ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 65, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । ३७
सिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा ।
मरालीमन्दगमना महालावण्यशेवधिः ॥ ७१ ॥
सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता ।
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ॥ ७२ ॥
मेनांप्रत्युकेर्दुर्लक्षणान्येवेमानि कथितानीति भ्राम्यता हिमवता सदुःखं पृष्टो नारद उ-
वाच । 'हर्षस्थानेऽपि महति त्वया दुःखं निवेद्यते । अपरिच्छिन्नवाक्यार्थो मोहं यासि
महागिरे' । इत्यादिना न जातोऽस्याः पतिरित्यादिवाक्यानामर्थं निर्वर्ण्यन्ते कथितं ।
'यत्तु प्रोक्तं मया पादौ स्वच्छायाव्यभिचारिणौ । अस्याः शृणु ममात्रापि वाचोर्थं शैल-
सत्तम् । चरणौ पद्मसंकाशावस्याः स्वच्छनखोज्ज्वलौ । सुरासुराणां नमतां किरीटमणि-
कान्तिभिः । विचित्रवर्णैर्हास्यन्ति स्वच्छायां प्रतिबिम्बितैः । प्रविश्य नाशयिष्यन्ति तेषां
हार्दं तमोगुण'मिति । पदद्वयस्य चरणयुगलस्य प्रभाजालेन सौष्ठवादिगुणसमूहेन पराकृते
निरस्ते सरोरुहे कमले यस्याः सा ॥७०॥ सिञ्जानाः भूषणजन्यशब्दविशेषं कुर्वाणा मणयो
ययोस्ताभ्यां मञ्जीराभ्यां पादकटकाभ्यां मण्डिता श्रीर्ययोस्तादृशे पदाम्बुजे यस्याः 'नद्यृ-
तश्चे'त्यविकल्पितोपि कप्रत्ययः श्रीशब्दस्य नदीसंज्ञानिषेधादेव न भवति । 'ह्रस्वो नपुं-
सक'इति ह्रस्वस्तु संज्ञापूर्वकविधेरनित्यत्वान्नेह भवति । मण्डिते श्रीयुक्ते पादाम्बुजे यस्या
इति त्रिपदबहुव्रीहिर्वा । मरालो हंसः स्वभावादेव मन्दगतिः । तत्रापि स्त्रीजातीया
विशेषत इति मराल्येवोपात्ता । तस्या इव मन्दगमनं यस्याः । महतो लावण्यातिश-
यितसौन्दर्यस्य शेवधिर्निधिः । 'निधिर्ना शेवधि' रित्यग्निपुराणात् । अतएव 'परवल्लिङ्गं
द्वन्द्वतत्पुरुषयो'रिति पाणिनीयसूत्रात्पुंलिङ्गमिदं नाम । तेन शेवधये नम इत्येव प्रयोगो
न लाक्षणिकः शेवध्यै नम इति ॥७१॥ वसनाभरणकुसुमकान्त्यादिकं सर्वमेवारुणं यस्याः ।
अवद्यानि निन्द्यानि न भवन्तीत्यनवद्यानि सुलक्षणान्यङ्गानि अवयवा यस्याः ।
सर्वैश्चूडामणिप्रभृतिपादाङ्गुलीयकान्तैः कालिकापुराणोक्तैश्चत्वारिंशता कल्पसूत्रोक्तै-
रन्यैरपि वाभरणैर्भूषिता । एवं स्थूलं रूपमुक्त्वा तदवस्थितिस्थानान्याह—शिवका-
मेत्यादिना । कमनीयत्वात्कामः 'कामः कमनीयतये'त्युक्तेः । कामं यथेच्छं रूपमस्येति
वा कामः । ईदृशव्युत्पत्त्यैव मन्मथे कामपदप्रवृत्तेः कालिकापुराणे दर्शनात् । 'जगत्सु
कामरूपत्वे त्वत्समो नैव विद्यते । अतस्त्वं कामनाम्नापि ख्यातो भव मनोभवे'ति ।
प्रज्ञानमेव वा कामः । तथाच श्रुतिः । 'यदेतद्धृदयं मनश्चैतत्संज्ञानमज्ञानं विज्ञानं प्रज्ञानं
मेधा दृष्टिर्धृतिमतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि
प्रज्ञानस्य नामधेयानि भवन्ती'ति । अत्र प्रज्ञानशब्देन शिव एवोच्यते । स्कान्दे ब्रह्म-
गीतायां तथैवोपबृंहणदर्शनात् । 'शंकराख्यं तु विज्ञानं बहुधा शस्यते बुधैः । केचि-
द्धृदयमित्याहु'रित्यारभ्य 'वश इत्यास्तिकाः केचित्सर्वाण्येतानि संततम् । प्रज्ञानस्य
शिवस्यास्य नामधेयान्यसंशय'मित्यन्तम् । जगत्सिसृक्षावानीश्वरः कामपदवाच्यः ।
४