सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 59, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 59

५६ मालविकाग्निमित्रे
विदूषकः-बँउलावलिए, गहीदत्थाए तुए अत्तहोदी ईरिसं
अविणअं करन्ती कीस ण णिआरिदा ।
( मालविका भयं रूपयति ।)
निपुणिका-भट्टिणि, पेक्ख । किं पउत्तं अज्जगोदमेण ।
इरावती-कहं खु बम्हबन्धु अण्णहा होदि ।
बकुलावलिका-अज्ज एसा देवीए णिओअं अणुचिट्ठदि ।
एदस्सि अदिक्कमे परवदी इअं । पसीददु भट्टा । (इत्यात्मना सहैना
प्रणिपातयति ।)
राजा-यद्येवमनपराधासि । उत्तिष्ठ भद्रे । (इति हस्तेन गृहीत्वै-
नामुत्थापयति ।)
विदूषकः-जुज्जइ । देवी एत्थ माणइदव्वा ।
राजा-
किसलयमृदोर्विलासिनि कठिने निहितस्य पादपस्कन्धे ।
चरणस्य न ते बाधा संप्रति वामोरु वामस्य ॥ १८ ॥
(मालविका लज्जां रूपयति ।)
१. बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं कुर्वती कस्मान्न
निवारिता ।
२. भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन ।
३. कथं खलु ब्रह्मबन्धुरन्यथा भवति ।
४. आर्य, एषा देव्या नियोगमनुतिष्ठति । एतस्मिन्नतिक्रमे परव-
तीयम् । प्रसीदतु भर्ता ।
५. युज्यते । देव्यत्र मानयितव्या ।
धेया ॥ अहो, भर्ता ॥ बकुलावलिके, गृहीतार्थया त्वयात्रभवतीदृशमविनयं
कुर्वती कस्मान्न निवारिता ॥ भयं रूपयतीति । अत्र भयकथनात्सम्भ्रमणं नाम
संध्यङ्गमुक्तं भवति ॥ भट्टिनि, पश्य । किं प्रवृत्तमार्यगौतमेन ॥ कथं खलु ब्रह्म-
बन्धुरन्यथा भवति ॥ आर्य, एषा देव्या नियोगमनुतिष्ठति। एतस्मिन्नतिक्रमे परवती-
यम्। प्रसीदतु भर्ता ॥ युज्यते। देव्यत्र मानयितव्या ॥ किसलयेत्यादि ।