मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 55, कुल 111 में से
संदर्भ में पढ़ें५२ मालविकाग्निमित्रे
बकुलावलिका—^१गुणेसु अहिणिवेसणो भत्तुणो वि ।
मालविका—^२अलीअं मन्तेसि । एदं एव्व मइ णत्थि ।
बकुलावलिका—^३सच्चं तुइ णत्थि । भत्तुणो किसेसु वरपण्डुरेसु
दीसइ अङ्गेसु
निपुणिका—^४पुढमं गुणिदं विअ हदासाए उत्तरं ।
बकुलावलिका—^५अणुराओ अणुराएण पच्छेइव्वो त्ति सुअ-
णवअणं पमाणीकरेहि ।
मालविका—^६किं अत्तणो छन्देण मन्तेसि ।
बकुलावलिका—^७णहि णहि । भत्तुणो खु एदाई पणअमिदु-
आईं अक्खराई वत्तन्तरिदाई ।
मालविका—^८हला, देविं चिन्तित्र ण मे हिअअं विस्ससदि ।
बकुलावलिका—^९मुद्धे, भमरसंपादो भविस्सदित्ति वसन्तावदा-
रसस्र्वस्सं किं ण चूदप्पसवो ओदंसिदव्वो ।
१. गुणेष्वभिनिवेशिनो भर्तुरपि ।
२. अलीकं मन्त्रयसे । एतदेव मयि नास्ति ।
३. सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु ।
४. प्रथमं गुणितमिव हताशाया उत्तरम् ।
५. अनुरागोऽनुरागेण प्रष्टेष्टव्य इति सुजनवचनं प्रमाणीकुरु ।
६. किमात्मनश्छन्देन मन्त्रयसे ।
७. नहि नहि । भर्तुः खल्वेतानि प्रणयमृदुकान्यक्षराणि वक्त्रान्तरितानि ।
८. सखि, देवीं चिन्तयित्वा न मे हृदयं विश्वसिति ।
९. मुग्धे, भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न चूत-
प्रसवोऽवतंसितव्यः ।
न्यास ॥ गुणेष्वभिनिवेशिनो भर्तुरपि ॥ अलीकं मन्त्रयसे । एतदेव मयि नास्ति ॥
सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु ॥ प्रथमं गुणितमिव
हताशाया उत्तरम् ॥ अनुरागोऽनुरागेण प्रत्येष्टव्य इति सुजनवचनं प्रमाणीकुरु ॥
किमात्मनश्छन्देन मन्त्रयसे ॥ नहि नहि । भर्तुः खल्वेतानि प्रणयमृदुकान्यक्ष-
राणि वक्त्रान्तरितानि ॥ सखि, देवीं चिन्तयित्वा न मे हृदयं विश्वसिति ॥ मुग्धे,
भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न ... ॥