न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 131, कुल 176 में से
संदर्भ में पढ़ेंतृतीयपरिच्छेदः ६३
त्यताभावे न भवत्येव कृतकत्वमिति व्यतिरेको दर्शितः । व्याप्तेश्च
साधकं प्रमाणं साधर्म्यदृष्टान्ते दर्शनीयम् । प्रसिद्धव्याप्तिकस्य च हेतोः
साध्यनिवृत्तौ निवृत्तिर्दर्शनीया। तदवश्यं यथा घटे यथाकाशे चेति दर्शनीयम्।
कस्मादेवमित्याह—
न ह्यन्यथा सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे
शक्ये दर्शयितुम् ।
न हीति । यस्मादन्यथा सामान्यलक्षणरूपे सपक्षविपक्षयोः सद्-
सत्त्वे यथोक्तप्रकारे इति नियते । सपक्ष एव सत्त्वं विपक्षेऽसत्त्वमेवेति
नियमो यथोक्तप्रकारः । ते न शक्ये दर्शयितुम् । विशेषलक्षणे हि दर्शिते
यथोक्तप्रकारे सदसत्त्वे दर्शिते भवतः । न च विशेषलक्षणमन्यथा शक्यं
दर्शयितुम् ।
तत्कार्यतानियमः कार्यलिङ्गस्य स्वभावलिङ्गस्य च
स्वभावेन व्याप्तिः ।
तस्य साध्यस्य कार्यं तत्कार्यं धूमस्तस्य भावस्तत्कार्यता सैव नियमो
यतस्तत्कार्यतया धूमो दहने नियतः सोऽयं तत्कार्यतानियमो विशेषलक्ष-
णरूपोऽन्यथा दर्शयितुमशक्यः । स्वभावलिङ्गस्य च स्वभावेन साध्येन
व्याप्तिर्विशेषलक्षणरूपा न शक्या दर्शयितुम् । यस्मात्कार्यकारणभावस्ता-
दात्म्यं च महानसे घटे च ज्ञातव्यं तस्माद्व्याप्तिसाधनं प्रमाणं दर्शयता
साधर्म्य१दृष्टान्तो दर्शनीयः । वैधर्म्यदृष्टान्तस्तु प्रसिद्धे तत्कार्यत्वे कारणा-
भावे कार्याभावप्रतिपत्त्यर्थम् । तत एव नावश्यं वस्तु भवति । कारणा-
भावे कार्याभावो वस्तुन्यवस्तुनि वा भवति । ततो वस्त्ववस्तु वा वैध-
र्म्य३दृष्टान्त इष्यते । तस्माद् दृष्टान्तै४व्यतिरेकेण हेतो५रन्वयो व्यतिरेको वा न
शक्यो दर्शयितुम् । अतो हेतुरूपाख्यानादेव हेतोर्व्याप्तिसाधनस्य प्रमा-
णस्य दर्शकः साधर्म्यदृष्टान्तः । प्रसिद्धव्याप्तिकस्य साध्याभावे हेत्वभाव-
प्रदर्शनाद्वैधर्म्यदृष्टान्त उपादेय इति च दर्शितं भवति ।
———————————————————————
१ साधर्म्य० ख० साधम्र्यं । २ सदसत्त्वे, क० सदसत्त्वे २। ३ साधम्र्य०, ख०
साध्य० । ४ दृष्टान्तव्यतिरेकेण, ख० दृष्टान्तमन्तरेण । ५ हेतो......न, ख० न हेतो ।