सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 121, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 121

तृतीयपरिच्छेदः ८३
तदाह—
सात्मकत्वेन निरात्मकत्वेन वा प्रसिद्धे प्राणादेरसिद्धिः ।
सात्मकत्वेनानात्मकत्वेन वा विशेषेण युक्ते प्रसिद्धे निश्चिते वस्तुनि
प्राणादेर्धर्मस्यासिद्धेरनैकान्तिकोऽनिश्चितत्वात् । तदेवमसाधारणस्य धर्म-
स्यानैकान्तिकत्वे कारणद्वयमभिहितम् । पक्षधर्मश्च भवन्सर्वः साधारणोऽ-
साधारणो वा भवत्यनैकान्तिकः ।
तस्मादुपसंहारव्याजेन पक्षधर्मत्वं दर्शयति—
तस्माज्जीवच्छरीरसम्बन्धी प्राणादिः ।
तस्मादित्यादिना जीवच्छरीरस्य सम्बन्धी पक्षधर्म इत्यर्थः । यस्मा-
त्तयोरेकत्रापि न निवृत्तिनिश्चयस्तस्मात्ताभ्यां न व्यतिरिच्यते ।
वस्तुधर्मो हि सर्ववस्तुव्यापिनोः प्रकारयोरेकत्र नियतसद्भावो निश्चितः
प्रकारान्तरात्निवर्तेत । तत एवाह—
सात्मकादनात्मकाच्च सर्वस्माद्व्यावृत्तत्वेनासिद्धेः ।
सात्मकादनात्मकाच्च सर्वस्माद्वस्तुनो व्यावृत्तत्वेनासिद्धेरिति । प्राणा-
दिस्तावत्कुतश्चिद्घटादेर्निवृत्त एव । ततः एतावदवसातुं शक्यं सात्मकाद्-
नात्मकाद्वा कियतो निवृत्तः । सर्वस्मात्तु निवृत्तो नावसीयते । ततो न
कुतश्चिद्व्यतिरेकः ।
यद्येवमन्वयोऽस्तु तयोर्निश्चित इत्याह—
ताभ्यां न व्यतिरिच्यते न तत्रान्वेति ।
न तत्र सात्मकेऽनात्मके वार्थेऽन्वेत्यन्वयवान्प्राणादिः ।
कुत इत्याह—
एकात्मन्यप्यसिद्धेः ।
एकात्मनि सात्मकेऽनात्मके वासिद्धेः कारणात् । वस्तुधर्मतया
तयोर्द्वयोरेकत्र वा वर्तते इत्यवसितः प्राणादिर्न तु सात्मक एव निरात्मक
एव वा वर्तत इति कुतोऽन्वयनिश्चयः ।
१ भवन्सर्वः, क० भवत् सर्वः ।