ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
प्रथम शतक: नाम १ से २५० (श्रीमाता से महामाया पर्यन्त भाष्य)
१८ ललितासहस्रनाम ।
आवश्यकत्वे हेतुत्वे मया प्रोक्तो मुनीश्वर ।
इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु ॥ ५० ॥
अथ ध्यानश्लोकः ।
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुर-
त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥ ५१ ॥
हरन्नेव संगतिदर्शनपूर्वकशिष्यावधानाय प्रतिजानीते ॥ ४९ ॥ आवश्यकत्व इति ॥ ५० ॥
अस्य श्रीललितासहस्रनामस्तोत्रमालामन्त्रस्य । वशिन्यादिभ्यो वाग्देवताभ्य ऋषिभ्यो
नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीमहात्रिपुरसुन्दर्यै देवतायै हृदये । क ४
बीजाय नाभौ । स ३ शक्तये गुह्ये । ह ५ कीलकाय पादयोः । चतुर्विधपुरुषार्थ-
सिद्ध्यर्थे जपे विनियोगाय सर्वाङ्गे । कूटत्रयं द्विरावृत्य बाला वा षडङ्गद्वयं । अथ । ‘ऋषि-
र्गुरुत्वाच्छिरसि ध्येयत्वाद्देवता हृदि । छन्दोक्षरत्वाज्जिह्वायां न्यस्तव्यं मन्त्रवित्तमै’ रित्यादि-
रीत्या ऋषिन्यासस्थानानि प्रपञ्चसारोक्तानि शैवशाक्तादिभेदेन न्यासे मुद्राविशेषाः पदा-
र्थादर्शोक्तास्तत्तद्वासनाश्च जपप्रकरण एवास्माभिर्विवृता इति नेह लिख्यन्ते । माणिक्य-
शब्दात्तस्येदमित्यण् । अर्शाआद्यच् । ततश्च माणिक्यकिरीटवति मौलौ स्फुरन् शोभ-
मानस्तारानायकश्चन्द्र एव शेखरः शिरोभूषणं यस्यास्ताम् । उत्तमपरो वा मौलिशब्दः । माणि-
क्यश्रेष्ठवत्स्फुरन्नित्यादिपूर्ववत् । आसमन्तात्पीनौ पुष्टौ वा ‘ऊधस्तु क्लीवमापीनमि’ति
कोषादूधोवद्वा वक्षोरुहौ यस्यास्ताम् । अलिभिः भ्रमरैः पूर्णरत्नमयं चषकं वाटीम् । ‘चषकं
च कटोरी च वाटिका खारिका तथा । कचोली गाथिका चेति नामान्येकार्थकानि वै’
इति रत्नसमुच्चयेऽभिधानात् तदन्तर्गतस्य मधुनः सुगन्धित्वान्मधुपपूर्णता । यद्वा
‘अलिः सुरापुष्पलिहो’रिति हैमकोशान्मद्यमलिपद्वाच्यं । रत्नं घटे तिष्ठति एतादृशो
रक्तचरणः पञ्चमो द्रवो यस्यास्तामिति । एवं परिभाषायां चतुर्भिः श्लोकैः सहस्रनाम्नः
प्रथमो भागो विवृत इति शिवम् ॥ ५१ ॥
इति श्रीभासुरानन्दकृते सौभाग्यभास्करे । उपोद्घातपरैः श्लोकैः प्रथमा तपिनीकला ॥ १ ॥
इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणसर्वतन्त्रस्वतन्त्रश्रीमन्नृसिंह-
यज्वचरणाराधकेन भारत्युपनामकश्रीमद्गंभीररायदीक्षितसूरिसूनुना
भास्कररायेण भासुरानन्दनाथेतिदीक्षानामशालिना प्रणीते
सौभाग्यभास्करे ललितानामपरिभाषामण्डलभाष्ये
उपोद्घातप्रकरणं नाम प्रथमा कला ।
सौभाग्यभास्करव्याख्या । १९
अथ प्रथमशतकंनाम द्वितीया तापिनीकला ।
अथ परिभाषामण्डले नामारम्भकवर्णानैव विभाजकोपाधीकृत्य द्वात्रिंशद्विधानि वक्ष्य-
माणानि नामानि विवेचयितुमेकपञ्चाशन्मातृकासु ग्राह्यवर्णान्विचिनोति—अक्षु शरा-
च्छरवर्णांस्ततः समानन्त्यमौ कचयोः । अथ मध्यान्यांस्तपयोर्द्वितीयमन्त्ये
त्यजेन्नवमम् ॥ ५ ॥ अक्षु षोडशस्वराणां मध्ये शरात् प्राथमिकपञ्चाक्षराणि गृहीत्वा ।
ल्यब्लोपे पञ्चमी । शरवर्णान् षष्ठादिदशमान्तान् पञ्चवर्णांस्त्यजेत् । ततः अवशिष्टा-
नामेकादशादिषोडशान्तानां मध्ये समान् द्वादशचतुर्दशषोडशान् । कचयोः कवर्गच-
वर्गयोः अन्तिमौ ङकारञकारौ झकारञकारौ च । अथानन्तरे टवर्गे मध्यान्यान्
डकारभिन्नांश्चतुरो वर्णान् । तपयोः तवर्गपवर्गयोः द्वितीयं थकारं फकारं च ।
अन्त्ये यवर्गीयदशाक्षरेषु नवमं लकारं त्यजेत् । तत्तदक्षरादिनामधेयानामभावादिति
भावः ॥ ५ ॥ अतएव 'द्वात्रिंशद्भेदमभिन्ना या तां वन्दे हं परात्परामि'ति सूतसंहितोक्ति-
रेतत्परैकाशयेनाह—इत्थं शिष्टानुष्टुग्वर्णारब्धेषु नामसु तु संख्याः । अर्व-
नटत्रिद्वीष्वेकद्विचतुःकंजपानवरधीराः ॥६॥ इत्थं एकोनविंशतिवर्णानां त्यागे-
नावशिष्टा अनुष्टुग्वर्णाः द्वात्रिंशत्संख्यान्यक्षराणि तैरारब्धेषु नामसु संख्यांवच्म इत्यर्थः ।
तदेवाह सार्धेन । अत्रैकैकं पदमेकैकाक्षरादिनाम्नां संख्येति क्रमः । तथाहि । अर्व ।
अकारादीनि नामानि चत्वारिंशत् ॥ ४० ॥ नट । आकारादीनि दश ॥ १० ॥ इका-
रादीनि त्रीणि ॥ ३ ॥ ईकारादीनि द्वे ॥२॥ उकारादीनिपञ्च ॥ ५ ॥ इषुशब्दस्य बाण-
परत्वेन तदर्थकत्वात् ॥ एकारादि नामंकं ॥ १ ॥ ओकारादीनि । द्वे ॥ २ ॥ अंकरा-
दीनि चत्वारि ॥ ४ ॥ कंज । ककारादीन्येकाशीतिः ॥ ८१ ॥ पान ॥ खकाराद्येकं
॥ १ ॥ पकारात्पूर्वं नकारीयबिन्दुलेखस्तु छन्दोनुसारादनिष्टाभावाच्चोक्तः ॥ वर ।
गकारादीनि चतुर्विंशतिः ॥ २४ ॥ धीरः । चकारादीन्येकोनत्रिंशत् ॥ २९ ॥—किंधू-
पद्बिस्तम्भछलभयमांसे पदे वरः सङ्गः ! प्रकटगयाजलवाटीधुसिधर्मे
माखखोल्कटीकाधीः ॥ ७ ॥ किं । छकाराद्यमेकं नाम ॥ १ ॥ धूप । जकारादी-
न्येकोनविंशतिः ॥ १९ ॥ डकारादीनि द्वे ॥ २ ॥ स्तंभ । तकारादीनि षट्चत्वारिंशत्
॥ ४६ ॥ छल । दकारादीनि सप्तत्रिंशत् ॥ ३७ ॥ भय । धकारादीनि चतुर्दश
॥ १४ ॥ मांसे । नकारादीनि पंचसप्ततिः ॥ ७५ ॥ पदे । पका़रादीन्येकाशीति
॥ ८१ ॥ वरः । वकारादीनि चतुर्विंशतिः ॥ २४ ॥ संगः । भकारादीनि सप्तत्रिंशत्
॥ ३७ ॥ प्रकट । मकारादीनि द्वादशोत्तरशतं ॥ ११२ ॥ गय । यकारादीनि त्रयोदश
॥ १३ ॥ जल । रेफादीनि नामान्यष्टत्रिंशत् ॥ ३८ ॥ वाटी । लकारादीनि चतुर्दश
॥ १४ ॥ धुसि । वकारादीन्येकोनाशीतिः ॥ ७९ ॥ धर्मे । शकारादीन्येकोनषष्ठिः
॥ ५९ ॥ मा । षकारादीनि पञ्च ॥ ५ ॥ खखोल्क । सकारादीनि द्वाविंशत्युत्तरशतम्
॥ १२२ ॥ टीका । हकारादीन्येकादश ॥ ११ ॥ धीः । क्षकारादीनि नव ॥ ९ ॥
२० ललितासहस्रनाम ।
नामानीत्यर्थः ॥ ७ ॥—इत्थं नामसाहस्रं साधकलोकोपकारकं विहितम् ।
गुणगणसदसद्भावावाश्रित्य ब्रह्मणोऽम्बायाः ॥ ८ ॥ इत्थं पूर्वोक्तप्रकारेण ।
साधकानां तत्तन्मातृकाभिमान्यमृताकर्षिणीन्द्राण्यादिक्षमावत्यन्तदेवताः सिसाधयि-
षूणां लोकानामुपकारकमस्माभिर्विहितमुक्तमित्यर्थः । तत्तदक्षरारब्धनामसंख्याज्ञानेन
सद्यः पापाद्विमुच्यत इति । अत्र श्रीमातृशब्देन ललिताम्बायाइव मातृकासरसंख्या-
तदभिन्नानाममृतादीनामपि संग्रह इति सुवचनम् । अथवा देव्या अनन्तेषु नामसु
शीघ्रं साधकोपकारकत्वेन कॢप्तान्येव नामानि वाग्देवताभिरिह संगृहीतानीत्यर्थः । ननु
निर्गुणे ब्रह्मणि धर्मलेशराहित्याद्गुणक्रियाजातिरूढीनां शब्दप्रवृत्तिनिमित्तानामसम्भवाच्च-
तुष्ट्यपि शब्दानां प्रवृत्तिर्न तत्र युज्यत इत्यत आह । गुणगणेति । ब्रह्मणोऽम्बाया इति
• समानाधिकरणे षष्ठ्यौ ॥ ८ ॥ अयं भावः । ब्रह्म द्विविधं । सकलं निष्कलं चेति ।
'द्वे ब्रह्मणी वेदितव्ये परं चापरंचे'तिश्रुतेः स्मृतेश्च । तत्र सकलमपरम् । तद्विविधं ।
जगन्नियामकं जगदात्मकं चेति । तदुक्तम् 'जगन्नियन्ता जगदात्मकश्चे'ति । अन्य-
त्रापि 'शिवः कर्ता शिवो भोक्ता शिवः सर्वमिदं जगत्' इति । 'देवी दात्री च भोक्त्री
च देवी सर्वमिदं जगदि'तिच । 'स्थितिसंयमकर्ता च जगतोऽस्य जगच्च स' इतिच ।
'सोऽकामयत बहु स्यां प्रजायेये'ति श्रुतिश्च । अकामयतेति निमित्तताया बहु स्यामिति
परिणाम्युपादानतायाश्च प्रतीतेः । 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधा'दित्यधिकरणे 'आत्म-
कृतेः परिणामादि'ति ब्रह्मसूत्रं च । तत्र जगदात्मकं ब्रह्म चराचरभेदाद्विविधम् । द्विवि-
धमपि हिरण्यगर्भादिभेदाद्वियदादिभेदाच्चानेकविधम् । जगन्नियन्त्रपि नियमनस्य सृष्टि-
स्थितिलयतिरोधानानुग्रहभेदेनानेकविधत्वाद्ब्रह्मविष्णुरुद्रादिभेदेनानेकविधमेव । तेष्वप्ये-
कैकस्य भक्ताननुजिघृक्षया तत्तद्वासनानुसारेण कार्यभेदेन च गृहीतानां रूपाणामनन्तत्वा-
तत्तद्विशिष्टवेषेणानन्त्यमेव । तदुक्तं सुप्रभेदे 'यतीनां मन्त्रिणां चैव ज्ञानिनां योगिनां
तथा । ध्यानपूजानिमित्तं हि तनूगृह्णाति मायये'ति । कालिकापुराणे 'मायैका भिन्नरूपेण
कमलाख्या सरखती । सावित्री सा च संध्या च भूता कार्यस्य भेदतः' इति । बृहन्ना-
रदीयेऽपि जगत्कर्त्री शक्ति प्रकृत्य 'उमेति केचिदाहुस्तां शक्तिं लक्ष्मीं तथा परे ।
भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च । दुर्गेति भद्रकालीति चण्डी माहेश्वरीति च ।
कौमारी वैष्णवी चेति वाराही च तथा परे । ब्राह्मीति विद्याविद्येति मायेति च तथा
परे । प्रकृतिश्च परा चेति वदन्ति परमर्षयः' इति । श्रुतिश्च 'एकधा बहुधा चैव दृश्यते
जलचन्द्रव'दिति । देवीपुराणे । 'देव्या वा एष सिद्धान्तः परमार्थो महामते । एषा
वेदाश्च यज्ञाश्च स्वर्गश्च सकलं जगत् । देव्या व्याप्तमिदं विश्वं जगत्स्थावरजंगमम् ।
इज्यते पूज्यते देवैरन्नपानात्मिका च सा । सर्वत्र शांकरी देवी तनुभिर्नामभिश्च सा ।
वृक्षेष्पूर्वो तथा वायौ व्योम्न्यप्खमौ च सर्वश' इति । निष्कलं त्वेकविधमेव । तदेतत्सर्वं
कूर्मपुराणे हिमवन्तंप्रति देवीवाक्येन स्पष्टीकृतम् 'अशक्तो यदि मां ध्यातुमैश्वरं रूप-
मव्ययम् । तदा मे सकले रूपे कालाद्येऽनन्तभेदिनि । यदेव रूपं मे तात मनसो गोच-
रस्तव । तन्निष्ठस्तत्परो भूत्वा तदर्चनपरो भव । यत्तु मे निष्कलं रूपं चिन्मात्रं केवलं
शिवम् । सर्वोपाधिविनिर्मुक्तमेकमेवामृतं परम् । ज्ञानेनैकेन तल्लभ्यं क्लेशेन परमं पद-
मि’ति । एवंस्थिते सगुणे ब्रह्मणि शक्त्या शब्दानां प्रवृत्तिर्निराबाधैव । प्रवृत्तिनिमित्त-
भूतानां धर्माणां सत्त्वात् । निर्धर्मके तु शब्दा लक्षणया प्रवर्तन्ते । विशिष्टकेवलयो-
स्तादात्म्यरूपस्य शक्यसंबन्धस्य संभवात् । निर्गुणे मिथ्यारूपस्य संबन्धस्य स्वीकारेऽपि
स्वसमानसत्ताकधर्मशून्यत्वरूपनिर्धर्मकताया ब्रह्मणोऽनपायात् । अतीतानागतघटादि-
विषयकज्ञानीयविषयतासंबन्धस्येवान्यतरस्मिन्संसृष्टत्वमात्रेणैव तादात्म्यस्यापि संबन्ध-
त्वाङ्गीकारसंभवाद्वा । अतएव त्रिशत्यां वक्ष्यते 'लक्ष्यार्थलक्षणागम्ये'ति । अनयाच
रीत्या भगवत्या नामान्यनन्तान्येव । वक्ष्यतिच हया
२२ ललितासहस्रनाम ।
भवति प्रिये' इति नामस्मरणसामान्यस्य मातृचक्रान्तं प्रसिद्धिः फलमुक्तम् । तथापि
चतुर्धाकरणन्यायेन विष्णुधर्मोत्तरवचनेनैतेषामुपसंहारादत्रत्यो नामशब्दो भयापहत्वे-
त्यादिनामविशेषपरत्वेन व्यवतिष्ठते । अतएव नामविशेषाश्रयेण फलविशेषः काशीखण्डे
स्मर्यते 'उमानामामृतं पीतं येनेह जगतीतले । न जातु जननीस्तन्यं स पिबेत्कुंभ-
संभव । उमेति द्व्यक्षरं मन्त्रं योऽहर्निशमनुस्मरेत् । न स्मरेच्चित्रगुप्तस्तं कृतपापमपि
द्विजे'त्यादि । नन्वेवंसति फलश्रुतौ सर्वफलत्वोक्तेरप्यनेनैव न्यायेनोपसंहारः प्रसज्जते ।
ततश्च सर्वरोगप्रशमनीत्यादिना वक्ष्यमाणस्य सर्वफलप्रदत्ववचनस्य नातीव सार्थक्यं ।
नचार्थवादत्वेन सार्थक्यं । वेदे तथा सुवचत्वेऽपि पुराणेष्वसंभवात् । तदुक्तं बृहन्नार-
दीये 'पुराणेष्वर्थवादत्वं ये वदन्ति द्विजाधमाः । तैरर्जितानि पुण्यानि तद्वदेव भवन्ति
वै । समस्तकर्मनैर्मूल्यसाधनानि नराधमः । पुराणान्यर्थवादानि ब्रुवन्नरकमाश्नुते' इत्या-
दीतिचेत् । मैवम् । तत्तन्नाम्नां शक्तिभेदेन फलभेदे सिद्धे तत्समष्ट्यनुवादकत्वेन तत्सा-
र्थक्यसंभवात् । नचानुवादस्याप्यर्थानुवादान्तःपातित्वेनोक्तनिषेधवाक्यविरोधः । तत्र-
त्यार्थवादपदस्यात्मवपोत्खेदनादिवाक्यसमानयोगक्षेमगुणवादपरत्वात् । 'प्रतिमासु
शिलाबुद्धिं कुर्वाणो नरकं व्रजे'दित्यादौ शिलात्वे सत्येव शिलाबुद्धिनिषेधस्य शिलान्तर-
साधारणदेवतानाविर्भावबुद्धिनिषेधपरत्ववत् । वस्तुतस्तु 'सर्वेभ्यः कामेभ्यो दर्शपूर्ण-
मासा' विति वाक्यस्य 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यनेन फलांशेनोपसंहारः । 'न
हिंस्यात्सर्वाभूतानी'तिनिषेधस्य 'न ब्राह्मणं हन्या'दित्यनेनापि नोपसंहार इति सिद्धान्तः ।
विशेषाकाङ्क्षायां सत्यामेवोपसंहारावतारात् । अनयोर्विधिनिषेधयोः सर्वपदघटितत्वेन
विशिष्यविशिष्यैव सर्वेषां फलानां प्राणिनां चोपस्थित्या भावनान्वये कीदृशं फलं किंजा-
तीयः प्राणीति विशेषाकाङ्क्षाया अनुदयात् । तदुक्तं तन्त्रवार्तिके 'सामान्यविधिर्-
स्पष्टः संह्रियेत विशेषतः । स्पष्टस्य तु विधेर्नान्यैरुपसंहारसंभवः' इति । तथाच प्रकृतेपि
सर्वेभ्य कामेभ्य एकैकं नामेति विधिपर्यवसानस्यावश्यकतया 'यच्छक्तिमन्नाम यस्ये'ति
विष्णुधर्मोत्तरवचनस्य पाद्मवायवीयदेवीनामसामान्याश्रितविध्युपसंहारकताया नामांशे
स्वीकारेऽपि फलांशे तदस्वीकारः । सर्वपदघटितस्यैव विधिपर्यवसानस्य बहुभिर्वचनैः
सिद्धत्वात् । तथाच देवीवचनम् 'कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा । मत्प्रीत्या
सकलान्कामाल्लभते नात्र संशयः' इति । कालिकापुराणेऽपि 'ये स्तुवन्ति जगन्मात-
र्भवतीमम्बिकेति च । जगन्मयीति मायेति सर्वे तेषां प्रसिध्यति' इति । विष्णुपुराणे
देवींप्रति विष्णुवचनम् 'ये त्वां मायेति दुर्गेति वेदगर्भाम्बिकेति च । भद्रेति भद्रकालीति
क्षेम्या क्षेमंकरीति च । प्रातश्चैवापराह्ने च स्तोष्यन्त्यानम्रमूर्तयः । तेषां हि प्रार्थितं सर्वं
मत्प्रसादाद्भविष्यती'ति । याज्ञवल्क्यस्मृतौ 'विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ।
दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं विनिवेदयेदि'तिविधायोपस्थानमन्त्रं लिङ्गं च स्मर्यते 'रूपं
देहि यशो देहि भगं भगवति देहि मे । पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे'
इति । देवीभागवतेऽपि 'न तदस्ति पृथिव्यां वा दिवि प्राप्यं सुदुर्लभम् । प्रसन्नायां
सौभाग्यभास्करव्याख्या । २३
शिवायायां यदप्राप्यं नृपसत्तम । ते मन्दास्तेऽतिदुर्भागा रोगैस्ते समुपद्रुताः । एषां चित्ते
न विश्वासो भवेदम्ब्यार्चनादिष्वि'ति ॥ हरिवंशेऽपि 'ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्याग्नि-
मारुताः । अश्विनौ वसवश्चैव विश्वे साध्यास्तथैव च । महेन्द्रः सहपर्जन्यो धाता भूमि-
र्दिशो दश । गावो नक्षत्रवंशाश्च ग्रहा नद्यो हृदास्तथा । सरितः सागराश्चैव नानाविद्या-
धरोरगाः । तथा नागाः सुपर्णाश्च गन्धर्वाप्सरसां गणाः । कृत्स्नं जगदिदं प्रीतं देवीना-
मानुकीर्तनादि'ति । नचैवं पर्यवसनस्य विधेरन्नदावसुदादिनामभेदेन बहुरूपत्वात्सर्वेभ्यः
कामेभ्योऽन्नदेति नाम कीर्तयेदिति विधिनेव सिद्धे विष्णुधर्मोत्तरीयस्यान्नकामोन्नदेति नाम
कीर्तयेदिति विशेषविधिवैयर्थ्यापत्तिरिति वाच्यम् । अस्य पर्यनुयोगस्य स्वर्गकाम
२४ ललितासहस्रनाम ।
दर्शनात् । एको मुख्यश्चासावर्धत्रयदेहश्च अर्धं च त्रयं च । अध्युष्टमिति यावत् ।
तादृशी सार्धत्रिवलयाकारा कुण्डलिन्येव सर्वदेवतारूपा देह आत्मा यस्य सः । भूतुल्यो
मदो महामद इत्यर्थस्तं हरति । यद्वा भूमा ब्रह्मानन्दस्तं दत्तेऽतएव हारी मनोहरः ।
‘यो वै भूमा तत्सुखमि’ति श्रुतेः । स्राः जटाः ताभिः सहितः सस्रः परमशिवस्तत्पादौ
लाति आदत्ते विषयीकरोतीति सस्रपाल्ला शिवपदभक्तिः इता प्राप्ता सस्रपाल्ला येन
सः अतएवेशः परमशिवः शिवभक्तिबललभ्यतदभेद इति समुदितार्थः । स्रा इत्येका-
क्षरस्य जटावाचकत्वं ‘स स्राः सस्राश्चतुन्नाशरणकिरणनिभाः पातु बिभ्रत्त्रिनेत्रः’ इतिप्रयोगे
प्रसिद्धम् । आदित्यपुराणप्रसिद्धपश्चिमोदधितीरस्थसस्रकोटीश्वरनामनिर्वचनश्लोकेऽपि ।
‘अद्याप्यस्ति विपश्चितामपि महत्संदेहकोटिद्वयं यः श्रुत्या जगदीश्वरो निगदितः सस्रः
किमसोऽथ सः । तत्रेशः प्रथमैव कोटिरिति किं निश्चायनाय स्फुटं नाम्नैव प्रथितो भव-
त्परशिवः श्रीसस्रकोटीश्वरः’ इति । अत्र सस्रासशब्दौ सजटानिर्जटवाचिनौसन्तौ शिव-
विष्णुपरी । ईदृश्या च रीत्योत्तरश्लोकानामपि प्रकृतोऽप्रकृतो वार्थो वर्णयितुं शक्योपि ग्रन्थ-
विस्तरभयात्पण्डितैरूहितुं शक्यत्वाच्च निष्प्रयोजनत्वाच्च तमुपेक्ष्य नामविभागपरत्वेनैव
व्याख्यान्तरं प्रस्तूयते । मन्त्राद्यो जयति मन्त्राणामादावुच्चारणीयः प्रणवो जयति ।
‘ॐकारो वर्तुलस्तारो मन्त्राद्यः प्रणवो ध्रुवः’ इति मातृकाकोशात् । कालिकापुराणे
‘स्रवत्यनोंकृतं पूर्वं परस्ताच्च विशीर्यते’ इत्यनेनादावन्ते चोच्चार्यत्वेन प्रणवस्य विधानात् ।
अतएव शाख्यायनः ‘दानयज्ञतपस्स्वाध्यायजपध्यानसंध्योपासनप्राणायामहोमदेव-
पित्र्यमन्त्रोच्चारणब्रह्मारम्भादीनि प्रणवमुच्चार्य प्रवर्तयेदिति । कात्यायनोपि प्रणवं-
प्रकृत्य ‘ब्रह्मारम्भे विरामे च यागहोमादिषु शान्तिपुष्टिकर्मसु चान्येष्वपि काम्यनैमि-
त्तिकादिषु सर्वेषु विनियोगोस्ये’ति । दाल्भ्यपरिशिष्टेपि ‘ब्रह्मयज्ञो जपो होमो देवर्षि-
पितृकर्म च । अनोंकृत्य कृतं सर्वं न भवेत्सिद्धिकारक’मिति । अतएव ‘ॐकारेण सर्वा
वाक् संतृण्णे’ति श्रुतिः । सर्वो मन्त्रः संपुटित इति तदर्थः । ‘उतृदिँ हिंसानादरयो’रिति
धातोः समुपसृष्टत्वे उभयमेलनार्थकत्या दीर्घसोमे संतृण्णावितिविधौ न संतृणल्यसंतृणेहि
हनु इति निषेधेऽपि प्रयोगदर्शनात् । ननु सहस्रनामस्तोत्रस्य मन्त्रत्वे प्रणवपुटितत्वं
युज्येत तदेव तु न संभवति । मानाभावात् । अतएव त्रिशत्यां मन्त्रत्वस्याह्वय विधिः ।
‘केवलानामबुद्धिस्ते न कुंभज । मन्त्रात्मकत्वमेतेषां नाम्नां नामात्मतापि चे’तिचेत् न ।
तच्चोदकेषु मन्त्राख्येत्यधिकरणे मन्त्रप्रसिद्धिविषयत्वस्यैव मन्त्रलक्षणत्वोक्तेः । अत्र च
तान्त्रिकाणां मालामन्त्रत्वव्यवहारदर्शनात् ‘शिवशंकररुद्रेशमहेश्वरमृडाव्यये’ तिसंदर्भे तु
मन्त्रप्रसिद्धभावेन नामत्वमात्रं । केवलं नामबुद्धिस्ते इति लीदृशसंदर्भस्य परिसंख्यापकं
न पुनः सहस्रनामसमाख्यातस्य । अतएव ‘सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये’
इत्यादिवचनानि गणेशसहस्रनामादिषु दृश्यन्ते इत्याद्यन्तयोः प्रणव आवश्यकः । तस्य
वर्णभेदेन स्वरभेदादयः कालिकापुराणे स्मर्यन्ते ‘स उदात्तो द्विजातीनां राज्ञां स्यादनु-
दात्तकः । प्रचितश्चोरुजातानां मनसापि तथा स्मरेत् । चतुर्दशस्वरे योऽसौ शेष
सौभाग्यभास्करव्याख्या । २५
औकारसंज्ञिकः । सचानुस्वारचन्द्राभ्यां शूद्राणां सेतुरुच्यते । शूद्राणामादिसेतुर्वा द्विसे-
तुर्वा यदृच्छया । द्विसेतवः समाख्याताः सर्वथैव द्विजातय' इति । द्विजातीनां ब्राह्म-
णानां । राज्ञां क्षत्रियाणां । ऊरुजातानां वैश्यानां । मनसापीति वैश्यमात्रान्वयि । चन्द्रो
नादः । सेतुः प्रणवः । द्विसेतव आद्यन्तप्रणवोच्चारणशीलाः । द्विजातयस्त्रैवर्णिका इति
तदर्थः । यत्त्वाथर्वणब्राह्मणे वेदभेदेन स्वरव्यवस्था श्रूयते । स्वरितोदात्त एकाक्षर ओंका-
रऋग्वेदे त्रैस्वर्योदात्त एकाक्षर ओंकारो यजुर्वेदे दीर्घप्लुतोदात्त एकाक्षर ओंकारः साम-
वेदे ह्रस्वोदात्त एकाक्षर ओंकारोऽथर्ववेदे सामवेदविषयिष्येवेति नात्रोपयुज्यते ॥ एवं
प्रणवं प्रदर्श्य श्रीमातेत्यादीनि त्रिषष्टिनामानि विभज्यन्ते—गुणीत्यादिना । यद्यप्यत्र
मूलकारैः स्वशास्त्रोपयुक्तपरिभाषा न्यायमूलत्वेन विदुषां सुलभा इत्याशयेनैकीकृत्य न
दर्शितास्तथापि शिष्यानुजिघृक्षयास्माभिरत्र कथ्यते । कटपयवर्गभवैरिति पूर्वोक्तश्लोके
ङकारञकारयोः शून्यसंकेतः कृतः इहतु दशत्वसंख्यायां क्रियते । तस्या एवापेक्षणात् ।
शून्यस्यानपेक्षणाच्च । ककारादिभिर्द्योतितसंख्याया आश्रयास्त्वेकैकनामान्तर्गताक्षराणि
स्वरूपाणि । 'चतुरश्छयतावाद्यक्षरलोपश्चे'तिपाणिनिसूत्रे 'एष वै सप्तदशः प्रजापतिरि'-
त्यादिश्रुतिषु च संख्यायाः स्वरमात्राश्रयत्वदर्शनात् । एकद्वित्र्यादिसंख्यावाचकपदानि तु
यत्र पादोऽर्धो वा विशेष्यत्वेन निर्दिश्यते तत्र तानि पदार्थात्कमनामसंख्यापराणि । यत्र
च विशेष्यनिर्देशमन्तरेण प्रयुज्यन्ते तत्र समसंख्याकाक्षरनामसंख्यापराणि । तत्राप्यर्ध-
स्यार्धयोस्त्रयाणां वा समाप्तिपर्यन्तं यानि नामानि तत्पराण्येव न पुनस्त्रिपादपञ्चपादान्तर्गत-
नामपराणि । एकद्वित्रिचतुःपादाद्यन्तर्गतवर्णानां न सांकेतिकार्थे प्रयोग इति । एतदुदाहर-
णानि न्यायाश्चावसर एव व्यक्तीभविष्यन्ति । गुणी गकारणकारौ त्रित्वपञ्चत्वसंख्यापरौ
तस्याश्च नामविशेष्यकत्वे त्रीणि पञ्च च नामानीति पर्यवसानात्तावता कतिभिरक्षरैरेकैकं
नामेत्याकाङ्क्षाया अनिरासेनाकाङ्क्षितविधानं न्याय इति सोमचयनेष्ट्यधिकरणन्यायेनाक्ष-
राण्येव विशेष्याणि स्वीक्रियन्ते । तेषां च नामान्तरसांकर्येण विशेष्यत्वस्वीकारेऽप्युक्त-
दोषतादवस्थ्यादेकस्य नाम्नस्त्रीण्येवाक्षराणीत्यादिरेवार्थः सिध्यति । चतुरक्षरान्तर्गताक्ष-
रत्रयस्यावयवृत्यानुवादे वैयर्थ्यात् । एतेन अङ्गाद् इति छलाक्षरसूत्रेऽचां षोडशसु सं-
केतः । इयं च संख्याक्षरनिष्ठा हलूभिरुक्ता संख्या तु नामनिष्ठा । ततश्च इत्युक्ते एकं
नाम त्र्यक्षरमित्यर्थ इति श्रमो निरस्तः । प्रकृते वर्णैकत्वादेवैकं नामेत्यर्थस्य लाभात् ।
प्रथमं नामेति तु वर्णप्राथम्यादेव सेत्स्यतीत्यंशस्तु सूत्रेष्वत्रापि समानः । नव चरणा
यस्मिन्वाक्समूहे स नवचरणः । तस्य नवधा विभज्य निदेशबलादेकैकस्य चरणस्यैकैक-
नामात्मकत्वं ध्वन्यते । तथाच नवशब्दोदिता संख्या नामस्वेवान्वेति नाक्षरेषु । अत्र
नवशब्दान्नवत्वसंख्याया इव नकारवकारोदितदशचतुःसंख्ययोर्झडिति न प्रतीतिः । अतः
प्रतीतिशैघ्यमांथर्याभ्यां संख्यावाचकपदाक्षराणामिह संभूयैकार्थप्रत्यायकत्वमेव । एकत्र
चरणादिशब्दसमवधानमहिम्ना संख्यावाचकशब्दानां नामधेयान्वितस्वार्थकत्वमेव नाक्ष-
रान्वितस्वार्थकत्वमिति सिद्धे चरणादिविशेष्यसमर्पकपदाभावेऽपि नामान्वितस्वार्थकत्वं क्लृप्तं
न दण्डेन पराणुद्यते । एकत्र निर्णीतः शास्त्रार्थोऽसतिबाधकेऽन्यत्रापीति न्यायात् । आ-
३
दित्यः प्रायणीयः पयसिचरुरिति विधेरस्थालीवचनस्यापि चरुशब्दस्यादितिमोदनेनेति
वाक्यशेषवशादोदनार्थकत्वे निर्णीते सौर्ये चरुरित्यादौ वाक्यशेषाभावेऽप्योदनार्थकत्वा-
नपायात् । ईदृशासंकार्यसिद्ध्यर्थमेव चाक्षरसंख्यायां वाच्यायां गुणादिशब्दान्तराणामेव
प्रयोगो न पुनर्नवदशादिसंख्यापदक्षराणामिति व्यवस्थापि सिध्यति । त्रिंशदर्धाः । समां-
शस्याप्यंशत्वमात्रविवक्षायामनियतलिङ्गोऽर्धशब्दः । ‘अर्धं नपुंसक'मिति सूत्रे कः पुनः
पुंलिङ्ग इति भाष्यस्यानियतलिङ्गपरत्वेनैव कैयटेन व्याख्यानात् । 'वा पुंस्यर्ध' इति को-
शाच्च । तेन षोडशषोडशाक्षराणि त्रिंशन्नामानीत्यर्थः । मकारस्य चतुरक्षरात्मकमेकंना-
मेति । एकपदस्य तदुत्तरमेकनामैल्यर्थे सिद्धन्यायात् द्वादशाक्षरमिति सिध्यति । एक-
स्मिन्नर्धे तावत एव परिशेषात् । अर्धातपरतोऽर्धान्तरग्रहणेन तन्मध्ये नामसमाप्त्ययोगात् ।
‘यतिर्विच्छेद' इति पिङ्गलसूत्रेणाऽर्धान्तेऽवसानविधानात् । अवसानस्य च पदसमाप्ति-
व्याप्यत्वात् । नचार्धान्यूनमेव नाम समाप्यतामिति वाच्यं । तथात्वे एकपदवैयर्थ्यात् ।
रूपपदेन द्वादशसंख्याया उक्तपरिभाषानुसारेण वक्तुं शक्यत्वेऽपि द्व्यक्षरैकाक्षरे नामनी
इति भ्रमो माप्रसंजीति तथा नोक्तम् । अतएव दशाधिका संख्या पारिभाषिकानेकाक्षर-
साध्यत्वान्नेह परिभाषया निर्दिश्यत इत्यपि नियमो द्रष्टव्यः । ततोऽर्धत्रयं त्रीणि ना-
मानि ततोष्टाभिरष्टाभिरक्षरैर्द्वे । ततश्चतुर्भिः पञ्चभिरष्टाभिर्द्वाभ्यां षड्भिश्चाक्षरैः षण्ना-
मानि । ततः सप्तभिश्चरणैः सप्त । ततस्त्रिभिः पंचभिर्द्वे नामनी इत्येवं श्लोकार्थः ॥ ७ ॥
अथ नाम्नार्मथः प्रस्तूयते । तेषु स्त्रीपुंनपुंसकलिंगानां नाम्नां विशेषणरूपत्वेन तेषां
क्रमेण चिदात्मा ब्रह्मेत्यादीनि विशेष्यसमर्पकपदानि निर्दिश्यन्ते । पदानुसारीण्येव हि लिं-
गानि नतु वास्तविकं ब्रह्मण्येकमपि लिङ्गं ‘न स्त्री न षण्ढो न पुमानजेतुरि'ति विष्णुभाग-
वतात् । ‘न त्वमंब पुरुषो न चाङ्गना चित्स्वरूपिणि न षंढतापि ते। नापि भर्तुरपि ते त्रिलि-
ङ्गता त्वां विना न तदपि स्फुरेदयमि'ति कालिकादासोक्तेश्च । अतएव देवताया ध्याने-
प्यैच्छिक एव विकल्पः स्मर्यते । 'पुंरूपां वा स्मरेद्देवि स्त्रीरूपं वा विचिंतयेत् । अथवा नि-
ष्कलं ध्यायेत्सच्चिदानन्दलक्षणमि'ति विशेष्यनिर्देशायैव वा लिङ्गत्रयसाधारणस्य प्रणव-
स्यादौ प्रयोगः । तस्य च समस्तस्य ब्रह्मैवार्थः । 'ओंतत्स्रदिति निर्देशो ब्रह्मणस्त्रिविधः
स्मृतः' इति भगवद्वचनात् । अकारोकारमकारनादविन्दुभिर्व्यस्तैर्ब्रह्मविष्णुरुद्रेश्वरसदा-
शिवानां कथनात्तत्पञ्चकरूपमिति वा । तदुक्तं बृहन्नारदीये । 'अकारं ब्रह्मणो रूपमु-
कारं विष्णुरूपवत् । मकारं रुद्ररूपं स्यादर्धमात्रं परात्मकम् । वाच्यं तत्परमं ब्रह्म वाचकः
प्रणवस्मृतः । वाच्यवाचकसंबन्धस्तयोः स्यादौपचारिकः' इति । रूपपदं वाच्यवाचकयो-
रभेदाभिप्रायेणाभिन्नपरम् । अतएव भेदघटितो वाच्यवाचकभावसंबन्ध औपचारिकः
अमुख्यः । व्यावहारिक इत्यर्थः । अनेनैवाशयेन पुष्पदन्तोप्याह । 'समस्तव्र्यस्तं त्वां
शरणद गृणाम्योमिति पद'मिति । यज्ञवैभवखण्डे तु नानाविधा अर्था वर्णिताः । 'ज्ञा-
तार्थे ज्ञातमित्येवं वक्तव्ये सति तद्विना । ओमिति प्राह लोकोऽयं तेन ज्ञातस्य वाचकः ।
अज्ञातार्थे तथाज्ञातमिति प्राप्ते तु वाचके । ओमिति प्राह लोकोयं तेन ज्ञातस्य वाचकः ।
संदिग्धार्थे तु संदिग्धमिति प्राप्ते तु वाचके । ओमिति प्राह लोकोयं तेन संदिग्धवा-
सौभाग्यभास्करव्याख्या । २७
श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चकः । आकाशादिपदार्थानां ये शब्दा वाचका भुवि । विना तानखिलान्शब्दान्
लोक ओमिति भाषते । अतः प्रयोगबाहुल्यात् घटकुड्यादिशब्दवत् । आकाशादिप-
दार्थानां वाचकः प्रणवः स्मृतः । सर्वावभासकत्वेन ब्रह्मणा सदृशः स्मृतः । सर्वावभासकं
मन्त्रमिमं जपति यो द्विजः । सर्वमन्त्रजपस्योक्तफलं स लभतेऽचिरात्' इति । बृहत्पारा-
शरस्मृतिरपि । 'प्रणवो हि परं तत्वं त्रिवेदं त्रिगुणात्मकं । त्रिदैवतं त्रिधामं च त्रिप्रज्ञं
त्रिरवस्थितम् । त्रिमात्रं च त्रिकालं च त्रिलिङ्गं कवयो विदुः । सर्वमेतत्त्रिरूपेण व्यासं
हि प्रणवेन तु । अग्निः सोमश्च सूर्यश्च त्रिधामेति प्रकीर्तितम् । अन्तःप्रज्ञं बहिःप्रज्ञं घन-
प्रज्ञमुदाहृतम् । हृत्कण्ठे तालुके चेति त्रिस्थानमिति कीर्त्यते । अकारोकारमकारैस्त्रिमात्र
उच्यते सतु । कर्मारम्भेषु सर्वेषु त्रिमात्रं तं प्रकीर्तयेत् । स्थित्वा सर्वेषु शब्देषु सर्वं
व्याप्तमनेन हि । न तेन हि विना किंचिद्रूक्तं याति गिरा यत' इति । गोपथब्राह्मणेपि ।
'ओंकारं पृच्छामः । को धातुः किं प्रातिपदिकं किं नामाख्यातं किं लिंगं का विभक्तिः
कः स्वरः' इत्यादिना महता खण्डेन तत्स्वरूपनिर्णयः प्रपञ्चसारे प्रणवपटले व्याख्या-
तृभिः पद्मपादाचार्यैरपि प्रणवार्थदीपिकादिग्रन्थान्तरे च कृतो भूयानस्य विस्तरो
द्रष्टव्यः ॥ ९ ॥
लोके हि दुःखदशायां मातुः स्मरणं प्रसिद्धं । अनुभूतास्तु मातरो नतापत्रयहरणसमर्थाः ।
तदुक्तमभियुक्तैः 'नानायोनिसहस्रसंभववशाज्जाता जनन्यः कति प्रख्याता जनका
कियन्त इति मे सेत्स्यंति चाग्रे कति । एतेषां गणनैव नास्ति महतः संसारसिंधोर्विधे-
र्भीतं मां नितरामनन्यशरणं रक्षानुकंपानिधे' इति । अतो दुरन्तदुःखहरणक्षमासु सर्वो-
त्तमा जगन्मातैव स्वस्मिन्दयावत्त्वापादनाय मातृत्त्वेनैव स्तोतव्या स्तोत्रसंदर्भप्रयोजन-
मोक्षादिरूपफलत्वेनापि स्तोतव्येत्याशयेनाह—श्रीति । श्रियो लक्ष्म्या माता श्रीरिति
गीरुपलक्षणं तद्वाचकमेव वा । तथाच व्याडिकोशः 'लक्ष्मीसरस्वतीधीत्रिवर्गसंपद्विभूति-
शोभासु । उपकरणवेषरचनाविद्यासु श्रीविद्ये प्रथिते'ति । तथाच श्रीगीर्जनकत्वान्नेयं तत्स-
मानकोटिभूता रुद्राणी किंतु तन्त्रितयजनयित्री परशिवमहिषी परा भट्टारिकेत्युक्तं भ-
वति । यद्वा श्रियं लक्ष्मीं माति परिच्छिनत्ति । परिच्छेद्यापेक्षया परिच्छेदस्याधिक्याव-
श्यंभावादनवधिकश्रीरूपो मोक्ष इत्यर्थः । 'सा हि श्रीरमृता सतामि'ति श्रुतिप्रसिद्धम् ।
त्रयीं माति ब्रह्मणे बोधयति परिच्छेदेन व्यसृजति वा । 'यो ब्रह्माणं विदधाति पूर्वं यो
वै वेदांश्च प्रहिणोति तस्मा' इति श्रुतेः । प्राथमिकामिव्यक्तिरूपा व्यासरूपा वेत्यर्थः ।
श्रियं विषं माति कण्ठे स्थापयतीति वा अनयोः पक्षयोर्नाम पुल्लिंगं भवति । शिवश-
क्त्योरभेदात्प्रकाशो विमर्शो वा विशेष्यः । श्रीमात्रेनम इति मन्त्रे विशेषाभावेऽप्यर्था-
नुसंधाने विशेषः । अथवा 'अभियुक्तानां नाम श्रीपदपूर्वं प्रयुञ्जीत । श्रीचक्रश्रीशैलश्री-
विद्याश्रीफलादिकव'दित्यभियुक्तप्रसिद्धेर्मातेति पदमात्रस्योत्पादिकेत्यर्थः । विनिगमना-
विरहात्सर्वेषामिति लाभात् । 'यतो वा इमानि भूतानि जायन्ते' इति अविशेषश्रुतेश्च ।
अतएव निरुपपदा एवेश्वरेशानादिशब्दाः परशिववाचकाः। अत'श्चेशानो भूतभव्यस्ये'त्या-
दाविव जगन्मातेति क्वचित्प्रतिसंबन्धिनिर्देशेऽपि मातृपदमात्रस्य त्रिपुरसुन्दरीवाचकत्वं न
विहन्यते । यद्वा । हसकलरडेति व्यञ्जनषट्कस्य बालायाः स्वरत्रयेणान्ते योजने कूटत्रया-
त्मको जायमानो मन्त्रो मातेत्युच्यते । 'माया कुण्डलिनी क्रिया मधुमतीति' मन्त्रपाराय-
णोद्धारश्लोके मातृपदस्य तथा वृद्धैर्व्याख्यानादिति मन्त्रोद्धारपरा व्याख्यावगन्तव्या ।
राजशब्दान्तान्तत्वान्डीपि कृते पश्चान्महच्छब्देन समासे 'आन्महत' इत्यात्वे श्रीयुक्ता म-
हाराज्ञीति मध्यमपदलोपसमासे रूपं । नतु महाराजशब्दाट्टित्वान्डीप् । तथात्वे महारा-
ज्ञीत्यापत्तेः । सकलप्रपञ्चजातपालनेऽधिकृतेत्यर्थः । राजशब्दशक्यतावच्छेदकनृपत्वकोटौ
पालनस्य निविष्टत्वात् । तथाच श्रुतिः । 'येन जातानि जीवन्ती'ति । अत्र श्रीविद्यायां
निगूढस्याक्षरत्रयस्योद्धारः । तत्रैकं तावत्षोडशीकलेत्युच्यते । 'सच्छिष्यायोपदेष्टव्या गुरुभ-
क्ताय सा कले'ति वचनात्प्रायेनाधुनिकाैर्बहुभिर्गुुरुमुखाज्ज्ञातं । तच्च 'शिवः शक्तिः काम'
इति विद्योद्धारश्लोके सौन्दर्यलहरीव्याख्यानोल्लेखने प्रकटीकृतं चतुर्लक्षभीमनुषु प्राथ-
मिको मन्त्र इति । इतरद्वयं प्रकाशविमर्शरूपम् । तदुक्तं संकेतपद्धतौ । 'अकारः सर्वव-
र्णाग्य्रः प्रकाशः परमः शिवः । हकारोऽन्त्यः कलारूपो विमर्शाख्यः प्रकीर्तितः' इति ।
अनयोरपि रहस्यत्वादेव 'मध्यविन्दुविसर्गांतः समास्थानमये परे । कुटिलारूपके तस्याः
प्रतिरूपं वियत्कले' त्यादिभिर्गूढार्थैरेव श्लोकैर्योगिनीहृदये स्वरूपनिष्कर्षः कृतः । तत्प्र-
काशनं चास्माभिरविस्ताररहस्यसेतुबन्ध एव कृतमिति नेह प्रतन्यते । राज्ञीत्यंशेन माया-
राज्ञीमन्त्रोद्धारः । अतएव न तच्चप्रत्ययान्तत्वेन प्रयोगः । नृपाधिष्ठितमासनं सिंहासन-
मुच्यते । आसनेषु सिंहः श्रेष्ठमित्यर्थे राजदन्तादित्वात्पूर्वनिपातः । श्रीमत्प्रपंचसाम्राज्यल-
क्ष्मीवच्च तत्सिंहासनंच तस्येश्वरी ईशित्री । सिंहाभिन्नमासनमिति वा । देव्याः सिंहासनारू-
ढत्वात् । तदुक्तं देवीपुराणे नामनिर्वचनाध्याये 'सिंहमारुह्य कन्यात्वे निहतो महिषोऽ-
नया । महिषघ्नी ततो देवी तथा सिंहासनेश्वरी'ति । यद्वा सिंहशब्दो हिंसाार्थकः । त-
दुक्तं वैयाकरणैः । 'हिसिधातोः सिंहशब्दो वशकान्तौ शिवः स्मृतः । वर्णव्यत्ययतः सिद्धौ
पश्यकः कश्यपो यथेति' । तेन सिंहेन हिंसयाऽसनं क्षेपणं निरास इति यावत् । 'असु
क्षेपणे' इतिधातोल्र्युट् । संहार इति समुदायार्थः । तत्रेश्वरी समर्था । तथाच श्रुतिः
'यत्प्रयन्त्यभिसंविशन्तीति' । यद्वा मकारः पंचसंख्यापरः । सन्ति सिंहासनसमाख्याता-
श्वैतन्यभैरव्यादिसंपत्प्रदा भैरव्यंता अष्टौ मन्त्राः । तेषु त्रयं युग्मरूपं द्वयमेकॅकरूपमि-
त्येवं पञ्चैव दिव्यौघभेदेन सिंहासनानि ज्ञानार्णवे कथितानि । 'पञ्चसिंहासनगता कथं
सा त्रिपुरा परा । कथयस्व महेशान कथं सिंहासनं भवेदि'ति पृष्टे । 'प्रथमं शृणु देवेशि
ब्रह्मा सृष्टिकरो यदा । निश्चेतनोऽथ देवेशीं तदा त्रिपुरसुंदरीम् । समाराध्याभवत्कर्ता
सृष्टेस्तु परमेश्वरि । ब्रह्माणं तं समाराध्य तपसा महता प्रिये । शक्तोऽभूद्देवराजोयं पूर्वस्यां
दिशि पालकः । तदा प्रसन्ना त्रिपुरा पूर्वसिंहासने स्थिते' त्यादिना । तेषां पञ्चसिंहासना-
सौभाग्यभास्करव्याख्या । २९
चिदग्निकुण्डसंभूता देवकार्यसमुद्यता ॥ ५२ ॥
उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता ।
नामीश्वरीमित्यनेन मन्त्रोद्धारः। एवं त्रिभिर्नामभिः सृष्टिस्थितिलयकर्तृत्वेन ब्रह्म लक्षयित्वा
प्रकृतपुराणोक्तमातृप्रादुर्भावादिकथाक्रमं प्रायेणाश्रयन्नेव तिरोधानानुग्रहपरपर्यायबन्धमो-
क्षप्रदत्वेनापि सप्रपञ्चं लक्षयितुमुपक्रमते—चिदग्नीत्यादिना शिवशक्त्यैकरूपिणीत्यं-
तेन । चित्केवलं ब्रह्म तदेवाग्निकुण्डं अविद्यालक्षणतमोविरोधित्वात् । 'अन्तर्निरन्तरनिरि-
न्धनमेधमाने मोहान्धकारपरिपन्थिनि संविदग्ना'वित्यादौ चिद्वह्निरूपकप्रयोगदर्शनात् ।
शक्तिसूत्रमपि । 'चिद्वह्निरवरोधपदे छन्नोपि चिन्मात्रयामेयेंधनं पुष्यती'ति । तद्भाष्यं च
चितिरेव विश्वग्रसनशीलत्वाद्वह्निरिति । तत्र सम्यक् अभेदेन भूतस्थितचैतन्याख्यधर्म-
रूपेणावस्थिता नतु जाता । 'तत्र जातः' 'तत्र भवः' इति पाणिनिना भूजनिधात्वोर्भेदेन
कीर्तनात् शक्तिशक्तिमतोर्भेदाच्च । तदुक्तं संक्षेपशारीरकाचार्यैः 'चिच्छक्तिः परमेश्वरस्य
विमला चैतन्यमेवोच्यते' इति । यद्वा प्रसिद्धमग्निकुण्डमेव चित्। चिदग्निपदयोरेव वोपमित-
समासः । 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुने'त्यादौ रूपकदर्शनात् । तस्य कुण्डा-
त्संभूता प्रादुर्भूता उत्पन्नेत्यर्थः । 'धुंधुमारस्ततोऽभवदि'त्यादौ भवतेरुत्पत्तावपि प्रयोगात् ।
तदुक्तं रेणुकापुराणे 'रेणुनामाभवत्पुत्र इक्ष्वाकुकुलवर्धनः' इत्यारभ्य तस्य तपो देवीवरं च
वर्णयित्वा । 'एतस्मिन्नन्तरे यज्ञे वह्निकुण्डाच्छनैर्द्विजा। दिव्यरूपान्विता नारी दिव्याभ-
रणभूषिते'त्यारभ्य 'वह्नेः शीतांशुबिम्बाभा सहसा निर्गता बहिः । एकैव तु जगद्धात्री
द्वितीया नास्ति काचने'त्यन्तेन । ब्रह्माण्डपुराणेऽपि भण्डासुरपीडितं शक्रं निर्वर्ण्य 'कुण्डं
योजनविस्तारं सम्यक्कृत्वातिशोभनमि'त्यादिना चिदग्निकुण्डे देवैः कृतं स्वस्वमांसहोममु-
क्त्वोक्तम् 'होतुमिच्छत्सु देवेषु कलेवरमनुत्तमम् । प्रादुर्बभूव परमं तेजःपुंजमयं म-
हत् । कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् । तन्मध्यतः समुद्भूच्चक्राकारमनौ-
पमम् । तन्मध्यतो महादेवीमुदयार्कसमप्रभाभि'त्यारभ्य'तां विलोक्य महादेवीं देवाः सर्वे
सवासवाः । प्रणेमुर्मुदितात्मानो भूयोभूयोऽखिलात्मिका'मित्यन्तम् । नित्याया उत्पत्त्य-
संभवमाशंक्य समाधत्ते—देवकार्येति । देवानां कार्याणि भण्डासुरमहिषासुरवधादीनि
तदर्थमुद्यता आविर्भूता । प्रकृतिविकृतिभावाभावेन तादर्थ्यचतुर्थ्यंतेन सह समासायो-
गेऽपि शेषषष्ठ्या समासः । तदुक्तं मार्कण्डेयपुराणे । 'देवानां कार्यसिद्ध्यर्थमाविर्भवति
सा यदा । उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते' इति । कूर्मपुराणेऽपि हिमव-
न्तं प्रति भगवत्योक्तं । 'अहं वै याचिता देवैः संस्मृता कार्यगौरवात् । विनिन्द्य दक्षं
पितरं महेश्वरविनिन्दकम् । धर्मसंस्थापनार्थाय तवाराधनकारणात् । मेनादेहात्समुत्पन्ना
त्वामेव पितरं श्रिते'त्यादि ॥ ५२ ॥ एवं चिद्रूपत्वेन प्रकाशात्मकतामुक्त्वा विमर्शात्मकं
रूपमाह—उद्यदिति । भानूनां किरणानां सहस्रं यस्य स भानुसहस्रः सूर्यः । तस्यो-
द्यत्त्वं विशेषणं । वर्तमानकालिकोदयवत्त्वं तदर्थः । वर्तमाने लटः शतृशानचोर्विधानात् ।
तेन लौहित्यं ध्वन्यते । उद्यतां भानूनां रक्तसूर्याणां यत्सहस्रमानन्त्यं तेन तुल्येति वा ।
यहाँ दिए गए पृष्ठ का शुद्ध और स्पष्ट देवनागरी पाठ (लाइन-बाय-लाइन) प्रस्तुत है:
३० ललितासहस्रनाम ।
रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ ५३ ॥
मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका ।
निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ॥ ५४ ॥
अतिलोहितेति फलितोर्थः । उक्तं हि खतन्त्रतन्त्रे । 'स्वात्मैव देवता प्रोक्ता ललिता विश्व-
विग्रहा । लौहित्यं तद्विमर्शः स्यादुपास्तिरिति भावने'ति । वामकेश्वरतन्त्रेपि । 'स्वयं हि त्रि-
पुरादेवी लौहित्यं तद्विमर्शनमि'ति । ईदृशप्रकाशविमर्शसामरस्यापन्नाया देव्यास्त्रीणि
रूपाणि स्थूलं सूक्ष्मं परं चेति । करचरणादिविशिष्टं स्थूलं । मन्त्रमयं सूक्ष्मं । वास-
नामयं परं । तदुक्तं योगवासिष्ठे भगवता । 'सामान्यं परमं चेति द्वे रूपे विद्धि मेऽनघ ।
पाश्यादियुक्तं सामान्यं यत्तु मूढा उपासते । परं रूपमनाद्यन्तं यन्ममैकमनामयम् ।
ब्रह्मात्मा परमात्मादिशब्देनैनदुदीर्यत' इत्यादि । 'सामान्यं द्विविधं प्रोक्तं स्थूलसूक्ष्मविभे-
दत' इत्यन्यत्रापि । यत्तु गङ्गादीनां जलादिमयं रूपं तत्स्थूलतरं चतुर्थं । सूक्ष्मस्यापि
पुनस्त्रैविध्यं वक्ष्यते । तेषु स्थूलं निर्दिशति—चतुरिति । ध्यानोक्तावयवमन्त्रोपलक्षण-
मेतत् । बाहुमात्रपरमेव वा । बाहुप्रसङ्गादायुधानां त्रिविधं रूपमाह—रागेतिचतुर्भिः ।
रागोऽनुरक्तिश्चित्तवृत्तिविशेषः । इच्छैव वा । रागएव स्वं वासनामयं रूपं यस्य स्थू-
लस्य पाशस्य तेनाढ्या वामाधःकरेत्युक्ता । क्रोधो द्वेषाख्या चित्तवृत्तिः । आकारशब्दा-
दर्शाआद्यचि आकारं सविषयकं ज्ञानमित्यर्थः । घटोयमित्याकारं ज्ञानमित्यादौ विषयपर-
त्वेनाकारपदप्रयोगात् । क्रोधपदमेव ज्ञानपरमिति तु कश्चित् । तत्क्रोधोङ्कुश इति श्रुति-
विरोधाद्वक्ष्यमाणस्मृितावेव ज्ञानपदस्य क्रोधपरत्वसंभवादयुक्तम् । तस्मात् द्वेषज्ञानोभया-
त्मकेनाङ्कुशेनोज्ज्वला शोभमानदक्षाधःकरा । तथाचोक्तं पूर्वचतुःशतीशास्त्रे । 'पाशाङ्कुशौ
तदीयौ तु रागद्वेषात्मकौ स्मृता'विति । तन्त्रराजेऽपि वासनापटले । 'मनोभवेक्षु धनुः
पाशो राग उदीरितः । द्वेषः स्यादङ्कुशः पञ्चतन्मात्रा पुष्पसायका' इति । उत्तरचतुःशती-
शास्त्रे तु । 'इच्छाशक्तिमयं पाशमङ्कुशं ज्ञानरूपिणम् । क्रियाशक्तिमये बाणधनुषी दध-
दुज्ज्वल'मिति्युक्तम् ॥ ५३ ॥ संकल्पविकल्पात्मकक्रियारूपं मन एव रूपं यस्य तादृश-
मिक्षुरूपं पुण्ड्रेक्षुमयं कोदण्डं धनुर्र्यस्या वामोर्ध्वकरे सा तथोक्ता । पञ्चसंख्यानि तन्मा-
त्राणि शब्दादीनि विषयाः । तदेव तन्मात्रं पञ्चभूतानामेतदेव रूपमित्यर्थः । तदुक्तं
महास्वच्छन्दसंग्रहे । 'भूतमात्रस्वरूपोऽर्थविशेषाणां निरूपकः । शब्दस्तु शब्दतन्मात्रं
मृदूष्णक्वविनिश्चयः । विशिष्टस्पर्शरूपश्च स्पर्शतन्मात्रसंज्ञकः । नीलपीतत्वशुक्लत्वविशिष्टं
रूपमेव च । रूपतन्मात्रमित्युक्तं मधुरत्वाम्लतायुतम् । रसतन्मात्रसंज्ञं तु सौरभ्यादिवि-
शेषतः । गन्धः स्याद्गन्धतन्मात्रं तेभ्यो वै भूतपञ्चक'मिति । एतानि तन्मात्राण्येव सा-
यकाः बाणा यस्या दक्षोर्ध्वकरे सा तथोक्ता । तदुक्तं वामकेश्वरतन्त्रे । 'शब्दस्पर्शा-
दयो बाणा मनस्तस्याभवद्धनु'रिति । कादिमतेपि । 'बाणास्तु त्रिविधाः प्रोक्ताः स्थूल-
सूक्ष्मपरत्वतः । स्थूलाः पुष्पमयाः सूक्ष्मा मन्त्रात्मानः समीरिंताः । पराश्च वासनायां तु
प्रोक्ताः स्थूलान् शृणु प्रिये । कमलं कैरवं रक्तं कह्लारेन्दीवरे तथा । सहकारक-
सौभाग्यभास्करव्याख्या । ३१
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।
कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥ ५५ ॥
मित्युकं पुष्पपञ्चकमीश्वरी'ति । तेषां नामानि तु कालिकापुराणे । 'हर्षणं रोचनाख्यं च
मोहनं शोषणं तथा । मारणं चेत्यमी बाणा मुनीनामपि मोहदा' इति । ज्ञानार्णवेतु ।
'क्षोभणं द्रावणं देवी तथाकर्षणसंज्ञकम् । वश्योन्मादौ क्रमेणैव नामानि परमेश्वरी'ति ।
तन्त्रराजे तु । 'मदनोन्मादनौ पश्चात्तथा मोहनदीपनौ । शोषणश्चेति कथिता बाणाः
पञ्च पुरोदिताः' इति । अथायुधमन्त्रोद्धारः । रश्च अगश्च स्वं च तेषां समाहारो रागस्वं ।
अगशब्देन स्थाणुर्हकारः । 'हः शिवो गगनं स्थाणु'रितिकोशात् । स्वं सबिन्दुक ईकारः ।
तेन रेफहकारैकारबिन्दुसमाहारो रूपं सूक्ष्माख्यं यस्य पाशस्येत्यादि । हकारोत्तरमिह रे-
फोऽवगन्तव्यः संप्रदायात् । क्रो च धश्च आ च क्रोधाः । तदुपरि श्रूयमाणः कारप्र-
त्ययो द्वंद्वान्तत्वात् प्रत्येकं संबध्यते । क्रोकारधकाराकारा इत्यर्थः । तेऽङ्कुशेनोज्ज्वलाः
अनुस्वारेण शोभमानाः । कौ शेत इति कुशः अंकाराभिन्नः कुशोऽङ्कुशः । मन इति
थकारस्य संज्ञा । थकाराधिकारे 'दक्षनासाधिपो मन' इति कोशात् । कोदण्डोऽनुस्वारः
'अंकारश्चंचुकोदण्ड' इति कोशात् । मनोरूपः कोदण्डः थकाराभिन्नोंकारः क्रोधाकारेत्या-
दिनामसु दकाररेफककारलकारयकारसकारवकारा आ ई ऊ स्वराः सबिन्दुका विव-
क्षिताः । इतरदविवक्षितं । तेषां यथासंप्रदायं योगे बाणबीजानि सिध्यन्तीति । आयु-
धबीजविभागस्तु गुरुमुखादवगन्तव्यः । निजःस्वकीयो योऽरुणप्रभाया रक्तिमकान्तेः पूरः
प्रवाहस्तस्मिन्मज्जन्ति तदभेदेन भासमानानि ब्रह्माण्डानां मण्डलानि यस्याः सा । प्रातः-
काले सौभाग्यादिन्यासविशेषेषु यादृशं ध्यानं विहितमस्ति तादृशरूपवतीत्यर्थः ॥ ५४ ॥
इदानीं अग्निकुण्डापादानकस्थूलरूपप्रादुर्भावे शीर्षस्य प्रथमत्वाद्देवीमुखाभिन्नवाग्भवकू-
टस्य पंचदश्यां प्रथमत्वाच्च शीर्षमारभ्यैव पादपद्मान्तं वर्णयितुमारभते । चम्पकादिशब्दा
वृक्षे शक्ता अपि तत्तत्पुष्पेष्वपि निरूढलक्ष्णिकाः । 'द्विहीनं प्रसवे सर्व' मित्यभि-
पुराणकोशात् । चम्पकानि चेत्यादि द्वन्द्वः । सौगन्धिकानि कह्लाराणि तैः पुष्पैः लसन्तः
शोभमानाः कचाः शिरोरुहा यस्याः सा । लसच्छब्दोऽन्तर्भावितण्यर्थो वा । तेन पुष्पेषु
स्वीयपरिमलापादकाः कचा इति फलति । तदुक्तं । 'जानासि पुष्पगन्धान्भ्रमर त्वं
ब्रूहि तत्त्वं मे । देव्याः केशकलापे गन्धः केनोपमीयते'ति । कुरुविन्दमणयः पद्मरागा-
ख्याः शोणाः कामानुरागादिबहुगुणशीलाः रत्नविशेषा । तदुक्तं गरुडपुराणे रत्ना-
ध्याये । 'तस्यास्तटेषूज्ज्वलचारुरागा भवन्ति तोयेषु च पद्मरागाः । सौगन्धिकोत्थाः कुरु-
विन्दजाश्च महागुणाः स्फाटिकसंप्रसूताः । सौगन्धिककुरुविन्दस्फटिकाद्यन्तर्गतपाषाणा-
दिप्रभेदास्तद्गर्भे पद्मरागमणीनामुत्पत्तिः । तेषु कुरुविन्दोद्भवैष्वेव । 'बन्धूकगुञ्जाशकलेंद्र-
गोपजपाशशासृक्समवर्णशोभाः । आजिष्णवो दाडिमबीजवर्णास्तथापरे किंशुकवर्णभास'
इति । अत्र तस्या इत्यस्य रावणगङ्गाया इत्यर्थः । 'ये तु रावणगङ्गायां जायन्ते कुरुवि-
न्दकाः । पद्मरागा घनाकारं बिभ्राणाः सुस्फुटार्चिष' इत्युपक्रमात् । गुणातिशयोऽपि
३२ ललितासहस्रनाम ।
अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।
मुखचन्द्रकलङ्काभमृगनाभिविशेषका ॥ ५६ ॥
वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका ।
वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ॥ ५७ ॥
नवचम्पकपुष्पाभनासादण्डविराजिता ।
ताराकान्तितिरस्कारिनासाभरणभासुरा ॥ ५८ ॥
कदम्बमञ्जरीक्लृप्तकर्णपूरमनोहरा ।
ताटङ्कयुगलीभूततपनोडुपमण्डला ॥ ५९ ॥
तत्रैव कथितः 'कामानुरागः कुरुविन्दजेषु शनैर्न तादृक् स्फटिकोद्भवेषु । माङ्गल्ययुक्ता
हरिभक्तिदाश्च वृद्धिप्रदास्ते स्मरणाद्भवन्ती'ति । ईदृशानां श्रेण्या पंक्त्या कनता दीप्य-
मानेन कोटीरेण मुकुटेन मण्डिता । ईदृशविशेषणविशिष्टां देवीं ध्यायतां भक्त्याद्यभि-
वृद्धिर्भवतीति ध्वनिः । कुरुविन्दाश्च मणयश्चेति द्वन्द्व इति तु कश्चित् । तद्बलोत्पत्त्य-
ज्ञानात् ॥ ५५ ॥ चन्द्रस्याष्टमी कला यस्यां तिथौ वर्धते हसति.वा सा तिथिरष्टमीत्यु-
च्यते । तत्संबंधी यश्चन्द्रोऽष्टकलायुक्तः समचन्द्रार्धमितियावत् । तद्वद्विभ्राजता विराज-
मानेन अलिकस्थलेन ललाटदेशेन शोभिता । 'ललाटमलिकं गोधिरि'त्यभिपुराणीय-
कोशात् । मुखमेव चन्द्र इति रूपकं तत्कलंकत्वेन तुल्यो मृगनाभेः कस्तूर्या विशेषकः
तिलको यस्यास्तथोक्ता । कलङ्कतिलकयोरुपमानोपमेयभावः ॥ ५६ ॥ वदनमेव स्म-
रस्य कामराजस्य माङ्गल्यगृहं तस्य तोरणो बहिर्द्वारमेव चिल्लिका भ्रूलता यस्याः । 'चि-
ल्लिका भ्रूलतायां स्या'दिति नामकल्पद्रुमः । 'आभुग्नमसृणचिल्ली'ति ललितास्तवरनं च ।
परंपरितरूपकं । प्राचीनपाठप्रयोगाच्चिल्लीशब्द एव भ्रूपरो ज्ञेयः । वक्त्रलक्ष्म्या मुखकान्तेः
परीवाहे जलपूरे चलन्त्यां चञ्चलाभ्यां मीनाभ्यां तुल्ये लोचने यस्याः । मीनस्येवेक्षणं यस्या
इति वा । मीनानां वीक्षणमात्रे शिशूनामभिवृद्धिः नतु स्तन्यदानादिनेति प्रसिद्धेः । तेन
कटाक्षमात्रेण भक्तपोषकेत्यर्थः ॥ ५७ ॥ नवं नूतनं चंपकस्य पुष्पं नतु केवलकलिका ।
ईषद्विकसिता गन्धफलीति यावत् । तेन तुल्यो यो नासादण्डस्तेन विराजिता तारा ।
मंगलाख्या शुक्राख्या च तारकादेवीविशेषो वा । तयोः कांतिं तिरस्करोति जयतीति
तथा । तादृशेन नासाभरणेन माणिक्यमौक्तिकादिभ्यां घटितेन भासुरा शोभमाना
॥ ५८ ॥ कदम्बमञ्जर्या नीपवल्ल्या कृप्तः कल्पितः कर्णपूरः कर्णोपरिभागे अवस्थाप्य-
मानः शेखरस्तेन मनोहरा रमणीया । ताटङ्कयुगलं कर्णाभरणद्वयं तस्य स्वर्णादिभवस्य
प्रकृतेऽभावात् अभूततद्भावे च्विः । तथा संपद्यमाने तपनस्य सूर्यस्योडुपस्य चन्द्रस्य च
मण्डले यस्याः । तदुक्तं । 'सूर्यचन्द्रौ स्तनौ देव्यास्ताववेव नयने स्मृतौ । उभौ ताटङ्कयु-
गलमित्येषा वैदिकीश्रुति'रिति ॥ ५९ ॥ पद्मरागशिलैवातिनिर्मलत्वात्प्रतिबिम्बग्राहित्वा-
सौभाग्यभास्करव्याख्या । ३३
पद्मरागशिलादर्शपरिभाविकपोलभूः ।
नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ॥ ६० ॥
शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला ।
कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ॥ ६१ ॥
ब्वादशौ दर्पणं तं परिभवत्यवजानाति । ततोप्यतिशयेन कामेश्वरप्रतिबिम्बग्राहित्वाच्छो-
णत्वाच्च । ईदृशी कपोलभूर्गण्डभित्तिर्यस्याः । नवां नूतनां विद्रुमबिम्बयोः पक्वप्रवालतु-
ण्डीफलयोः श्रियं कान्तिं न्यक्कुरुतोऽधः कुरुतस्ततोऽप्याधिक्येनोन्नत्यात् । तादृशौ रदन-
च्छदावोष्ठौ यस्याः 'सा भवति शुद्धविद्या येदंताहंतयोरभेदमति'रित्युक्तेर्दत्तात्रेयसंहितादिषु
श्रीविद्यायास्तादृशाभेदपरत्वेन व्याख्यानात् सैव शुद्धविद्योच्यते । शुद्धाया अविद्यामलप्र-
तिस्र्पर्धिन्या विद्यायाः षोडशीरुपाय्या अङ्कुराणामिवाकारः स्वरूपं यस्य तेन द्विजपङ्क्तिद्वये-
न दन्तपङ्क्तियुगलेनोज्ज्वला शोभमाना । श्रीमातुर्हि मूलाधारादिभ्यः परापश्यन्त्यादिक्रमेण
वैखर्यात्मना मुखान्निःसृतासती षोडशीविद्या पश्चात्कर्णात्कर्णोपदेशेन विसृताभूत् । तत्र
शब्दब्रह्मरुपस्य बीजस्योच्छूनतावस्था परा स्फुटितावस्था पश्यंती मुकुलिताव्यक्तं दलद्वयं
मध्यमा । सम्यग्विकासेन प्रसृतं मिथः संसृष्टमूलं दलद्वयं वैखरी । तदेव चाङ्कुरपदवा-
च्यम् । तद्दशायां दंतसाम्यमप्यस्त्येव । षोडशाक्षराङ्कुराणां प्रत्यङ्कुरं दलद्वयाद्द्वात्रिंशद्द-
न्तसंख्यासंपत्तिरपि । अतस्तान्यङ्कुराण्येव मूर्तिमन्ति दन्तरूपाणीति तात्पर्यं । द्विजशब्द-
श्लेषेण समासोक्त्यलंकारेणार्थान्तरम् । वेदादयो विद्या हि ब्राह्मणमेवाश्रित्य तिष्ठंति ।
'विद्या ह वै ब्राह्मणमाजगामे' तिश्रुतेः । तेनाप्रतिष्ठाः सत्योऽन्यत्र विस्तारं प्राप्नुवन्ति । अतो-
हेतोर्ब्राह्मणा एव विद्याङ्कुररूपाः । ततश्च शुद्धा निर्मला सती विद्याङ्कुराकारा च सती या-
वद्विजानां ब्राह्मणानां पङ्क्तिस्तद्द्वयेनोज्ज्वला । ब्राह्मणानामप्यम्बामुखान्निःसृतत्वेन तएव
मूर्तिमन्तो दंता इति तात्पर्यम् । यद्वा 'शुद्धविद्या च बाला च द्वादशार्धा मतङ्गिनी'त्या-
दिक्रमेणानुत्तरपर्यन्ता द्वात्रिंशद्दीक्षास्तन्त्रेषु प्रसिद्धास्तद्विजपङ्क्तिपदेनोच्यन्ते । दीक्षाया
अपि जन्मरूपत्वात् । उपनयनापेक्षया द्वितीयत्वाच्च । 'दीक्षा जन्म तृतीयं स्या'दिति
वचनस्य मातुरुदराञ्जन्ममेलनाभिप्रायकत्वेनाविरोधात् । शुद्धविद्या त्र्यक्षरी सैवाङ्कुरमा-
रम्भो यस्याः सा शुद्धविद्याङ्कुरा । अकारेत्यत्राङःपरतोऽकारप्रश्लेषेणाङ्कुरयोरभि-
'विध्यनुत्तरवाचकत्वेनानुत्तरपर्यन्तेत्यर्थः । शुद्धविद्याङ्कुरा च सा आकारा च सा
द्विजपङ्क्तिश्चेति कर्मधारयोत्तरं तस्या द्वयेनोज्ज्वला भासमानेति विग्रहः । संप्रदायक-
मायाताद्द्वात्रिंशद्दीक्षितान्तःकरणैः पुरुषधौरेयैरेव लभ्या नान्यैरिति भावः । 'एलालवङ्गक-
र्पूरकस्तूरीकेसरादिभिः । जातीफलदलैः पूगैर्लाङ्ग्ल्यूषणनागरैः । चूर्णैः खदिरसारैश्च
युक्ता कर्पूरवीटिके'तिलक्षणलक्षितस्य तांबूलस्यामोदं परिमलं समाकर्षन्ति स्वखाभिमु-
ख्येन प्रसारयन्ति या दिशः प्राच्याद्या दश देवतास्ता एवान्तं परिधानं यस्याः सा ।
ताभिर्देवताभिरम्बामुखकमलविगलताम्बूलकवलनापेक्षिणीभिरपि तदलाभात्प्रथमनिःसृ-
३४ ललितासहस्रनाम ।
निजसंलापमाधुर्यविनिर्भत्सितकच्छपी ।
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ॥ ६२ ॥
अनाकलितसादृश्यचिबुकश्रीविराजिता ।
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥ ६३ ॥
कनकाङ्गदकेयूरकमनीयभुजान्विता ।
तपरिमल एवाहंपूर्विकया यौगपद्येन समाकृष्य सर्वाभिर्गृह्यते । तल्लिप्सयैव हि ता आ-
वृत्य परितोऽदृश्यवेषेण स्थिता इति तात्पर्यगत्योत्प्रेक्षाध्वननादिह वस्तुनालंकारध्वनिः ।
अथवा यस्या वीटिकामोदेन परिमलातिशयेन समाकर्षीणि सुरभिलानि दिगन्तराणि सेति ।
‘आमोदः सोऽतिनिर्हारी वाच्यलिङ्गलमागुणात् । समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पण’
इत्यमरः ॥ ६१ ॥ निजस्य स्वकीयस्य स्वतःशोभनस्य ब्रह्मविषयकस्य वालापस्य वर्णात्मक-
शब्दस्य माधुर्येण मञ्जुलतया विशिष्य निःशेषेण भर्त्सिता तिरस्कृता कच्छपी वीणा यया
सा । समासान्तविधेरनित्यत्वा‘न्नद्यृतश्चे’ति न कप् । कच्छपस्य स्त्री कच्छपीति तु कश्चित् ।
तन्न, ‘कच्छपी महतीवीणे’त्यादिकोशदर्शनात् । अमरकोशशेषोपि वीणामधिकृत्याह । ‘वि-
श्वावसोः सा बृहती तुम्बरोस्तु कलावती । सा नारदस्य महती सरस्वत्यास्तु कच्छपी’ति ।
लोके हि वर्णाभिव्यक्तेरभावेऽपि षड्जादिस्वराभिव्यक्तिमात्रेण ज्ञातचरानेव वर्णानुन्नीय
माञ्जुल्यमात्रलिप्सयैव हि वीणानादे रुचिरित्यनुभवः । कच्छप्यास्तु सारस्वतत्वादेव
शुकसारिकादिवदीषत्स्पष्टवर्णाभिव्यक्तिरप्यस्ति । स्पष्टतरवर्णाभिव्यक्तितदधिकमाधुर्यशा-
लिनः संलापस्यतु सर्वातिशायत्वे नास्ति विवाद इति । अतएव सौन्दर्यलहर्यां । ‘विपञ्च्या
गायन्त्या विविधमपदानं पशुपतेस्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने । तदीयैर्मा-
धुर्यैरपलपिततन्त्रीकलरवां निजां वीणां वाणीं निचुलयति चोलेन निभृतमि’ति । स्मित-
मीषद्धासः सोऽपि मंदः तस्य प्रभापूरे लावण्यप्रवाहे मज्जतीति मज्जत् । नतु मग्नं ।
एकत्र मग्नस्यावयवान्तरसंचारविलोपापत्तेः । इदं त्ववयवान्तरसंचारार्थं यतते तस्मान्निः-
सर्तु नाभिवाञ्छति चेति वर्तमाननिर्देशेन ध्वनितं । कामः कलाशरीरघटको बिन्दुरग्नी-
षोमाख्यो रविः । तदुक्तं कामकलाविलासे ‘बिन्दुरहंकारात्मा रविरेतन्मिथुनसमरसा-
कारः । कामः कमनीयतया कला च दहनेन्दुविग्रहौ बिन्दु’रिति । स एवेश्वरो राजराजे-
श्वरस्तस्य मानसं यस्याः सा तथोक्ता । मीमांसकमते विभुनोपि मनसो मज्जनकथनेन
प्रभापूरस्य निरवधिकाधिक्यं ध्वन्यते ॥ ६२ ॥ वाग्देवतामारभ्याद्य यावद्वर्णयितुं प्रवृत्तैः
कविभिरनाकलितं आसमन्तादभिव्याप्य न कल्पितं सम्यक् न लब्धं सरसोपमान-
स्यालाभात् । अपितु मुखमुकुरवृन्तरूपयत्किंचिदुपमानेन लब्धप्रायं यत्सा दृश्यमौपम्यं
यस्यास्तादृश्या चिबुकश्रिया विराजिता । कामेशेन परमशिवेन बद्धं यन्माङ्गल्यसूत्रं
कामोजीवनहेतुभूतं सौभाग्याभरणं तेन शोभिता कन्धरा शिरोधरा यस्याः ॥ ६३ ॥
अङ्गं ददातीत्यङ्गदं शरीरघटकमित्यर्थः । कनकमेवाङ्गदं येषां तैः सुवर्णैकशरीरकैः । के-
सौभाग्यभास्करव्याख्या । ३५
रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ॥ ६४ ॥
कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।
नाभ्यालवालरोमालिलताफलकुचद्वयी ॥ ६५ ॥
लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।
स्तनभारदलन्मध्यपट्टबन्धवलित्रया ॥ ६६ ॥
यूरैर्दोर्भूषणैश्चतुर्भिः कमनीया रमणीया ये भुजास्तैरन्विता युक्ता । अङ्गदकेयूरयोराकृ-
तिवैलक्षण्यमाश्रित्याभरणद्वयपरं वा व्याख्येयम् । अतएव ब्रह्मोत्तरखण्डे सप्तमेऽध्याये
शिवध्यानप्रकरणे प्रयोगः । 'दधानं नागवलयकेयूराङ्गदमुद्रिका' इति । अन्यत्रापि 'केयू-
राङ्गदहारकङ्कणमुखालंकारविभ्राजिता'मिति । 'केयूरमङ्गदं दोर्भूषे'त्यग्निपुराणं तु भुजभूष-
णत्वेनानुगमय्य कथनपरम् । तदनुसारित्वादमरसिंहोपि तत्पर एवेत्यदोषः । रत्नखचि-
तग्रैवेयेन ग्रीवाभरणचिन्ताकेन चार्थान्सौवर्णेन लोलैश्चञ्चलैर्हारभावमापन्नैर्मुक्ताफलैश्चा-
न्विता । रत्नमयं ग्रीवासंबन्धि यच्चिन्ताकं तदधस्तिर्यक्पङ्क्तिरूपेण लम्बमानैर्मुक्ताफलै-
रित्येकाभरणपरं वा । चिन्ताकमान्ध्रदेशेषु प्रसिद्धम् । ललाटिकापर्याय इति तु कश्चित् ।
तत्तादृशकोशालेखनाच्चिन्त्यम् । ग्रीवायामेव चिन्ता ध्यानं येषां ते ग्रैवेयचिन्ताकाः ।
उपर्युपर्यापातत एव ध्यानं ये कुर्वन्ति न पुनर्देहरान्तर्देवानां द्रढयितुं क्षमास्ते मध्य-
माधिकारिण इत्यर्थः । लोलाः सतृष्णा अधमाधिकारिणः 'लोलश्चलसतृष्णयो'रित्यग्निपु-
राणात्तदनुसार्यमरः । मुक्ता उत्तमाधिकारिण इत्यर्थः । एषां त्रयाणामपि यानि रत्नभूता-
न्याफलानि अल्पफलान्यधिकफलानि च । 'आङीषदर्थेऽभिव्याप्ता'विति कोशात् । तैर-
न्विता तद्दाने तत्परा इति प्रकृताप्रकृतोभयविषयकश्लेषः ॥ ६४ ॥ कामेश्वरस्य प्रेमैव
रत्नमणिः रत्नोत्तमः । तत्पणविषये प्रतिपणभूतौ स्तनौ यस्याः । मणिशब्दो रत्नपरः
सन्रस्तनयोरेव विशेषणं वा । स्तनरत्ने विक्रीय प्रेमरत्नं क्रीतवतीति भावः । तेन द्विगुण-
मूल्यदानेन क्रयविक्रयाभ्यां च सुतरां परस्परक्षतापायेन प्रेमपरावृत्त्यभावः पातिव्रत्या-
तिशयश्चेति विनिमयालंकारेण वस्तुध्वनिः । नाभिरेवालवालो लतावापश्वभ्रो यस्या
रोमाल्यभिन्नलतायास्तस्याः फलभूता कुचद्वयी यस्याः सेति परंपरितरूपकमुत्प्रेक्षासंब-
न्धातिशयोक्तिश्चेति संकरः ॥ ६५ ॥ लक्षयितुं योग्या लक्ष्या ज्ञापमानेति यावत् ।
ज्ञायमानस्यैव लिङ्गस्यानुमिति प्रति कारणत्वात् । लिङ्गज्ञानमात्रस्य कारणतावादेपि
लिङ्गज्ञानयोर्विशेष्यविशेषणभावे विनिगमनाविरहेणोभयतोपि कारणताया दुष्परिहरत्वात् ।
अनागतादेरपि बौधाकारस्य सत्त्वात् । तथाच गौतमसूत्रं 'बुद्धिसिद्धिं तदसदिति ।
लक्ष्या या रोमलताधारता रोमावलिरूपवल्यावापस्थानत्वं । आधारतासंबन्धेन रोमल-
तैव लिङ्गमिति यावत् । तया सम्यगुन्नेयं प्रमानुमितिविषयो मध्यमं वलग्नं यस्याः । ना-
भ्यधःप्रदेशो मध्यमाह्यघनावयववान् रोमलतात्वादिति प्रयोगः । मध्यमस्य रोमलताया
समर्थनात्काव्यलिङ्गालंकारः । यद्यपि 'निराधरो हा रोदिमि कथय कस्याद्य पुरत' इत्यादा-
विव स्वान्यतरभागानेकवर्णायाः पदमध्ययतेः साधुतायाः समुद्राद्यन्तस्थापरत्वेनैव व्यव-
स्थितत्वात्पादान्तयतेः 'प्रणमत भवबन्धक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानन्ददा-
३६ ललितासहस्रनाम ।
अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।
रत्नकिंकिणिकारम्यरशनादामभूषिता ॥ ६७ ॥
कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।
माणिक्यमुकुटाकारजानुद्वयविराजिता ॥ ६८ ॥
इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका ।
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥ ६९ ॥
नखदीधितिसंछन्ननमज्जनतमोगुणा ।
पदद्वयप्रभाजालपराकृतसरोरुहा ॥ ७० ॥
यी'त्यादाविवाधारतेत्यस्य मध्ये न साधुत्वं तथापि रातमाण्डव्यादिमुनीनां छन्दःशास्त्र-
प्रवर्तकानां प्राचामाचार्याणां च मते यतेरनङ्गीकारात्तद्रीत्या साधुत्वमुपपद्यते । पैङ्गलं तु
कलियुगीयग्रन्थमात्रपरमिति प्रदर्शितं छन्दोभास्करेऽस्माभिः । स्तनयोर्भारेण गौरवेण
दलत इव मध्यस्य दाढ्र्यार्थं कृतः पट्टबन्धः कनकपट्टिकाभिर्बन्धेव वलित्रयं यस्याः
सेत्युत्प्रेक्षाऽतिशयोक्ती ॥ ६६ ॥ अतिशयेनारुणमरुणारुणं कान्तायाः करतलरागरक्तरक्त
इतिवदतिशयस्य वीप्सया द्योतनात् । अरुणवदनूरुवदरुणं वा । कुसुम्भेन रक्तं कौसुम्भं च
यद्वस्त्रं तेन भास्वती भासुरा कट्यास्तटी यस्याः । रत्नमयीभिः किङ्किणिकाभिः क्षुद्रघण्टि-
काभी रम्येण रशनाभिधेन दाम्ना सौवर्णमेखलासूत्रेण भूषिता ॥ ६७ ॥ कामेशेनैव ज्ञाते
तदेकसाक्षिके सौभाग्यमार्दवे लावण्यकोमलत्वे ययोस्तयोरूर्वोर्द्वयेनान्विता । माणिक्यमुकुटं
अखण्डमाणिक्येन निर्मितं मुकुटं टोपिकानामकंन्युब्जं शिरःप्रावरणं यत्तस्येवाकारो ययोस्त-
योर्जानुनोरूरुपर्वणोर्द्वयेन विराजिता ॥ ६८ ॥ इन्द्रगोपाः प्रावृषेण्याः आरक्ततमा कृमिविशेषाः
तैः परितः क्षिप्तौ खचितौ यौ स्मरस्य कामराजस्य तूणौ निषङ्गौ ताभ्यां तुल्ये जङ्घे एव
जङ्घिके यस्याः । यदि तैः खचितौ स्यातां तदोपमा संभाव्येतेत्युपमायामभूतत्वांशध्वनिः ।
गूढौ मांसलौ गुल्फौ पार्ष्णी यस्याः । कूर्मयोः पृष्ठे जयत इति जयिष्णूनी ये प्रपदे पादाग्रे
ताभ्यामन्विता । जयिष्णुपदमिष्णुच्प्रत्ययान्तम् । नतु 'ग्लाजिस्थश्चक्स्नु'रिति क्स्नुप्रत्ययान्तं
जिष्णुरित्यापत्तेः । इष्णुचो विधानं तु 'भुवश्चे'तिसूत्रे चकारस्यानुक्तसमुच्चयार्थकत्वेन
वृत्तिकृता व्याख्यानात् । तत्सूत्रे छन्दसीत्यनुवृत्तिस्तु न कार्या । 'भूष्णुर्भविष्णुर्भविते'त्य-
मरकोशे प्रयोगात् । प्रयोगशरणा वैयाकरणा इति न्यायात् । तस्माद्दिष्णुभ्राजिष्णुवज्जयि-
ष्णुरपि साधुरेव ॥ ६९ ॥ नखानां पादनखचन्द्राणां दीधितिभिः किरणैः सम्यक् छन्नो
लोपितो नमतां ब्रह्मविष्णुवादिजनानां तमोगुणोऽज्ञानं यस्याः । पादध्यानेनाज्ञाननाश
इति भावः । यद्वा अस्याश्चरणयुगस्य नखचन्द्रस्य नमज्जनकिरीटमणिगणच्छायाप्रति-
बिम्बबाहुल्येन दीधितीनां विशिष्यभानाभावे तासां तमोनाशाय नमज्जनहृदयान्तःप्रवेश
उत्प्रेक्ष्यते कविरिति भावः । तथाच मत्स्यपुराणपद्मपुराणयोः पार्वत्याः सामुद्रिकलक्ष-
णानि दृष्टवतो नारदस्य वाक्यं । 'न जातोऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जिता । उत्तान-
हस्ता सततं चरणैर्व्यभिचारिभिः । स्वच्छायया भविष्येयं किमन्यद्बहु भाष्यते' इति
सौभाग्यभास्करव्याख्या । ३७
सिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा ।
मरालीमन्दगमना महालावण्यशेवधिः ॥ ७१ ॥
सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता ।
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ॥ ७२ ॥
मेनांप्रत्युकेर्दुर्लक्षणान्येवेमानि कथितानीति भ्राम्यता हिमवता सदुःखं पृष्टो नारद उ-
वाच । 'हर्षस्थानेऽपि महति त्वया दुःखं निवेद्यते । अपरिच्छिन्नवाक्यार्थो मोहं यासि
महागिरे' । इत्यादिना न जातोऽस्याः पतिरित्यादिवाक्यानामर्थं निर्वर्ण्यन्ते कथितं ।
'यत्तु प्रोक्तं मया पादौ स्वच्छायाव्यभिचारिणौ । अस्याः शृणु ममात्रापि वाचोर्थं शैल-
सत्तम् । चरणौ पद्मसंकाशावस्याः स्वच्छनखोज्ज्वलौ । सुरासुराणां नमतां किरीटमणि-
कान्तिभिः । विचित्रवर्णैर्हास्यन्ति स्वच्छायां प्रतिबिम्बितैः । प्रविश्य नाशयिष्यन्ति तेषां
हार्दं तमोगुण'मिति । पदद्वयस्य चरणयुगलस्य प्रभाजालेन सौष्ठवादिगुणसमूहेन पराकृते
निरस्ते सरोरुहे कमले यस्याः सा ॥७०॥ सिञ्जानाः भूषणजन्यशब्दविशेषं कुर्वाणा मणयो
ययोस्ताभ्यां मञ्जीराभ्यां पादकटकाभ्यां मण्डिता श्रीर्ययोस्तादृशे पदाम्बुजे यस्याः 'नद्यृ-
तश्चे'त्यविकल्पितोपि कप्रत्ययः श्रीशब्दस्य नदीसंज्ञानिषेधादेव न भवति । 'ह्रस्वो नपुं-
सक'इति ह्रस्वस्तु संज्ञापूर्वकविधेरनित्यत्वान्नेह भवति । मण्डिते श्रीयुक्ते पादाम्बुजे यस्या
इति त्रिपदबहुव्रीहिर्वा । मरालो हंसः स्वभावादेव मन्दगतिः । तत्रापि स्त्रीजातीया
विशेषत इति मराल्येवोपात्ता । तस्या इव मन्दगमनं यस्याः । महतो लावण्यातिश-
यितसौन्दर्यस्य शेवधिर्निधिः । 'निधिर्ना शेवधि' रित्यग्निपुराणात् । अतएव 'परवल्लिङ्गं
द्वन्द्वतत्पुरुषयो'रिति पाणिनीयसूत्रात्पुंलिङ्गमिदं नाम । तेन शेवधये नम इत्येव प्रयोगो
न लाक्षणिकः शेवध्यै नम इति ॥७१॥ वसनाभरणकुसुमकान्त्यादिकं सर्वमेवारुणं यस्याः ।
अवद्यानि निन्द्यानि न भवन्तीत्यनवद्यानि सुलक्षणान्यङ्गानि अवयवा यस्याः ।
सर्वैश्चूडामणिप्रभृतिपादाङ्गुलीयकान्तैः कालिकापुराणोक्तैश्चत्वारिंशता कल्पसूत्रोक्तै-
रन्यैरपि वाभरणैर्भूषिता । एवं स्थूलं रूपमुक्त्वा तदवस्थितिस्थानान्याह—शिवका-
मेत्यादिना । कमनीयत्वात्कामः 'कामः कमनीयतये'त्युक्तेः । कामं यथेच्छं रूपमस्येति
वा कामः । ईदृशव्युत्पत्त्यैव मन्मथे कामपदप्रवृत्तेः कालिकापुराणे दर्शनात् । 'जगत्सु
कामरूपत्वे त्वत्समो नैव विद्यते । अतस्त्वं कामनाम्नापि ख्यातो भव मनोभवे'ति ।
प्रज्ञानमेव वा कामः । तथाच श्रुतिः । 'यदेतद्धृदयं मनश्चैतत्संज्ञानमज्ञानं विज्ञानं प्रज्ञानं
मेधा दृष्टिर्धृतिमतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि
प्रज्ञानस्य नामधेयानि भवन्ती'ति । अत्र प्रज्ञानशब्देन शिव एवोच्यते । स्कान्दे ब्रह्म-
गीतायां तथैवोपबृंहणदर्शनात् । 'शंकराख्यं तु विज्ञानं बहुधा शस्यते बुधैः । केचि-
द्धृदयमित्याहु'रित्यारभ्य 'वश इत्यास्तिकाः केचित्सर्वाण्येतानि संततम् । प्रज्ञानस्य
शिवस्यास्य नामधेयान्यसंशय'मित्यन्तम् । जगत्सिसृक्षावानीश्वरः कामपदवाच्यः ।
४