सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 72, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 72

चतुर्थोऽङ्कः । ६९
(प्रविश्य ।)
जयसेना—जेदुं भट्टा । धुवसिद्धी विष्णावेदि । उदकुम्भवि-
हाणेण सप्पमुद्दिअं किंपि कप्पिदव्वं । तं अण्णेसीअदु त्ति ।
देवी—इदं सप्पमुद्दिअं अङ्गुलीअअं । पच्छा मम हत्थे देहि
णं । (इत्यङ्गुलीयकं ददाति ।)
(प्रतीहारी गृहीत्वा स्थिता ।)
राजा—कर्मसिद्धावाशु प्रतिपत्तिमानय ।
प्रतीहारी—जं³ देवो आणवेदि ।
परिव्राजिका—यथा मे हृदयमाचष्टे तथा निर्विषो गौतमः ।
राजा—भूयादेवम् ।
(प्रविश्य ।)
जयसेना—जेदुँ⁴ देवो । णिवुत्तविसवेगो गोदमो मुहुत्तेण
पकिदित्थो संवृत्तो ।
देवी—⁵दिट्ठिआ ।
प्रतीहारी—⁶एसो उण अमच्चो वाहतओ विण्णावेदि । रा-
अकज्जं बहु मन्तिदव्वं । दंसणेण अणुग्गहं इच्छामि त्ति ।
१. जयतु भर्ता । ध्रुवसिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं
किमपि कल्पयितव्यम् । तदन्विष्यतामिति ।
२. इदं सर्पमुद्रितमङ्गुलीयकम् । पश्चान्मम हस्ते देह्येतत् ।
३. यद्देव आज्ञापयति ।
४. जयतु देवः । निवृत्तविषवेगो गौतमो मुहूर्तेन प्रकृतिस्थः संवृत्तः ।
५. दिष्ट्या ।
६. एष पुनरमात्यो वाहतको विज्ञापयति । राजकार्यं बहु मन्त्रयित-
व्यम् । दर्शनेनानुग्रहमिच्छामीति ।
सिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं किमपि कल्पयितव्यम् । तदन्वि-
ष्यतामिति ॥ इदं सर्पमुद्रितमङ्गुलीयकम् । पश्चान्मम हस्ते देह्येतद् ॥ यद्देव आज्ञाप-
यति जयतु देव । गौतमो मुहूर्तेन प्रकृतिस्थ संवृत्त दिष्ट्या ॥