सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

सौभाग्यभास्करव्याख्या । ३५

रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ॥ ६४ ॥
कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।
नाभ्यालवालरोमालिलताफलकुचद्वयी ॥ ६५ ॥
लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।
स्तनभारदलन्मध्यपट्टबन्धवलित्रया ॥ ६६ ॥
यूरैर्दोर्भूषणैश्चतुर्भिः कमनीया रमणीया ये भुजास्तैरन्विता युक्ता । अङ्गदकेयूरयोराकृ-
तिवैलक्षण्यमाश्रित्याभरणद्वयपरं वा व्याख्येयम् । अतएव ब्रह्मोत्तरखण्डे सप्तमेऽध्याये
शिवध्यानप्रकरणे प्रयोगः । 'दधानं नागवलयकेयूराङ्गदमुद्रिका' इति । अन्यत्रापि 'केयू-
राङ्गदहारकङ्कणमुखालंकारविभ्राजिता'मिति । 'केयूरमङ्गदं दोर्भूषे'त्यग्निपुराणं तु भुजभूष-
णत्वेनानुगमय्य कथनपरम् । तदनुसारित्वादमरसिंहोपि तत्पर एवेत्यदोषः । रत्नखचि-
तग्रैवेयेन ग्रीवाभरणचिन्ताकेन चार्थान्सौवर्णेन लोलैश्चञ्चलैर्हारभावमापन्नैर्मुक्ताफलैश्चा-
न्विता । रत्नमयं ग्रीवासंबन्धि यच्चिन्ताकं तदधस्तिर्यक्पङ्क्तिरूपेण लम्बमानैर्मुक्ताफलै-
रित्येकाभरणपरं वा । चिन्ताकमान्ध्रदेशेषु प्रसिद्धम् । ललाटिकापर्याय इति तु कश्चित् ।
तत्तादृशकोशालेखनाच्चिन्त्यम् । ग्रीवायामेव चिन्ता ध्यानं येषां ते ग्रैवेयचिन्ताकाः ।
उपर्युपर्यापातत एव ध्यानं ये कुर्वन्ति न पुनर्देहरान्तर्देवानां द्रढयितुं क्षमास्ते मध्य-
माधिकारिण इत्यर्थः । लोलाः सतृष्णा अधमाधिकारिणः 'लोलश्चलसतृष्णयो'रित्यग्निपु-
राणात्तदनुसार्यमरः । मुक्ता उत्तमाधिकारिण इत्यर्थः । एषां त्रयाणामपि यानि रत्नभूता-
न्याफलानि अल्पफलान्यधिकफलानि च । 'आङीषदर्थेऽभिव्याप्ता'विति कोशात् । तैर-
न्विता तद्दाने तत्परा इति प्रकृताप्रकृतोभयविषयकश्लेषः ॥ ६४ ॥ कामेश्वरस्य प्रेमैव
रत्नमणिः रत्नोत्तमः । तत्पणविषये प्रतिपणभूतौ स्तनौ यस्याः । मणिशब्दो रत्नपरः
सन्रस्तनयोरेव विशेषणं वा । स्तनरत्ने विक्रीय प्रेमरत्नं क्रीतवतीति भावः । तेन द्विगुण-
मूल्यदानेन क्रयविक्रयाभ्यां च सुतरां परस्परक्षतापायेन प्रेमपरावृत्त्यभावः पातिव्रत्या-
तिशयश्चेति विनिमयालंकारेण वस्तुध्वनिः । नाभिरेवालवालो लतावापश्वभ्रो यस्या
रोमाल्यभिन्नलतायास्तस्याः फलभूता कुचद्वयी यस्याः सेति परंपरितरूपकमुत्प्रेक्षासंब-
न्धातिशयोक्तिश्चेति संकरः ॥ ६५ ॥ लक्षयितुं योग्या लक्ष्या ज्ञापमानेति यावत् ।
ज्ञायमानस्यैव लिङ्गस्यानुमिति प्रति कारणत्वात् । लिङ्गज्ञानमात्रस्य कारणतावादेपि
लिङ्गज्ञानयोर्विशेष्यविशेषणभावे विनिगमनाविरहेणोभयतोपि कारणताया दुष्परिहरत्वात् ।
अनागतादेरपि बौधाकारस्य सत्त्वात् । तथाच गौतमसूत्रं 'बुद्धिसिद्धिं तदसदिति ।
लक्ष्या या रोमलताधारता रोमावलिरूपवल्यावापस्थानत्वं । आधारतासंबन्धेन रोमल-
तैव लिङ्गमिति यावत् । तया सम्यगुन्नेयं प्रमानुमितिविषयो मध्यमं वलग्नं यस्याः । ना-
भ्यधःप्रदेशो मध्यमाह्यघनावयववान् रोमलतात्वादिति प्रयोगः । मध्यमस्य रोमलताया
समर्थनात्काव्यलिङ्गालंकारः । यद्यपि 'निराधरो हा रोदिमि कथय कस्याद्य पुरत' इत्यादा-
विव स्वान्यतरभागानेकवर्णायाः पदमध्ययतेः साधुतायाः समुद्राद्यन्तस्थापरत्वेनैव व्यव-
स्थितत्वात्पादान्तयतेः 'प्रणमत भवबन्धक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानन्ददा-

३६ ललितासहस्रनाम ।
अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।
रत्नकिंकिणिकारम्यरशनादामभूषिता ॥ ६७ ॥
कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।
माणिक्यमुकुटाकारजानुद्वयविराजिता ॥ ६८ ॥
इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका ।
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥ ६९ ॥
नखदीधितिसंछन्ननमज्जनतमोगुणा ।
पदद्वयप्रभाजालपराकृतसरोरुहा ॥ ७० ॥
यी'त्यादाविवाधारतेत्यस्य मध्ये न साधुत्वं तथापि रातमाण्डव्यादिमुनीनां छन्दःशास्त्र-
प्रवर्तकानां प्राचामाचार्याणां च मते यतेरनङ्गीकारात्तद्रीत्या साधुत्वमुपपद्यते । पैङ्गलं तु
कलियुगीयग्रन्थमात्रपरमिति प्रदर्शितं छन्दोभास्करेऽस्माभिः । स्तनयोर्भारेण गौरवेण
दलत इव मध्यस्य दाढ्र्यार्थं कृतः पट्टबन्धः कनकपट्टिकाभिर्बन्धेव वलित्रयं यस्याः
सेत्युत्प्रेक्षाऽतिशयोक्ती ॥ ६६ ॥ अतिशयेनारुणमरुणारुणं कान्तायाः करतलरागरक्तरक्त
इतिवदतिशयस्य वीप्सया द्योतनात् । अरुणवदनूरुवदरुणं वा । कुसुम्भेन रक्तं कौसुम्भं च
यद्वस्त्रं तेन भास्वती भासुरा कट्यास्तटी यस्याः । रत्नमयीभिः किङ्किणिकाभिः क्षुद्रघण्टि-
काभी रम्येण रशनाभिधेन दाम्ना सौवर्णमेखलासूत्रेण भूषिता ॥ ६७ ॥ कामेशेनैव ज्ञाते
तदेकसाक्षिके सौभाग्यमार्दवे लावण्यकोमलत्वे ययोस्तयोरूर्वोर्द्वयेनान्विता । माणिक्यमुकुटं
अखण्डमाणिक्येन निर्मितं मुकुटं टोपिकानामकंन्युब्जं शिरःप्रावरणं यत्तस्येवाकारो ययोस्त-
योर्जानुनोरूरुपर्वणोर्द्वयेन विराजिता ॥ ६८ ॥ इन्द्रगोपाः प्रावृषेण्याः आरक्ततमा कृमिविशेषाः
तैः परितः क्षिप्तौ खचितौ यौ स्मरस्य कामराजस्य तूणौ निषङ्गौ ताभ्यां तुल्ये जङ्घे एव
जङ्घिके यस्याः । यदि तैः खचितौ स्यातां तदोपमा संभाव्येतेत्युपमायामभूतत्वांशध्वनिः ।
गूढौ मांसलौ गुल्फौ पार्ष्णी यस्याः । कूर्मयोः पृष्ठे जयत इति जयिष्णूनी ये प्रपदे पादाग्रे
ताभ्यामन्विता । जयिष्णुपदमिष्णुच्प्रत्ययान्तम् । नतु 'ग्लाजिस्थश्चक्स्नु'रिति क्स्नुप्रत्ययान्तं
जिष्णुरित्यापत्तेः । इष्णुचो विधानं तु 'भुवश्चे'तिसूत्रे चकारस्यानुक्तसमुच्चयार्थकत्वेन
वृत्तिकृता व्याख्यानात् । तत्सूत्रे छन्दसीत्यनुवृत्तिस्तु न कार्या । 'भूष्णुर्भविष्णुर्भविते'त्य-
मरकोशे प्रयोगात् । प्रयोगशरणा वैयाकरणा इति न्यायात् । तस्माद्दिष्णुभ्राजिष्णुवज्जयि-
ष्णुरपि साधुरेव ॥ ६९ ॥ नखानां पादनखचन्द्राणां दीधितिभिः किरणैः सम्यक् छन्नो
लोपितो नमतां ब्रह्मविष्णुवादिजनानां तमोगुणोऽज्ञानं यस्याः । पादध्यानेनाज्ञाननाश
इति भावः । यद्वा अस्याश्चरणयुगस्य नखचन्द्रस्य नमज्जनकिरीटमणिगणच्छायाप्रति-
बिम्बबाहुल्येन दीधितीनां विशिष्यभानाभावे तासां तमोनाशाय नमज्जनहृदयान्तःप्रवेश
उत्प्रेक्ष्यते कविरिति भावः । तथाच मत्स्यपुराणपद्मपुराणयोः पार्वत्याः सामुद्रिकलक्ष-
णानि दृष्टवतो नारदस्य वाक्यं । 'न जातोऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जिता । उत्तान-
हस्ता सततं चरणैर्व्यभिचारिभिः । स्वच्छायया भविष्येयं किमन्यद्बहु भाष्यते' इति

सौभाग्यभास्करव्याख्या । ३७
सिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा ।
मरालीमन्दगमना महालावण्यशेवधिः ॥ ७१ ॥
सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता ।
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ॥ ७२ ॥
मेनांप्रत्युकेर्दुर्लक्षणान्येवेमानि कथितानीति भ्राम्यता हिमवता सदुःखं पृष्टो नारद उ-
वाच । 'हर्षस्थानेऽपि महति त्वया दुःखं निवेद्यते । अपरिच्छिन्नवाक्यार्थो मोहं यासि
महागिरे' । इत्यादिना न जातोऽस्याः पतिरित्यादिवाक्यानामर्थं निर्वर्ण्यन्ते कथितं ।
'यत्तु प्रोक्तं मया पादौ स्वच्छायाव्यभिचारिणौ । अस्याः शृणु ममात्रापि वाचोर्थं शैल-
सत्तम् । चरणौ पद्मसंकाशावस्याः स्वच्छनखोज्ज्वलौ । सुरासुराणां नमतां किरीटमणि-
कान्तिभिः । विचित्रवर्णैर्हास्यन्ति स्वच्छायां प्रतिबिम्बितैः । प्रविश्य नाशयिष्यन्ति तेषां
हार्दं तमोगुण'मिति । पदद्वयस्य चरणयुगलस्य प्रभाजालेन सौष्ठवादिगुणसमूहेन पराकृते
निरस्ते सरोरुहे कमले यस्याः सा ॥७०॥ सिञ्जानाः भूषणजन्यशब्दविशेषं कुर्वाणा मणयो
ययोस्ताभ्यां मञ्जीराभ्यां पादकटकाभ्यां मण्डिता श्रीर्ययोस्तादृशे पदाम्बुजे यस्याः 'नद्यृ-
तश्चे'त्यविकल्पितोपि कप्रत्ययः श्रीशब्दस्य नदीसंज्ञानिषेधादेव न भवति । 'ह्रस्वो नपुं-
सक'इति ह्रस्वस्तु संज्ञापूर्वकविधेरनित्यत्वान्नेह भवति । मण्डिते श्रीयुक्ते पादाम्बुजे यस्या
इति त्रिपदबहुव्रीहिर्वा । मरालो हंसः स्वभावादेव मन्दगतिः । तत्रापि स्त्रीजातीया
विशेषत इति मराल्येवोपात्ता । तस्या इव मन्दगमनं यस्याः । महतो लावण्यातिश-
यितसौन्दर्यस्य शेवधिर्निधिः । 'निधिर्ना शेवधि' रित्यग्निपुराणात् । अतएव 'परवल्लिङ्गं
द्वन्द्वतत्पुरुषयो'रिति पाणिनीयसूत्रात्पुंलिङ्गमिदं नाम । तेन शेवधये नम इत्येव प्रयोगो
न लाक्षणिकः शेवध्यै नम इति ॥७१॥ वसनाभरणकुसुमकान्त्यादिकं सर्वमेवारुणं यस्याः ।
अवद्यानि निन्द्यानि न भवन्तीत्यनवद्यानि सुलक्षणान्यङ्गानि अवयवा यस्याः ।
सर्वैश्चूडामणिप्रभृतिपादाङ्गुलीयकान्तैः कालिकापुराणोक्तैश्चत्वारिंशता कल्पसूत्रोक्तै-
रन्यैरपि वाभरणैर्भूषिता । एवं स्थूलं रूपमुक्त्वा तदवस्थितिस्थानान्याह—शिवका-
मेत्यादिना । कमनीयत्वात्कामः 'कामः कमनीयतये'त्युक्तेः । कामं यथेच्छं रूपमस्येति
वा कामः । ईदृशव्युत्पत्त्यैव मन्मथे कामपदप्रवृत्तेः कालिकापुराणे दर्शनात् । 'जगत्सु
कामरूपत्वे त्वत्समो नैव विद्यते । अतस्त्वं कामनाम्नापि ख्यातो भव मनोभवे'ति ।
प्रज्ञानमेव वा कामः । तथाच श्रुतिः । 'यदेतद्धृदयं मनश्चैतत्संज्ञानमज्ञानं विज्ञानं प्रज्ञानं
मेधा दृष्टिर्धृतिमतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि
प्रज्ञानस्य नामधेयानि भवन्ती'ति । अत्र प्रज्ञानशब्देन शिव एवोच्यते । स्कान्दे ब्रह्म-
गीतायां तथैवोपबृंहणदर्शनात् । 'शंकराख्यं तु विज्ञानं बहुधा शस्यते बुधैः । केचि-
द्धृदयमित्याहु'रित्यारभ्य 'वश इत्यास्तिकाः केचित्सर्वाण्येतानि संततम् । प्रज्ञानस्य
शिवस्यास्य नामधेयान्यसंशय'मित्यन्तम् । जगत्सिसृक्षावानीश्वरः कामपदवाच्यः ।
४

३८ ललितासहस्रनाम ।
तथाच बृहदारण्यके श्रूयते । 'आत्मैवेदमग्र आसीदेक एव सोऽकामयत इत्याद्येतावान्वै काम'
इत्यन्तम् । शिवश्चासौ कामश्चासावीश्वरश्चेति कर्मधारयः । गुणिरुद्रमदनयोर्निरासाय
पदत्रयी । तस्याङ्के वामोत्सङ्गे तिष्ठति निष्षणा । अतएवाह शिवा । वश कान्तौ शिवः
स्मृतः । कान्तिरिच्छा । परशिवेच्छास्वरूपेत्यर्थः । इच्छारूपायाः शक्तेः शिवाधारकत्वा-
दिति भावः । शिवाभेदाद्वा शिवा । तत्र शिवपदनिरुक्तिस्तु शैवागमे । 'वृत्तेः साक्षितया
वृत्तिप्रागभावस्य च स्थितः । बुभुत्सायास्तथा ज्ञोऽस्मीत्यापातज्ञानवस्तुतः । असत्या-
लम्बन्त्वेन सत्यः सर्वजडस्य तु । साधकत्वेन चिद्रूपः सदा प्रेमास्पदत्वतः । आनन्दरूपः
सर्वार्थसाधकत्वेन हेतुना । सर्वसंबन्धवत्त्वेन संपूर्णः शिवसंज्ञितः । जीवेशत्वादिरहितः
केवलः शिव एव स' इति । शिवं करोतीति वा शिवशब्दात् 'तत्करोती'तिण्यन्तात्पचाद्यचि
टाप् । शेतेऽस्मिन्सर्वमिति वा । 'सर्वेशिनिघृष्वरिखे'त्यादिना कर्तृभिन्नेऽर्थे औणादिकनि-
पातनात् । शिवाः शोभना गुणा अस्यां सन्तीति वा । अर्शआदित्वादच् । जैनेन्द्र-
व्याकरणे तु 'शिवादयश्चे'ति सूत्रं । तत्सुभूतिचन्द्रेण व्याख्यातं । शाम्यतीति शिवः
कनि ष्ट्वमङ्गललोपश्च निपात्यत इति । 'समेधयति यं नित्यं सर्वार्थानुपक्रमम् । शिवेति
यन्मनुष्याणां तस्मादेव शिवः स्मृत' इति भारते । 'समा भवन्ति मे सर्वे दानवाश्चामराश्च
ये । शिवंकरोस्मि भूतानां शिवत्वं तेन मे सुरा' इतिच । 'यो योनिं योनिमधितिष्ठत्येको
यस्मिन्निदं संच विचैति विश्व'मिति श्रुतिः । 'त्रिलोचनं नीलकण्ठं प्रशान्तमि'ति च ।
तदेतत्सर्वं शिवाष्टोत्तरशतव्याख्याने संगृहीतमस्माभिः । 'प्रकृत्या नैर्मल्यादमलगुणयो-
गादपि शमाज्जगत्याधारत्वाद्व्रजदमृतदानाच्च भवतः । वलादिच्छाशक्तेः परमशिव
वेदान्तनिकरैरसाधारण्येन व्यवहृतिमयासीः शिव इति' शिवाभेदा वा शिवा । तदभेदस्य
प्रवृत्तिनिवृत्तिता च लिङ्गपुराणे दर्शिता । 'यथा शिवस्तथा देवी यथा देवी तथा शिवः ।
तस्मादभेदबुद्ध्यैव शिवेति कथयन्त्युमामि'ति । तत्रैव स्थलान्तरे । 'उमाशंकरयोर्भेदो
नास्त्येव परमार्थतः । द्विधासौ रूपमास्थाय स्थित एको न संशय' इति । 'परमात्मा
शिवः प्रोक्तः शिवा सैव प्रकीर्तिते'ति च । यज्ञवैभवखण्डेऽपि । 'चिन्मात्राश्रयमायायाः
शक्त्याकारे द्विजोत्तमाः । अनुप्रविष्टा या संवित्निर्विकल्पा स्वयंप्रभा । सदाकारा
परानन्दा संसारोच्छेदकारिणी । सा शिवा परमा देवी शिवाभिन्ना शिवंकरी'त्यारभ्य
'करुणासागरामेनां यः पूजयति शांकरीम् । किं न सिद्ध्यति तस्येष्टं तस्या एव
प्रसादात' इत्यन्तम् । अथवा । वायोर्भार्या शिवानाम्नी । उक्तंच लैङ्गे । 'समस्तभुवन-
व्यापी भर्ता सर्वशरीरिणाम् । पवनात्मा बुधैर्देव ईशान इति कीर्त्यते । ईशानस्य
जगत्कर्तुर्देवस्य परमात्मनः । शिवा भार्या बुधैरुक्ता पुत्री चास्य मनोजव'इति । 'बालेन्दु-
शेखरो वायुः शिवः शिवमनोरमे'तिच । वायुपुराणेऽपि । 'ईशानस्य चतुर्थी या तनुर्वा-
युरिति स्मृता । तस्य पत्नी शिवा नाम पुत्रश्चास्य मनोजव' इति । यद्वा । शिवं मोक्षं
ददातीति शिवा । तदुक्तं देवीपुराणे । 'शिवा मुक्तिः समाख्याता योगिनां मोक्ष-
दायिनी । शिवाय जयते देवी ततो लोके शिवा स्मृते'ति । आगमे तु । 'पावकस्यो-
ष्णतेवेयं भास्करस्येव दीधितिः । चन्द्रस्य चन्द्रिकेवेयं शिवस्य सहजा शिवे'ति ।

सौभाग्यभास्करव्याख्या । ३९
सुमेरुशृङ्गमध्यस्था श्रीमन्नगरनायिका ।
चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ॥ ७३ ॥
एवमिच्छादिधर्मरूपापि न धर्मिणं प्रति गुणभूतेत्याह—स्वाधीनेति । स्वस्यात्मनो-
ऽधीन आयत्तो वल्लभो भर्ता कामेश्वरो यस्याः । शिवस्य शक्त्यधीनात्मलाभकत्वा-
द्धर्म्यंव धर्माधीन इत्यर्थः । तदुक्तं कालिकापुराणे । 'नित्यं वसति तत्रापि पार्वत्या
सह नर्मकृत् । मध्ये देवीगृहं तत्र तदधीनस्तु शंकर' इति । आगमेऽपि । 'शक्तो यया स
शंभुर्भुक्तौ मुक्तौ च पशुगणस्यास्य । तामेनां चिद्रूपामाद्यां सर्वात्मनास्मि नत' इति ।
स्कान्देऽपि 'जगत्कारणमापन्नः शिवो यो मुनिसत्तमाः । तस्यापि साभवच्छक्तिस्तया
हीनो निरर्थक' इति । श्रीमदाचार्यभगवत्पादैरप्युक्तम् । 'शिवः शक्त्या युक्तो यदि
भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपी'ति । स्वाधीनो वल्लभो
ययेति वा । शर्यातिकन्यायाः सुकन्यायाः पतिरश्विभ्यां स्वसमानरूपः कृत इति तं
विशिष्याजानत्या भगवतीमाराध्यैव स्वाधीनीकृत इति देवीभागवते सप्तमस्कन्धे कथा
स्मर्यते । 'शरणं ते जगन्मातः प्राप्तास्मि भृशदुःखिता । रक्ष मेऽद्य सतीधर्मं नमामि
चरणौ तवे'त्यादिप्रार्थनोत्तरम् । 'एवं स्तुता तदा देवी तया त्रिपुरसुन्दरी । हृदि तस्या
ददौ ज्ञानं येनाधीनः पतिर्भवे'दित्याद्युक्तेः । एवं शच्या इन्द्राप्तिरपि षष्ठस्कन्धोक्ते-
होदाहर्तव्या ॥ ७२ ॥ यद्यपि भक्तमीमांसायां 'तत्प्रतिष्ठा गृहपीठवदि'तिसूत्रे गृहे
तिष्ठति पीठे तिष्ठतीति प्रयोगाविशेषादुभयोरप्यधिकरणत्वं मुख्यमेव नतु साक्षात्परंप-
रासंबन्धादिरूपतारतम्यपीठभूभागस्यापि गृहान्तर्गतत्वादित्युक्तं, तथापि गृहे क्व तिष्ठती-
तिवत्पीठे क्व तिष्ठतीत्याकाङ्क्षानुदयात्पीठमपेक्ष्येतरेषामधिकरणानां तारतम्यमनुभवसिद्ध-
मस्त्येव । तेन न्यायेन मुख्यत्वात्कामेश्वराङ्कोत्सङ्गं प्रथममुक्त्वा स्थलान्तराण्याह—
सुमेरुशृङ्गमध्यस्थेत्यादिना । सुमेरोर्हेमाद्रेर्मध्यशृङ्गे तिष्ठतीति तत्स्था । शोभने
मेरुमध्यशृङ्गेति वा । मेरुपर्वते हि शिवत्रिकोणवत्त्रीणि शृङ्गाणि तेषां मध्ये चतुर्थं
शृङ्गमस्ति । तदुक्तं ललितास्तवरत्ने दुर्वासमहामुनिभिः । 'स जयति सुवर्णशैलः सकल-
जगच्चक्रसंघटितमूर्तिः । काञ्चननिकुञ्जवाटीकन्दलदमरीप्रपञ्चसंगीतः । हरिहयनैरृतमारुत-
हरितामन्तेष्ववस्थितं तस्य । विनुमः सानुत्रितयं विधिहरिगौरीशविष्टपाधारम् । मध्ये
पुनर्मनोहररत्नरुचिस्तबकरञ्जितदिगन्तम् । उपरि चतुःशतयोजनमुत्तुङ्गं शृङ्गपुंगवमुपासे'
इति । श्रीमल्लक्ष्मीवन्नगरं निरुपपदमेव नगरपदं विद्यानगरवाचकं तस्य नायिका
अधिपतिः । तच्च नगरं द्विविधं एकं तावन्मध्यमेरुशृङ्गस्थम् । तदुक्तं ललितास्तवरत्ने ।
'तत्र चतुःशतयोजनपरिणाहं देवशिल्पिना रचितम् । नानासालमनेाजं नमाम्यहं
नगरमादिविद्यायाः' इति । तत्र मध्यशृङ्गे । चत्वारि शतानीति विग्रहः । नतु 'चतुः-
शतमुत्कृति'रिति पिङ्गलसूत्र इव चतुरधिकं शतमिति । उत्तरश्लोके प्रथमप्राकारस्य
प्रथमं सहस्रपूर्वकषट्शतसंख्याकयोजनपरिमित इति परिमाणोक्तिविरोधात् । नानासालैः

४० ललितासहस्रनाम ।
महापद्माटवीसंस्था कदम्बवनवासिनी ।
सुधासागरमध्यस्था कामाक्षी कामदायिनी ॥ ७४ ॥
पञ्चविंशतिभिः प्राकारैरिति तदर्थः । अपरं सकलं ब्रह्माण्डबहिरूर्ध्वभागे सुधासागरमध्य-
गतरत्नद्वीपस्थम् । तदुक्तं रुद्रयामले 'अनेककोटिब्रह्माण्डकोटीनां बहिरूर्ध्वतः । सहस्र-
कोटिविस्तीर्णे सुधासिन्धोस्तु मध्यमे । रत्नद्वीपे जगद्वीपे शतकोटिप्रविस्तरे । पञ्चविंशतित-
त्त्वात्मपञ्चविंशतिवप्रकैः । त्रिलक्षयोजनोत्तुङ्गैः श्रीविद्यायाः पुरं शुभ'मित्यादि । विद्यारत्न-
भाष्येतु क्षीरसमुद्रमध्येऽप्येकं पुरमस्तीत्युक्तं परंतु तस्य चतुर्विंशतिप्राकारा इत्यसकृदुक्तं
तत्रैकस्य प्राकारस्य न्यूनत्वं गवेषणीयम् । श्रीमन्नगरशब्दः श्रीचक्रपरो वा । 'चक्रं पुरं
च सदनमगारं नगरं गृहे'ति विश्वाख्योक्तेः । 'कगजदशारे'त्यादिगौडपादीयसूत्रे
श्रीपुरस्य चक्रपरत्वेन तद्भाष्ये व्याख्यानाच्च । 'नैतमृषिमविदित्वा नगरं प्रविशेत्' ।
'देवानां पूरयोध्या' । 'अमृतेनावृतां पुरी'मित्यादिश्रुतिषु नगरादिपदानां चक्रे प्रयोग-
दर्शनाच्च 'नगरचक्र-' (?) इत्यादिरुद्रयाम लात् । मेरौ तु स्वल्पपरिमाणं 'शृङ्गार-
वर्णवर्यस्योत्तरतः सकलविबुधसंसेव्यम् । चिन्तामणिगणरचितं चिन्तां दूरीकरोतु मे
सदन'मिति ललितास्तवरात् । गौडपादीयसूत्रभाष्ये तु सर्वेषां चिन्तितार्थप्रदमन्त्राणां
निर्माणस्थानं तदेवेति तस्य चिन्तामणिग्रहमित्युक्त्वा तन्निर्माणप्रकारो विस्तरेण
वर्णितः । पञ्चभिर्ब्रह्मभिर्निर्मितमासनं मञ्चकरूपं तत्र स्थिता । तदुक्तं बहुरूप्राष्टकतन्त्रे
भैरवयामलतन्त्रे च 'तत्र चिन्तामणिमयं देव्या मन्दिरमुत्तमम् । शिवात्मके महामञ्चे
महेशानोपबर्हणे । अतिरम्यतले तत्र कशिपुश्च सदाशिवः । भृतकाश्च चतुष्पादा
महेन्द्रश्च पतद्ग्रहः । तत्रास्ते परमेशानी महात्रिपुरसुन्दरी'ति । भृतकाः भृत्याः द्रुहिण-
हरिरुद्रेश्वरा इत्यर्थः । आग्नेयादीशानान्तविदिक्षु ब्रह्मादय उपर्यधःस्तम्भरूपाः मध्ये पुरुष-
रूपा अपि श्रीध्यानाच्छक्तिभावं प्राप्ता मीलिताक्षा निश्चला इत्यादिकं पुराणादव-
गन्तव्यम् ॥ ७३ ॥ महान्ति पद्मानि यस्यामीदृश्यामाटव्यां वने सम्यक्तिष्ठति । पद्मा-
टवीस्वरूपमूर्ध्वं 'त्रिलक्षयोजनायाममहापद्मवनावृतं' इति रुद्रयामलोक्तमेकम् । ललिता-
स्तवरत्नोक्तमन्यत् 'मणिसदनसालयोरधिमध्यं दशतालभूमिरुहदीर्घैः । पर्णैः पयोदवर्णै-
र्युक्तां काण्डैश्च योजनोत्तुङ्गैः । मिलितैस्तालीपञ्चकमानैर्मिलितां च केसरकदम्बैः ।
संततगलितमरन्दस्रोतोनिर्यन्मिलिन्दसंदोहाम् । पाटीरपवनबालकधाटीनिर्यत्परागपि-
ञ्जरिताम् । पद्माटवीं भजामः परिमलकल्लोलपक्ष्मालोपान्ता'मिति । ब्रह्मरन्ध्रस्थितसहस्र-
दलपद्ममपि पद्माटवीत्युच्यते । उक्तंच स्वच्छन्दतन्त्रे । 'तस्मादूर्ध्वं कुलं पद्मं सहस्रारमधो-
मुख'मिति प्रक्रम्य 'महापद्मवनं चेदं समानं तस्य चोपरी'ति । ब्रह्माण्डपिण्डाण्डयोरैक-
रूप्याच्च । इदं चारुणोपनिषद्भाष्ये 'आण्डीभवजमासुहु'रितिवाक्यव्याख्यानावसरे स्पष्टी-
कृतम् । कदम्बानां नीपानां वने वसतीति तथा । चिन्तामणिगृहं परितो मणिमण्टपं
तत्परितः कदम्बवनम् । तदुक्तं भैरवयामले 'बिन्दुस्थानं सुधासिन्धुपञ्चयोन्यः सुरद्रुमाः ।

सौभाग्यभास्करव्याख्या । ४१
देवर्षिगणसंघातस्तूयमानात्मवैभवा ।
भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ॥ ७५ ॥
तत्रैव नीपश्रेणी च तन्मध्ये मणिमण्टपम् । तत्र चिन्तामणिमय' मित्यादि । कनकरजत-
प्राकारमध्यभूः सप्तयोजना । तस्माद्वियोजनोन्नताः कदम्बवृक्षाः सन्तीत्यपि पुराणे
स्थितम् । सुधासागरः पीयूषवर्णः स चोर्ध्वस्थ एकः 'अमृतेनावृतां पुरी' मिति श्रुति-
प्रसिद्धः । पिण्डाण्डे बिन्दुस्थाने सहस्रारकर्णिकाचन्द्रमध्येऽन्यः । अपराजिताख्ये सगुण-
ब्रह्मोपासनाप्राप्ये नगरे अरनामक्वण्यनामकौ द्वौ सुधाद्रदौ सागरप्रतिमौ । शारीरकभाष्ये
'अनावृत्तिः शब्दादि' तिसूत्रे कथितावन्यौ । अविशेषात्सर्वेऽपीह गृह्यन्ते । तेषां मध्ये
तिष्ठतीति तथा । कामे कमनीये अक्षिणी यस्याः । समासान्तष्टच् । कामेश्वर एव
नेत्रं यस्या इति वा । नेत्रविषयत्वान्नेत्रत्वमुपचर्यते । काञ्चीपीठाधिष्ठात्र्या इदमसाधारणं
नाम । तदुक्तं ब्रह्माण्डपुराणे 'सर्वज्ञा साक्षिभावेन तत्तत्कामानपूरयत् । तद्दृष्ट्वा चरितं
देव्या ब्रह्मा लोकपितामहः । कामाक्षीति तदा नाम ददौ कामेश्वरीति चे'ति । कामा-
न्मनोरथान् ददातीति कामदायिनी । कामेश्वरमेव वा भक्तेभ्यो वितरति शिवाभेद-
दानाभिप्रायेण वा कामदायिनी । कामं मन्मथं यति खण्डयतीति वा कामदः शिवस्तेन
अयिनी शुभावहविधिमती । 'अयः शुभावहो विधि'रित्यमरः । अथवा दायो
नाम पित्रादिपरंपराजितं स्वं । ततः कामेश्वरेण दायवती । तदभिन्नानादिसिद्धस्वभाव-
वतीत्यर्थः ॥ ७४ ॥ अथ परिभाषायां चतुःषष्टिनामानि विभजते—अर्धचतुर्विंशति-
तनुदोद्भव···गुणगणो दशपात् । दम्भावहगोमेदाभावेहचतुर्गुणा गुणै-
र्गङ्गा ॥ १० ॥ अर्धानां चतुर्विंशतिः ततस्तकारात्षडक्षरमेकं नाम । ततो नकाराद्दशा-
क्षरं । नकारस्य शून्ये संकेतितत्वेऽपि तावन्मात्रस्य नामाक्षरसंख्यलायोगादकारान्तर-
साहित्यापेक्षायां प्रथमोपस्थितिन्यायेनैकाङ्कसमावेशे दशसंख्यावाचकत्वसिद्धेः । टवर्गे
दशमलादपि तत्सिद्धेः दशपादिति । तत्रैकादशानां पादात्मकनाम्नां सत्वेऽपि छन्दो-
नुरोधाद्वयत्युत्यानूद्यैकादशः पादः पृथग् उत्तरार्धे दकारेण निर्दिष्टः । चतुरिति चत्वारि
नामानीत्यर्थः । नतु चतुरक्षरमेकं नामेति । तथात्वे एकेनैव घकारढकारान्यतरेण
सिद्धेऽधिकोक्तेर्वैयर्थ्यात् । एकाद्यादिसंख्यावाचकपदसंबन्धिभिन्नैरेव वर्णैरक्षरसंख्या-
व्यवहारस्यासांकार्यार्थमङ्गीकारस्योक्तत्वाच्च । ततश्चत्वारि नामानि कतिकत्यक्षराणीत्या-
काङ्क्षायां परस्पराक्षरसंख्यावैषम्ये मानाभावात् 'समं स्यादश्रुतत्वा' दितिन्यायेन समसंख्या-
क्षराणीति सिद्धेऽर्धस्यार्धयोरर्धानां वा मध्य एवैत्यपि नियमाच्चत्वारिचत्वार्यष्टावष्टौ
वाक्षराणीति सिध्यति नतु नवनवेत्यादि । अर्धात्परतो द्वितीयनामसमाप्त्यापत्तेः छन्दः-
सूत्रविरोधेन तस्यानिष्टत्वात् । चतुरष्टसंख्ययोरन्यतरनियमस्तु 'भक्तिप्रिया भक्तिगम्या
भक्तिवश्या भयापहे'त्यर्धपर्यालोचनवतां व्युत्पत्तिमंतां च सुज्ञान एव । नह्ययं ग्रन्थः
सहस्रनामाक्षराणामुद्धाराय गुरुचरणैः कृतः किंतु ज्ञाताक्षरान्प्रति विभागप्रदर्शनाय ।

४२ ललितासहस्रनाम ।

अतश्चाक्षरज्ञानसापेक्षत्वाद्युत्पन्नैश्चतुश्चतुरक्षराणीति ज्ञातुं शक्यमेव । नच तैरन्यत्राप्येव-
मेव ज्ञातुं शक्यत्वाद्ग्रन्थवैयर्थ्यम् । व्युत्पन्नानामपि संदेहस्य प्रचुरं प्रदर्शयिष्यमाण-
त्वात् । अन्यथा छलाक्षरसूत्राणामपि वैयर्थ्यापत्तेः । अथापि यद्यष्टाक्षरे द्वे नामनी विभ-
ज्येते तदा गुणैरिति गकारेण शरच्चन्द्रनिभाननेत्यत्र शरच्चमिति त्र्यक्षरस्य भिन्ननाम-
त्वापत्तिः । तत्रापि प्रमादिष्टापत्तिं वदन्तस्तु नात्राधिकारिणः । तदुक्तं योगवासिष्ठे
'नात्यन्तमज्ञो नोत ज्ञः सोऽस्मिञ्छास्त्रेऽधिकारवानि'ति तुल्याविमौ पर्यनुयोगसमाधी
सर्वशास्त्रेष्वपीति ॥ १० ॥ अथ देव्याः स्थूलरूपस्य कार्याणि स्पष्टतया वदन्नेव रहस्य-
भूतं परंरूपं रहस्योक्तिभिरेव वर्णयितुमारभते—देवर्षीत्यादिना । देवगण ऋषि-
गणश्च यस्तयोः संघातेन महासमुदायेन स्तूयमान आत्मा स्वरूपं यस्य तादृशं वैभवं
यस्याः, स्तूयमानात्मवैभवमात्मनो व्यापकत्वं यस्या वा सा । अथवा देवर्षिगणैः
संघातशः स्तूयमानं बहुप्रकारेण स्तूयमानमित्यर्थः । यद्वा संघातो नरकविशेषस्तन्नि-
रासार्थं स्तूयमानमित्यादि । पापस्य प्रायश्चित्तमित्यादौ षष्ठ्या नाश्यनाशकभावसंबन्धार्थ-
कत्वदर्शनादिहापि षष्ठीसमासः । यद्वा सम्यक् घातो भण्डासुरवधस्तदुद्देशेन स्तूय-
मानमित्यादि । अतएवोत्तरनामनि तदुत्तरभाविवधोद्योगकथनम् । अतएव ब्रह्माण्ड-
पुराणे भण्डासुरपीडितैर्देवैः कृतं 'जयदेवि जगन्मात'रित्यादिना देवीस्तवं निर्वर्ण्याम्बया
वरं वृणुध्वमित्युक्ते देवानां वाक्य

सौभाग्यभास्करव्याख्या । ४३
संपत्करी समारूढसिंधुरव्रजसेविता ।
अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ॥ ७६ ॥
ततो नाम्ना भण्डो,लोकेषु कथ्यत' इत्यन्तम् । तस्यासुरत्वमपि तत्रैवोक्तम् । 'रुद्रकोपान-
लाज्जातो यतो भण्डो महाबलः । तस्माद्रौद्रस्वभावश्च दानवश्चाभवत्तत' इति । तस्य
दैत्यस्य वधे हनने उद्युक्तानां शक्तीनां श्रीदेवतानां सेनाभिः सैन्ये सम्यक् व्यूह-
निर्माणेनान्विता युक्ता । सम्यग्भेदेनान्विता वा । तथाच गौडपादीयं सूत्रम्
'भण्डासुरहननार्थमेकैव अनेका' इति । यद्वा भण्डो निर्लज्जः सच प्रकृते जीवभाव-
मापन्नो देही । तदाहुः 'सच्चित्सुखात्मापि जडास्थिरत्वदुःखादिभिः क्लिश्यसि भण्डि-
माय'मिति । तस्यासून प्राणान् रात्यादत्ते तत्सर्वं खं तद्गतो धर्मो भण्डिमेति यावत् ।
ज्ञानबन्ध इति सूत्रोक्तो बन्ध इति भावः । अस्यात्मा ज्ञानमिति सूत्रद्वयं संधावकार-
श्लेषाश्लेषाभ्यामात्मन्यात्मत्वज्ञानाभावोऽनात्मन्यात्मत्वज्ञानं च आणवमलपदवाच्यत्वेन
प्रसिद्धो बन्ध इत्यर्थस्तद्भाष्यवार्तिकयोरुक्तः । तस्य वधो यस्सात्तदुपयुक्तमुद्योग उद्यम
इति यावत् तस्य याः शक्तयः सामर्थ्यानि तासां सेनया समूहेन समन्वितेति
रहस्यार्थः । तथाच शिवसूत्राणि 'उद्यमो भैरवः शक्तिचक्रानुसंधाने विश्वसंहारः' ।
शक्तिसंधाने शरीरोत्पत्तिः भूतसंधाने भूतपृथक्त्वविश्वसंघट्टा इत्यादीनि तद्वार्तिकानि
यथा 'योयं विमर्शरूपायाः प्रसरन्त्याः स्वसंविदः । झडित्युच्छलनाकारप्रतिभो मज्ज-
नात्मकः । उद्यमोन्तःपरिस्पन्दः पूर्णाहंभावनात्मकः । स एव सर्वशक्तीनां सामरस्याद-
शेषतः । विश्वतोभरितत्वेन विकल्पानां विभेदिनाम् । अलं कवलनेनापीयन्वर्थादेव
भैरवः । योयमुक्तः स्वसंवित्तेरुद्योगो भैरवात्मकः । अस्यास्ति महती शक्तिरतिक्रान्त-
क्रमाक्रमा । निःशेषनिजचिच्छक्तिसेनाक्रमणलम्पटा । रिक्तारिक्तोभयाकाराप्यन्यैतदूषिणी
परा । तथैव स्वात्मचिद्वित्तौ प्रमेयोह्लासनादितः । परप्रमातृविश्राम्तिपर्यन्तस्पन्दरूपया ।
सृष्टिस्थितिलयान्ताख्या भासा शक्तिप्रसारणात् । प्रपञ्चविषयं चञ्चत्पञ्चकृत्यं प्रपञ्चितम् ।
तया प्रसारितस्यास्य शक्तिचक्रस्य यत्पुनः । संधानमान्तरा माया सौक्ष्मक्रमविमर्शनम् ।
तस्मिन्सत्यस्य विश्वस्य कालाग्न्यादिकलावधेः । संहारः स्यात्स्वसंवित्तिवह्रिसद्भावलक्षणः ।
इच्छाशक्तिरुमेत्यादिसूत्रोक्ता शक्तिरस्य या । संधाने योगिनस्तस्यास्तन्मये भावने
सति । तद्वशात्तत्तदिच्छार्हशरीरोत्पत्तिरिष्यते । भूतानां देहधीप्राणशून्यानां ग्राहका-
त्मनाम् । ग्राह्याणां स्थावराणां च संधानं परिपोषणम् । पृथक्त्वमथ विश्लेषो व्याध्या-
दिक्लेशबन्धनात् । विश्वस्य देशकालादिविप्रकृष्टस्य यत्पुनः । संघट्टश्चक्षुराद्यक्षप्रत्यक्षीकर-
णादिकम् । एतत्सर्वं भवेच्छक्तिसंधाने सति योगिन'इत्यादि । पुंस्त्वशक्तिर्बाल्ये तिरो-
हितापि यौवने यथा समुल्लसति तथा विचित्राः शक्तिसमूहा जीवे विद्यमाना अप्य-
ज्ञानवशात्तिरोहिताः उद्योगे सति तु सर्वा अपि ताः समुल्लसन्तीति तु समुदायार्थः
॥ ७५ ॥ अस्ति संपत्करीनाम काचिद्देवता । या तावत्स्वतन्त्रतन्त्रे 'संपत्करीति
क्वाप्यस्ति विद्या साऽचिन्त्यवैभवे'त्यारम्य 'एवं त्रिवर्णा सा विद्या विधानं चाथ कथ्यत'

इत्यन्तेन वर्णिता । सा हि त्रिपुरसुन्दर्या गजेष्वधिकृतेति ललितोपाख्याने प्रसिद्धम् ।
'ललितापरमेशान्या अङ्कुशाग्रात्समुद्गता । संपत्करी नामदेवी'त्यारभ्य 'रणकोलाहलं
नाम सारुरोह मतंगज'मित्यादिकमुक्त्वा 'तामन्वगा ययुः कोटिसंख्याकाः कुञ्जरोत्तमा'
इत्यन्तम् । तया सम्यग्गजशास्त्रकथितोपायैरारूढानामारोहणादिना नियमितानां सिन्धु-
राणां भद्रमन्द्रमृगादिभेदभिन्नगजानां व्रजेन हास्तिकेन सेविता । अथवा सुखसंपन्मयी
चित्तवृत्तिः संपत्करीत्युच्यते तस्यां समारूढैर्विषयीभूतैः सिन्धुरव्रजैः शब्दादिविषयसमूहैः
सेविता । तथाच कादिमते 'इन्द्रियार्थानजानपूर्वं तन्नाम्नैव समर्चयेदि'ति । एकस्मिन्
ज्ञाने विषयीभूतायास्त्रिपुट्या विविच्य संबन्धज्ञानरूपा चित्तवृत्तिः सुखसंपत्करी । तदुक्तं
प्रत्यभिज्ञायाम् 'ग्राह्यग्राहक

सौभाग्यभास्करव्याख्या । ४५
चक्रराजरथारूढसर्वायुधपरिष्कृता ।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥ ७७ ॥
तिष्ठति । उमा कुमारी संत्यक्तसर्वसङ्गा महेशितुः । आराधनपरा तद्वदिच्छाशक्तिस्तु
योगिनः । अयमेव स्फुटोपायो दृष्टोऽनुत्तरदेशिकैः । एवमीदृक्प्रभावेच्छाशक्तियुक्तस्य
योगिनः । यद्यद्द्दश्यमशेषं तच्छरीरं तस्य योगिनः । अहमित्यपृथक्त्वेन प्रतिवत्प्रति-
भासनात् । एवं देहे च बाह्ये च सर्वत्रैवास्य योगिनः । दृश्यं शरीरतामेति शरीरं
चापि दृश्यतामिति । सूत्रान्तरं च 'यथा तत्र तथान्यत्रे'ति । 'यत्र स्वाभाविका देहे
स्फुटीभूता स्वतन्त्रता । यथा तत्र तथान्यत्र देहे भवति योगिनः । स्फुटीभवति
युक्तस्य पूर्णांहंतास्वरूपिणी'ति ॥ ७६ ॥ चक्रराजकिरिचक्रगेयचक्रादयो रथप्रभेदा
रथशास्त्रे ललितोपाख्याने च वर्णिताः । 'आनन्दध्वजसंयुक्तो नवभिः पर्वभिर्युतः ।
दशयोजनमुन्नम्रश्चतुर्योजनविस्तृतः । महाराज्ञाश्चक्रराजरथेन्द्रः प्रचलन्बभौ । मन्त्रिीता-
भामहाचक्रे गीतिचक्रे रथोत्तमे । सप्तपर्वाणि चोक्तानि तत्र देव्यश्च ताः शृणु ।
किरिचक्ररथेन्द्रस्य पञ्चपर्वसमाश्रयाः । देवताश्च शृणु प्राज्ञ नामयं(?) शृण्वतां जयः ।
चक्रराजरथो यत्र तत्र गेयरथोत्तमः । यत्र गेयरथस्तत्र किरिचक्ररथोत्तमः । एतद्रथ-
त्रयं तत्र त्रैलोक्यमिव जंगम'मित्यादि । तेषु चक्रराजाख्यं रथमारूढैः सर्वैरायुधैः
परिष्कृतालंकृता युद्धकाले देवी । रथसमीपे देव्याः सर्वाण्यायुधानि चक्रराजरथे परिपूर्य
स्थापितानि सन्तीत्यर्थः । यद्वा चक्रराजं श्रीचक्रमेव रथस्तमारूढानि यानि सर्वायुधानि
सर्वाण्यात्मज्ञानसाधनानि तैरित्यादि । यज्ञायुधानि संभरतीत्यादौ साधने प्रायुध-
शब्दप्रयोगदर्शनात् । आणवोपायशाक्तोपायशांभवोपायादयः शैवशास्त्रोक्तसाधन-
विशेषा योगशास्त्रोक्ताश्च ते श्रीचक्रात्न भिद्यन्त इत्यर्थः । तथाच सूत्रम् । 'नासिकान्त-
मध्यसंयमात्किमत्र सव्यापसव्यसौपुम्ये'ष्विति । चक्रसिद्धौ सत्यां योगमार्गे किमपि
नावशिष्यत इत्यर्थः । अथवा चक्रराजमेव रथ आधारो यस्य तच्चक्रेशलाख्या सिद्धि-
रितियावत् । तामारूढं तद्धानेऽधिकृतं यत्सर्वायुधं सर्वाणि कर्मादिरूपाण्यायुधानि
साधनानि यस्मिंस्तत् 'सर्वे कर्माखिलं पार्थ ज्ञाने परिसमाप्यत'इति वचनाज्ज्ञानं ।
शुद्धविद्येत्यर्थः । तया परिष्कृता । तथाच शिवसूत्रम् । 'शुद्धविद्योदयाच्चक्रेशत्वसिद्धि'-
रिति । वार्तिकान्यपि । 'यदापरिमितां सिद्धिमनिच्छन्पुनरिच्छति । विश्वात्मवत्प्रथा-
रूपां परां सिद्धिं तदास्य तु । शुद्धविद्योदयाच्चक्रराजत्वं सिद्धिमृच्छति । वैश्वात्म्य-
प्रथनाकाङ्क्षी संधत्ते शक्तिमात्मनः । यदा योगी तदा तस्य सदाशिवपदस्पृशः ।
ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः । सामानाधिकरण्यं च सद्विद्याहमिदंधियोः ।
इति नीत्या जगत्सर्वमहमेवेति या मतिः । सा शुद्धा निर्मला विद्या तदीयादुदया-
त्स्फुटात् । उन्मज्जनात्स चिच्छक्तिमात्मनो नित्यमामृशेत् । यदा योगी तदा तस्य
चक्रेशत्वमनुत्तरम् । माहेश्वर्या समावेशोत्कर्षात्सिध्यति योगिन' इति । गेयचक्राख्यं

४६ : ललितासहस्रनाम ।
किरिचक्ररथारूढदण्डनाथपुरस्कृता ।
ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ॥ ७८ ॥
रथमारूढया मन्त्रिण्या श्यामलादेव्या परितः सेविता । यद्वा गेयं प्रसिद्धं चक्रं यस्य
तादृशो रथो यस्य सूर्यमण्डलस्य तत्रारूढाभिर्मन्त्रिणीभिर्विद्योपासकाभिर्योगिनीभिः
परिसेविता । अथवा गेयो मुख्यश्चक्राख्यो रथो यस्याः सा त्रिपुरसुन्दरी तस्या
आरूढमारोहणं बुद्धौ विषयीकरणमनुसंधानमितियावत् । तेन यो मन्त्रिणीः । मन्त्रो-
ऽस्यास्तीति मन्त्री मन्त्रवीर्यं तन्नयति विषयीकरोतीति तदनुभवस्तेन परिसेविता ।
आत्मानं त्रिपुरसुन्दर्यात्माभेदेनानुसंधाने क्रियमाणे यत्तावत्तन्त्रराजे कथितं गुरुमुखै-
कवेद्यं मन्त्रवीर्ययोजनं तस्यानुभवो भवतीत्यर्थः । तथाच सूत्रं 'महाह्रदानुसंधानान्मन्त्र-
वीर्यानुभव'इति । 'महाह्रद इति प्रोक्ता शक्तिर्भगवती परा । अनुसंधानमित्युक्तं
तत्तादात्म्यविमर्शनम् । मन्त्रवीर्यमिति प्रोक्तं पूर्णाहंताविमर्शनम् । तदीयोऽनुभवस्तस्य
स्फुरणं स्वात्मनः स्फुट'मिति । एतच्च 'विद्याशरीरस्फुरता मन्त्ररहस्य'मिति सूत्रे
भगवता श्रीक्षेमराजेन विस्तरेण स्फुटीकृतम् ॥ ७७ ॥ किरिर्वराहः 'कोलः पोत्री
किरिः किटि'रित्यमरात् । तदाकृतीनि तदाकृष्टानि वा चक्राणि यस्य तं रथमारूढया
दण्डनाथया वाराह्याख्यया देव्या पुरस्कृता सेविता । 'सर्वदा दण्डपाणित्वादण्डनाथेति
गीयत' इति त्रिपुरासिद्धान्ते दण्डनाथनामनिर्वचनात् । अथवा किरय इति किरणाः
सृष्टय इति यावत् । इदमुपलक्षणं स्थितिलययोः तेषां चक्रं समूह एव रथः तस्या-
रोहेऽपि दण्डनाथेन कृतान्तेन पुरस्कृता न स्वाधीनीकृता । सृष्टिस्थितिलयान्तःपति-
तोऽपि योगी न यमयातनाविषयः । अक्लुप्तानुसंधान इतियावत् । तथाच सूत्रं ।
'तत्प्रवृत्तावप्यनिरासः स्वसंवेत्तृभावा'दिति । व्याख्यातं च भगवता कृष्णदासेन ।
'तेषां सृष्ट्यादिभावानां प्रवृत्तावप्यनारतम् । उन्मज्जनेऽपि निष्कम्पयोगावष्टम्भशालिनः ।
अनिरासः स्वसंवेत्तृभावादप्रच्युतिर्निजात् । उद्यत्तूर्यचमत्कारादुपलब्धिस्वभावत'इति ।
ज्वालामालिनीनामिका चतुर्दशीतिथिनित्या । तया हि श्रीमातरमभितो वह्निमयः प्राकारो
निर्मितः । तदाक्षिप्तस्य निर्मितस्य वह्निमयस्य प्राकारस्य वरणस्य मध्यगा मध्यभागे
स्थिता । तथाच ब्रह्माण्डे ज्वालामालिनींप्रति देवीवचनम् । 'वत्से त्वं वह्निरूपासि
ज्वालामालामयाकृतिः । त्वया विधीयतां रक्षा बालस्यास्य महीयसः । शतयोजन-
विस्तारं परिवृत्य महीतलम् । त्रिंशद्योजनमुन्नमद्ज्वालाप्राकारतां व्रजे'दित्यादि । यद्वा ननु
परस्परविलक्षणसृष्ट्यादिसंवृतस्य ज्ञानिनः कथमद्वैतानुसंधानलोपाभाव इत्यत आह-
ज्वालेति । ज्वालानां मालिनिका मालास्ताश्च आक्षिप्तास्तत्क्षणे उत्पन्नाश्च वन्हेः
प्रांकाराः प्रकाराः स्फुलिङ्गादयस्तेषां मध्यगा तद्द्रष्टृत्वेन तत्स्रष्टृत्वेन च मध्यवर्तिनी
विवदमानयोर्द्वयोर्मध्यस्थवन्निर्विकारा । सृष्ट्यादिकर्तृत्वेन तद्विकारेऽप्यविकारिणीति
यावत् । तदुक्तं स्पन्दशास्त्रे । 'अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । कार्यता-

सौभाग्यभास्करव्याख्या । ४७
भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।
नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ॥ ७९ ॥
भण्डपुत्रवधोद्युक्तवालाविक्रमनन्दिता ।
क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् । कार्योन्मुखप्रयत्नो यः केवलं सोऽत्र लुप्यते ।
तस्मिंल्लुप्तेऽपि लुप्तोऽस्मीत्यबुधः प्रतिपद्यते । नतु योऽन्तर्मुखो भावः सर्वज्ञलगुणा-
स्पदः । तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भना'दिति । चिद्रूपिरूपस्य ज्ञानिनो
विस्फुलिङ्गज्यालादितुल्यजगतः कार्यस्य नाशेऽपि वह्निरूपप्रकाशकलस्य प्रका-
शात्मकलस्य वा न क्षतिरिति फलितार्थः । नच शिवकार्यस्य क्षयिष्णुत्वेन शिवनिष्ठकर्तृ-
त्वस्य नाशाभावे साधकस्य योगिनः किमायातमिति वाच्यम् । अस्यापि शिवतुल्यत्वेन
'तथापर्यनुयोगानर्हत्वात् शिवतुल्यो जायत' इति सूत्रात् । उक्तंच 'स्वशक्तिप्रचयो
विश्व'मिति सूत्रे वार्तिककारैः । 'शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः । इत्या-
गमदिशा विश्वं स्वशक्तिप्रचयो यथा । शिवस्य तत्समस्यापि तथास्य परयोगिन'
इति । अथवा । ज्वालामालिनिकासु शक्तित्रिकोणेषु पञ्चसु क्षिसानां समरसभाव-
मापन्नानां वह्निप्राकाराणां शिवत्रिकोणानां चतुर्णां मध्ये विन्दुरूपेण तिष्ठतीति ।
तदुक्तमुत्तरचतुःशतीशास्त्रे । 'तच्छक्तिपञ्चकं सृष्ट्या लयेनामित्रतुष्टयम् । पञ्चशक्ति-
चतुर्वह्निसंयोगाच्चक्रसंभव'इति ॥ ७८ ॥ भण्डासुरस्य सैन्यस्य चतुरङ्गबलस्य वधे
उद्युक्तानां संयतानां शक्तीनां नकुल्यादीनां विक्रमेण पराक्रमेण हर्षिता । यद्वा ।
भण्डो जीवभावस्तस्य सैन्यं तदनुगुणाद्वैतविपयिण्यो वृत्तयस्तस्य वधे उद्युक्तानाम-
द्वैतवृत्तिरूपशक्तीनां विशेषेण क्रमः पादविक्षेपस्तेन हर्षिता । खानन्दांशे आवरण-
नाशात् । तदिदमुक्तं शक्तिसूत्रे । 'तदपरिज्ञाने स्वशक्तिव्यामोहिता संसारित्व'मिति ।
तस्य स्वकर्तृकपञ्चविधकृत्यस्यापरिज्ञाने स्वाभिः शक्तिभिः खेचरीगोचरीदिक्त्वरीभूचरी-
संज्ञाभिर्व्यामोहितैव संसारित्वमिति तदर्थः । तासां च शक्तीनां पशुभूमिकायति-
भूमिकेति भूमिकाद्वैविध्येन प्रमात्रन्तःकरणबहिःकरणविषयभावाद्यापत्तिस्तद्भाष्ये द्रष्टव्या ।
एतद्वधोद्युक्तशक्तयश्चैतदुत्तरसूत्रे कथिताः तत्परिज्ञाने चित्तमेवान्तर्मुखीभावेन चेतन-
पदाध्यारोहाच्चितिरिति । अन्तर्मुखीभावशब्देन वृत्तिविशेषरूपाः शक्तय उच्यन्त
इति । कामेश्वर्यादिचित्रान्ताः पञ्चदशतिथिनित्याख्या देवताः । यासां मन्त्रा ज्ञानार्णवे
तन्त्रराजे च भेदेनोद्भूताः । तासां पराक्रमस्याटोपो विस्तारो दमनकादिचन्द्रगुप्तान्त-
पञ्चदशसेनानीवधपर्यन्तः तस्य निरीक्षणे सम्यगुत्सुका । पक्षे नित्या अनादिसिद्धाः
स्वात्मशक्तयस्तत्पराक्रमेक्षणे उत्तरोत्तरमुत्सुका । सकृज्जातापि ज्ञानकलान्तर्मुखतायामे-
वोत्साहं जनयन्ती सती वर्धते । उक्तंच योगवासिष्ठे । 'सर्वा एव कला जन्तोरनभ्यासेन
नश्यति । इयं ज्ञानकला त्वन्तः सकृज्जातापि वर्धत'इति ॥ ७९ ॥ भण्डासुरस्य पुत्रान
चतुर्बाहुपमायान्तानां त्रिंशत्संख्याकानां वधे उद्युक्ताया बालाख्यदेव्या नववर्षीया-

४८ ललितासहस्रनाम ।
मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ॥ ८० ॥
विशुक्रप्राणहरणवाराहीवीर्यनन्दिता ।
कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥ ८१ ॥
स्वपुत्र्या विक्रमेण नन्दिता हृष्टा । उक्तंच ब्रह्माण्डे । 'ताभिर्निवेद्यमानानि सा देवी
ललिताम्बिका । पुत्र्या भुजापदानानि श्रुत्वा प्रीतिं समायया'विति । मन्त्रिण्यम्बया
श्यामलाम्बया विरचितेन विषङ्गाख्यस्य दैत्यस्य वधेन तोषिता । विषङ्गविशुक्रौ भण्डा-
सुरभ्रातरौ । तदुक्तं ब्रह्माण्डे । 'पुरा भण्डासुरो नाम सर्वदैत्यशिखामणिः । पूर्वदेवान्बहु-
विधान्यः स्रष्टुं स्वेच्छया पटुः । विशुक्रं नाम दैतेयवर्गसंरक्षणक्षमम् । शुक्रतुल्यविचारज्ञं
दक्षांसेन ससर्ज सः । वामांसेन विषङ्गं च सृष्टवान्भ्रातरावुभा'वित्यादि ॥ ८० ॥
विशुक्राख्यस्य दैत्यस्य प्राणान् हरतीति हरणं तादृशेन वाराहीनामिकाया दण्डिनीदेव्या
वीर्येण शौर्येण नन्दिता । त्रिपुरासिद्धान्ते वाराहीपदन्निरुक्तिर्यथा । 'वाराहानन्दनाथस्य
प्रसन्नत्वान्महेश्वरी । वाराहीति प्रसिद्धेयं वराहवदनेन चे'ति । पक्षे भण्डपुत्रा आण-
वादयो मलाः विरुद्धः सङ्गो विषङ्गो विषयाभिलाषः, विषं गच्छतीति वा विषात्मक
इतियावत् । अतएव 'यो विषस्थो ज्ञानशक्तिहेतुश्चे'ति सूत्रे विषविरुद्धत्वादविषशब्दो
माहेश्वर्यादिशक्तिमण्डलपरत्वेन क्षेमराजवृत्तौ व्याख्यातः । विरुद्धं शुक्रं तेजो यस्य स
जीवभावः । विशेषेण शुचं शोकं राति कामतीति वा । अयस्मयादित्वात्पृषोदरादि-
त्वाद्वो पक्षद्वये शब्दसिद्धिः । बाला मन्त्रिणी वाराह्यन्तरवृत्तिविशेषास्ताभिस्तेषां क्षयेण
स्वात्मदेवता तुष्यतीति । तदिदमुक्तं 'बललाभे विश्वमात्मसात्करोती'ति शक्तिसूत्रे ।
चित्तिरेव बलं तल्लाभे उन्मग्नखरूपाश्रयेण विश्वं स्वाभेदेन भासयतीति तद्भाष्यम् ।
तथा 'तदारूढप्रमिते तत्क्षयाज्जीवसंक्षय' इति शिवसूत्रे वार्तिककारैः । 'तदित्युक्तचरे
धाम्नि संवेत्तृलखरूपिणी । आरूढा प्रमितिः सच्चिन्मद्विमर्शनतत्परा । यस्य तस्यास्य
तदिति प्रोक्ताणवमलात्मनः । अभिलाषस्य रूढस्य क्षयाज्जीवस्य संक्षय'इति । असुर-
निर्मितैर्नानाविधैर्विघ्नैर्व्यथितान्देवान्वीक्ष्य श्रीमात्रा तदात्व एव स्वभर्तुर्मुखालोकन-
मात्रेणाष्टाविंशत्यर्णो महागपतिरुत्पादितस्तेन तदीयं विघ्नयन्त्रं निर्भिद्य देवा मोचिताः ।
उक्तंच ब्रह्माण्डपुराणे । 'ततः सा ललितादेवी कामेश्वरमुखं प्रति । दत्तापाङ्गा समहस-
न्नातिव्यक्तपदावलि । तस्या मन्दस्मितरुचः कुञ्जराकृतिमान्मुखे । कटक्रोडगलद्दानः
कश्चिद्देवो व्यजृम्भते'त्यादि । तदिदं नामद्वयेनाह । कामेश्वरमुखस्य परशिववदन-
चन्द्रस्यालोकाभ्यां साकूतवीक्षणचन्द्रिकाभ्यां कल्पित उत्पादितः श्रीमान्महागणे-
श्वरो यस्याः सा । यद्वा सूत्रोक्तो जीवक्षयो निलयलाभ्न युज्यत इत्याशङ्क्य जीवभावस्य
क्षयपरत्वेन समाधत्ते—कामेश्वर इति । कामेश्वरः केवलनिर्गुणः शिवस्तन्मुखा-
लोकेन तदनुभवेन कल्पितं श्रीगणेश्वरत्वं पुर्यष्टकाधीश्र्वरत्वं यया सा । पुर्यष्टकप्रमातृ-
त्वाहंताभिमानीविशिष्टस्य जीवपदवाच्यत्वेन तत्तादात्म्याभिमानस स्वात्मस्वरूपनिष्कर्ष-

सौभाग्यभास्करव्याख्या । ४९
महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥ ८२ ॥
कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥ ८३ ॥
ज्ञानजन्येन पुर्यष्टकेश्वरत्वज्ञानेन नाशे विशेषणाभावाप्रयुक्तो विशिष्टाभाव इति भावः ।
तदुक्तं 'भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः पर' इति शिवसूत्रे वार्तिककारैः ।
'तदेत्युक्ताभिलाषस्य प्रशमाज्जीवसंक्षये । पुर्यष्टकप्रमातृत्वाभिमानगलनादसौ । देहा-
रम्भकरैर्भूतैरस्पृष्टाद्विरहं पदम् । कञ्चुकीव विशेषेण मुक्तो निर्वाणभाग्यतः । भूयो बाहु-
ल्यतः पत्या समोऽयं परमेशिना । तत्स्वरूपं समाविष्टश्चिदानन्दघनात्मकम् । ततएव
परः पूर्णः सम्यक्तन्मयतां गत' इति । अयमेवार्थः शक्तिसूत्रेऽप्युक्तः । 'चिदानन्द-
लाभे देहप्राणादिष्ववभासमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्ति'रिति ।
'मध्यविकासाच्चिदानन्दलाभ' इत्युत्तरसूत्रे तु मध्यविकासो यश्चिदानन्दलाभो हेतुत्वेनोक्तः
स इह वक्ष्यमाणमहागणेशपदेन ग्राह्यः । यश्च मध्यविकासेऽप्युपायतस्ततोऽप्युत्तरसूत्रे
विकल्पक्षयादिरूपो वर्ण्यते स इह कामेश्वरमुखालोकपदेनोक्तः । प्रहर्षितेत्यनेन तु
चिदानन्दलाभ उक्तः । एतेषां स्वरूपनिष्कर्षस्तु प्रत्यभिज्ञाहृदयेऽनुसंधेयो विस्तर-
भयान्नेहोच्यते ॥ ८१ ॥ महागणेशेन निःशेषेण भिन्नैर्नाशितैर्विघ्नयन्त्रैः प्रत्यूहसमूह-
यन्त्रणैः प्रकर्षेण हर्षिता । गव्यूतिमात्रायामे शिलापट्टे अलसादिदेवताष्टकपुटित-
शूलाष्टकोपेतदिगष्टकं जयविघ्नंनाम यन्त्रं विलिख्य देवीसैन्ये विशुक्रेण निक्षिप्तं तन्महा-
गणपतिना चूर्णीकृतमिति ललितोपाख्याने प्रसिद्धम् । भण्डेनासुरेन्द्रेण दैत्यराजेन
निर्मुक्तानां शस्त्राणामस्त्राणां प्रतिकूलान्यस्त्राणि वर्षतीति तथा । शस्त्रास्त्रयोर्भेदो धनुर्वेदे
'धृत्वा प्रहरणं शस्त्रं मुक्त्वात्वस्त्रमितीरित'मिति । पक्षे महागणानामीश्वरत्वेनात्मन्या-
त्मताज्ञानाभावादाविद्यकवृत्तिरूपाणां विघ्नानामस्त्राणां च पराहंतानुसंधानधारा-
रूपप्रत्यस्त्रैर्नाशेन नामद्वयमध्यात्मरीत्यापि व्याख्येयम् ॥ ८२ ॥ कराङ्गुल्यो दक्ष-
वामकरद्वयस्याङ्गुल्यो दश तासां नखसंधिषूत्पन्ना नारायणस्य दशाकृतयो मत्स्यादि-
दशावतारा यस्याः सा । भण्डासुरेण सर्वासुरास्त्रंनाम सकलदैत्योत्पादनमस्त्रं प्रयुक्तं
तेन सोमकरावणबलिहिरण्याक्षादय उत्पन्नाः सन्तोऽयुध्यन्त । ततो देव्या दक्ष-
हस्ताङ्गुष्ठादिवामहस्तकनिष्ठिकान्ताङ्गुलिनखेभ्यः क्रमेण मत्स्यकूर्मवराहनारसिंहवामनभार्गव-
दाशरथिलधरकृष्णकल्किरूपदशावतारानुत्पाद्य ते निष्पिषिताः । उक्तंच ब्रह्माण्डे ।
'दक्षहस्ताङ्गुष्ठनखान्महाराज्ञ्याः समुत्थितः । महामत्स्याकृतिः श्रीमानादिनारायणो
विभु'रित्यारभ्य 'दशावतारनाथास्ते कृत्वेत्थं कर्म दुष्करम् । ललिताम्बां नमस्कृत्य
बद्धाञ्जलिपुटाः स्थिता'इत्यन्तेन । पक्षे जीवसंबन्धिन्यो जाग्रदादयोऽवस्थाः पञ्चेश्वर-
संबन्धीनि सृष्ट्यादीनि कृत्यानि पञ्चेत्येवं दशाकृतयोऽपि नखमात्रेणोत्पन्ना भवन्तीति
अनायासेनोत्पद्यन्त इत्यत्र तात्पर्यम् । नारायणशब्दो जीवेश्वरयोरुपलक्षकः । दशा-

कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥ ८४ ॥
᾽ हरनेत्राग्निसंदग्धकामसंजीवनौषधिः ।
श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥ ८५ ॥
शब्दोऽवस्थापरः । कृतिशब्दः कृत्यपरो वा । षडक्षरात्पाशुपतास्त्रमन्त्रादयं भिन्नो
महापाशुपतास्त्रमन्त्रः । पूर्वं ईश्वरदेवत्योऽन्यः सदाशिवदेवत्यः । 'रुद्रादयः पिशाचान्ताः
पशवः परिकीर्तिताः । तेषां पतित्वात्सर्वेशो भवः पशुपतिर्मत'इति लैङ्गात् । पशुपतेः
ईश्वरस्य सदाशिवस्येदं पाशुपतम् । अश्वपत्यादित्वान्न पत्युत्तरपदलक्षणो ण्यप्रत्ययः। महच्च
तत्पाशुपतं च महापाशुपतं सदाशिवास्त्रं तस्याग्निना निर्दग्धा असुरस्य भण्डस्य सैनिका
यया सा । पक्षेऽभ्यासतारतम्येनोत्तरोत्पन्ना उत्कृष्टा अद्वैतवृत्तय एव महा

भण्डासुरहननोत्तरं ब्रह्मादिभिः प्रार्थितया ललिताम्बया पुनर्मन्मथो जीवित इति
कथाया ब्रह्माण्डपुराणे स्मरणाच्च । 'एतेन पित्रा निर्भर्त्सितो बालो मात्रैवाश्वास्यते किले'-
ति न्यायोऽप्यनुगृहीतः । अनेनैवाशयेनोक्तं ब्रह्मवैवर्ते 'हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न
कश्चने'ति । नच तत्र हरिपदस्योपास्यदेवतोपलक्षणत्वेन त्रिपुरसुन्दरीकोपात्राणकर्तृत्वं
परमशिवस्यैव गुरुपरंपरावधिलाद्वक्तव्यं न पुनर्वैपरीत्यमिति शङ्क्यम् । परमशिवस्यापि
श्रीविद्योपासकत्वेनोपासनायाश्च गुरुमन्तरेणायोगात्तदपेक्षायां त्रिपुरसुन्दर्या एव तद्गुरु-
त्वस्वीकारात् । अतएव योगिनीहृदये शिवेनैव पार्वतींप्रत्युक्तम् । 'अन्यायेन न दातव्यं
नास्तिकानां महेश्वरि । एवं त्वयाहमाज्ञप्तो मदिच्छारूपया प्रभो' इति प्रवृत्तिप्रति•
च्छायाः कारणत्वाच्छिवस्य प्रवर्तिका भगवत्येवेति सिद्धं तस्या गुरुत्वम् । अतएव
गुरुमूर्त्तिरिति नाम वक्ष्यते । 'शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यत' इति ।
चतुःशतीशास्त्राहिच्छाशक्तिविशिष्टस्यैव परशिवस्यादिनाथत्वेन तन्त्रेषु गणनान्न त्रिपुर-
सुन्दर्या गुरुमण्डलान्तरादिनाथात्पूर्वगणनपूजनाद्यापत्तिचोद्यावकाशः । तथाच महास्व-
च्छन्दतन्त्रे । 'गुरुशिष्यपदे स्थित्वा स्वयमेव सदाशिवः । प्रश्नोत्तरपदैर्वाक्यैस्तन्त्रं
समवतारय'दिति । स्वयमेवेत्यनेन प्रकाशविमर्शांशयोर्विभजनेन परस्परं गुरुशिष्यभावः
सूचितः । प्रवर्त्तकत्वप्रष्टृत्वे देवीनिष्ठयोर्वक्तृत्वप्रवर्त्यत्वे शिवनिष्ठयोर्गुरुत्वशिष्यत्वयोरव-
च्छेदके इति तद्भेदादविरोधः । एतदेव द्योतयितुं मदिच्छारूपयेति विशेषणं प्रभुपदेन
संबोधनं च । वस्तुतस्तु आदिनाथादर्वागादिशक्त्यम्बानाम्ना द्वितीयस्थाने गण्यत
एवेति न ततः पूर्वं पुनर्गणनापत्तिः । सदाशिवनामकतृतीयगुरुं प्रत्यादिनाथावच्छि-
न्नाया आदिशक्तेरेव गुरुत्वाद्वितीयस्थान एव गणनीयतया न तयोः पौर्वापर्यं विनि-
गमनाविरहोऽपीति दिक् । यद्वा हरणं हरः आत्मस्वरूपापहारः, हरन्तीति वा हराः
आत्मापहर्तारस्तेषां नेता नायकः स एव आसमन्ताद्धासोऽग्निः स्वस्वरूपान्यथाकरणात् ।
मूलाज्ञानमिति यावत् । तस्य मूलाज्ञानाधिकत्वात् । तेन सम्यग्दग्धो यः कामो
जीवभावमापन्नः कामेश्वरस्वरूप आत्मा तस्य सम्यगावरणपरावृत्त्यभावपूर्वकं जीवने
स्वस्वरूपावाप्तौ ओषधिर्मूलिका । एतदुपासनया विद्यारूपयाऽविद्यानिवृत्त्या स्वस्वरूपा-
वाप्तिलक्षणो मोक्ष इति भावः । मन्मथस्य दाहात्पूर्वं स्वशरीरस्य जीवत एव पश्चाद-
शरीरजीवनाद्दृष्टान्तादात्मनोऽपि पूर्वं ब्रह्मण एव सतोऽविद्यावशात्सशरीरस्येव स्थितस्य
तन्निवृत्तावशरीरतापूर्वकब्रह्मैक्यप्राप्तिर्ध्वन्यते । ध्वनितं चैवमेव शैवशास्त्रान्तिमाधिकरणे
'भूयः स्यात्प्रोक्तमिलन'मिति । वार्तिकेपि 'पुनश्च प्रोक्तचैतन्यरूपमिलनात्मकम् ।
परयोगादिरूढस्य भवेत्परमयोगिनः । भूयः स्यादिति वाक्यस्य स्फुट एवायमाशयः ।
यच्छिवत्वममुष्योक्तं नापूर्वं तत्तु योगिनः । स्वभाव एव तन्मायाशक्तिप्रोत्थापितान्नि-
जात् । नानाविकल्पदौरात्म्यात्पराभूतमिव स्वतः । विमृष्टं गुरुनिर्दिष्टप्रोक्तोपायक्रमेण
तत् । शिवत्वं व्यक्तमेतीति शिवेनोदीरितं शिव'मिति । शक्तिशास्त्रान्तिमाधिकरणेऽपि
'निजसंविद्देवताचक्रेश्वरत्वप्राप्ति'रिति सूत्रावयवे निजपदेन तथैव स्फोरितमिति । इयता

कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी ।
शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥ ८६ ॥
मूलमन्त्रात्मिका मूलकूटत्रयकलेवरा ।
कुलामृतैकरसिका कुलसंकेतपालिनी ॥ ८७ ॥
प्रबन्धेन देव्याः परं रूपं सूक्ष्मतरत्वात्सूक्ष्मरूपात्परातपरतो वक्तव्यमपि रहस्योक्ति-
विषयत्वात्स्थूलरूपकार्येण भण्डासुरवधेन सह श्लेषलिप्सया पूर्वमेवोक्त्वा क्रमप्राप्तं सूक्ष्म-
रूपं स्थूलरूपाभिन्नत्वेन वर्णयति—श्रीमद्वाग्भवेत्यादिना । सूक्ष्मरूपमपि सूक्ष्मसू-
क्ष्मतरसूक्ष्मतमभेदात्त्रिविधं पञ्चदशीविद्या कामकलाक्षरं कुण्डलिनीचेति भेदात् । तेष्वाद्यं
नामत्रयेणोच्यते । श्रीमज्ज्ञानप्रदायकत्वादिमाहात्म्यशीलं वाग्भवत्वसादिति व्युत्पत्त्या-
वाग्भवनामकं कूटं पञ्चाक्षराणां समुदाय एवैकं मुख्यं स्वं निजं रूपं यस्य तादृशं मुख-
पङ्कजं यस्याः । तदुक्तं । 'नेत्रोष्ठापरगल्वर्णशालिवाचां । संभूतिर्मुखमिव वाग्भवाख्य-
कूट'मिति ॥ ८५ ॥ कण्ठस्याधः कटिपर्यन्तो यस्य स मध्यभागः स एव मध्यस्थकामरा-
जाख्यस्य षडक्षरसमूहस्य स्वं निजं रूपमस्याः । पटुज्योतिष्मती लोचने इतिवत्कर्मधार-
यादपि मत्वर्थीयः । सर्जनशक्तिमत्त्वाच्छक्तिनामकेन कूटेन चतुरक्षरसमूहेनैकता-
मभेदमापन्नकटेरधोभागं धारयतीति तथा । तदुक्तम् 'कामस्ते हृदि वसतीति काम-
राजं दृष्ट्वात्तदनु तवाम्ब शक्तिकूट'मिति ॥ ८६ ॥ चतुर्विधपुरुषार्थमूलकारणत्वान्मूलं
पञ्चदशाक्षरी सैव मननात्त्रायत इति मन्त्रः आत्मा स्वरूपं यस्याः । तदुक्तं 'पूर्णा-
हंतानुसंध्यात्मा स्फूर्जन्म ननधर्मतः । संसारक्षयकृत्त्राणधर्मतो मन्त्र उच्यत' इति ।
मूलस्य कूटत्रयमेवोक्तरीत्या कलेवरं स्थूलरूपं यस्याः, कूटत्रयमेव कलेवरं सूक्ष्मरूपं
यस्या इति वा । वस्तुतस्तु मूलशब्दाभ्यां कामकलाक्षरमुच्यते । कूटत्रयपदेन त्र्यात्म-
कसमुदायघटकावयवा उच्यन्ते । अवयवे तयपो विधानात् । कामकलायां तूर्ध्वबिन्दु-
रेकस्तदधस्तिर्यग्विन्दुद्वयं तदधो सार्धकलेति त्रयोऽवयवा गुरुमुखैकवेद्याः । त एव
क्रमाद्विद्याकूटतया स्थूलरूपमुखाद्यवयवात्मना च परिणता इति सूक्ष्मतरं कुण्डलिन्याख्यं
सूक्ष्मतमं वररूपपरं नामद्वयं समष्टिव्यष्टिभेदेनेति नाथचरणागमे विस्तरः । एवं ब्रह्मा-
ण्डान्तर्गत रूपमुक्त्वा पिण्डाण्डान्तर्गतं कुण्डलिन्याख्यं रूपं वक्तुमुपक्रमते । सा हि
मूलाधाराख्ये चक्रे सार्धत्रिवलयाकारेण सुप्ता सती योगिभिरुत्थाप्य षट्चक्राणि ब्रह्म-
विष्ण्वादियन्थींश्च भेदयन्ती सहस्रारं नीता सती तत्कर्णिकारूपचन्द्रमण्डलादमृतं स्राव-
यति । अयोगिभिरपि भावनामात्रेण सर्वाप्येषा प्रक्रिया संपाद्यते तत्प्रक्रियापराणि
नामान्याह—कुलामृतेत्यादिना । कुलं सजातीयसमूहः । सचैकज्ञानविषयत्वरूप-
साजात्यापन्नज्ञातृज्ञेयज्ञानरूपत्रयात्मकः । घटमहं जानामीत्येव ज्ञानाकारात्

कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचारतत्परा ॥ ८८ ॥
कुलमित्युच्यते । तदुक्तं चिद्गगनचन्द्रिकायाम् । 'मेयमातृमितिलक्षणं कुलं प्रान्ततो
व्रजति यत्र विश्रम'मिति । ऊर्ध्वाधरभावेन विद्यमानेषु स्वच्छन्दसंग्रहादौ प्रपञ्चितेषु
द्वात्रिंशत्पद्मेषु सर्वाधस्तनं पद्मं त्रिपुटीसंबन्धाभावादकुलमुच्यते । तदुपरिष्टानि कुल-
संबन्धीनि । यद्वा । कुः पृथवीतलं लीयते यत्र तत्कुलमाधारचक्रं तत्संबन्धाल्लक्षणया
सुषुम्णामार्गोऽपि । अतः सहस्रारात्स्रवदमृतं कुलामृतम् । 'शरीरं कुलमित्युक्त'मिति
स्वच्छन्दसंग्रहोक्त्या शरीरसंबन्धित्वाद्व्वा तत्कुलामृतम् । तत्र मुख्यतया रसिका तद्रसा-
स्वादनपरा । 'पुष्पितायाः कुलागारं दृष्ट्वा यो जपते नर'इति कालीतन्त्रे प्रयोगात्तत्कला-
मृतरहस्यरसिकेति वा । उपास्योपासकवस्तुजातस्य चित्त्वेन साजात्यात्तत्समुदाय-
प्रतिपादकं शास्त्रमपि कुलम् । तथाच कल्पसूत्रे प्रयोगः 'कुलपुस्तकानि च गोपाये'दिति ।
'दर्शनानि तु सर्वाणि कुलमेव विशन्तीही'त्यागमे च । 'न कुलं कुलमित्याहुराचारः कुल-
मुच्यत'इति भविष्योत्तरपुराणवचनात् आचारोऽपि कुलं तयोः संकेतान् तन्त्रत्यरहस्यानि
पालयति पशुषु न प्रकाशयति सांप्रदायिकपरंपरायै प्रकाश्य तन्तुं प्रवर्तयति चेति
तथा । 'चक्रसंकेतको मन्त्रपूजासंकेतकाविति । त्रिविधस्त्रिपुरादेव्याः संकेतः परमेश्वरी'त्या-
गमे 'कुलाङ्गनैषाप्यथ राजवीथीः प्रविश्य संकेतगृहान्तरेषु । विश्रम्य विश्रम्य वरेण पुंसा
संगम्य संगम्य रसं प्रसूत'इति चिन्तामणिस्तवे च प्रतिपादितोऽयमर्थः ॥ ८७ ॥
कुलं नाम पातिव्रत्यादिगुणराशिशीलो वंशस्तत्संबन्धिन्यङ्गना यथा गुप्ता तथेयमप्य-
विद्याजवनिकया गुप्तत्वात्कुलाङ्गना । तदुक्तं कुलार्णवे 'अन्यास्तु सकला विद्याः प्रकटा
गणिका इव । इयं तु शांभवी विद्या गुप्ता कुलवधूरिवे'ति । भगवान्परशुरामोऽप्याह ।
'अन्या विद्या वेश्या इवातिप्रकटा' इत्यादि । कुलस्यान्तः मातृमेययोर्मध्ये मितिरूपेण
स्थिता । कुलशास्त्रस्य मध्ये ज्ञेयत्वेन वा स्थिता । प्रतिगृहं प्रतिदेशं प्रतिदेहं प्रतिवंशं
वा पूज्यत्वेन तिष्ठति । 'कुलं जनपदे गृहे । सजातीयगणे गोत्रे देहेऽपि कथितं कुल'-
मिति विश्वः । तदुक्तं भविष्योत्तरपुराणे । 'पूजनीया जनैर्देवी स्थानेस्थाने पुरेपुरे ।
गृहेगृहे शक्तिपरैर्ग्रामेग्रामे वनेवन' इति । अधःस्थितं रक्तं सहस्रदलकमलमपि कुलं ।
तत्कर्णिकायां कुलदेवीदलेषु कुलशक्तयश्च सन्तीति स्वच्छन्दतन्त्रेऽस्य विस्तारः । ईदृगर्थस्य
कुलपदस्य परतः संबन्धसामान्यार्थे तद्धिते कौलम् । 'कुलं शक्तिरिति प्रोक्तमकुलं शिव-
उच्यते । कुलेऽकुलस्य संबन्धः कौलमित्यभिधीयत' इति तन्त्रोक्तम् । शिवशक्ति-
सामरस्यं वा कौलं तद्वती कौलिनी बाह्याकाशावकाशे चक्रं विलिख्य तत्र पूजादिकं
कौलमिति रूढ्योच्यते इति कश्चित् । कुले उक्तार्थके योगः संबन्धोऽस्या इति कुल्यो-
गिनी । छलाक्षरसूत्रकारैः कौलिनी कुलयोगिनीत्यष्टाक्षरस्यैकात्मत्वं यदुक्तं तत्रोपपत्तिं
दशमे शतके वक्ष्यामः । सुषुम्णोर्ध्वस्थितं सहस्रारपद्ममकुलमित्युच्यते । तथाच

५४ ललितासहस्रनाम ।
मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥ ८९ ॥
स्वच्छन्दसंग्रहे 'अधश्चोर्ध्वः सुषुम्णायाः सहस्रदलसंयुत'मित्यारभ्य 'पङ्कजद्वयमीशानिं
कुलाकुलमयं शुभ'मित्यन्तं । तद्रूपत्वात्तन्निष्ठत्वाद्वाऽकुला । न विद्यते कुलं देहवंशादिकं
यस्या इति वा । दहराकाशावकाशे चक्रं विभाव्य तत्र पूजादिकं समय इति रूढ्यो-
च्यते । सच सर्वैर्योगिभिरैकमत्येन निर्णीतोऽर्थ इति संकेतरूपत्वादपि समयः । तत्प्र-
तिपादकत्वाद्वसिष्ठशुकसनकसनन्दनसनत्कुमाराख्यतन्त्रपञ्चकमपि समयपदेन व्यवहि-
यते । तदन्तस्तत्प्रतिपाद्यतया तिष्ठति । यद्वा । समं साम्यं यातीति समयः शिवः ।
'आतोऽनुपसर्गे कः' समयादेवी च तयोरेकशेषः। साम्यं च परस्परं शिवशक्त्योः पञ्चविधं
अधिष्ठानसाम्यमनुष्ठानसाम्यमवस्थानसाम्यं नामसाम्यं रूपसाम्यं चेति । अधिष्ठानं
पूजाधिकरणं चक्रादि । अनुष्ठानं सृष्ट्यादिकृत्यम् । अवस्थानं नृत्यादिक्रिया । नाम
भैरवादि । रूपमारुण्यादि । अस्य च विस्तारो वासनासुभगोदयव्याख्याने लग्नेन कृतः ।
तयोरन्ते स्वरूपे तिष्ठति । 'अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहर' इति विश्वः ।
रुद्रयामले दशभिः पटलैरुपदिष्ट आचारः समयाचार इत्युच्यते । यद्वा । दीक्षितस्य
गुरुकटाक्षवशात् षड्विधैक्यचतुर्विधैक्यान्यतरानुसंधानदार्ढ्ये महावेधाख्यसंस्कारे च
महानवम्यां जाते सति पश्चान्मूलाधारादुत्थिता देवी मणिपूरे प्रत्यक्षा भवति । तां
तत्रैव पाद्यादिभूषणान्तैरुपचारैः संपूज्यानाहतं नीत्वा ताम्बूलान्तमभ्यर्च्य विशुद्धिचक्रं
नीत्वा तत्रत्यचन्द्रकलारूपैर्मणिभिः पूरयित्वा आज्ञाचक्रं नीत्वा नीराजय सहस्रदलकमले
सरघामध्ये सदाशिवेन संयोज्य तिरस्करिणीं प्रसार्य समीपं मन्दिरे स्वयं स्थित्वा याव-
द्भगवती पुनर्निर्गतासती मूलाधारकुण्डं प्रविशति तावत्तत्रैव समयं प्रतीक्षेतेत्याकारो
गुरुमुखैकवेद्यः समयाचारः । तयोरुभयविधयोरपि तत्परा आसक्ता ॥ ८८ ॥ मूला-
धाराख्यं चतुर्दलं पद्मं तत्कर्णिकायां मध्ये बिन्दौ कुलकुण्डनामके मुखमाच्छाद्य कुण्ड-
लिनी तत्र सर्वदैव सुप्ता तिष्ठति । अतएवैतदाधारत्वात्सुषुम्णामूलत्वाच्च मूलाधार
इत्युच्यते । सएवैको मुख्यो निलयो वासस्थानं यस्याः । षट्चक्रेषु प्रतिचक्रमाद्यन्तयो-
र्द्वौद्वौ ग्रन्थी । तत्र ब्रह्मग्रन्थिद्वयं स्वाधिष्ठानीयं विशेषेण भिनत्तीति तथा ॥
॥ इति श्रीभासुरानन्दकृते सौभाग्यभास्करे । आद्येन शतकेनाभूद्द्वितीया
तापिनी कला ॥ १०० ॥ इति श्रीमत्पदवाक्येत्यादिभास्कररायकृते
ललितासहस्रनामपरिभाषाभाष्ये प्रथमशतकं नाम द्वितीया कला ॥२॥
नाभौ दशदले पद्मे सामयिकपूजायां मणिभी रत्नैः पूर्यते भाष्यते देवीति तच्चक्रं
मणिपूरपदवाच्यम् । तस्यान्तरधःस्थितं ग्रन्थि भित्त्वोदिता प्रकटिता । तदुपरिस्थितं
विष्णुग्रन्थि विशिष्य भिनत्तीति तथा । विष्णोर्मणिपूरचक्रस्थितत्वेन तद्ग्रन्थ्योर्विष्णु-