सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 66, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 66

चतुर्थोऽङ्कः । ६३
विदूषकः—१सा खु तवस्सिणी ताए पिङ्गलच्छीए सारभण्डभू-
घरए गुहाए विअ णिक्खित्ता ।
राजा—ननु मत्संपर्कमुपलभ्य ।
विदूषकः—२अह इं ।
राजा—क एवं विमुखोऽस्माकम् । येन चण्डीकृता देवी ।
विदूषकः—३सुणादु भवं । परिव्वाजिआए मे कहिदं । हिओ
किल तत्तहोदी इरावती रुअक्कन्तचलणं देविं सुहपुच्छिआ आगदा ।
राजा—ततस्ततः ।
विदूषकः—४तदो सा देवीए पुच्छिदा । किणु ओवलोइदो वल्ल-
हजणो त्ति । ताए उत्तं । मन्दो वो उवआरो । जं परिजणे संकन्तं
वल्लहत्तणं ण जाणीअदि ।
राजा—निर्भेदाहतेऽपि मालविकायामयमुपन्यासः शङ्कयति ।
विदूषकः—५तदो ताए अणुखिज्जमाणा सा भवदो अविणअं
अन्तरेण परिगदत्था किदा ।
१. सा खलु तपस्विनी तया पिङ्गलाक्ष्या सारभाण्डभूगृहे गुहायामिव
निक्षिप्ता ।
२. अथ किम् ।
३. शृणोतु भवान् । परिव्राजिकया मे कथितम् । ह्यः किल तत्रभवती-
रावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकागता ।
४. ततः सा देव्या पृष्टा । किं न्ववलोकितो वल्लभजन इति । तयोक्तम् ।
मन्दो व उपचारः । यत्परिजने संक्रान्तं वल्लभत्वं न ज्ञायते ।
५. ततस्तयानुखिद्यमाना सा भवतोऽविनयमन्तरेण परिगतार्था कृता ।
तिकायाः सा खलु तपस्विनी तया पिङ्गलाक्ष्या सारभाण्डभूगृहे गुहायामिव नि-
क्षिप्ता ॥ अथ किम् ॥ शृणोतु भवान् । परिव्राजिकया मे कथितम् । ह्यः पूर्वद्युः किल
तत्रभवतीरावती रुजाक्रान्तचरणां देवीं सुखपृच्छिकया गता।। ततः सा देव्या पृष्टा।किं
न्ववलोकितो वल्लभजन इति । तयोक्तम् ! मन्दो व उपचारः । यत्परिजने संक्रान्तं
वल्लभत्वं न ज्ञायते ॥ निर्भेदादृतेऽपि स्फुटीकरणं विनापि ॥ ततस्तयानुखिद्यमाना सा
भवतोऽविनयमन्तरेण परिगतार्था कृता । धारिणी राजाविनयमिरावत्याः सकाशा-