ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 78, कुल 272 में से
संदर्भ में पढ़ेंकामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥ ८४ ॥
᾽ हरनेत्राग्निसंदग्धकामसंजीवनौषधिः ।
श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥ ८५ ॥
शब्दोऽवस्थापरः । कृतिशब्दः कृत्यपरो वा । षडक्षरात्पाशुपतास्त्रमन्त्रादयं भिन्नो
महापाशुपतास्त्रमन्त्रः । पूर्वं ईश्वरदेवत्योऽन्यः सदाशिवदेवत्यः । 'रुद्रादयः पिशाचान्ताः
पशवः परिकीर्तिताः । तेषां पतित्वात्सर्वेशो भवः पशुपतिर्मत'इति लैङ्गात् । पशुपतेः
ईश्वरस्य सदाशिवस्येदं पाशुपतम् । अश्वपत्यादित्वान्न पत्युत्तरपदलक्षणो ण्यप्रत्ययः। महच्च
तत्पाशुपतं च महापाशुपतं सदाशिवास्त्रं तस्याग्निना निर्दग्धा असुरस्य भण्डस्य सैनिका
यया सा । पक्षेऽभ्यासतारतम्येनोत्तरोत्पन्ना उत्कृष्टा अद्वैतवृत्तय एव महा