ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 79, कुल 272 में से
संदर्भ में पढ़ेंभण्डासुरहननोत्तरं ब्रह्मादिभिः प्रार्थितया ललिताम्बया पुनर्मन्मथो जीवित इति
कथाया ब्रह्माण्डपुराणे स्मरणाच्च । 'एतेन पित्रा निर्भर्त्सितो बालो मात्रैवाश्वास्यते किले'-
ति न्यायोऽप्यनुगृहीतः । अनेनैवाशयेनोक्तं ब्रह्मवैवर्ते 'हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न
कश्चने'ति । नच तत्र हरिपदस्योपास्यदेवतोपलक्षणत्वेन त्रिपुरसुन्दरीकोपात्राणकर्तृत्वं
परमशिवस्यैव गुरुपरंपरावधिलाद्वक्तव्यं न पुनर्वैपरीत्यमिति शङ्क्यम् । परमशिवस्यापि
श्रीविद्योपासकत्वेनोपासनायाश्च गुरुमन्तरेणायोगात्तदपेक्षायां त्रिपुरसुन्दर्या एव तद्गुरु-
त्वस्वीकारात् । अतएव योगिनीहृदये शिवेनैव पार्वतींप्रत्युक्तम् । 'अन्यायेन न दातव्यं
नास्तिकानां महेश्वरि । एवं त्वयाहमाज्ञप्तो मदिच्छारूपया प्रभो' इति प्रवृत्तिप्रति•
च्छायाः कारणत्वाच्छिवस्य प्रवर्तिका भगवत्येवेति सिद्धं तस्या गुरुत्वम् । अतएव
गुरुमूर्त्तिरिति नाम वक्ष्यते । 'शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यत' इति ।
चतुःशतीशास्त्राहिच्छाशक्तिविशिष्टस्यैव परशिवस्यादिनाथत्वेन तन्त्रेषु गणनान्न त्रिपुर-
सुन्दर्या गुरुमण्डलान्तरादिनाथात्पूर्वगणनपूजनाद्यापत्तिचोद्यावकाशः । तथाच महास्व-
च्छन्दतन्त्रे । 'गुरुशिष्यपदे स्थित्वा स्वयमेव सदाशिवः । प्रश्नोत्तरपदैर्वाक्यैस्तन्त्रं
समवतारय'दिति । स्वयमेवेत्यनेन प्रकाशविमर्शांशयोर्विभजनेन परस्परं गुरुशिष्यभावः
सूचितः । प्रवर्त्तकत्वप्रष्टृत्वे देवीनिष्ठयोर्वक्तृत्वप्रवर्त्यत्वे शिवनिष्ठयोर्गुरुत्वशिष्यत्वयोरव-
च्छेदके इति तद्भेदादविरोधः । एतदेव द्योतयितुं मदिच्छारूपयेति विशेषणं प्रभुपदेन
संबोधनं च । वस्तुतस्तु आदिनाथादर्वागादिशक्त्यम्बानाम्ना द्वितीयस्थाने गण्यत
एवेति न ततः पूर्वं पुनर्गणनापत्तिः । सदाशिवनामकतृतीयगुरुं प्रत्यादिनाथावच्छि-
न्नाया आदिशक्तेरेव गुरुत्वाद्वितीयस्थान एव गणनीयतया न तयोः पौर्वापर्यं विनि-
गमनाविरहोऽपीति दिक् । यद्वा हरणं हरः आत्मस्वरूपापहारः, हरन्तीति वा हराः
आत्मापहर्तारस्तेषां नेता नायकः स एव आसमन्ताद्धासोऽग्निः स्वस्वरूपान्यथाकरणात् ।
मूलाज्ञानमिति यावत् । तस्य मूलाज्ञानाधिकत्वात् । तेन सम्यग्दग्धो यः कामो
जीवभावमापन्नः कामेश्वरस्वरूप आत्मा तस्य सम्यगावरणपरावृत्त्यभावपूर्वकं जीवने
स्वस्वरूपावाप्तौ ओषधिर्मूलिका । एतदुपासनया विद्यारूपयाऽविद्यानिवृत्त्या स्वस्वरूपा-
वाप्तिलक्षणो मोक्ष इति भावः । मन्मथस्य दाहात्पूर्वं स्वशरीरस्य जीवत एव पश्चाद-
शरीरजीवनाद्दृष्टान्तादात्मनोऽपि पूर्वं ब्रह्मण एव सतोऽविद्यावशात्सशरीरस्येव स्थितस्य
तन्निवृत्तावशरीरतापूर्वकब्रह्मैक्यप्राप्तिर्ध्वन्यते । ध्वनितं चैवमेव शैवशास्त्रान्तिमाधिकरणे
'भूयः स्यात्प्रोक्तमिलन'मिति । वार्तिकेपि 'पुनश्च प्रोक्तचैतन्यरूपमिलनात्मकम् ।
परयोगादिरूढस्य भवेत्परमयोगिनः । भूयः स्यादिति वाक्यस्य स्फुट एवायमाशयः ।
यच्छिवत्वममुष्योक्तं नापूर्वं तत्तु योगिनः । स्वभाव एव तन्मायाशक्तिप्रोत्थापितान्नि-
जात् । नानाविकल्पदौरात्म्यात्पराभूतमिव स्वतः । विमृष्टं गुरुनिर्दिष्टप्रोक्तोपायक्रमेण
तत् । शिवत्वं व्यक्तमेतीति शिवेनोदीरितं शिव'मिति । शक्तिशास्त्रान्तिमाधिकरणेऽपि
'निजसंविद्देवताचक्रेश्वरत्वप्राप्ति'रिति सूत्रावयवे निजपदेन तथैव स्फोरितमिति । इयता