ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 72, कुल 272 में से
संदर्भ में पढ़ेंइत्यन्तेन वर्णिता । सा हि त्रिपुरसुन्दर्या गजेष्वधिकृतेति ललितोपाख्याने प्रसिद्धम् ।
'ललितापरमेशान्या अङ्कुशाग्रात्समुद्गता । संपत्करी नामदेवी'त्यारभ्य 'रणकोलाहलं
नाम सारुरोह मतंगज'मित्यादिकमुक्त्वा 'तामन्वगा ययुः कोटिसंख्याकाः कुञ्जरोत्तमा'
इत्यन्तम् । तया सम्यग्गजशास्त्रकथितोपायैरारूढानामारोहणादिना नियमितानां सिन्धु-
राणां भद्रमन्द्रमृगादिभेदभिन्नगजानां व्रजेन हास्तिकेन सेविता । अथवा सुखसंपन्मयी
चित्तवृत्तिः संपत्करीत्युच्यते तस्यां समारूढैर्विषयीभूतैः सिन्धुरव्रजैः शब्दादिविषयसमूहैः
सेविता । तथाच कादिमते 'इन्द्रियार्थानजानपूर्वं तन्नाम्नैव समर्चयेदि'ति । एकस्मिन्
ज्ञाने विषयीभूतायास्त्रिपुट्या विविच्य संबन्धज्ञानरूपा चित्तवृत्तिः सुखसंपत्करी । तदुक्तं
प्रत्यभिज्ञायाम् 'ग्राह्यग्राहक