यस्य कार्यं तत्कार्यं धूमस्तस्य भावस्तत्कार्यता सैव नियमो
यतस्तत्कार्यतया धूमो दहने नियतः सोऽयं तत्कार्यतानियमो विशेषलक्ष-
णरूपोऽन्यथा दर्शयितुमशक्यः । स्वभावलिङ्गस्य च स्वभावेन साध्येन
व्याप्तिर्विशेषलक्षणरूपा न शक्या दर्शयितुम् । यस्मात्कार्यकारणभावस्ता-
दात्म्यं च महानसे घटे च ज्ञातव्यं तस्माद्व्याप्तिसाधनं प्रमाणं दर्शयता
साधर्म्य१दृष्टान्तो दर्शनीयः । वैधर्म्यदृष्टान्तस्तु प्रसिद्धे तत्कार्यत्वे कारणा-
भावे कार्याभावप्रतिपत्त्यर्थम् । तत एव नावश्यं वस्तु भवति । कारणा-
भावे कार्याभावो वस्तुन्यवस्तुनि वा भवति । ततो वस्त्ववस्तु वा वैध-
र्म्य३दृष्टान्त इष्यते । तस्माद् दृष्टान्तै४व्यतिरेकेण हेतो५रन्वयो व्यतिरेको वा न
शक्यो दर्शयितुम् । अतो हेतुरूपाख्यानादेव हेतोर्व्याप्तिसाधनस्य प्रमा-
णस्य दर्शकः साधर्म्यदृष्टान्तः । प्रसिद्धव्याप्तिकस्य साध्याभावे हेत्वभाव-
प्रदर्शनाद्वैधर्म्यदृष्टान्त उपादेय इति च दर्शितं भवति ।
———————————————————————
१ साधर्म्य० ख० साधम्र्यं । २ सदसत्त्वे, क० सदसत्त्वे २। ३ साधम्र्य०, ख०
साध्य० । ४ दृष्टान्तव्यतिरेकेण, ख० दृष्टान्तमन्तरेण । ५ हेतो......न, ख० न हेतो ।

६४ न्यायबिन्दुः
अस्मिंश्चार्थे दर्शिते दर्शित एव दृष्टान्तो भवति ।
अस्मिंश्चार्थे दर्शिते दर्शित एव दृष्टान्तो भवति ।
योऽयमर्थो व्याप्तिसाधनप्रमाणप्रदर्शिनः कश्चिदुपादेयो निवृत्तिप्रदर्श-
नश्चेत्यस्मिन्नर्थे प्रदर्शिते दर्शितो दृष्टान्त इत्याह—
एतावन्मात्ररूपत्वात्तस्येति ।
एतावन्मात्रं रूपं यस्य तस्य भावस्तत्त्वं तस्मादिति । एतावदेव
हि रूपं दृष्टान्तस्य । यदुत व्याप्तिसाधनप्रमाणदर्शनत्वं नाम साधर्म्यदृ-
ष्टान्तस्य प्रसिद्धव्याप्तिकस्य वा साध्यनिवृत्तौ साधननिवृत्तिप्रदर्शकत्वमि-
त्येतद्वैधर्म्यदृष्टान्तस्य । तच्च हेतुरूपाख्यानादेवाख्यातमिति किं दृष्टान्त-
लक्षणेन ।
एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति ।
एतेनैव च हेतुरूपाख्यानाद् दृष्टान्तत्वप्रदर्शनेन दृष्टान्तस्य दोषा दृष्टा-
न्ताभासाः कथिता भवन्ति । तथाहि । पूर्वोक्तसिद्धये य उपादीयमा-
नोऽपि दृष्टान्तो न समर्थः स्वकार्यं साधयितुं स दृष्टान्तदोष इति साम-
र्थ्यादुक्तं भवति ।
दृष्टान्ताभासानुदाहरति—
यथा-नित्यः शब्दोऽमूर्तत्वात् । कर्मवत्पर-
माणुवद्घटवदिति ।
यथेति । नित्यः शब्द इति । शब्दस्य नित्यत्वे साध्येऽमूर्तत्वादिति
हेतुः । साधर्म्येण कर्मवत्परमाणुवद्घटवदित्येते दृष्टान्ता उपन्यस्ताः ।
एते च दृष्टान्तदोषाः—
साध्यसाधनधर्मोभयविकलास्तथा संदिग्धसाध्य-
धर्मादयश्च ।
१ प्रदर्शनः, क० प्रदर्शिन, ख० दर्शकः । २ प्रदर्शिते, ख० दर्शिते । ३ ‘वैधर्म्यदृष्टा-
न्तस्य तत्’ इति पाठः ख० पुस्तके नोपलभ्यते । ४ दृष्टान्तस्य दोषाः, क० पुस्तकस्य
‘दोषा’ मलिनत्वेन न पठ्यते । ख० दृष्टान्तदोषा । ५ पदमिदं ख० पुस्तके नोपलभ्यते ।
६ उक्तं भवति, ख० इत्येतदुक्तं भवति । ७ शब्दस्य नित्यत्वे साध्ये, ख० नित्यत्वे
साध्ये शब्दस्य ।

तृतीयपरिच्छेदः ६५
साध्यं च साधनं चोभयं चेति त्रैविकलाः । साध्यविकलं कर्म
तस्यानित्यत्वात् । साधनविकलः परमाणुर्मूर्तत्वात्परमाणूनाम् । असर्व-
गतं द्रव्यपरिमाणं मूर्तिः । असर्वगताश्च द्रव्यरूपाश्च परमाणवः । नित्यास्तु
वैशेषिकैरिष्यन्ते । ततो न साध्यविकलः । घटस्तूभयविकलः । अनित्य-
त्वान्मूर्तत्वाच्च घटस्येति । तथा संदिग्धः साध्यधर्मो यस्मिन्स संदिग्ध-
साध्यधर्मः स आदिर्येषान्ते तथोक्ताः । संदिग्धसाध्यधर्मः । संदिग्धसा-
धनधर्मः । संदिग्धोभयः ।
उदाहरणम्—
यथा—रागादिमानयं वचनाद्रथ्यापुरुषवत् ।
रागादिमानिति रागादिमत्त्वं साध्यम् । वचनादिति हेतुः । रथ्यापु-
रुषवदिति दृष्टान्तः । रागादिमत्त्वं संदिग्धम् ।
मरणधर्मोऽयं पुरुषो रागादिमत्त्वादूथ्यापुरुषवत् ।
मरणं धर्मोऽस्येति मरणधर्मा तस्य भावो मरणधर्मत्वं साध्यम् ।
अयं पुरुष इति धर्मी । रागादिमत्त्वादिति हेतुः । रथ्यापुरुषे दृष्टान्ते
संदिग्धं साधनं साध्यं तु निश्चितं मरणधर्मत्वमिति ।
असर्वज्ञोऽयं रागादिमत्त्वाद्रथ्यापुरुषवदिति ।
असर्वज्ञ इति । असर्वज्ञत्वं साध्यम् । रागादिमत्त्वादिति हेतुः ।
तदुभयमपि रथ्यापुरुषे दृष्टान्ते संदिग्धम् । असर्वज्ञत्वं रागादिमत्त्वं चेति ।
अनन्वयोऽप्रदर्शितान्वयश्च ।
तथानन्वय इति। यस्मिन् दृष्टान्ते साध्यसाधनयोः संभवमात्रं दृश्यते
न तु साध्येन व्याप्तो हेतुः सोऽनन्वयः । अप्रदर्शितान्वयश्च यस्मिन् दृष्टान्ते
विद्यमानोऽप्यन्वयो न प्रदर्शितो वक्त्रा सोऽप्रदर्शितान्वयः ।
अनन्वयमुदाहरति ।
यथा—यो वक्ता स रागादिमानिष्टपुरुषवत् ।
यथेति । यो वक्तेति वक्तृत्वमनूद्य स रागादिमानिति रागादिमत्त्वं¹
१ रागादिमत्त्वं, क० रागादिमत्त्वे ।

विहितम् । ततो वक्तृत्वस्य रागादिमत्त्वं विहितम् । ततो वक्तृत्वस्य रागा-
दिमत्त्वं प्रति नियमस्तेन व्याप्तिरुक्ता । इष्टपुरुषवदिति । इष्टग्रहणेन
प्रतिवाद्यपि गृह्यते वाद्यपि । तेन वक्तृत्वरागादिमत्त्वयोः सत्त्वमात्रमिष्टे
पुरुषे सिद्धम् । व्याप्तिस्तु न सिद्धा । तेनानन्वयो दृष्टान्त इति ।
अनित्यः शब्दः कृतकत्वाद्धटवदिति ।
अनित्यः शब्द इत्यनित्यत्वं साध्यम् । कृतकत्वादिति हेतुः । घट-
वदित्यत्र दृष्टान्तेन प्रदर्शितोऽन्वयः । इह यद्यपि कृतकत्वेन घटसदृशः
शब्दस्तथापि नानित्यत्वेनापि सदृशः प्रत्येतुं शक्योऽतिप्रसङ्गात् । यदि
तु कृतकत्वमनित्यत्वस्वभावं विज्ञातं भवेत्येवं कृतकत्वादनित्यत्वप्रतीतिः
स्यात् । तस्माद्यत्कृतकं तदनित्यमिति । कृतकत्वमनित्यत्वनियतमभिधाय
नियमसाधनायान्वयवाक्यार्थप्रतिपत्तिविषयो दृष्टान्त उपादेयः । स च प्रदर्शि-
तान्वय एव । अनेन त्वन्वयवाक्यमनुक्त्वैव दृष्टान्त उपात्तः । ईदृशश्च
साधर्म्यमात्रेणैवोपयोगी । न च साधर्म्यात्साध्यसिद्धिः । अतोऽन्वयार्थो
दृष्टान्तस्तदर्थश्वानेन नोपात्तः । साधर्म्यार्थश्चोपात्तो निरुपयोग इति
वक्तृदोषादयं दृष्टान्तदोषः । वक्त्रा ह्यत्र परः प्रतिपादयितव्यः । ततो
यदि नाम न दुष्टं वस्तु तथापि वक्त्रा दुष्टं दर्शितमिति दुष्टमेव ।
तथा विपरीतान्वयः ।
तथा विपरीताऽन्वयो यस्मिन् दृष्टान्ते स तथोक्तः ।
तमेवोदाहरति—
यदनित्यं तत्कृतकम् ।
यदनित्यं तत्कृतकमिति । कृतकत्वमनित्यत्वनियतं दृष्टान्ते दर्शनीयम् ।
एवं कृतकत्वादनित्यत्वगतिः स्यात् । अत्र त्वनित्यत्वं कृतकत्वे नियतं
दर्शितम् । कृतकत्वं त्वनियतमेवानित्यत्वे । ततो यादृशमिह कृतकत्वम-
नियतमनित्यत्वे प्रदर्शितं तादृशान्नास्त्यनित्यत्वप्रतीतिः । तथा हि । यद्-
१ गृह्यते, ख० संगृह्यते । २ वाद्यपि, क० विहायि । ३ 'अत्र' इति पदं ख० पुस्तके
नोपलभ्यते । ४ शक्यः, ख० शक्यते । ५ अनित्यत्व० ख० अनित्य । ६ अनित्यत्व०,
ख० अनित्यत्वे ।

तृतीयपरिच्छेदः ६७
नित्यमित्यनित्यत्वमनूद्य तत्कृतकमिति कृतकत्वं विहितम् । अतोऽनित्यत्वं
नियतमुक्तं कृतकत्वे न तु कृतकत्वमनित्यत्वे । ततो यथानित्यत्वादनियता-
त्प्रयत्नानन्तरीयकत्वेन प्रयत्नानन्तरीयकत्वप्रतीतिस्तद्वत्कृतकत्वाद नित्यत्वप्रति-
पत्तिर्न स्यात् । अनित्यत्वेऽनियतत्वात्कृतकत्वस्य । यद्यपि च कृतकत्वं
वस्तुस्थित्या नित्यत्वे नियतं तथाप्यनियतं¹ वक्त्रा दर्शितम् । अतस्तत्स्व-
यं न दुष्टमपि वक्तु²र्दोषाद्दुष्टम् । तस्माद्विपरीतान्वयोऽपि वक्तुरपराधान्न
वस्तुतः । परार्थानुमाने च वक्तुरपि दोषश्चिन्त्यते ।
इति साधर्म्येण ।
इति साधर्म्येण नव³ दृष्टान्तदोषा उक्ताः ।
वैधर्म्येणापि⁴ नव⁵ दृष्टान्तदोषान् वक्तुर्माह⁶—
वैधर्म्येणापि परमाणुवत्कर्मवदाकाशवदिति साध्या-
द्यव्यतिरेकिणः ।
नित्यत्वे शब्दस्य साध्ये हेतावमूर्तत्वे परमाणुवद्वैधर्म्यदृष्टान्तः⁷ ।
साध्याव्यतिरेकी नित्यत्वात्परमाणूनाम् । कर्म साधनाव्यतिरेकि । अमूर्त-
त्वात्कर्मणः । आकाशमुभयाव्यतिरेकि । नित्यत्वादमूर्तत्वाच्च । साध्यमादि-
र्येषां तानि साध्यादीनि साध्यसाधनोभयानि तेषामव्यतिरेको वृत्त्यभावः⁸
स येषामस्ति ते साध्याद्यव्यतिरेकिणः । ते चोदाहृताः ।
अपरानुदाहर्तुमाह—
तथा संदिग्धसाध्यव्यतिरेकादयः ।
तथेति । साध्यस्य व्यतिरेकः साध्यव्यतिरेकः संदिग्धः साध्यव्यति-
रेको यस्मिन् स संदिग्धसाध्यव्यतिरेकः स आदिर्येषां ते तथोक्ताः ।
संदिग्धसाध्यव्यतिरेकमुदाहर्तुमाह—
यथाऽसर्वज्ञाः कपिलादयोऽनाप्ता वा । अविद्यमान-
१ 'तथाप्यनियतं' इति पाठः क० पुस्तके नोपलभ्यते । २ वक्तुर्दोषात्, क० वक्तु
दोषात्, ख० वक्तृदोषात् । ३ नव दृष्टान्त०, ख० तद्दृष्टान्त० । ४ मुद्रितपुस्तके
'द्वैधर्म्येण' । ५ पदमिदं ख० पुस्तके नोपलभ्यते । ६ वक्तुमाह, ख० वक्तुकाम आह ।
७ परमाणुवत्, ख० परमाणु० । ८ वृत्त्यभावः, ख० निवृत्त्यभावः (अशुद्धः) । ९ 'यथा-
ऽसर्वज्ञाः' इति पाठोऽस्माकं सम्मतौ । मुद्रितपुस्तके तु 'यथा सर्वज्ञाः' इति पाठ एव ।
१३ न्या०

६८ न्यायबिन्दुः
सर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासनत्वादिति ।
यथेति । असर्वज्ञा इत्येकं साध्यम् । अनाप्ता अक्षीणदोषा इति
द्वितीयम् । कपिलादय इति धर्मी । अविद्यमानसर्वज्ञतेत्यादिहेतुः । सर्वज्ञता
चाप्तता च तयोर्लिङ्गभूतः प्रमाणातिशयो लिङ्गात्मकः प्रमाणविशेषः ।
अविद्यमानः सर्वज्ञताप्ततालिङ्गभूतः प्रमाणातिशयो यस्मिंस्तत्तथोक्तं शासनम् ।
तादृशं शासनं येषां ते तथोक्तास्तेषां भावस्तत्त्वं तस्मात्प्रमाणातिशयो
ज्योतिर्ज्ञानोपदेश इहाभिप्रेतः । यदि हि कपिलादयः सर्वज्ञा आप्ता वा
स्युस्तदा ज्योतिर्ज्ञानादिकं कस्मान्नोपदिष्टवन्तः । न चोपदिष्टवन्तः ।
तस्मान्न सर्वज्ञा आप्ता वा ।
अत्र प्रमाणे वैधर्म्योदाहरणम्—
अत्र वैधर्म्योदाहरणं यः सर्वज्ञ आप्तो वा स
ज्योतिर्ज्ञानादिकमुपदिष्टवान् ।
यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकं सर्वज्ञताप्ततालिङ्गभूतमुप-
दिष्टवान् ।
तद्यथा । १ऋषभ२वर्धमानादिरिति ।
यथा ऋषभो वर्धमानश्च तावादौ यस्य स ऋषभवर्धमानादिर्दिगम्ब-
राणां शास्ता सर्वज्ञ आप्तश्चेति ।
तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः संदिग्धो व्यतिरेकः ।
तदिह वैधर्म्योदाहरणादृषभादेरसर्वज्ञत्वस्यानाप्ततायाश्च व्यतिरेको
व्यावृत्तिः संदिग्धा । यतो ज्योतिर्ज्ञानं चोपदेशेदसर्वज्ञश्च भवेद्नाप्तो वा ।
कोऽत्र विरोधः । नैमित्तिकमेतज्ज्ञानं व्यभिचारि न सर्वज्ञत्वमनुमापयेत् ।
संदिग्धसाधनव्यतिरेकः ।
संदिग्धः साधनव्यतिरेको यस्मिन्स तथोक्तः ।
१ जैनानां चतुर्विंशतितीर्थंकरमध्ये प्रथमस्तीर्थंकरः । २ तेषामेवान्तिमः । यश्च
‘महावीरः’ इत्यभिख्यामपि लभते । ३ ‘दिगम्बरः’ जैनानां सम्प्रदायविशेषोऽस्ति । यद्यपि
चतुर्विंशतिरेव तीर्थंकराः श्वेताम्बरादिभिरपि मन्यन्ते तथापि ‘ग्रन्थकर्तृसमये न
श्वेताम्बरास्सर्वसाधारणैर्ज्ञायन्ते स्म’ इत्यपि कथितुं शक्नुवन्ति ।

तमुदाहरति—
यथा—न त्रयीविदा ब्राह्मणेन ग्राह्यवचनः कश्चित्पु-
रुषो रागादिमत्त्वादिति ।
यथेति । ऋक्सामयजूंषि त्रीणि त्रयी तां वेत्ति त्रयीवित् । तेन न
ग्राह्यं वचनं यस्येति साध्यम् । विवक्षित इति कपिलादिर्धर्मी । रागादि-
मत्त्वादिति हेतुः ।
अत्र वैधर्म्योदाहरणम् ।
अत्र प्रमाणे वैधर्म्योदाहरणम् । साध्याभावः साधनाभावेन व्याप्तो
यत्र दृश्यते तद्वैधर्म्योदाहरणम् ।
ये ग्राह्यवचना न ते रागादिमन्तस्तद्यथा गौतमा-
दयो धर्मशास्त्राणां प्रणेतार इति गौतमादिभ्यो रागादि-
मत्त्वस्य साधनधर्मस्य व्यावृत्तिः ।
ग्राह्यं वचनं येषां ते ग्राह्यवचना इति साध्यनिवृत्तिमनूद्य न ते
रागादिमन्त इति साधनाभावो विहितः । गौतम आदिर्येषां ते तथोक्ता
मन्वादयो धर्मशास्त्राणि स्मृतयस्तेषां कर्तारः । त्रयीविदा हि ब्राह्मणेन
ग्राह्यवचना धर्मशास्त्रकृतो वीतरागाश्च । त इति धर्मी । व्यतिरेकविषयो
गौतमादय इति गौतमादिभ्यो रागादिमत्त्वस्य साधनस्य निवृत्तिः संदिग्धा ।
यद्यपि ते ग्राह्यवचनास्त्रयीविदा तथापि किं सरागा उत वीतरागा इति
संदेहः ।
संदिग्धासंदिग्धोभयव्यतिरेकः ।
सन्दिग्ध उभयोर्व्यतिरेको यस्मिन् स तथोक्तः ।
तमुदाहरति—
यथाऽवीतरागाः कपिलादयः परिग्रहाग्रहयोगादिति ।
यथेति । अवीतरागा इति रागादिमत्त्वं साध्यम् । कपिलादय इति
१ व्याप्तो यत्र, ख० यत्र व्याप्तः । २ रागादि०, ख० रोगादि० । ३ त इति, ख०
त इतीह । ४ त्रयीविदा, ख० त्रयीविदः ।

१००न्यायबिन्दुः

धर्मी । परिग्रहो लभ्यमानस्य स्वीकारः प्रथमः । स्वीकारादूर्ध्वं यद्दार्व्यं
मात्सर्यं स आग्रहः । परिग्रहश्चाग्रहश्च ताभ्यां योगात् । कपिलादयो
लभ्यमानं स्वीकुर्वन्ति स्वीकृतं न मुञ्चन्तीति ते रागादिमन्तो गम्यन्ते ।
अत्र वैधम्र्येणोदाहरणम् ।
अत्र प्रमाणे वैधम्र्योदाहरणम् । यत्र साध्याभावे साधनाभावो
दर्शयितव्यः ।
यो वीतरागो न तस्य परिग्रहाग्रहो यथा-ऋषभा-
देरिति । ऋषभादेर्वीतरागत्वपरिग्रहाग्रहयोगयोः साध्य-
साधनधर्मयोः संदिग्धो व्यतिरेकः ।
यो वीतराग इति साध्याभावमनूद्य न तस्य परिग्रहाग्रहाविति
साधनाभावो विहितः । यथा ऋषभादेरिति दृष्टान्तः । एतस्मादृषभादे-
र्दृष्टान्ताद्वीतरागत्वस्य साध्यस्य परिग्रहाग्रहयोगंस्य च साधनस्य निवृत्तिः
संदिग्धा । ऋषभादीनां हि परिग्रहाग्रहयोगोऽपि संदिग्धो वीतरागत्वं
च । यदि नाम तत्सिद्धान्ते वीतरागाश्च निष्परिग्रहाश्च पठ्यन्ते तथापि
संदेह एव ।
अपरानपि त्रीनुदाहर्तुमाह—
अव्यतिरेको यथाऽवीतरागो वक्तृत्वात् ।
अविद्यमानोऽव्यतिरेको यस्मिन् सोऽव्यतिरेकः । अवीतराग इति
रागादिमत्त्वं साध्यम् । वक्तृत्वादिति हेतुः ।
इह व्यतिरेकमाह—
वैधम्र्योदाहरणं यत्र वीतरागत्वं नास्ति स वक्ता
यथोपलखण्ड इति । यद्यप्युपलखण्डादुभयं
व्यावृत्तथा सर्वो वीतरागो न वक्तेति
व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकः ।
यत्रावीतरागत्वं नास्तीति साध्याभावानुवादः । तत्र वक्तृत्वमपि


१ ० योगस्य, क० योगस्त्वस्य ।

नास्तीति साधनाभावविधिः । तेन साधनाभावेन साध्याभावो व्याप्त
उक्तः । दृष्टान्तो यथोपलखण्डेति । कथमयमव्यतिरेको यावतोपलखण्डा-
दुभयं निवृत्तम् । किमतो यद्युपलखण्डादुभयं व्यावृत्तं सरागत्वं च वक्तृत्वं
च तथापि व्याप्त्या व्यतिरेको यस्तस्यासिद्धेः कारणाद्व्यतिरेकोऽयम् ।
कीदृशी पुनर्व्याप्तिरित्याह । सर्वो वीतराग इति साध्याभावानुवादः । न
वक्तेति साधनाभावविधिः । तेन साध्याभावः साधनाभावनियतः ख्यापितो
भवतीति । ईदृशी व्याप्तिस्तया व्यतिरेको न सिद्धोऽस्य चार्थस्य
प्रसिद्धये दृष्टान्तस्तत्स्वकार्यकरणाद्दुष्टः ।
अप्रदर्शितव्यतिरेको यथा-अनित्यः शब्दः कृतकत्वा-
दाकाशवदिति ।
अप्रदर्शितो व्यतिरेको यस्मिन् स तथोक्तः । अनित्यः शब्द इत्यनि-
त्यत्वं साध्यम् । कृतकत्वादिति हेतुः । आकाशवदिति वैधर्म्येण दृष्टान्तः ।
इह परार्थानुमाने परस्मादर्थः प्रतिपत्तव्यः । स शुद्धोऽपि स्वतो यदि
परेणाशुद्धः ख्याप्यते । स तावद्यथा प्रकाशितस्तथा न युक्तो यथा युक्त-
स्तथा न प्रकाशितः । प्रकाशितश्च हेतुः । अतो वक्तुरपराधादपि परार्था-
नुमाने हेतुर्दृष्टान्तो वा दुष्टः स्यादपि । न च सादृश्यादसादृश्याद्वा साध्य-
प्रतिपत्तिरपि तु साध्यनियताद्धेतोः । अतः साध्यनियतो हेतुरन्वयवाक्येन
व्यतिरेकवाक्येन च वक्तव्यः । अन्यथा गमको नोक्तः स्यात् । स
तथोक्तो दृष्टान्तेन सिद्धो दर्शयितव्यः । तस्माद्दृष्टान्तो नामान्वयव्यतिरेक-
वाक्यार्थप्रदर्शनः । न चेह व्यतिरेकवाक्यं प्रयुक्तम् । अतो वैधर्म्यदृष्टान्त
इहासादृश्यभावेन साधक उपन्यस्तः । न च तथा साधको व्यतिरेक-
विषयत्वेन । स साधको न च तथोपन्यस्त इति । अतोऽप्रदर्शितव्यतिरेको
वक्तुरपराधाद्दुष्टः ।
वैधर्म्येणापि विपरीतव्यतिरेको यथा-यदकृतकं
तन्नित्यं भवतीति ।
१ ख्यापितः, क० स्थापितः । २ 'इति' इति पदं ख० पुस्तके नोपलभ्यते ।
३ दृष्टान्तेन सिद्धः, ख० दृष्टान्तेनासिद्धः । ४ अतः, ख० अयं ।

१०२ न्यायबिन्दुः
विपरीतो व्यतिरेको यस्मिन् वैधर्म्यदृष्टान्ते स तथोक्तः । तमुदा-
हरति । यदकृतकमित्यादि । इहान्वयव्यतिरेकवाक्याभ्यां साध्यनियतो
हेतुर्दर्शयितव्यः । यदा च साध्यनियतो हेतुर्दर्शयितव्यस्तदा व्यतिरेक-
वाक्ये साध्याभावः साधनाभावे नियतो दर्शयितव्यः । एवं हि हेतुः
साध्यनियतो दर्शितः स्यात् । यदि तु साध्याभावः साधनाभावे नियतो
नाख्यायते साधनसत्तायामपि साध्याभावः संभाव्येते^१ । तथा च साधनं
साध्यनियतं न प्रतीयेते^२ । तस्मात्साध्याभावः साधनाभावे नियतो
वक्तव्यः । विपरीतव्यतिरेके च साधनाभावः साध्याभावे नियत उच्यते ।
न साध्याभावः साधनाभावे । तथा हि । यदकृतकमिति साधनाभावमनूद्य
तन्नित्यमिति साध्याभावविधिः । ततोऽयमर्थः । अकृतको नित्य एव ।
तथा च सत्यकृतकत्वं नित्यत्वे साध्याभावे नियतमुक्तं न नित्यत्वं साधना-
भावे । ततो न साध्यनियतं हेतुं व्यतिरेकवाक्यमाह । तथा च विपरीत-
व्यतिरेकोऽपि वक्तुरपराधाद्दुष्टः ।
दृष्टान्तदोषानुदाहृत्य दुष्टत्वनिबन्धनत्वं दर्शयितुमाह—
न ह्येभिर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं सपक्ष एव
सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव निश्चयेन शक्यं दर्शयितुं
विशेषलक्षणं वा ।
न ह्येभिरिति । साध्यनियतहेतुप्रदर्शनाय^३ दृष्टान्ता वक्तव्याः । एभिश्च
हेतोः सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव यत्सामान्यलक्षणं
तन्निश्चयेन न शक्यं दर्शयितुम् । ननु च सामान्यलक्षणं विशेषनिष्ठमेव
प्रतिपत्तव्यं न स्वत एवेत्याह । विशेषलक्षणं वा । यदि विशेषलक्षणं प्रति-
पादयितुं शक्येत । स्यादेव सामान्यलक्षणप्रतिपत्तिः । विशेषलक्षणमेव तु
न शक्यमेभिः प्रतिपादयितुम् ।
तदर्थापत्त्यैषां निरासो वेदितव्यः ।
तस्मादर्थापत्त्या सामर्थ्येनेति^४ तेषां निराकरणं द्रष्टव्यम् । साध्य-


१ ख० संभाव्यते । २ ख० प्रतीयते । ३ क० प्रदर्शनाय, ख० प्रदर्शना हि । ४ मुद्रित
पुस्तके 'इति न तेषां' इति पाठोऽस्ति । किन्त्वस्माकं सम्मतौ 'न' इति पदं नात्र युज्यते।