मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
तृतीयाऽङ्कः । ५१
राजा—सखे, पश्य ।
आर्द्रालक्तकमस्याश्चरणं मुखमारुतेन वीजयितुम् ।
प्रतिपन्नः प्रथमतरः संप्रति सेवावकाशो मे ॥ १३ ॥
विदूषकः—१कुदो दे अणुसओ । चिरं भवदा एदं कमेण अ-
णुहविदव्वं ।
बकुलावलिका—२सेहि, अरुणसदपत्तं विअ सोहदि दे च-
रणं । सबहा भत्तुणो अङ्कपरिवट्टिणी होहि ।
(इरावती निपुणिकामपेक्षते ।)
राजा—ममेयमाशीः ।
मालविका—३मा अवअणीअं मन्तेहि ।
बकुलावलिका—४मए मन्तइदव्वं एव्व मन्तिदं ।
मालविका—५पिआ खु अहं तव ।
बकुलावलिका—६ण केवलं मह ।
मालविका—७कस्स खु अण्णस्स ।
१. कुतस्तेऽनुशयः । चिरं भवता एतत्क्रमेणानुभवितव्यम् ।
२. सखि, अरुणशतपत्रमिव शोभते ते चरणम् । सर्वथा भर्तुरङ्कपरि-
वर्तिनी भव ।
३. मा अवचनीयं मन्त्रयस्व ।
४. मया मन्त्रयितव्यमेव मन्त्रितम् ।
५. प्रिया खल्वहं तव ।
६. न केवलं मम ।
७. कस्य खल्वन्यस्य ।
स्तो लम्भयितव्यः । अथवा प्रवातमेतत्स्थानम् ॥ आर्द्रालक्तकमित्यादि ।
मुखमारुतेन वीजयितुं शोषयितुं प्रथमसरो मुख्यतरः प्रतिपन्नः प्राप्तः ॥ कुत-
स्तेऽनुशयः । चिरं भवता एतत्क्रमेणानुभवितव्यम् ॥ सखि, अरुणशतपत्रमिव
शोभते ते चरणम् । सर्वथा भर्तुरङ्कपरिवर्तिनी भव ॥ मा अवचनीयं मन्त्रयस्व ॥
मया मन्त्रयितव्यमेव मन्त्रितम् ॥ प्रिया खल्वहं तव ॥ न केवलं मम ॥ कस्य खल्व-
५२ मालविकाग्निमित्रे
बकुलावलिका—^१गुणेसु अहिणिवेसणो भत्तुणो वि ।
मालविका—^२अलीअं मन्तेसि । एदं एव्व मइ णत्थि ।
बकुलावलिका—^३सच्चं तुइ णत्थि । भत्तुणो किसेसु वरपण्डुरेसु
दीसइ अङ्गेसु
निपुणिका—^४पुढमं गुणिदं विअ हदासाए उत्तरं ।
बकुलावलिका—^५अणुराओ अणुराएण पच्छेइव्वो त्ति सुअ-
णवअणं पमाणीकरेहि ।
मालविका—^६किं अत्तणो छन्देण मन्तेसि ।
बकुलावलिका—^७णहि णहि । भत्तुणो खु एदाई पणअमिदु-
आईं अक्खराई वत्तन्तरिदाई ।
मालविका—^८हला, देविं चिन्तित्र ण मे हिअअं विस्ससदि ।
बकुलावलिका—^९मुद्धे, भमरसंपादो भविस्सदित्ति वसन्तावदा-
रसस्र्वस्सं किं ण चूदप्पसवो ओदंसिदव्वो ।
१. गुणेष्वभिनिवेशिनो भर्तुरपि ।
२. अलीकं मन्त्रयसे । एतदेव मयि नास्ति ।
३. सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु ।
४. प्रथमं गुणितमिव हताशाया उत्तरम् ।
५. अनुरागोऽनुरागेण प्रष्टेष्टव्य इति सुजनवचनं प्रमाणीकुरु ।
६. किमात्मनश्छन्देन मन्त्रयसे ।
७. नहि नहि । भर्तुः खल्वेतानि प्रणयमृदुकान्यक्षराणि वक्त्रान्तरितानि ।
८. सखि, देवीं चिन्तयित्वा न मे हृदयं विश्वसिति ।
९. मुग्धे, भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न चूत-
प्रसवोऽवतंसितव्यः ।
न्यास ॥ गुणेष्वभिनिवेशिनो भर्तुरपि ॥ अलीकं मन्त्रयसे । एतदेव मयि नास्ति ॥
सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु ॥ प्रथमं गुणितमिव
हताशाया उत्तरम् ॥ अनुरागोऽनुरागेण प्रत्येष्टव्य इति सुजनवचनं प्रमाणीकुरु ॥
किमात्मनश्छन्देन मन्त्रयसे ॥ नहि नहि । भर्तुः खल्वेतानि प्रणयमृदुकान्यक्ष-
राणि वक्त्रान्तरितानि ॥ सखि, देवीं चिन्तयित्वा न मे हृदयं विश्वसिति ॥ मुग्धे,
भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न ... ॥
तृतीयोऽङ्कः । ५३
मालविका—तुमं दाव दुज्जादे अच्चंतं सहाया होहि ।
बकुलावलिका—विमद्देसुरही बउलावलिआ खु अहं ।
राजा—साधु बकुलावलिके, साधु ।
भावज्ञानानन्तरं प्रस्तुतेन
प्रत्याख्याने दत्तयुक्तोत्तरेण ।
वाक्येनेयं स्थापिता स्वे निदेशे
स्थाने प्राणाः कामिनां दूत्यधीनाः ॥ १४ ॥
इरावती—पेक्ख । कारिदं एव्व बउलावलिआए एदं पदं
मालविआए ।
निपुणिका—भट्टिणि, अहिआरस्स उइदो उवदेसो ।
इरावती—ठाणे खु संकिदं मे हिअअं । गहीदत्था अणन्तरं
चिन्तइस्सं ।
बकुलावलिका—एसो दुदीओवि दे णिव्वुत्तपरिकम्मा चलणो ।
जाव णं सणूउरं करेमि । (इति नाट्येन नूपुरयुगलमामुच्य ।) हला, उ-
ट्ठेहि । असोअविआसइत्तअं देवीए णिओअं अणुचिट्ठ ।
(उभे उत्तिष्ठतः ।)
१. त्वं तावद्दुर्जातेऽत्यन्तं सहाया भव ।
२. विमर्दसुरभिर्बकुलावलिका खल्वहम् ।
३. पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः ।
४. भट्टिनि, अधिकारस्योचित उपदेशः ।
५. स्थाने खलु शङ्कितं मे हृदयम् । गृहीतार्थानन्तरं चिन्तयिष्यामि ।
६. एष द्वितीयोऽपि ते निर्वृत्तपरिकर्मा चरणः । यावदेनं सनूपुरं क-
रोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोगमनुतिष्ठ ।
त्वं तावद्दुर्जाते दुःखेऽत्यन्तं सहाया भव । 'दुर्वातं व्यसने क्लीबमसम्यग्जात-
वस्तुनि' इति केशवस्वामी ॥ विमर्दसुरभिर्बकुलावलिका खल्वहम् ॥ भावज्ञाने-
त्यादि । स्पष्टोऽर्थः ॥ पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः ॥
भट्टिनि, अधिकारस्योचित उपदेशः । स्थाने खलु शङ्कितं मे हृदयम् । गृही-
तार्थानन्तरं चिन्तयिष्यामि । एष द्वितीयोऽपि ते निर्वृत्तपरिकर्मा चरणः । या-
वदेनं सनूपुरं करोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोग-
५४ मालविकाग्निमित्रे
इरावती—सुदो देवीए णिओओ। होदु दाणिं।
बकुलावलिका—एसो उवारूढराओ उअभोअक्खमो पुर
दे वट्टइ।
मालविका—(सहर्षम्।) किं भट्टा।
बकुलावलिका—(सस्मितम्।) ण दाव भट्टा। एसो असोअस
हावलम्बि पल्लवगुच्छओ। ओदंसेहि णं।
विदूषकः—सुदं भवदा।
राजा—सखे, पर्याप्तमेतावता कामिनाम्।
अनातुरोत्कण्ठितयोः प्रसिध्यता
समागमेनापि रतिर्न मां प्रति।
परस्परप्राप्तिनिराशयोर्र्वरं
शरीरनाशोऽपि समानुरागयोः ॥ १५ ॥
(मालविका रचितपल्लवावतंसा पादमशोकाय प्रहिणोति।)
राजा—वयस्य,
आदाय कर्णकिसलयमसादियमत्र चरणमर्पयति।
उभयोः सदृशविनिमयादात्मानं वञ्चितं मन्ये ॥ १६ ॥
१. श्रुतो देव्या नियोगः। भवत्विदानीम्।
२. एष उपारूढराग उपभोगक्षमः पुरतस्ते वर्तते।
३. किं भर्ता !
४. न तावद्भर्ता। एषोऽशोकशाखावलम्बी पल्लवगुच्छः। अवतं
सयैनम्।
५. श्रुतं भवता।
मनुतिष्ठ ॥ श्रुतो देव्या नियोगः। भवत्विदानीम् ॥ एष उपारूढराग उपभोगक्षम
पुरतस्ते वर्तते ॥ किं भर्ता ॥ न तावद्भर्ता। एषोऽशोकशाखावलम्बी पल्लवगुच्छः।
अवतंसयैनम् ॥ श्रुतं भवता ॥ अनातुरेत्यादि। अनातुरोत्कण्ठितयोः। अना
तुरोऽनार्तः। उत्कण्ठितः कामोत्कण्ठित इत्यर्थः। प्रसिध्यता संभवता समागमे
नापि संसर्गेणापि मां प्रति मामनु। मत्पक्ष इत्यर्थः। रतिर्न शृङ्गारो=भवति।
एकानुरागस्य रसाभासत्वात्। तथा चोक्तम्—‘एकत्रैवानुरागश्चेद्वहुसक्तिश्च योषितः।
अनौचित्यप्रवृत्तिश्च शृङ्गाराभास उच्यते ॥’ इति। शेषं स्पष्टम् ॥ आदायेत्यादि।
कर्णकिसलयं कर्णपूरार्थं किसलयम् अत्र कर्णशब्देन कर्णपूरो लक्ष्यते ससि
तृतीयोऽङ्कः । ५५
बकुलावलीका—हंला, णत्थि दे दोसो। णिग्गुणो अअं असो-
ओ जइ कुसुमोब्भेदमन्धरो हवे, जो दे चलणसक्कारं लब्भिअ ।
राजा—
अनेन तनुमध्यया मुखरनूपुराराविणा
नवाम्बुरुहकोमलेन चरणेन संभावितः ।
अशोक यदि सद्य एव मुकुलैर्न संपत्स्यसे
वृथा वहसि दोहदं ललितकामिसाधारणम् ॥ १७ ॥
सखे, वचनानुसरणपूर्वकं प्रवेष्टुमिच्छामि ।
विदूषकः—एहि । णं परिहासइस्सं ।
(उभौ प्रवेशं कुरुतः ।)
निपुणिका—भट्टिणि भट्टिणि, भट्ठा एत्थ पविसदि ।
इरावती—एव्वं पुढमं मम चिन्तिदं हिअएण ।
विदूषकः—(उपेत्य ।) जुत्तं णाम अत्तहोदो पिअवअस्सो अअं
असोओ णं वामपादेण ताडिदुं ।
उभे—(ससंभ्रमम् ।) अह्मो, भट्ठा ।
१. सखि, नास्ति ते दोषः । निर्गुणोऽयमशोको यदि कुसुमोद्भेदम-
न्थरो भवेत्, यस्ते चरणसत्कारं लब्ध्वा ।
२. एहि । एनां परिहासिष्यामि ।
३. भट्टिनि, भट्टिनि, भर्तात्र प्रविशति ।
४. एवं प्रथमं मम चिन्तितं हृदयेन ।
५. युक्तं नाम अत्रभवतः प्रियवयस्योऽयमशोकः एनं वामपादेन
ताडयितुम् ।
६. अहो, भर्ता ।
नास्ति ते दोषः । निर्गुणोऽयमशोको यदि कुसुमोद्भेदमन्धरो भवेत्, यस्ते चरणस-
त्कारं लब्ध्वा ॥ अनेनेत्यादि । स्पष्टोऽर्थः ॥ एहि। एनां परिहासयिष्यामि ॥ भट्टिनि
भट्टिनि, भर्तात्र प्रविशति ॥ एवं प्रथमं मम चिन्तितं हृदयेन ॥ युक्तं नाम अत्रभवतः
प्रियवयस्योऽयमशोकः एनं वामपादेन ताडयितुम् । 'जुत्तं णाम' इत्यत्र काकुरनुसं-
५६ मालविकाग्निमित्रे
विदूषकः-बँउलावलिए, गहीदत्थाए तुए अत्तहोदी ईरिसं
अविणअं करन्ती कीस ण णिआरिदा ।
( मालविका भयं रूपयति ।)
निपुणिका-भट्टिणि, पेक्ख । किं पउत्तं अज्जगोदमेण ।
इरावती-कहं खु बम्हबन्धु अण्णहा होदि ।
बकुलावलिका-अज्ज एसा देवीए णिओअं अणुचिट्ठदि ।
एदस्सि अदिक्कमे परवदी इअं । पसीददु भट्टा । (इत्यात्मना सहैना
प्रणिपातयति ।)
राजा-यद्येवमनपराधासि । उत्तिष्ठ भद्रे । (इति हस्तेन गृहीत्वै-
नामुत्थापयति ।)
विदूषकः-जुज्जइ । देवी एत्थ माणइदव्वा ।
राजा-
किसलयमृदोर्विलासिनि कठिने निहितस्य पादपस्कन्धे ।
चरणस्य न ते बाधा संप्रति वामोरु वामस्य ॥ १८ ॥
(मालविका लज्जां रूपयति ।)
१. बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं कुर्वती कस्मान्न
निवारिता ।
२. भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन ।
३. कथं खलु ब्रह्मबन्धुरन्यथा भवति ।
४. आर्य, एषा देव्या नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परव-
तीयम् । प्रसीदतु भर्ता ।
५. युज्यते । देव्यत्र मानयितव्या ।
धेया ॥ अहो, भर्ता ॥ बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं
कुर्वती कस्मान्न निवारिता ॥ भयं रूपयतीति । अत्र भयकथनात्सम्भ्रमणं नाम
संध्यङ्गमुक्तं भवति ॥ भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन ॥ कथं खलु ब्रह्म-
बन्धुरन्यथा भवति ॥ आर्य, एषा देव्या नियोगमनुतिष्ठति। एतस्मिन्नतिक्रमे परवती-
यम्। प्रसीदतु भर्ता ॥ युज्यते। देव्यत्र मानयितव्या ॥ किसलयेत्यादि ।
तृतीयोऽङ्कः । ५७
इरावती—अहो णवणीदकप्पहिअओ अज्जउत्तो ।
मालविका—बेउलावलिए, एहि । अणुचिट्ठिदं अत्तणो णि-
ओअं देवीए णिवेदेह्म ।
बकुलावलिका—विष्णोवेहि भट्टारं विसज्जेहित्ति ।
राजा—भद्रे, यास्यसि । मम तावदुत्पन्नावसरमर्थित्वं श्रूयताम् ।
बकुलावलिका—अवहिदा सुणाहि । आणवेदु भट्टा ।
राजा—
धृतिपुष्पमयमपि जनो बध्नाति न तादृशं चिरात्प्रभृति ।
स्पर्शामृतेन पूरय दोहदमस्याप्यनन्यरुचेः ॥ १९ ॥
इरावती—(सहसोपसृत्य ।) पूरेहि पूरेहि । असोओ कुसुमं ण
दंसेदि । अअं उण पुप्फदि एव ।
(सर्वे इरावतीं दृष्ट्वा संभ्रान्ताः ।)
राजा—(अपवार्य्य ।) वयस्य, का प्रतिपत्तिरत्र ।
विदूषकः—किं अण्णं । जङ्घाबलं एव ।
१. अहो नवनीतकल्पहृदय आर्यपुत्रः ।
२. बकुलावलिके, एहि । अनुष्ठितमात्मनो नियोगं देव्यै निवेदयावः ।
३. विज्ञापय भर्तारं विसर्जयेति ।
४. अवहिता शृणु । आज्ञापयतु भर्ता ।
५. पूरय पूरय । अशोकः कुसुमं न दर्शयति । अयं पुनः पुष्यत्येव ।
६. किमन्यत् । जङ्घाबलमेव ।
स्पष्टोऽर्थः । अत्र प्रसक्त्या संग्रहो नाम संध्यङ्गमुक्तं भवति ॥ अहो नवनीतकल्प-
हृदय आर्यपुत्रः ॥ बकुलावलिके, एहि । अनुष्ठितमात्मनो नियोगं देव्यै निवे-
दयावः ॥ विज्ञापय भर्तारं विसर्जयेति ॥ अवहिता शृणु । आज्ञापयतु भर्ता ॥
धृतिपुष्पेति । स्पष्टोऽर्थः ॥ पूरय पूरय । अशोकः कुसुमं न दर्शयति । अयं
पुनः पुष्यत्येव । अत्र संरम्भवचनात्तोटकं नाम संध्यङ्गमुक्तं भवति ॥ वयस्येत्या-
दि । का प्रतिपत्तिः को विचारः । क उपाय इत्यर्थः । अत्र भीतेर्गम्यमानार्थ-
त्वाद्द्वेगो नाम संध्यङ्गमुक्तं भवति ॥ किमन्यत् । जङ्घाबलमेव ॥ बकुलावलिके,
तृतीय अङ्क: दोहद सत्कार, अशोक वृक्ष व इरावती मान
५८
इरावती—^१बउलावलिए, तुए साहु उवक्कन्तं। दाणिं सफलब्भ-
त्थणं करेहि उज्जउत्तं।
उभे—^२पसीददु भट्टिणी। काओ अह्मे भत्तुणो पणअपरिग्ग-
हस्स। (इति निष्क्रान्ते।)
इरावती—^३अविस्सणीआ पुरिसा। अत्तणो वञ्चणवअणं
पमाणीकरिअ अक्खित्ताए बाहजणगीदगहीदचित्ताए विअ हरिणीए
एदं ण विण्णादं।
विदूषकः—(जनान्तिकम्।) ^४पडिओएहि दाणिं किंपि। कम्म-
ग्गहीदेण वि कुम्भीलएण संधिच्छेदे सिक्खिओम्हित्ति वत्तव्वं होदि।
राजा—सुन्दरि, न मे मालविकया कश्चिदर्थः। मया त्वं चि-
रयसीति यथाकथंचिदात्मा विनोदितः।
इरावती—^५विस्संसणीओसि। मएं ण विण्णादं ईरिसं विनोदव-
१. बकुलावलिके, त्वया साधूपक्रान्तम्। इदानीं सफलाभ्यर्थनं कु-
र्वार्यपुत्रम्।
२. प्रसीदतु भट्टिनी। के आवां भर्तुः प्रणयपरिग्रहस्य।
३. अविश्वसनीयाः पुरुषाः। आत्मनो वञ्चनावचनं प्रमाणीकृत्या-
क्षिप्तया व्याधजनगीतगृहीतचित्तया हरिण्यैतन्न विज्ञातम्।
४. प्रतियोजयेदानीं किमपि। कर्मगृहीतेनापि कुम्भीलकेन संधिच्छेदे
शिक्षितोऽस्मीति वक्तव्यं भवति।
५. विश्वसनीयोऽसि। मया न विज्ञातमीदृशं विनोदवस्त्वार्यपुत्रेणोप-
लब्धमिति। अन्यथा दुःखभागिन्यैवं न क्रियते।
त्वया साधूपक्रान्तम्। इदानीं सफलाभ्यर्थनं कुर्वार्थपुत्रम्॥ प्रसीदतु भट्टिनी।
के आवां भर्तुः प्रणयपरिग्रहस्य॥ अविश्वसनीयाः पुरुषाः। आत्मनो वञ्चना-
वचनं प्रमाणीकृत्याक्षिप्तया व्याधजनगीतगृहीतचित्तया हरिण्येवैतन्न विज्ञा-
तम्। एतदित्यनेन राज्ञा कृतं कपटकृत्यं परामृश्यते प्रतियोजयेदानीं किमपि।
संधेः कृत्रिमभूसंघेश्छेदे भेदने। सुरङ्गाकरण इत्यर्थः। शिक्षितः अभ्यसितोऽस्मीति
वक्तव्यं भवति। किमपि प्रतियोजय। उपपन्नमनुपपन्नं वा उत्तरं कुर्वित्यर्थः।
विश्वसनीयोऽसि। मया न विज्ञातमीदृशं विनोदवस्त्वार्यपुत्रेणोपलब्धमिति।
तृतीयोऽङ्कः । ५९
त्थुअं अज्जउत्तेण उवलद्धं ति । अण्णहा दुक्खभाइणीए एवं ण
करीअदि ।
विदूषकः—मा तावदा तत्तभवदो दक्खिण्णस्स उअरोहं भणिदुं
समावत्तिदिट्ठेण देवीए परिअणेण संकहाअबराहेण संधावीअदु ।
इत्थ तुमं एव्व पमाणं ।
इरावती—णं संकहा णाम होदु । किंति अत्ताणं आआ-
सइस्सं । (इति रुषा प्रस्थिता ।)
राजा—(अनुसरन् ।) प्रसीदतु भवती ।
(इरावती रशनासंधारितचरणा व्रजत्येव ।)
राजा—सुन्दरि, न शोभते प्रणयिनि जने निरपेक्षता ।
इरावती—सँठ, अविस्ससणीअहिअओसि ।
राजा—
शठ इति मयि तावदस्तु ते
परिचयवत्यवधीरणा प्रिये ।
चरणपतितया न चण्डितां
विसृजसि मेखलयापि याचिता ॥ २० ॥
इरावती—इँअं पि हदासा तुमं एव्व अणुसरदि । (इति रशना-
मादाय राजानं ताडयितुमिच्छति ।)
१. मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणितुं समापत्तिदृष्टेन
देव्याः परिजनेन संकथापराधेन संधाप्यताम् । अत्र त्वमेव प्रमाणम् ।
२. ननु संकथा नाम भवतु । किमित्यात्मानमायासिष्यामि ।
३. शठ, अविश्वसनीयहृदयोऽसि ।
४. इयमपि हताशा त्वामेवानुसरति ।
अन्यथा दुःखभागिन्यैवं न क्रियते ॥ विश्वसनीय इत्यत्र विपरीतलक्षणानुसंधेया ॥
मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणितुं समापत्तिदृष्टेन देव्याः परिजनेन
संकथापराधेन संधाप्यताम् । अत्र त्वमेव प्रमाणम् ॥ ननु संकथा नाम भवतु ।
किमित्यात्मानमायासिष्यामि ॥ शठ, अविश्वसनीयहृदयोऽसि ॥ शठ इत्यादि ।
हे प्रिये, परिचयवति परिचयः संस्तवो यस्य स परिचयवान् । अतिशायने मतुप् ।
६० मालविकाग्निमित्रे
राजा—इयमिरावती
बाष्पसारा हेमकाञ्चीगुणेन
श्रोणीबिम्बादप्युपेक्षाच्युतेन ।
चण्डी चण्डं हन्तुमभ्युद्यता मां
विद्युद्दाम्ना मेघराजीव विन्ध्यम् ॥ २१ ॥
इरावती—किं^१ मं एव भूओ वि अवरद्धं करेसि ।
राजा—(सरशनं हस्तमवलम्बयति ।)
अपराधिनी मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि ।
वर्धयसे विलसितं त्वं दासजनायाद्य कुप्यसि च ॥ २२ ॥
नूनमिदमनुज्ञातम् । (इति पादयोः पतति ।)
इरावती—णे^२ खु इमे मालविआचलणा, जा दे हरिसदोह
पूरियिस्सन्ति । (इति निष्क्रान्ता सह चेट्या !)
विदूषकः—उट्ठेहि^३ । किदप्पसादोऽसि ।
राजा—(उत्थाय इरावतीमपश्यन् ।) कथं गतैव प्रिया ।
विदूषकः—वँअस्स^४, दिट्ठिआ इमस्स अविणअस्स अप्पसण्ण
१. किं मामेव भूयोऽप्यपराद्धां करोषि ।
२. न खल्विमौ मालविकाचरणौ, यौ ते हर्षदोहदं पूरयिष्यतः ।
३. उत्तिष्ठ । कृतप्रसादोऽसि ।
४. वयस्य, दिष्ट्या अनेनाविनयेनाप्रसन्ना गतैषा तद्वयं शीघ्रमपक्र-
मामः । यावदङ्गारको राशिमिवानुवक्रं प्रतिगमनं न करोति ।
तस्मिन्मयि शठ इति गूढविप्रियकारीति अवधीरणा तिरस्कारोऽस्तु । अतः 'अति
परिचयादवज्ञा' इति वदन्ति । तस्मादियमवधीरणा युक्तैवेत्यर्थः । हे चण्डि अ
त्यन्तकोपने, चरणपतितया मेखलया रशनया याचितापि प्रार्थितापि तामवधीरणां
न विसृजसि न त्यजसि । किमिदं युक्तमिति शेषः ॥ इयमपि हताशा त्वामेवानु
सरति ॥ बाष्पसारेत्यादि । स्पष्टोऽर्थः ॥ किं मामेव भूयोऽप्यपराद्धां करोषि ॥
अपराधिनीत्यादि । स्पष्टोऽर्थः ॥ नूनमित्यादि । इदमेतद्रशनासंहरणमनु
ज्ञातमनुमतम् । मत्प्रार्थनाया इति शेषः ॥ न खल्विमौ मालविकाचरणौ, यौ ते
हर्षदोहदं पूरयिष्यतः ॥ उत्तिष्ठ । कृतप्रसादोऽसि । वयस्य, दिष्ट्या अनेनाविनयेना
गदा एसा । ता वअं सिग्धं अवक्कमाम । जाव अङ्गारओ रासिं वि-
अ अणुवक्कं परिगमणं ण करेदि ।
राजा—अहो मदनस्य वैषम्यम् ।
मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्घनं सेवाम् ।
एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥ २३ ॥
(इति निष्क्रान्तः सह वयस्येन ।)
इति तृतीयोऽङ्कः ।
प्रसन्ना गतैषा । तस्माद्वयं शीघ्रमपक्रमामः । यावदङ्गारको राशिमिवानुवक्रं प्रति-
गमनं न करोति ॥ मन्य इत्यादि । प्रियाहृतमना मालविकाहतमनाः प्रणि-
पातलङ्घनं प्रणामातिक्रमं तस्या इरावत्याः सेवामनुकूलाचरणं मन्ये । सेवायाः
फलमाह—कुपिता क्रुद्धा प्रणयवती प्रेमवती सा इरावती एवमनेन क्रमेण प्रणि-
पातलङ्घनरूपेणोपेक्षितुमौदासीन्येन वर्तितुं शक्यं हि शक्या खलु । शक्यमिति
निपातः। अत्र बीजानुसंधानादाक्षेपो नाम संध्यङ्गमुक्तं भवति । इदमनुसंधानमेवो-
त्तराङ्ककथोपयोगित्वाद्बिन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयवेमभूपविरचिते
कुमारगिरिराजीये मालविकाग्निमित्रव्याख्याने तृतीयोऽङ्कः ॥
माल० ६
६२ मालविकाग्निमित्रे
चतुर्थोऽङ्कः ।
(ततः प्रविशति पर्युत्सुको राजा प्रतीहारी च ।)
राजा—(आत्मगतम् ।)
तामाश्रित्य श्रुतिपथगतामास्थया बद्धमूलः
संप्राप्तायां नयनविषयं रूढरागः प्रवालः ।
हस्तस्पर्शैर्मुकुलित इव व्यक्तरोमोद्गमत्वा-
त्कुर्यात्कान्तं मनसिजतरुर्मा रसज्ञं फलस्य ॥
(प्रकाशम् ।) सखे गौतम ।
प्रतीहारी—जेदुं जेदु भट्ठा । असंणिहिदो गोदमो
राजा—(आत्मगतम् ।) आः, मालविकावृत्तान्तज्ञान-
प्रेषितः ।
(प्रविश्य ।)
विदूषकः—२वड्ढदु भवं !
राजा—जयसेने, जानीहि तावत्क्व देवी धारिणी
त्वाद्विनोद्यत इति ।
प्रतीहारी—३जं देवो आणवेदि । (इति निष्क्रान्ता ।)
राजा—गौतम, को वृत्तान्तस्तत्रभवत्यास्ते सख्याः ।
विदूषकः—४जो बिडालगहीदाए परहुदिआए ।
राजा—(सविषादम् ।) कथमिव ।
१. जयतु जयतु भर्ता । असंनिहितो गौतमः ।
२. वर्धतां भवान् ।
३. यद्देव आज्ञापयति ।
४. यो बिडालगृहीतायाः परभृतिकायाः ।
कविरिदानीमङ्कान्तरमारभते—ततः प्रविशतीत्यादिना । त
कुलित इव संजातमुकुल इव कान्तं कामनायुक्तं कुर्यादिति प्रार्थनायां
प्रसङ्गितं बीजं प्रकरीस्थाने कृतमिति मन्तव्यम् ॥ जयतु जयतु भर्त
हितो गौतम वर्धतां भवान् ॥ यद्देव आज्ञापयति ॥ यो बिडालगृही
चतुर्थोऽङ्कः । ६३
विदूषकः—१सा खु तवस्सिणी ताए पिङ्गलच्छीए सारभण्डभू-
घरए गुहाए विअ णिक्खित्ता ।
राजा—ननु मत्संपर्कमुपलभ्य ।
विदूषकः—२अह इं ।
राजा—क एवं विमुखोऽस्माकम् । येन चण्डीकृता देवी ।
विदूषकः—३सुणादु भवं । परिव्वाजिआए मे कहिदं । हिओ
किल तत्तहोदी इरावती रुअक्कन्तचलणं देविं सुहपुच्छिआ आगदा ।
राजा—ततस्ततः ।
विदूषकः—४तदो सा देवीए पुच्छिदा । किणु ओवलोइदो वल्ल-
हजणो त्ति । ताए उत्तं । मन्दो वो उवआरो । जं परिजणे संकन्तं
वल्लहत्तणं ण जाणीअदि ।
राजा—निर्भेदाहतेऽपि मालविकायामयमुपन्यासः शङ्कयति ।
विदूषकः—५तदो ताए अणुखिज्जमाणा सा भवदो अविणअं
अन्तरेण परिगदत्था किदा ।
१. सा खलु तपस्विनी तया पिङ्गलाक्ष्या सारभाण्डभूगृहे गुहायामिव
निक्षिप्ता ।
२. अथ किम् ।
३. शृणोतु भवान् । परिव्राजिकया मे कथितम् । ह्यः किल तत्रभवती-
रावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकागता ।
४. ततः सा देव्या पृष्टा । किं न्ववलोकितो वल्लभजन इति । तयोक्तम् ।
मन्दो व उपचारः । यत्परिजने संक्रान्तं वल्लभत्वं न ज्ञायते ।
५. ततस्तयानुखिद्यमाना सा भवतोऽविनयमन्तरेण परिगतार्था कृता ।
तिकायाः सा खलु तपस्विनी तया पिङ्गलाक्ष्या सारभाण्डभूगृहे गुहायामिव नि-
क्षिप्ता ॥ अथ किम् ॥ शृणोतु भवान् । परिव्राजिकया मे कथितम् । ह्यः पूर्वद्युः किल
तत्रभवतीरावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकया गता।। ततः सा देव्या पृष्टा।किं
न्ववलोकितो वल्लभजन इति । तयोक्तम् ! मन्दो व उपचारः । यत्परिजने संक्रान्तं
वल्लभत्वं न ज्ञायते ॥ निर्भेदादृतेऽपि स्फुटीकरणं विनापि ॥ ततस्तयानुखिद्यमाना सा
भवतोऽविनयमन्तरेण परिगतार्था कृता । धारिणी राजाविनयमिरावत्याः सकाशा-
६४ मालविकाग्निमित्रे
राजा—अहो दीर्घरोषता तत्रभवत्याः । अतः परं कथय ।
विदूषकः—किं¹ अदो वरं । मालविआ बउलावलिआ अणि-
अलपदीओ अदिट्ठसुज्जपादं पादालवासं णाअकण्णआओ विअ
अणुहोन्ति ।
राजा—कष्टं कष्टम् ।
मधुरस्वरा परभृता भ्रमरी च विबुद्धचूतसङ्गिन्यौ ।
कोटरमकालवृष्ट्या प्रबलपुरोवातया गमिते ॥ २ ॥
अप्यत्र कस्यचिदुपक्रमस्य गतिः स्यात् ।
विदूषकः—कंहं² भविस्सदि । जं सारभाण्डघरए बाउदा माह-
विआ देवीए संदिट्ठा । मह अङ्गुलीअअमुद्दं अदेखिअ ण मोत्तव्वा,
मालविआ बउलावलिआ अ त्ति ।
राजा—(निःश्वस्य । सपरामर्शम् ।) सखे, किमत्र कर्तव्यम् ।
विदूषकः—(विचिन्त्य ।) अत्थि³ एत्थ उवाओ ।
राजा—क इव ।
विदूषकः—(सदृष्टिक्षेपम् । ) को⁴ वि अदिट्ठो सुणोदि । कण्णे दे
कहेमि । (इत्युपश्लिष्य कर्णे ।) एवं विअ । (इत्यावेदयति ।)
१. किमतः परम् । मालविका बकुलावलिका च निगलपद्यावदृष्टसू-
र्यपादं पातालवासं नागकन्यके इवानुभवतः ।
२. कथं भविष्यति । यत्सारभाण्डगृहे व्यापृता माधविका देव्या सं-
दिष्टा । ममाङ्गुलीयकमुद्रामदृष्ट्वा न मोक्तव्या मालविका बकुलावलिका चेति-
३. अस्त्यत्रोपायः ।
४. कोऽप्यदृष्टः शृणोति । कर्णे ते कथयामि । एवमिव ।
ज्ञातवतीत्यर्थः ॥ किमतः परम् । मालविका बकुलावलिका च निगलपद्यावदृष्टसू-
र्यपादं पातालवासं नागकन्यके इवानुभवतः ॥ मधुरस्वरेत्यादि । स्पष्टोऽर्थः ।
कथं भविष्यति । यत्सारभाण्डगृहे व्यापृता माधविका देव्या संदिष्टा । ममाङ्गुलीय-
कमुद्रामदृष्ट्वा न मोक्तव्या मालविका बकुलावलिका चेति ॥ अस्त्यत्रोपायः ॥ को-
ऽप्यदृष्टः शृणोति । कर्णे ते कथयामि । एवमिव । अत्र राज्ञः कर्णे विदूषकोक्त उपायो
चतुर्थोऽङ्कः । ६५
राजा—(सहर्षम् ।) सुष्ठु । प्रयुज्यतां सिद्धये ।
(प्रविश्य ।)
प्रतीहारी—देवं, पवादसयणम्मि देवी णिसण्णा रत्तचन्दण-
धारिणा परिअणहत्थगदेण चलणेण भअवदीए कहाहिं विणोदि-
ज्जमाणा चिट्ठदि ।
राजा—तेन ह्यसत्प्रदेशयोग्योऽयमवसरः ।
विदूषकः—तो गच्छदु भवं । अहं वि देवीं पेक्खिदुं अरि-
त्तपाणी भविस्सं ।
राजा—जयसेनायास्तावदस्मद्रहस्यं विदितं कुरु ।
विदूषकः—तँह । (इति कर्णे ।) एवं विअ होदि । (इत्यावेद्य नि-
ष्क्रान्तः ।)
राजा—जयसेने, प्रवातशयनमार्गमादेशय ।
प्रतीहारी—इँदो इदो देवो ।
(ततः प्रविशति शयनस्था देवी परिव्राजिका विभवतश्च परिवारः ।)
देवी—भैअवदि, रमणिज्जं कहावत्थु । तदो तदो ।
परिव्राजिका—देवि, अतःपरं पुनःकथयिष्यामि ।
अत्र भगवान्विदिशेश्वरः संप्राप्तः ।
१. देव, प्रवातशयने देवी निषण्णा रक्तचन्दनधारिणा परिजनहस्त-
गतेन चरणेन भगवत्या कथाभिर्विनोद्यमाना तिष्ठति ।
२. तद्गच्छतु भवान् । अहमपि देवीं द्रष्टुमरिक्तपाणिर्भविष्यामि ।
३. तथा । एवमिव भवति ।
४. इत इतो देवः ।
५. भगवति, रमणीयं कथावस्तु । ततस्ततः ।
नियमेन मालविकाप्राप्तिहेतुत्वान्नियताप्तिर्नाम चतुर्थावस्था सूचिता॥अत्रपूर्वं प्रकरी-
स्थानोक्तबीजस्यानया नियताप्त्या समन्वयाद्वमशों नाम चतुर्थसंधिः प्रतिपादित
इति मन्तव्यम्॥देव,प्रवातशयने देवी निषण्णा रक्तचन्दनधारिणा परिजनहस्तगतेन
चरणेन भगवत्या कथाभिर्विनोद्यमाना तिष्ठति ॥ तस्माद्गच्छतु भवान्।अहमपि देवीं
द्रष्टुमरिक्तपाणिर्भविष्यामि ॥ तथा । एवमिव भवति ॥ इत इतो देवः ॥ भगवति,
६६ मालविकाग्निमित्रे
देवी—¹अह्नो, भट्ठा । (इत्युत्थातुमिच्छति ।)
राजा—अलमलमुपचारयन्त्रणया ।
अनुचितनूपुरविरहं नार्हसि तपनीयपीठिकालम्बि ।
चरणं रुजा परीतं कलभाषिणि मां च पीडयितुम् ॥ ३ ॥
धारिणी—²जेदु अज्जउत्तो ।
परिव्राजिका—विजयतां देवः ।
राजा—(परिव्राजिकां प्रणम्योपविश्य ।) देवि, अपि सह्या वेदना ।
धारिणी—³अज्ज अत्थि मे विसेसो ।
(ततः प्रविशति यज्ञोपवीतबद्धाङ्गुष्ठः संभ्रान्तो विदूषकः ।)
विदूषकः—⁴परित्ताअदु परित्ताअदु भवं । सप्पेणह्मि दट्ठो ।
(सर्वे विषण्णाः ।)
राजा—कष्टं कष्टम् । क्व भवान्परिभ्रान्तः ।
विदूषकः—देविं⁵ देखिस्सं ति आआरपुप्फग्ग्रहणकारणादो
पमदवणं गदोह्मि ।
देवी—⁶हद्धि हद्धि । अहं एव बह्मणस्य जीविदसंसअनिमित्तं
जादह्मि ।
१. अहो, भर्ता ।
२. जयत्वार्यपुत्रः ।
३. अद्यास्ति मे विशेषः ।
४. परित्रायतां परित्रायतां भवान् । सर्पेणास्मि दष्टः ।
५. देवीं द्रक्ष्यामीत्याचारपुष्पग्रहणकारणात्प्रमदवनं गतोऽस्मि ।
६. हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशयनिमित्तं
जातास्मि ।
रमणीयं कथावस्तु । ततस्ततः ॥ अहो, भर्ता ॥ अनुचितेनेति । स्पष्टोऽर्थः॥ जयत्वा-
र्यपुत्रः॥अद्यास्ति मे विशेषः ॥ तत इति । यज्ञोपवीतेन बद्धोऽङ्गुष्ठो यस्य स तथोक्तः।
अत्र कल्पनाया गम्यमानत्वाच्चलनं नाम संध्यङ्गमुक्तं भवति ॥ परित्रायतां परित्रा-
यतां भवान् । सर्पेणास्मि दष्टः ॥ देवीं द्रक्ष्यामीत्याचारपुष्पग्रहणकारणात्प्रमदवनं
गतोऽस्मि ॥ हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशयनिमित्तं जातास्मि ॥
चतुर्थोऽङ्कः । ६७
विदूषकः—तहिं असोअथवअकारणादो पसारिदे दक्खि-
णहत्थे कोडरणिग्गदेण सप्परूवेण कालेण दट्टोम्हि । णं एदे
दुवे दंसणपदानि । (इति दंशं दर्शयति ।)
परिव्राजिका—तेन हि दंशच्छेदः पूर्वकर्मेति श्रूयते । स ता-
वदस्य क्रियताम् ।
छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोचनम् ।
एतानि दष्टमात्राणामायुष्याः प्रतिपत्तयः ॥ ४ ॥
राजा—संप्रति विषवैद्यानां कर्म । जयसेने, ध्रुवसिद्धिः क्षि-
प्रमानीयताम् ।
प्रतीहारी—²जं देवो आणवेदि । (इति निष्क्रान्ता ।)
विदूषकः—³अहो, पावेण मिच्छुणा गहीदोम्हि ।
राजा—मा कातरो भूः । अविषोऽपि कदाचिद्दंशो भवेत् ।
विदूषकः—⁴कँहं ण भाइस्सं । सिमसिमाअन्ति मे अङ्गाईं ।
(इति विषवेगं रूपयति ।)
देवी—⁵हाँ दंसिदं असुहं विआरेण । अवलम्बध बह्मणं ।
१. तस्मिन्नशोकस्तंबककारणात्प्रसारिते दक्षिणहस्ते कोटरनिर्गतेन स-
र्परूपेण कालेन दष्टोऽस्मि । नन्वेते द्वे दंशपदे ।
२. यद्देव आज्ञापयति ।
३. अहो, पापेन मृत्युना गृहीतोऽस्मि ।
४. कथं न भेष्यामि । सिमसिमायन्ति मेऽङ्गानि ।
५. हा, दर्शितमशुभं विकारेण । अवलम्बध्वं ब्राह्मणम् ।
तस्मिन्नशोकस्तबककारणात्प्रसारिते दक्षिणहस्ते कोटरनिर्गतेन सर्परूपेण कालेन
दष्टोऽस्मि । नन्वेते द्वे दंशपदे ॥ छेदो दंशस्येत्यादि । स्पष्टोऽर्थः ॥ ध्रुवसिद्धि-
रिति तस्य वैद्यस्य नाम ॥ यद्देव आज्ञापयति ॥ अहो, पापेन मृत्युना गृहीतोऽस्मि ॥
कथं न भेष्यामि । सिमसिमायन्ति मेऽङ्गानि । अनेन संतापः सूच्यते । विषवेगं विष-
प्राप्तिं रूपयति प्रकाशयति विषवेगास्तु कथिता 'वैवर्ण्यं वेपथुर्दाह-
६८ मालविकाग्निमित्रे
(परिव्राजिका ससंभ्रममवलम्बते ।)
विदूषकः—(राजानं विलोक्य ।) १भोः, भवदो बाह्लादोवि पिय-
वअस्सोह्नि । तं विआरिअ अवुत्ताए मे जणणीए जोगक्खेमं वहेसु ।
राजा—मा भैषीर्गौतम । स्थिरो भव । अचिरात्त्वां वैद्यश्चिकि-
त्सिष्यति ।
(प्रविश्य ।)
जयसेना—देवे, आणाविदो धुवसिद्धी विण्णावेदि । इह एव
आणीअदु सो गोदमोत्ति ।
राजा—तेन हि प्रतिगृहीतमेनं तत्रभवतः सकाशं प्रापय ।
जयसेना—३तहा ।
विदूषकः—(देवीं विलोक्य ।) ४भोदि, जीवेअं वा ण वा । जं
मए अत्तभवन्तं सेवमाणेण ते अवरद्धं तं मरिसेहि ।
देवी—दीहाऊ होहि ।
(निष्क्रान्तौ विदूषकः प्रतीहारी च ।)
राजा—प्रकृतिभीरूस्तपस्वी ध्रुवसिद्धिमपि यथार्थनामानं सि-
द्धिमन्तं न मन्यते ।
१. भोः, भवतो बाल्यादपि प्रियवयस्योऽस्मि । तं विचार्यापुत्राया मे
जनन्या योगक्षेमं वह ।
२. देव, आज्ञापितो ध्रुवसिद्धिर्विज्ञापयति । इहैवानी्यतां स गौतम
इति ।
३. तथा ।
४. भवति, जीवेयं वा न वा । यन्मयात्रभवन्तं सेवमानेन तेऽपराद्धं
तन्मृष्यस्व ।
५. दीर्घायुर्भव ।
ष्टम् । दर्शितमशुभं विकारेण । अवलम्बध्वं ब्राह्मणम् ॥ भोः, भवतो बाल्यादपि प्रि-
यवयस्योऽस्मि । तं विचार्यापुत्राया मे जनन्या योगक्षेमं वह ॥ देव, आज्ञापितो ध्रु-
वसिद्धिर्विज्ञापयति । इहैवानी्यतां स गौतम इति ॥ तथा ॥ भवति, जीवेयं वा न वा।
यन्मयात्रभवन्तं सेवमानेन तेऽपराद्धं तन्मृष्यस्व ॥ दीर्घायुर्भव ॥ जयतु भर्त्ता । ध्रुव-
चतुर्थोऽङ्कः । ६९
(प्रविश्य ।)
जयसेना—जेदुं भट्टा । धुवसिद्धी विष्णावेदि । उदकुम्भवि-
हाणेण सप्पमुद्दिअं किंपि कप्पिदव्वं । तं अण्णेसीअदु त्ति ।
देवी—इदं सप्पमुद्दिअं अङ्गुलीअअं । पच्छा मम हत्थे देहि
णं । (इत्यङ्गुलीयकं ददाति ।)
(प्रतीहारी गृहीत्वा स्थिता ।)
राजा—कर्मसिद्धावाशु प्रतिपत्तिमानय ।
प्रतीहारी—जं³ देवो आणवेदि ।
परिव्राजिका—यथा मे हृदयमाचष्टे तथा निर्विषो गौतमः ।
राजा—भूयादेवम् ।
(प्रविश्य ।)
जयसेना—जेदुँ⁴ देवो । णिवुत्तविसवेगो गोदमो मुहुत्तेण
पकिदित्थो संवृत्तो ।
देवी—⁵दिट्ठिआ ।
प्रतीहारी—⁶एसो उण अमच्चो वाहतओ विण्णावेदि । रा-
अकज्जं बहु मन्तिदव्वं । दंसणेण अणुग्गहं इच्छामि त्ति ।
१. जयतु भर्ता । ध्रुवसिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं
किमपि कल्पयितव्यम् । तदन्विष्यतामिति ।
२. इदं सर्पमुद्रितमङ्गुलीयकम् । पश्चान्मम हस्ते देह्येतत् ।
३. यद्देव आज्ञापयति ।
४. जयतु देवः । निवृत्तविषवेगो गौतमो मुहूर्तेन प्रकृतिस्थः संवृत्तः ।
५. दिष्ट्या ।
६. एष पुनरमात्यो वाहतको विज्ञापयति । राजकार्यं बहु मन्त्रयित-
व्यम् । दर्शनेनानुग्रहमिच्छामीति ।
सिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं किमपि कल्पयितव्यम् । तदन्वि-
ष्यतामिति ॥ इदं सर्पमुद्रितमङ्गुलीयकम् । पश्चान्मम हस्ते देह्येतद् ॥ यद्देव आज्ञाप-
यति जयतु देव । गौतमो मुहूर्तेन प्रकृतिस्थ संवृत्त दिष्ट्या ॥
७० मालविकाग्निमित्रे
देवी—^१गच्छदु अज्जउत्तो कज्जसिद्धीए ।
राजा—आतपाक्रान्तोऽयमुद्देशः । शीतक्रिया चास्या रुजः प्र-
शस्ता । तदन्यत्र नीयतां शयनम् ।
देवी—^२बालिआओ, अज्जउत्तवअणं अणुचिट्ठह ।
परिजनः—^३तह ।
(निष्क्रान्ता देवी परिव्राजिका परिजनश्च ।)
राजा—जयसेने, मां गूढेन पथा प्रमदवनं प्रापय ।
प्रतीहारी—^४इँदो इदो देवो ।
राजा—जयसेने, समाप्तकरणीयो ननु गौतमः ।
प्रतीहारी—^५अह इं ।
राजा—
इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाध्यमपि मत्वा ।
संदिग्धमेव सिद्धौ कातरमाशङ्कते हृदयम् ॥ ५ ॥
(प्रविश्य ।)
विदूषकः—^६वँड्ढदु भवं । सिद्धांई दे मङ्गलकम्माईं ।
राजा—जयसेने, त्वमपि नियोगमशून्यं कुरु ।
प्रतीहारी—^७जं देवो आणवेदि । (इति निष्क्रान्ता ।)
१. गच्छत्वार्यपुत्रः कार्यसिद्धये ।
२. बालिकाः, आर्यपुत्रवचनमनुतिष्ठत ।
३. तथा ।
४. इत इतो देवः ।
५. अथ किम् ।
६. वर्धतां भवान् । सिद्धानि ते मङ्गलकर्माणि ।
७. यद्देव आज्ञापयति ।
हमिच्छामीति ॥ गच्छत्वार्यपुत्रः कार्यसिद्धये ॥ बालिका, आर्यपुत्रवचनमनुतिष्ठत ॥
तथा इत इतो देवः ॥ अथ किम् ॥ इष्टाधिगमेत्यादि । स्पष्टोऽर्थः ॥ वर्धतां भ-
वान् । सिद्धानि ते यद्देव देव्या अङ्गुलीयकमुद्रा