मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 62, कुल 111 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ५९
त्थुअं अज्जउत्तेण उवलद्धं ति । अण्णहा दुक्खभाइणीए एवं ण
करीअदि ।
विदूषकः—मा तावदा तत्तभवदो दक्खिण्णस्स उअरोहं भणिदुं
समावत्तिदिट्ठेण देवीए परिअणेण संकहाअबराहेण संधावीअदु ।
इत्थ तुमं एव्व पमाणं ।
इरावती—णं संकहा णाम होदु । किंति अत्ताणं आआ-
सइस्सं । (इति रुषा प्रस्थिता ।)
राजा—(अनुसरन् ।) प्रसीदतु भवती ।
(इरावती रशनासंधारितचरणा व्रजत्येव ।)
राजा—सुन्दरि, न शोभते प्रणयिनि जने निरपेक्षता ।
इरावती—सँठ, अविस्ससणीअहिअओसि ।
राजा—
शठ इति मयि तावदस्तु ते
परिचयवत्यवधीरणा प्रिये ।
चरणपतितया न चण्डितां
विसृजसि मेखलयापि याचिता ॥ २० ॥
इरावती—इँअं पि हदासा तुमं एव्व अणुसरदि । (इति रशना-
मादाय राजानं ताडयितुमिच्छति ।)
१. मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणितुं समापत्तिदृष्टेन
देव्याः परिजनेन संकथापराधेन संधाप्यताम् । अत्र त्वमेव प्रमाणम् ।
२. ननु संकथा नाम भवतु । किमित्यात्मानमायासिष्यामि ।
३. शठ, अविश्वसनीयहृदयोऽसि ।
४. इयमपि हताशा त्वामेवानुसरति ।
अन्यथा दुःखभागिन्यैवं न क्रियते ॥ विश्वसनीय इत्यत्र विपरीतलक्षणानुसंधेया ॥
मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणितुं समापत्तिदृष्टेन देव्याः परिजनेन
संकथापराधेन संधाप्यताम् । अत्र त्वमेव प्रमाणम् ॥ ननु संकथा नाम भवतु ।
किमित्यात्मानमायासिष्यामि ॥ शठ, अविश्वसनीयहृदयोऽसि ॥ शठ इत्यादि ।
हे प्रिये, परिचयवति परिचयः संस्तवो यस्य स परिचयवान् । अतिशायने मतुप् ।