बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
६०८ बृहत्संहिता
उपगीति की मात्राओं के गण की तरह या साधुओं के समागम की तरह बुध राशि
के आदि और अन्त में समान फल देता है। अर्थात् जैसे उपगीति छन्द में दोनों अर्ध
तुल्य लक्षण-लक्षित होते हैं तथा जैसे साधुओं का समागम सदा एक-सा रहता है,
उसी तरह बुध राशि के आदि और अन्त में तुल्य फल देता है। यह उपगीति छन्द
है।।५०।।
आदौ राशिप्रवेशकाले यादृक् शुभो वाऽशुभः सौम्यो बुधो भवति तादृशः पश्चाद्रा-
श्यन्तेऽपि। यत उक्तम्—
शशितनयः फलदस्तु सर्वकालम्। इति।
एवं राश्याद्यन्तयोस्तुल्यफलमुपगीतिमात्राणां गणवत्। उपगीतिरार्या। तस्या मात्राणां
ये गणाश्चतुर्भागास्तेषां यथाऽऽद्यन्तयोः समता तथा बुधस्य। अथवा यथा सत्सम्प्रयोगः
सतां साधूनां सम्प्रयोगः समागमः। यादृगादौ भवति तादृगन्ते न कदाचिद्विरूपता। उपगीति-
वृत्तमिदम्।
आर्याद्वितीयदलेत्याद्यस्या लक्षणम्। न्यासः प्रसिद्धः।।५०।।
अधुना जीवगोचरफलस्योपदेशनायार्यालक्षणमाह—
आर्याणामपि कुरुते विनाशमन्तर्गुरुर्विषमसंस्थः।
गण इव षष्ठे दृष्टः स सर्वलघुतां जनं नयति ।।५१।।
जिस तरह विषम गण में स्थित अन्तर्गुरु वाला ( मध्य गुरु वाला = जगण ) आर्या
छन्द का और विषम स्थित ( अप्रसन्न ) गण ( देवताविशेष ) उत्तम पुरुषों का भी नाश
करता है, उसी तरह विषम स्थित गुरु राशि के मध्य भाग में उत्तम पुरुषों का भी नाश
करता है तथा जैसे आर्या छन्द के षष्ठ गण में स्थित जगण सर्वलघुत्व ( चारो लघुता )
को प्राप्त होता है, उसी तरह षष्ठ राशिस्थ गुरु जन को सर्वलघुत्व ( लोगों में गौरवहीन )
करता है। यह आर्या छन्द है।।५१।।
आर्याणां साधूनामपि गुरुर्जीवो विषमसंस्थोऽन्तर्मध्ये मध्यमराशौ मध्यभागे प्राप्तो
विनाशं करोति, अशुभं फलं विदधाति। शुक्लोऽप्येवमेव वेदितव्यो गुरुग्रहणात्। यतः
सोऽपि राशेर्मध्ये फलं ददाति। उक्तं च—
'गुरुभृगुजौ भवनस्य मध्ययातौ' इति।
यथा गणो देवविशेषो यात्रायां गणयोगविधावुक्तः—'अनर्चितास्ते नृपतिं सवाहनं
विनाशयन्ति' इत्यादि। स गणो विषमस्थोऽप्रसन्नः। आर्याणामपि विनाशं करोति। तद्वदिति।
स एव गुरुः षष्ठे स्थाने गतो दृष्टः। जन्मराशेः षष्ठस्थानप्राप्तौ विलोकितश्च जनं पुरुषं
सर्वलघुतां सर्वत्राल्पतां नयति। स पुरुषः सर्वत्र गौरवरहितो भवतीत्यर्थः। अथ द्वितीयोऽर्थो
व्याख्यायते—आर्यावृत्तविशेषः। आर्याणामन्तर्गुरुर्जगणो दृष्टस्तत्र भवति। अथ तस्या
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहगोचराध्यायः ६०९
गणे षष्ठे जकारः विषमसंस्थः प्रथमतृतीयपञ्चमसप्तमस्थानानामन्यतमस्थानस्थो विनाशं
कुरुते। आर्या विनश्यति भज्यत इत्यर्थः। तदेतत् स्थानं सर्वलघुतां नयति। सर्वे तत्र चत्वार
एव लघवो भवन्तीत्यर्थः। वृत्तमेतदार्या। तल्लक्षणम्—'द्व्यन्तरान्तरादिगुरुभिः' इति
प्रागेव व्याख्यातम्।।५१।।
अथ शुभाशुभग्रहयोः परस्परदर्शनाद् गोचरफलस्य निष्फलत्वं नर्कुटकेनाह—
अशुभनिरीक्षितः शुभफलो बलिना बलवा-
नशुभफलप्रदश्च शुभदृग्विषयोपगतः ।
अशुभशुभावपि स्वफलयोर्व्रजतः समता-
मिदमपि गीतकं च खलु नर्कुटकं च यथा ।।५२।।
जैसे संस्कृत में नर्कुटक और प्राकृत में गीतक—ये दोनों छन्द समान प्रस्तार वाले
होते हैं, उसी तरह बली शुभ फल देने वाला ग्रह बली अशुभ फल देने वाले ग्रह से
और बली अशुभ फल देने वाला ग्रह बली शुभ फल देने वाले ग्रह से दृष्ट हो तो
अपने-अपने शुभ और अशुभ फलों की समता करते हैं, अर्थात् न शुभ न अशुभ;
अपितु मध्यम फल देते हैं। यह नर्कुटक छन्द है।।५२।।
अशुभं गोचरफलं ददातीत्यशुभफलदः। तत्र शुभफलो ग्रहो बलवान् वीर्ययुक्तः सन्
अशुभनिरीक्षतः। अशुभफलप्रदेन ग्रहेण बलिना वीर्ययुक्तेन निरीक्षितो दृष्टः। तथा च अशुभ-
फलप्रदो ग्रहो बलवान् शुभफलप्रदस्य बलिनो दृग्विषये दर्शनगोचरे उपगतः प्राप्तः।
तावशुभशुभप्रदावपि ग्रहौ स्वफलयोरात्मीयशुभाशुभफलयोः समतां तुल्यतां व्रजतो गच्छतः।
न शुभं नाप्यशुभं फलं कुरुतः। शुभदर्शनादशुभफलस्य दुष्टं फलं विनश्यति, अशुभ-
दर्शनाच्छुभस्य शोभनं फलं विनश्यति। यथा गीतकमिदं नर्कुटकं च छन्दसां समतां
तुल्यतां व्रजतो गच्छतः। गीतकं प्राकृते। नर्कुटकं संस्कृते। तौ च तुल्यप्रस्तारौ तुल्य-
विरामावेव भवतः। खलुशब्दः पादपूरणे प्रकारार्थे वा। वृत्तमेतन्नर्कुटकम्। तल्लक्षणम्—
नजभजजा लगौ च यदि नर्कुटकं तु तदा।
नस्त्रिलघुः। जो मध्यगुरुः। भ आदिगुरुः। पुनर्जकारद्वयम्। अन्ते लघुगुरू।
न्यासः— न ज भ ज ज ल गु
।।। ।ऽ। ऽ।। ।ऽ। ।ऽ। । ऽ
एतदेव प्राकृते गीतकं ज्ञेयम्। यथा—
महुरअसोअपणपणओज्जलसोहअआ
मणहरवाणिसद्दपरिपन्थिअकोइलआ ।
महुरसघुण्णमाणणअणद्धणिरिक्खणिआ
मइ सअणाण पुण्णरहिआण मुहेक्खणिआ।। इति।।५२।।
बृ० भ० द्वि०-३९
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६१० बृहत्संहिता
अधुना विबलस्य ग्रहस्य शुभगोचरफले नैष्फल्यं विलासेनाह—
नीचेऽरिभेऽस्ते चारिदृष्टस्य सर्वं वृथा यत्परिकीर्तितम्।
पुरतोऽन्धस्येव कामिन्याः सविलासकटाक्षनिरीक्षणम् ॥५३॥
जिस तरह अन्धे के आगे कामयुक्ता स्त्री का विलास और कटाक्ष के साथ देखना
व्यर्थ होता है, उसी तरह नीच राशिगत, शत्रु राशिगत, अस्त और शत्रु ग्रह से दृष्ट ग्रह के
जो भी शुभ फल कहे गये हैं, वह सभी निष्फल होते हैं अर्थात् अशुभ फल की वृद्धि
होती है। यह विलास छन्द है।।५३।।
नीचे नीचराशौ स्थितस्य ग्रहस्य। अरिभे शत्रुक्षेत्रे वा स्थितस्य अस्ते सूर्यमण्डलेऽस्तं
गतस्य। तथा यत्र तत्रावस्थितस्यारिदृष्टस्य शत्रुणामवलोकितस्य। यत् फलं शुभं प्रकीर्तितमुक्तं
तत् सर्वं वृथा निष्फलं भवति। अर्थादेवाशुभं फलं तत्रातिपुष्टं भवति। तथा च यवनेश्वरः—
द्विद्वेश्मगा नीचगृहस्थिता वा दुर्मार्गगाः सूर्यमनुप्रविष्टाः।
उक्तानि निघ्नन्ति शुभानि चैते फलान्यनिष्टान्यभिवर्धयन्ति।।
अत्रैव दृष्टान्तमाह—पुरतोऽन्धस्येव कामिन्या।
यथा—कामिन्याः सञ्जातकामायाः स्त्रियाः। अन्धस्य नेत्र-हीनस्य पुरतोऽग्रतः सविला-
सकटाक्षनिरीक्षणं वृथा। विलासो लावण्यम्। कटाक्षो नयनविभ्रमः। सह विलासकटाक्षाभ्यां
यन्निरीक्षणमवलोकनं तत्। वृत्तमेतद्विलाससंज्ञम्। तल्लक्षणम्—
तो मो यगौ यस्याद्यपादे स्यात् तौ जगौ तथा यत्र च दृश्यते।
तदनु स्तौ मश्चतुर्थे स्यात् सससा ल्गु विलासमुदाहृतम्।।
यस्य प्रथमपादे तोऽन्तलघुः। मस्त्रिगुरुः। य आदिलघुः। अन्ते गुरुश्च। द्वितीये
तोऽन्तलघुः। द्वौ तकारौ। जो मध्यगुरुः। अन्ते गुरुश्च। तृतीये सोऽन्तगुरुः। तोऽन्तलघुः।
मस्त्रिगुरुः। चतुर्थे सकारत्रयमन्ते लघुगुरू।।५३।।
न्यासः— त म य गु त त ज गु
ऽऽ। ऽऽऽ ।ऽऽ ऽ ऽऽ। ऽऽ। ।ऽ। ऽ
स त म स स स ल गु
।।ऽ ऽऽ। ऽऽऽ ।।ऽ ।।ऽ ।।ऽ । ऽ
अथार्कसौम्ययोः फलं साम्यं संयोगवशेन। स्कन्धकस्यार्यागीत्या साम्यं वैतालीयस्य
मागधिकया गाथाया आर्याया इत्येतदार्यागीत्याह—
सूर्यसुतोऽर्कफलसमश्चन्द्रसुतश्छन्दतः समनुयाति यथा।
स्कन्धकमार्यागीतिर्वैतालीयंच मागधी गाथाऽऽर्याम् ॥५४॥
सूर्य के समान शनि का फल देता है तथा जिस प्रकार संस्कृत में आर्या गीति,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्राकृत में स्कन्धक के, संस्कृत में वैतालीय, प्राकृत में मागधी के और संस्कृत में आर्या,
प्राकृत में गाथा के अनुगमन करती है, उसी प्रकार बुध छन्द ( परचित्त-ग्रहण ) से
फल देता है। अर्थात् शुभ ग्रह से युत शुभ और पाप से युत पाप फल देता है।।५४।।
सूर्यसुतः शनैश्चरः। अर्कफलसम आदित्यस्य गोचरफलेन सदृशः। येषु स्थानेषु
तृतीयषष्ठदशमैकादशेषु शुभः सूर्यस्तेष्वेव सौरः। चन्द्रसुतो बुधश्छन्दतः समनुयाति।
परचित्तग्रहणं लोके छन्द उच्यते। सौम्ययुक्तः सौम्यवत् पापयुक्तः पापवद्भवति। अथवा
यत्र राशिगो भवति तत्र यावत् तिष्ठति तावच्छुभफलं करोति। यत्राशुभस्तत्राशोभनमेव
फलं करोति। येन प्रकारेण स्कन्धकमार्यागीतिश्छन्दतः समनुयाति। संस्कृते याऽऽर्यागीतिः
स प्राकृते स्कन्धकः। एवं वैतालीयं मागधी छन्दतः समनुयाति। संस्कृते यद्वैतालीयं
सा प्राकृते मागधी। गाथाऽऽर्यां छन्दतः समनुयाति। संस्कृते याऽऽर्या सा प्राकृते गाथा।
आर्यागीतिनियमे तल्लक्षणम्—
गुर्वन्ताष्टमगणभागार्या पूर्वार्धसदृशशकलद्वितया।
आर्यैरार्यागीतिर्गीता सङ्गीतगीतिभिर्गीतविधौ।।
गुर्वन्तमष्टमं गणं भजते याऽऽर्या सा गुर्वन्ताष्टमगणभाक् तथोक्ता। पूर्वार्धेन प्रथमदलेन
सदृशं तुल्यं द्वितयं शकलमपरमर्धं यस्याः सा पूर्वार्धसदृशशकलद्वितया। ‘षष्ठो लोलात्
पदम्’ इत्यादि पूर्वस्मिन्नर्धे पथ्याया यदुक्तं तत् सर्वं यस्या आर्याया प्रथमेऽर्धे भवति।
त्रिषु गणेषु पादः। द्वितीयेऽप्यर्धे षष्ठो गणो लघुरेको न भवति, किं च चतुर्मात्र एव।
एवं भवति यस्यां साऽऽर्यैः पण्डितैरार्यागीतिरिति गीता कथिता। किम्भूतैः ? सङ्गीतगीतिभिः,
सङ्गीता सम्यक् कथिता गीतिर्यैस्ते सङ्गीतगीतयः पण्डितास्तैः। गीतिविधौ गीतिविधाने।
न्यासः प्रसिद्धः।
एतावदेव स्कन्धकलक्षणम्, यथा—
सअणविमद्दिअसिढिलं केसकलावं सुअन्धिअं अ वहमाणा।
ललणा कस्स ण हिअअं गिह्मसमअमलअपंक विइ हरइ तरुणि।।
वैतालीयलक्षणम्—
लाः षट् र्लगा नैधना अयुक्पादोऽष्टौ तु तथा समे च लाः।
न समोऽत्र परेण युज्यते नैते षट् च निरन्तरा युजोः।।
वैतालीयं नामेदं मात्रावृत्तमुच्यते। यस्य ला लघवः षट्। ते च किम्भूताः ? र्लगा
नैधनाः। रलमध्यः। लघुगुरू। एते र्लगा नैधनाः। निधने अन्ते भवाः। एषां षण्णां लघूना-
मन्ते। तथाभूतोऽयुक्पादः प्रथमस्तृतीयश्च। तथा युक्पादो द्वितीयश्चतुर्थश्च समस्तस्मिन्।
अष्टौ लाः। ते च र्लगा नैधना भवन्ति। न समोऽत्र परेण युज्यत इति। अत्रास्मिन् वैतालीये-
ऽयुक्पादे प्रथमेषु षट्सु लघुषु। तथा युक्पादे प्रथमेष्वेवाष्टसु लघुषु समो द्वितीयचतुर्थादिको
लघुः परेण तृतीयपञ्चमादिना सह न युज्यते न समस्यते न तन्निमित्ता गुरुता सम्पद्यते
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६१२ बृहत्संहिता
इत्यर्थः। नैते षट् च निरन्तरा युजोः। एतेऽष्टौ लघवो युजोः पादयोर्द्वितीयचतुर्थयोरनियताः
सन्ति। तेषां मध्ये षट् लघवो निरन्तरा गुरुणाऽव्यवहिता न कर्तव्याः। सर्वे षट् लघव
एव न रचनीया इत्यर्थः। युजोः पादयोर्नियमोऽयुजोर्नियमः।
न्यासः— ल र ल गु
। । । । । । ऽ । ऽ । ऽ
ल र ल गु
। । । । । । ऽ । ऽ । ऽ
एतदेव मागधिकालक्षणम्। किन्त्वत्र विशेषोऽयम्। रेफलकारयोर्यथाक्रमं लकार-
रेफावादेशौ कार्याविति। यथा—
परमागहिआ सुहासिणी कण्णाडी पिअकोइलालवा।
सुणअणरमणी अ मैथिली कलहोरू उकली मुहोण्णता।।
एवं गाथार्या। आर्याया यल्लक्षणं तद्गाथायाः। गाथालक्षणं 'द्वयन्तान्तरादिगुरुभिः'
इत्युक्तम्। तदेव गाथार्या। यथा—
गाहाधिरूढकण्ठे मणहरसअणम्मि तुङ्गथोरथणी।
जणिण्हाअदि बाला सा णिद्दा मणसिता अवरा।। इति।।५४।।
अथास्तमितसौरस्यातिशयेनाशुभप्रतिपादनं फलं पथ्याऽऽर्ययाऽऽह—
सौरोऽर्करश्मियोगात् सविकारो लब्धवृद्धिरधिकतरम्।
पित्तवदाचरति नृणां पथ्यकृतां न तु तथाऽऽर्याणाम् ।।५५।।
जिस प्रकार सूर्य के किरण के संयोग से पित्त का प्रकोप बढ़ जाता है, उसी प्रकार
सूर्य की किरणों के योग से अस्तगत शनि विकारयुत होकर अशुभ फल देने में अधिक
बढ़ता है और मनुष्यों को तापित करता है; किन्तु पथ्य भोजन करने वाले आर्यों को उस
प्रकार अशुभ फल नहीं देता है। यह पथ्या छन्द है।।५५।।
सौरः शनैश्चरोऽर्कस्यादित्यस्य रश्मियोगात् किरणसङ्गतत्वादस्तमितत्वाद्धेतोः सविकारो
विकृतत्वं गतो भवति। सविकारो भूत्वा लब्धवृद्धिरशुभफलप्रदाने भवति। तदाधिकतरं
नृणां पुंसां पित्तवदाचरति शरीरमुपतापयति। यथाऽर्करश्मिसंयोगात् सूर्यकिरणसन्तापनात्
पित्तं धातुविशेषः सविकारो भवति। अधिकतरं प्रकोपमायाति। सविकारत्वाल्लब्धवृद्धि-
र्भूत्वाऽधिकतरं भवति। आर्याणां साधूनां पथ्यकृतां पथ्याशिनां तु न, तथापि पीडा भवति।
यतो मङ्गलाचारयुक्तानामित्यनेन ग्रहोपतापो न भवति, पथ्याशिनां तु प्रकोपो न भवति।
आर्येयं पथ्या। तल्लक्षणम्—
द्वयन्तान्तरादिगुरुभिरित्यनेनार्याद्वयेन प्रागेव प्रदर्शितम्।। इति।।५५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहगोचराध्यायः ६१३
अथ ग्रहसंयोगाच्चन्द्रफलविशेषं वक्त्रेणाह—
यादृशेन ग्रहेणेन्दुर्युक्तस्तादृग्भवेत् सोऽपि।
मनोवृत्तिसमायोगाद्विकार इव वक्त्रस्य ॥५६॥
जिस तरह मनोवृत्ति के संयोग से मुख का विकार मनोवृत्ति के समान होता है,
अर्थात् प्रसन्न मन रहने से प्रसन्न मुख और दुःखित मन रहने से उदास मुख रहता है,
उसी तरह यादृश शुभाशुभ ग्रह से युक्त चन्द्र होता है, तादृश शुभाशुभ फल करता है।
अर्थात् शुभ ग्रह से युत चन्द्र शुभ फल और पापग्रह से युत चन्द्र पापफल करता है।
यह वक्त्र छन्द है॥५६॥
इन्दुश्चन्द्रमा यादृशेन ग्रहेण शुभेन वाऽशुभेन युक्तस्तादृशः सोऽपि भवति। पापयुतः
पापफलः, सौम्ययुतः शुभफल इत्यर्थः। मनोवृत्तिसमायोगाद्धेतोः। यतश्चन्द्रो मनः, उक्तं
च—‘मनस्तुहिनगुः’ इति। मनसो येन सह संयोगास्तादृगेव तदपि भवति। यथा मनोवृत्ति-
समायो
६१४ बृहत्संहिता
न्यासः— ल
ऽ।ऽ ।।ऽ ऽऽ
ल ल
ऽ।ऽ ।।ऽ ।ऽ
ल
ऽऽऽ ऽ।ऽ ऽऽ
ल ल
।।ऽ ऽ।ऽ ।ऽ
अथ सुस्थितैर्ग्रहैः पुरुषस्य सुस्थितत्वमाह—
प्रकृत्यापि लघुर्र्यश्च वृत्तबाह्ये व्यवस्थितः ।
स याति गुरुतां लोके यदा स्युः सुस्थिता ग्रहाः ॥५८॥
जिस तरह स्वभाव से लघु अक्षर भी वृत्तबाह्य ( पादान्त ) में व्यवस्थित होने से
गुरु हो जाता है, उसी तरह जो पुरुष स्वभाव से लघु ( दूषित कुल में उत्पन्न ) और
वृत्तबाह्य ( बाह्येन्द्रिय ) में व्यवस्थित है अर्थात् दुःशील है, वह भी अनुकूल ग्रह आने
पर लोगों में पूजित होता है। यह अनुष्टुप् छन्द है॥५८॥
यः पुरुषः प्रकृत्या स्वभावेन लघुः स्वल्पोऽसत्कुलप्रसूतः । तथा वृत्तबाह्ये बाह्येन्द्रिये
व्यवस्थितो दुःशील इत्यर्थः। स तथाभूतोऽपि लोके गुरुतां पूज्यतां याति गच्छति। यदा
सुस्थिताः शोभनस्थानस्था अनुकूला ग्रहाः स्युर्भवेयुः। छन्दसां प्रस्तारे परिभाषेयम्—यो
वर्णः प्रकृत्यापि स्वभावत एव लघुरेकमात्रः। वृत्ताच्छन्दसो बाह्ये पादान्ते स्थितः स गुरुतां
गुरुत्वं द्विमात्रत्वं याति। यदा सुस्थिता ग्रहा गणाश्चतुर्मात्रादिकाः स्युः येन प्रस्तारदोषो नोत्पद्यते
तदा तस्य गुरुता कार्या, नान्यथेति। एकमात्रिक ऋजुरप्यन्ते वक्रो दीर्घो भवति। वृत्तमेतद्-
परमनुष्टुभं विन्द्यात्। एतदेवोदाहरणम्॥५८॥
असुस्थितैर्यत् कर्म क्रियते तत् कर्तुश्चोपघातं करोतीत्येतद्वैतालीयेनाह—
प्रारब्धमसुस्थितैर्ग्रहैर्यत् कर्मात्मविवृद्धये बुधैः ।
विनिहन्ति तदेव कर्म तान् वैतालीयमिवायथाकृतम् ॥५९॥
जिस तरह अविधान से वेताल-सिद्धि के लिये किया हुआ कर्म साधकों का ही
नाश करता है, उसी तरह पण्डित लोग असुस्थित ग्रहों के आने पर आत्मवृद्धि के लिये
जिस कर्म का प्रारम्भ करते हैं, वह कर्म ही उनका नाश करता है। यह वैतालीय छन्द
है॥५९॥
बुधैः पण्डितैः। यत् कर्म कार्यमात्मविवृद्धये आत्मनो वृद्ध्यर्थमसुस्थितैर्ग्रहैः प्रारब्ध-
माक्षिप्तम्।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
ग्रहगोचराध्यायः ६१५
उदयसमये यः स्निग्धांशुर्महाप्रकृतिस्थितो।
यदि च निहतो निर्घातोल्काज्रोग्रहमर्दनैः।।
स्वभवनगतः स्वोच्चप्राप्तः शुभग्रहवीक्षितः।। इति।
एतस्माद्विपरीतस्थिता असुस्थिता दुःस्थिताः। तैस्तथाभूतैर्यत् कर्म प्रारब्धं तदेव
कर्म तान् बुधान् विनिहन्ति घातयति। आत्मविवृद्ध्यर्थमारब्धमात्मन एव हानिं करोति।
यथा वैतालीयं वेतालनिमित्तं कर्म वैतालीयम्। अयथाकृतमविधानेन कृतं तानेव साधकान्
हन्ति। यैरात्मविवृद्ध्यर्थं रसरसायनविधिविलासार्थं कृतमविधिना तानेव हन्ति। वृत्तमेत-
द्वैतालीयम्। तल्लक्षणम्—'लाः षट् र्ल्याः' इत्यादि।।५९
सुस्थितैर्ग्रहैर्यत् कर्म क्रियते तदल्पप्रयत्नेन सिद्ध्यतीत्येतदौपच्छन्दसिकेनाह—
सौस्थित्यमवेक्ष्य यो ग्रहेभ्यः काले प्रक्रमणं करोति राजा।
अणुनापि स पौरुषेण वृत्तस्यौपच्छन्दसिकस्य याति पारम् ॥६०॥
सुस्थित ग्रहों को देखकर जो राजा शत्रु के ऊपर आक्रमण करता है, वह अल्प
सैन्य से युत होने पर भी औपच्छन्दसिक वृत्त ( वेदोक्त क्रिया ) का पार जाता है। यह
औपच्छन्दसिक छन्द है।।६०।।
ग्रहाणां सुस्थितत्वमाचार्येणोक्तम्—
उदयसमये यः स्निग्धांशुरित्यादि।
अमुमेवार्थं सिद्धार्थी यात्राकारः स्पष्टतरमाह—
स्वराशिं वा स्ववर्गं वा त्रिवर्गगृहाणि वा।
स्वोच्चं वा भवनं यातो विचरन् प्राकृतीं गतिम्।।
वपुष्मान् वर्णवान् भास्वान् बलैः सर्वैः समन्वितः।
बलिभिः कारकैर्मित्रैर्ग्रहः समवलोकितः।।
दिवि भौमान्तरिक्षैश्च यश्चोत्पातैरपीडितः।
स्वजन्मस्थं च वर्गं च मार्गं चोपगतः शुभः।।
योऽनुकूलो विजेता वा स ज्ञेयः सुस्थितो ग्रहः।
यथोक्तविपरीतो यो विज्ञातव्यः स दुःस्थितः।।
इत्येवं प्रकारं सौस्थित्यं ग्रहेभ्योऽवेक्ष्य निरूप्य काले यथोक्ते यात्राकाले प्रक्रमणं
यात्रां करोति। यात्राकालोऽभिहित आचार्येणैव, तथा च—
यात्राऽजसिंहतुरगोपगता वरिष्ठा मध्या शनैश्चरबुधोशनसां गृहेषु।
भानौ कुलीरशशिवृश्चिकगेऽतिदीर्घा शस्ता तु देवलमतेऽध्वनि पृष्ठतोऽर्के।।
तथा—
यात्रा नृपस्य शरदीष्टफला मधौ च छिद्रे रिपोर्न नियमोऽत्र च केचिदाहुः।
छिद्रेऽप्यरेर्भवति दैवयुतस्य सिद्धिः सामान्यमामिषमिदं प्रतिभूमिपानाम्।। इति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६१६ बृहत्संहिता
एवं यथोक्ते यात्राकाले यः प्रक्रमणं करोति राजा गमनमारभते, सोऽणुना स्वल्पेनापि
पौरुषेण सैन्येन युक्तो भवति। तथाऽपि वृत्तस्यौपच्छन्दसिकस्य। वृत्तं क्रिया, औपच्छन्दसि-
कस्य वेदोक्तस्य वृत्तस्य पारं याति।
एतदुक्तं भवति—सर्वथा विजिगीषुणा सुस्थितैर्ग्रहैः स्वल्पतन्त्रेणापि यातव्यम्। तत्र
गतो मानयशोवित्तं लभते। तथा च सिद्धार्थो यात्राकार आह—
मानमाज्ञायशोवित्तं सुस्थितैः प्रसवन् ग्रहैः।
विन्दते दुःस्थितैस्त्वेतैस्तद्विपर्ययमश्नुते।।
असुस्थितैस्तु पुनः पुष्टतन्त्रेणापि न यातव्यम्। अमुमेवार्थं नन्दी आह—
दैवोपहता यात्रा कथञ्चिदपि भवति यातुश्चेत्।
क्षितिपस्यानुपकारा सर्वस्य विनाशनीया स्यात्।।
तस्मादतिसामर्थ्ये प्रवर्त्तमानेऽपि दैवहीनेन।
यात्रोद्यमो न कार्यः स्वसुखोदयमिच्छता राज्ञा।।
वृत्तमेतदौपच्छन्दसिकम्। तल्लक्षणम्—
र्यावन्ते शेषमूर्द्धसाम्यादौपच्छन्दसिकं वदन्ति सन्तः।
रेफयकारावन्ते भवतः। रलमध्यः। य आदिलघुः। शेषं लक्षणं वैतालीसमम्। षण्मात्रा
अयुक्पादेऽष्टौ समे च। सन्तः पण्डिता वदन्ति कथयन्त्यौपच्छन्दसिकम्। न्यासः प्रसिद्धः।
अधुनाऽऽदित्यदिने यानि कर्माणि कारयेत् तानि दण्डकपादेनाह—
उपचयभवनोपयातस्य भानोर्दिने कारयेद्धे-
मताम्राश्वकाष्ठास्थिचर्मोर्णिकाद्रिद्रुमत्वग्-
नखव्यालचौरायुधीयाटवीक्रूरराजोपसेवा-
भिषेकौषधक्षौमपण्यादिगोपालकान्तार-
वैद्याश्मकूटावदाताभिविख्यातशूराहवश्लाघ्य-
याय्यग्निकर्माणि सिद्ध्यन्ति लग्नस्थिते वा रवौ।
जन्मराशि से उपचय ( ३, ६, १०, ११ ) भवन या लग्न में स्थित सूर्य हो और
सूर्यवार हो तो सोना, ताँबा, घोड़ा, लकड़ी, हड्डी, चमड़ा, ऊनी वस्त्र, पर्वत, वृक्ष, त्वचा,
नख, सर्प, चोर, खड्ग-सम्बन्धी, वन, क्रूर, राजा का आराधन, राजा आदि का
अभिषेक, औषध, क्षौम, क्रय-विक्रय आदि, वन में उत्पन्न हुये द्रव्यों के ग्रहण-पोषण
आदि, गोपाल, मरुभूमि, वैद्य, पत्थर, दम्भ, सत्कुलोत्पन्न, कीर्तियुक्त, शूर, युद्ध में
कथनीय, गमनशील, अग्निकर्म-इन सब वस्तुओं से सम्बन्धित कर्मों की सिद्धि होती है।
उपचयभवनोपयातस्येति। भानोरादित्यस्योपचयभवनोपयातस्य जन्मराशितस्त्रिषडेका-
दशदशमस्थानानामन्यतमस्थानस्थस्य दिने तद्वासरे कारयेद् विदध्यात्। हेम सुवर्णम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ताम्रमुडुम्बरम्। अश्वास्तुरगाः। काष्ठं प्रसिद्धं दारु। अस्थि प्रसिद्धम्। चर्म व्याघ्रादिचर्म।
और्णिकः कम्बलः। चर्मोर्मिकेति पाठान्तरम्। ऊर्मिका जलधिवेला। अद्रिः प्रसिद्धः।
द्रुमो वृक्षः। त्वक् प्रसिद्धो द्रव्यविशेषः, सुगन्धद्रव्यम्। नखः शुक्तिः। व्यालः सर्पः। चौर-
स्तस्करः। आयुधः खड्गादिस्तस्मिन् हितमायुधीयम्। अटवी अरण्यम्। क्रूरं वञ्चनकर्म
दुर्गादि। राजोपसेवा नृपाराधनम्। अभिषेको नृपादेः। औषधं भेषजम्। क्षौमः क्षुमासम्भवः।
पण्यादि क्रयविक्रयम्। केचिद्द्रव्यादि पठन्ति। वने भवो वन्यः। तद्द्रव्याणां तज्जातानां
वा प्राणिनां ग्रहणपोषणादि। गोपालो गोरक्षकः। कान्तारो मरुभूमिः। वैद्यः कायचिकित्सकः।
अश्मा पाषाणः। कूटं दम्भः। अवदातः सत्कुलजः। अभिविख्यातः कीर्तियुक्तः। शूरः
संग्रामप्रियः। आहवश्लाघ्यः संग्रामे कथनीयः। यायी गमनशीलः। अग्निकर्माणि अग्न्या-
श्रितकार्याणि। एतेषां वस्तूनां सम्बन्धीनि यानि कार्याणि तानि रविदिने लग्नस्थिते प्राग्लग्नगे
वा रवौ सिद्ध्यन्ति। तथा च समाससंहितायाम्—
नृपाग्निपशुकर्माणि युद्धकार्याणि यानि च।
सूर्यस्य दिवसे प्राज्ञस्तानि सर्वाणि कारयेत्॥
तथा च यवनेश्वरः—
नृपप्रतिष्ठायुधयुद्धयोधहेमाग्निगोमूत्रभिषक्प्रयोगान् ।
रवेर्दिने वन्यमृगार्दनादि प्रशस्यते द्विङ्भयकृच्च कर्म॥
तथा च गर्गः—
क्रौर्यं शाठ्यं नृपाद्भेदं शत्रूणां चैव बन्धनम्।
अध्वानं च विवाहं च निधिकार्यं च कारयेत्॥
तनुशुद्धिसिराकर्म बडवाश्वविमोचनम्।
सर्वमेतद् यथोद्दिष्टं कारयेद् रविवासरे॥
अथ चन्द्रस्य दिने यानि कर्माणि क्रियन्ते तानि द्वितीयदण्डकपादेनाह—
शिशिरकिरणवासरे तस्य वाप्युद्गमे केन्द्र-
संस्थेऽथवा भूषणं शङ्खमुक्ताब्जरूप्याम्बु-
यज्ञेक्षुभोज्याङ्गनाक्षीरसुस्निग्धवृक्षक्षुपानूप-
धान्यद्रवद्रव्यविप्राध्वगीतक्रियाशृङ्गिकृष्यादि-
सेनाधिपाक्रन्दभूपालसौभाग्यनक्तञ्चर-
श्लैष्मिकद्रव्यमातुल्यपुष्पाम्बरारम्भसिद्धिर्भवेत् ॥
चन्द्रवार में अथवा कर्क लग्न या केन्द्रस्थित चन्द्र हो तो भूषण, शङ्ख, मोती,
कमल, चाँदी, जल, यज्ञ, इक्षु ( ईख = गन्ना ), भोज्य, स्त्री, दूध, सुस्निग्ध वृक्ष
( अखरोट आदि ) तृण, जलप्राय देश, धान्य, अवलेह, ब्राह्मण, मार्ग, गानकर्म, शृङ्गी
( हरिण आदि ), कृषि आदि, सेनाधिप, पार्ष्णिग्राह ( पार्श्वरक्षक ), राजा, जनप्रियता,
६१८ बृहत्संहिता
रात्रिचर, कफ करने वाले द्रव्य, मामा का हित, फूल, वस्त्र वस्तुओं से सम्बन्धित कर्मों
की सिद्धि होती है।
शिशिरकिरणवासर इति । शिशिरकिरणश्चन्द्रस्तस्य वासरे दिने तस्य वाप्युद्गमे
लग्नगते तस्मिन् लग्नगते तल्लग्ने कर्कटके वा केन्द्रसंस्थेऽथवा लग्नचतुर्थसप्तमदशमस्थाना-
नामन्यतमस्थानस्थे। भूषणमलङ्करणम्। शङ्खः प्रसिद्धः। मुक्ता मुक्ताफलानि। अब्जं पद्मादि।
रूप्यं रजतम्। अम्बु जलम्। यज्ञो यागः। इक्षुः प्रसिद्धः। भोज्यमशनम्। अङ्गना स्त्री।
क्षीरं प्रसिद्धम्। सुस्निग्धवृक्षोऽक्षोटादिः। क्षुपास्तृणानि। अनूपो बहूदकप्रदेशः। धान्यं
शालयः। द्रवद्रव्यं लेह्यम्। विप्रो ब्राह्मणः। अध्वा पन्थाः। गीतक्रिया गानकर्म। शृङ्गिणो
हरिणादयः। कृष्यादि वपनलवनादि। सेनाधिपश्चमूपतिः। आक्रन्दो विजिगीषूणां पश्चात्
पार्ष्णिग्राहः। पार्ष्णिग्राहस्य पश्चादाक्रन्दः। भूपालो राजा। सौभाग्यकरणं जनवाल्लभ्यम्।
नक्तञ्चरो रात्रिचरः। श्लैष्मिकं द्रव्यं श्लेष्मिणो हितम्। मातुल्यं मातुलस्य हितं मातुल्यम्।
पुष्पं कुसुमम्। अम्बरं वस्त्रम्। एतेषां सम्बन्धीनि यानि कार्याणि तेषां कार्याणामारम्भे
सिद्धिर्भवेत्। तथा च समाससंहितायाम्—
जलस्त्रीराजकर्माणि मृदून्यन्यानि यानि च।
तानि चन्द्रदिने कुर्यात् शुक्लपक्षे विशेषतः॥
तथा च यवनेश्वरः—
स्त्रीसङ्गमालङ्करणाम्बरस्रक्प्रक्रियाहर्षसुखाश्रयांश्च ।
कुर्वीत चन्द्रस्य दिने प्रदानयज्ञोत्सवान् रत्नरसार्जनं च॥
तथा च गर्गः—
उपभोगं तथा शय्यां नवमिश्रं गृहं चरेत्।
पचेद् घृतं च तैलं च सम्बन्धं चात्र कारयेत्॥
क्षुरकर्म तथा दानं गवां वेश्मप्रवेशनम्।
नृपसन्दर्शनं विन्द्यात् कुर्याच्चैव निवेशनम्॥
सर्वमेतद्यथोद्दिष्टं कुर्याच्चन्द्रदिने शुभे॥
अथ भौमस्य दिने यानि कर्माणि कार्याणि तानि दण्डकतृतीयपादेनाह—
क्षितितनयदिने प्रसिद्ध्यन्ति धात्वाकरादीनि
सर्वाणि कार्याणि चामीकराग्निप्रवालायुध-
क्रौर्यचौर्याभिघाताटवीदुर्गसेनाधिकारास्तथा
रक्तपुष्पद्रुमा रक्तमन्यच्च तिक्तं कटुद्रव्यकूटा-
हिपाशार्जितस्वाः कुमारा भिषक्छाक्यभिक्षु-
क्षपावृत्तिकोशेशशाठ्यानि सिद्ध्यन्ति दम्भास्तथा।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहगोचराध्यायः ६१९
मंगलवार में धातुओं के आकर आदि से सम्बन्धित समस्त कार्य, सोना, प्रवाल,
शस्त्र, क्रूरता, चोरी, दूसरे को उपद्रव, वन, दुर्ग, सेनापति, रक्तपुष्प वाले वृक्ष, रक्त
वस्तु, तिक्त ( निम्ब आदि ), कटु द्रव्य ( मरीचादि ), कूट, सर्प के बन्धन से उपार्जित
धन वाले, कुमार, वैद्य, शाक्यभिक्षु ( संन्यासी ), रात्रि में कार्य करने वाले, खजानची,
शठता, दम्भ—इन सब वस्तुओं से सम्बन्धित कर्मों की सिद्धि होती है।
क्षितितनयदिन इति। क्षितितनयोऽङ्गारकस्तस्मिन् दिने प्रसिद्ध्यन्ति ध्वात्वाकरादीनि
धातूनामाकर उत्पत्तिस्थानम्। ध्वात्वाकरादीनि सर्वाणि धातुद्रव्याणि। आदिग्रहणात् क्षालनं
पाचनं च। चामीकरं सुवर्णम्। अग्निः प्रसिद्धः। प्रवालं विद्रुमम्। आयुधं खड्गादि। क्रौर्यं
क्रूरत्वम्। चौर्यं स्तेयत्वम्। अभिघातः परोपद्रवः। अटवी अरण्यम्। दुर्गं गिरिजलदुर्गादि।
सेनाधिकारास्तथा। तथा तेनैव प्रकारेण सेनाधिपत्यम्। रक्तपुष्पद्रुमा रक्तानि पुष्पाणि लोहितानि
कुसुमानि येषां द्रुमाणां वृक्षाणाम्। रक्तं लोहितवर्णं यत्किञ्चित्। तिक्तं निम्बादि। कटुद्रव्यं
मरिचादि। कूटैर्दम्भैः। अहिपाशैः सर्पबन्धैरर्जितं स्वं धनं यैः। कुमाराः प्रसिद्धाः। भिषग्
वैद्यः। शाक्यभिक्षुः श्रमणकः। क्षपावृत्ती रात्रिवर्तनम्। कोशेशः, कोशो गञ्जस्तस्येशो नायकः।
केचित् कौशेयं पट्टमितीच्छन्ति। शाठ्यं शठभावः, परकार्यविमुखत्वम्। एतदाश्रितानि
सर्वाणि कार्याणि सिद्ध्यन्ति संसिद्धिमायान्ति, तथा तेनैव प्रकारेण दम्भाः सिद्ध्यन्ति। तथा
च समाससंहितायाम्—
दुर्गग्रहणकर्माणि हेमकर्माणि यानि च।
तथा च पशुकर्माणि कुर्याद् भौमदिने नरः।।
तथा च यवनेश्वरः—
वधावरोधावृतडिम्भभेदाः स्तेयादिशस्त्रादिविषप्रयोगाः।
दिने कुजस्य ध्वजिनीनिवेशाः कार्याः सुवर्णाजपशुक्रियाश्च।।
तथा च गर्गः—
आयुधं कारयेत् प्राज्ञः पापकर्म तथैव च।
बन्धनाद्यानि कर्माणि लुण्ठनं तु क्षयादिकम्।।
षण्मुखस्यात्र कर्तव्या पूजा च शिखिकुक्कुटैः।
पूजयेदनलं चात्र यन्त्रकार्यं समारभेत्।।
मन्त्रकर्म विवाहं च दिने भौमस्य वर्जयेत्।।
अथ बुधस्य दिने यानि कार्याणि क्रियन्ते तानि दण्डकचतुर्थपादेनाह—
हरितमणिमहीसुगन्धीनि वस्त्राणि साधारणं
नाटकं शास्त्रविज्ञानकाव्यानि सर्वाः कलायुक्तयो
मन्त्रधातुक्रियावादनेपुण्यपुण्यव्रतायोगदूता-
स्तथाऽऽयुष्यमायामृतस्नानह्रस्वाणि दीर्घाणि
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA
६२० बृहत्संहिता
मध्यानि च च्छन्दतश्चण्डवृष्टिप्रयातानुकारीणि
कार्याणि सिद्ध्यन्ति सौम्यस्य लग्नेऽह्नि वा ॥६१॥
बुध के लग्न या दिन में हरित मणि, पृथ्वी, सुगन्ध द्रव्य, साधारण कार्य, नाटक,
शास्त्र, विज्ञान, काव्य, सभी कलायें, द्रव्यों का संयोग, मन्त्रक्रिया, धातुक्रिया, किसी के
साथ विवाद, निपुणता, पुण्य, व्रतग्रहण, दूत, आयु के लिये हित कार्य, माया, मिथ्या,
स्नान (पुण्यस्नान आदि), शीघ्र होने वाला कार्य, देर में होने वाला कार्य, मध्य समय
में होने वाला कार्य, परचित्त-ग्रहणपूर्वक प्रचण्ड वृष्टि में पदन्यास के अनुकरण करने
वाला कार्य अर्थात् कोई ह्रस्व, कोई दीर्घ और कोई मध्यम कार्य—इन सब वस्तुओं से
सम्बन्धित कर्म की सिद्धि होती है।।६१।।
हरितमणीति । हरितमणीनां सम्बन्धः। अथवा हरितद्रव्याणां मणीनां च मही भूः।
सुगन्धीनि सुगन्धद्रव्याणि। वस्त्राण्यम्बराणि। साधारणमुग्रं सौम्यं च। नाटकं नर्तनम्।
शास्त्रं प्रसिद्धम्। विज्ञानमध्यात्मिकम्। काव्यानि प्रसिद्धानि। सर्वा निःशेषाः कला गीत-
वाद्यनृत्तचित्रलेपकर्मार्दि। युक्तयो द्रव्याणां योजनम्। मन्त्रक्रिया मन्त्रसाधनम्। धातुक्रिया
धातुवादः। वादः परस्परं केनचित् सह वदनम्। नैपुण्यं निपुणता। पुण्यं धर्मक्रियानुसेवनम्।
व्रतायोगो व्रतग्रहणम्। दूतो गमागमिकः। तथाऽऽयुष्यमायुषो हितं रसायनवाजीकरणानि।
माया व्याजव्यवहरणम्। अनृतमसत्यम्। स्नानं मलापहं पुष्यस्नानादि वा। तथा यानि
कार्याणि ह्रस्वानि क्षिप्रकालकरणीयानि। दीर्घाणि चिरकालकरणीयानि। मध्यानि च
शीघ्रं न चिरकालं करणीयानि। तथा छन्दतः परिचित्तग्रहणपूर्वकाणि चण्डवृष्टिप्रयातानुकारीणि
कार्याणि। चण्डा चासौ वृष्टिः चण्डवृष्टिः। चण्डवृष्टौ प्रयातं गमनं यत् तदनुकारीणि
तत्सदृशानि। तस्यां गमनं पदविन्यासः। कश्चिद्ध्रस्वः, कश्चिद् दीर्घः, कश्चिन्मध्यो भवति।
मार्गस्य जलावृतत्वाच्छिथिलत्वात् पदविन्यासस्तथाविधो भवति। तदनुकारीणि कार्याणि
सिद्ध्यन्ति। सौम्यस्य बुधस्य लग्नेऽह्नि वा। तथा च समाससंहितायाम्—
स्वाध्यायशिल्पव्यायामकलाकर्मरतानि च।
तानि सौम्यदिने कुर्याद् यदि पापैर्न सङ्गतः।।
तथा च यवनेश्वरः—
स्वाध्यायसेवालिपिलेख्यशिल्पव्यायामनेपुण्यकलाविशेषाः।
इष्टिक्रियाः काञ्चनधातुयुक्तिर्वाग्युक्तिसन्धिप्रभुता बुधेऽह्नि।।
तथा च गर्गः—
बन्ध्योधवधं सर्वं व्यायामं च विशेषतः।
नृपसेवा च यात्रा च तथैव क्रयविक्रयौ।।
वीरांश्च योजयेत् प्राज्ञो बद्धान् पाशांश्च मोचयेत्।
एवं मित्रं च शिष्यं च बन्धुभिः सह सङ्गमम्।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहगोचराध्यायः ६२१
आश्रमे च तथा भूमौ केदारे वपने तथा।
शिक्षेत रूपकर्माणि दिने चन्द्रसुतस्य च।।
आचार्येण चण्डवृष्टिप्रयातानुकारिणीत्यनेन चण्डवृष्टिप्रयातानां सर्वदण्डकानां लक्षणं
प्रदर्शितम्। तथा च—
प्रथमक इह दण्डकश्चण्डवृष्टिप्रयातो भवेन्नद्वयेनाथ रैः सप्तभिः।
प्रतिपदमिह रेफवृद्धाः स्युरर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः।।
उत्कृतेरधिकाक्षरो दण्डकः। दण्डका नाम समासवृत्तविशेषा भवन्ति। येषां पादो
द्वाभ्यां नकाराभ्यां सप्तभिश्च रेफैर्भवति। नस्त्रिलघुः। रलमध्यः। इहास्मिन् छन्दोलक्षणे
प्रथमको दण्डकश्चण्डवृष्टिप्रयातसंज्ञः सप्तविंशत्यक्षरपादो भवति। पिङ्गलादीनामाचार्याणां
मतेन राजमाण्डव्यौ वर्जयित्वा। तयोस्तु मते एष सुवर्णाख्यः। तथा च तावूचतुः—
[
६२२ बृहत्संहिता
शास्त्रमनोज्ञबलप्रदसत्यगिरः ।
व्रतहवनधनानि च सिद्धिकराणि तथा
रुचिराणि च वर्णकदण्डकवत् ॥६२॥
बृहस्पति दिन में सोना, चाँदी, घोड़ा, हाथी, बैल, वैद्य, औषधि, ब्राह्मणों का तर्पण,
पितृश्राद्ध, देवताओं का कार्य, पुरःस्थित ( पदाति ), छत्र, चामर, भूषण, राजा, देवगृह,
देवप्रतिष्ठा, गृहप्रतिष्ठा, धर्माश्रय, मंगल, शास्त्र, सुन्दर, बलप्रद, सत्य वचन, व्रत ( चान्द्रायण
आदि ), हवन, धन—इन सभी वस्तुओं से सम्बन्धित कार्य वर्णक ( सर्प आदि ) से
युत मनोहर दण्ड की तरह सिद्ध और सुन्दर होते हैं। यह वर्णकदण्डक छन्द है॥६२॥
सुरगुरुदिवस इति । सुरगुरुदिवसे बृहस्पतिदिने कनकं सुवर्णम्। रजतं रौप्यम्।
तुरगा अश्वाः। करिणो हस्तिनः। वृषभा दान्ताः। भिषग्वैद्यः। ओषधयः प्रसिद्धाः। अथवा
भिषगोषधयो वैद्यप्रणीतानि द्रव्याणि। द्विजानां ब्राह्मणानां तर्पणम्। पितॄणां श्राद्धम्।
सुराणां देवानां च कार्याणि। पुरःस्थितोऽग्रस्थितः पदातिः। घर्मनिवारणं छत्रादिकम्। चामरं
वालव्यजनम्। भूषणमलङ्करणम्। भूपतयो राजानः। विबुधभवनं देवगृहम्। अथवा विबुधानां
प्रतिष्ठा। भवनानां गृहाणां च प्रतिष्ठा। धर्मसमाश्रयो धर्माश्रयणम्। मङ्गलं शुभकार्यम्।
शास्त्रं प्रसिद्धम्। मनोज्ञश्चित्ताह्लादकः। बलप्रदं मांसाद्याहारः। सत्यगिरः सत्ययुक्ता वाचः।
व्रतं चान्द्रायणादि। हवनमग्नौ। धनं वित्तम्। एवमादिकानि सम्बन्धीनि यानि कर्माणि
सिद्धिकराणि सिद्धिप्रदानि। तथा रुचिराणि श्रेष्ठानि चान्यानि। कथं रुचिराणि? वर्णक-
दण्डकवत्। वर्णकेन नागादिना यथा रुचिरं स्फुटतरं दण्डकं तद्वद्यानि रुचिराणि। एतद्वर्णक-
दण्डकं नाम दण्डकं नद्वयेन सप्तभिर्भैर्गुरुणा च।
न्यासः— न न भ भ भ भ भ भ भ गु
⏞ ⏞ ⏞ ⏞ ⏞ ⏞ ⏞ ⏞ ⏞
। । । । । । ऽ । । ऽ । । ऽ । । ऽ । । ऽ । । ऽ । । ऽ । । ऽ
तथा च समाससंहितायाम्—
शान्तिपौष्टिककर्माणि तथा ज्ञानाश्रितानि च।
तानि कृत्स्नं विधेयानि दिने देवगुरोः शुभे॥
तथा च यवनेश्वरः—
दिने गुरोर्धार्मिकपौष्टिकेज्याबाध्याभिधेयक्रतुमुण्डनादि।
क्रियाश्रिता धर्मसुवर्णवस्त्रदेहाश्रयाश्चाश्वरथाश्रयाश्च।।
तथा च गर्गः—
यज्ञं च विविधं कुर्यात् तपांसि च विशेषतः।
यज्ञे यज्ञे तपस्तेपे छादयेत् कारयेद् गृहम्।।
आरभेद् भारतं चेदं ज्योतिषं च विशेषतः।
ग्राहयेन्नववस्त्राणि यात्रां दद्यान्नृपस्य च।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहगोचराध्यायः ६२३
आदिशेच्च व्रतं पुत्रे बीजान् सर्वांश्च वापयेत्।
योजयेच्छकटं चात्र दिने देवगुरोः शुभे॥ इति॥६२॥
अथ शुक्रदिने यानि कार्याणि क्रियन्ते तानि समुद्रदण्डकप्रथमाङ्घ्रेनाह—
भृगुसुतदिवसे च चित्रवस्त्रवृष्यवेश्य-
कामिनीविलासहासयौवनोपभोगरम्यभूमयः ।
स्फटिकरजतमन्मथोपचारवाहनेक्षुशारद-
प्रकारगोवणिक्कृषीवलौषधाम्बुजानि च।
शुक्रवार में चित्र कर्म, वस्त्र, वीर्य-वृद्धि के लिये प्रयोग, वेश्या, कामासक्त स्त्री,
विलास, उपहास, यौवनोपभोग (स्त्रीप्रसङ्ग आदि), चाँदी, कामदेव का उपचार, वाहन,
इक्षु (ईख = गन्ना), शारदीय धान्य, वाणिज्य, खेती, औषध, जलज (कमल आदि)—
इन वस्तुओं से सम्बन्धित कार्य सिद्ध होते हैं।
भृगुसुतदिवस इति। भृगुसुतदिवसे शुक्रदिने च। चित्रं चित्रकर्म। वस्त्रमम्बरम्।
वृष्यप्रयोगो रेतोवृद्धिकरः। वेश्या पण्यस्त्री। कामिनी कामासक्ताङ्गना। विलासः क्रीडनम्।
हास उपहासः। यौवनोपभोगो रतादिः। रम्या रमणीया भूमय उपवनादि। स्फटिकः स्फटिको-
पलम्। रजतं रौप्यम्। मन्मथोपचारः कामोपचरणम्। वाहनमश्वादि। इक्षुः प्रसिद्धः। शारद-
प्रकारो धान्यानि। वणिक्कर्माणि। कृषिकर्माणि। औषधं प्रसिद्धम्। अम्बुजं जलजं पद्मादि।
एतानि कार्याणि। तथा च समाससंहितायाम्—
कलागन्धर्वकर्माणि रत्नकर्माणि यानि च।
तानि कार्याणि दिवसे सदा दैत्यगुरोः शुभे॥
तथा च यवनेश्वरः—
गान्धर्वविद्यामणिरत्नगन्धगोभूमिशय्याम्बरभूषणानाम् ।
स्त्रीपण्यकोशोत्सववन्दनानां क्रियाविधिः शुक्रदिने प्रशस्तः॥
तथा च गर्गः—
गजमश्वं प्रयुञ्जीत कर्णबन्धे नियोजयेत्।
पिबेत् सुरां च मद्यं च प्रचरेत् कुसुमाम्बरम्॥
गन्धांश्च विविधानद्यात् कामयेच्च वराङ्गनाः।
द्यूते च सहसा प्रीतिं तिलं तैलं च योजयेत्॥
मङ्गलं स्थापयेदेव रोपयेच्चैव पादपान्।
सर्वमेतद्यथोद्दिष्टं कुर्याच्छुक्रदिने शुभे॥
अथ सौरस्य दिने यानि कर्माणि क्रियन्ते तानि समुद्रदण्डकापरार्धेनाह—
सवितृसुतदिने च कारयेन्महिष्यजोष्ट्रकृष्ण-
लोहदासवृद्धनीचकर्मपक्षिचोरपाशिकान् ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६२४ बृहत्संहिता
च्युतविनयविशीर्णभाण्डहस्त्यपेक्षविघ्नकारणानि
चान्यथा न साधयेत् समुद्रगोऽप्यपां कणम् ॥६३॥
शनिवार में भैंस, छाग, ऊँट, कृष्णलोह (शस्त्र, आयुध आदि), भृत्य, वृद्ध, नीच,
पक्षी, चोर, बन्धन आदि जानने वाले, नम्रता से रहित, फूटा भाण्ड, हस्त्यपेक्षा (हाथी
के ग्रहणादि), विघ्न के कारण इनके आश्रित सभी कार्य सिद्ध होते हैं। इन पूर्वोक्त
नियमों को छोड़कर समुद्र में जाने पर भी जलबिन्दु की भी प्राप्ति नहीं होती है। यह
समुद्रदण्डक छन्द है।।६३।।
सवितृसुतदिन इति। सवितृसुतदिने शनैश्चरदिवसे च कर्माणि कारयेत्। महिषी
प्रसिद्धा। अजश्छागः। उष्ट्रः करभः। कृष्णलोहः शस्त्राद्युधादि। दासः कर्मकरः। वृद्धो
गतवयाः। नीचः कुलाधमकर्मकृत्। पक्षी श्येनादि। चौरस्तस्करः। पाशिकाः पाशबन्ध-
नादिविदः। च्युतविनयो नीचः। विशीर्णभाण्डं भिन्नभाण्डम्। हस्त्यपेक्षा हस्तिनोऽपेक्षा।
हस्त्यपेक्षा ग्रहणादि। विघ्नकारणानि यानि निमित्तानि च कार्याणि एतदाश्रितानि च सर्वाणि
सिद्ध्यन्ति। एतानि वर्जयित्वाऽन्यथाऽन्येन प्रकारेण समुद्रगोऽपि सागरप्राप्तोऽप्यपां कणं
जलबिन्दुमपि तस्मात् सागरात्र साधयेत्। समुद्रसंज्ञं दण्डकमेतत्।
अत्र नद्वयात् परतः पञ्च रेफा जकारान्तरिता भवन्त्यन्ते लघुगुरू।
न्यासः— न न र ज र ज र ज र
।।। ।।। ऽ।ऽ ।ऽ। ऽ।ऽ ।ऽ। ऽ।ऽ ।ऽ। ऽ।ऽ
ज र ल गु
।ऽ। ऽ।ऽ । ऽ
तथा च समाससंहितायाम्—
शस्त्राणि पाशकर्माणि पशुकर्माणि यानि च।
तानि सौरदिने कुर्याल्लोहकर्माणि यानि च।।
संवत्सरे तथा मासे होरायामुदये तथा।
उक्तानि यानि कर्माणि तथा कुर्याद् ग्रहस्य च।।
तथा च यवनेश्वरः—
विषाश्मशस्त्रत्रपुसीसलोहप्राकारबन्धावृतमारणानि ।
सर्वं च पापात्मककर्मजाहि कार्पासवप्रव्रजितानि चेष्टम्।।
तथा च गर्गः—
नियोगान् विविधान् कुर्याद्वेश्म चापि प्रवेशयेत्।
कर्म चौर्यं मृतिं चैवाश्वरथेश्चश्वयोजनम्।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहगोचराध्यायः ६२५
हस्त्यपेक्षा विघ्नकर्म द्रव्यं दम्भाश्रितं तथा।
वर्जयेच्चैव यात्रां च दिने सूर्यसुतस्य च।। इति।।६३।।
अधुनात्र प्रशंसार्थ विपुलामार्यामाह—
विपुलामपि बुद्ध्वा छन्दोविचितिं भवति कार्यमेतावत्।
श्रुतिसुखदवृत्तसंग्रहमिमममाह वराहमिहिरोऽतः ।।६४।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां ग्रहगोचरो
नाम चतुरधिकशततमोऽध्यायः ।।१०४।।
बहुत विस्तीर्ण छन्दों के प्रस्तारों को जानकर भी इतना ही कार्य होता है। अतः
वराहमिहिर आचार्य ने कर्णसुखजनक यह छन्दसंग्रह कहा है। यह विपुला आर्या छन्द
है।।६४।।
इति 'विमला' हिन्दीटीकायां ग्रहगोचराध्यायश्चतुरधिकशततमः ।।१०४।।
विपुलां विस्तीर्णामपि छन्दोविचितिं छन्दसां प्रस्तारं बुद्ध्वा ज्ञात्वा एतावत् कार्यं
भवति। यावन्ति छन्दांस्यत्र प्रदर्शितानि तावन्ति ज्ञायन्ते। अतोऽस्माद्धेतोर्वराहमिहिर इमं
वृत्तसमुच्चयं श्रुतिसुखदं कर्णसुखजनकमाहोक्तवान्। बहुभिराचार्यैश्छन्दोलक्षणमुक्तं तच्च
दुर्विज्ञेयमश्रव्यं च। वराहमिहिरेण पुनः श्रव्यं सुखबोधं व्यापकं संक्षिप्तमुक्तमिति। विपुलेय-
मार्या। अस्या लक्षणम्—'विपुला तु यान्यथा पादभागि'त्यादि।
वराहमिहिरीयेऽस्मिन् छन्दसां सारसंग्रहे।
उत्पलो गोचरे टीकां चक्रे शिष्यहितावहाम्।। इति।।६४।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृत्तौ ग्रहगोचरो
नाम चतुरधिकशततमोऽध्यायः ।।१०४।।
बृ० सं० द्वि०-४०
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ रूपसत्राध्यायः
अथ रूपसत्रं व्याख्यायते। आदौ नक्षत्रपुरुषस्याङ्गविभागं तन्नक्षत्रावस्थितिं चाह—
पादौ मूलं जङ्घे च रोहिणी जानुनी तथाश्विन्यः।
ऊरू चाषाढाद्वयमथ गुह्यं फल्गुनीद्वितयम् ॥१॥
कटिरपि च कृत्तिका पार्श्वयोश्च यमला भवन्ति भद्रपदाः।
कुक्षिस्था रेवत्यो विज्ञेयमुरोऽनुराधा च ॥२॥
पृष्ठं विद्धि धनिष्ठां भुजौ विशाखा स्मृतौ करौ हस्तः।
अङ्गुल्यश्च पुनर्वसुराश्लेषासंज्ञिताश्च नखाः ॥३॥
ग्रीवा ज्येष्ठा श्रवणं श्रवणौ पुष्यो मुखं द्विजाः स्वातिः।
हसितं शतभिषगथ नासिका मघा मृगशिरो नेत्रे ॥४॥
चित्रा ललाटसंस्था शिरो भरन्यः शिरोरुहाश्चार्द्रा।
नक्षत्रपुरुषकोऽयं कर्तव्यो रूपमिच्छद्भिः ॥५॥
नक्षत्रपुरुष के दोनों पाँव में मूल, दोनों जङ्घाओं में रोहिणी, दोनों जानुओं में अश्विनी,
दोनों ऊरुओं में पूर्वाषाढ़ा और उत्तराषाढ़ा, गुह्य (लिङ्ग और गुदा) में पूर्वफाल्गुनी और
उत्तरफाल्गुनी, कमर में कृत्तिका, दोनों पार्श्व में पूर्वभाद्रपदा और उत्तरभाद्रपदा, पेट में
रेवती, छाती में अनुराधा, पीठ में धनिष्ठा, दोनों भुजाओं में विशाखा, दोनों हाथों में
हस्त, अंगुलियों में पुनर्वसु, नखों में आश्लेषा, ग्रीवा में ज्येष्ठा, दोनों कानों में श्रवण,
मुख में पुष्य, दाँतों में स्वाति, हास्य में शतभिषा, नासिका में मघा, दोनों आँखों में
मृगशिरा, ललाट में चित्रा, शिर में भरणी तथा केशों में आर्द्रा को स्थापित करना चाहिये।
सुन्दर रूप की इच्छा करने वाले पुरुषों को यह नक्षत्रचक्र बनाना चाहिये ॥१-५॥
पादौ मूलमिति। नक्षत्रपुरुषस्य पादौ चरणौ मूलम्। एवं जङ्घे द्वे रोहिणी। जानुनी
तथाऽश्विन्यः। ऊरू द्वावाषाढाद्वयम्। पूर्वाषाढोत्तराषाढे। अथशब्दश्चार्थे। गुह्यं लिङ्गं गुदश्च
फल्गुनीद्वितयं पूर्वफल्गुन्युत्तरफल्गुनीति।
कटिरपि चेति। कृत्तिका कटिर्जघनम्। पार्श्वयोश्च यमला भद्रपदा भवन्ति। पूर्व-
भाद्रपदोत्तरभद्रपदौ। रेवत्यः कुक्षिस्थाः। अनुराधा उरो वक्षो विज्ञेयं ज्ञातव्यम्।
पृष्ठमिति। धनिष्ठां पृष्ठं विद्धि जानीहि। विशाखा भुजौ द्वौ स्मृतावुक्तौ। हस्तौ द्वौ
करौ हस्त एव। पुनर्वसुरङ्गुल्यः करशाखाः। आश्लेषासंज्ञिताश्च नखाः कररुहाः।
ग्रीवा ज्येष्ठेति। ग्रीवा शिरोधरा ज्येष्ठा। श्रवणं श्रवणौ द्वौ कर्णौ। पुष्यो मुखं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
रूपसत्राध्यायः ६२७
वक्त्रम्। स्वातिर्द्विजा दशनाः। हसितं शतभिषगथ। अथशब्दश्चार्थे। नासिका मघा। नेत्रे
द्वे चक्षुषी मृगशिरः।
चित्रा ललाटसंस्थेति। ललाटे मुखपृष्ठे संस्था चित्रा। भरण्यः शिरः। आर्द्रा
शिरोरुहाः केशाः। अयं नक्षत्रपुरुषको रूपमिच्छद्भिः शोभनं रूपमभिलषद्भिः पुम्भिः
कर्तव्यः।।१-५।।
अथ कस्मिन् काले रूपसत्राख्यं व्रतं गृहीतव्यमित्येतदाह—
चैत्रस्य बहुलपक्षे ह्यष्टम्यां मूलसंयुते चन्द्रे।
ह्युपवासः कर्तव्यो विष्णुं सम्पूज्य धिष्ण्यं च ।।६।।
चैत्र शुक्ल अष्टमी में यदि मूल नक्षत्र और चन्द्रवार हो तो उस दिन विष्णु और
नक्षत्र की पूजा करके प्रथम उपवास प्रारम्भ करके जैसे-जैसे रोहिणी आदि आता जाय
वैसे-वैसे आर्द्रा तक उपवास करना चाहिये।।६।।
चैत्रमासस्य बहुलपक्षे कृष्णपक्षे अष्टम्यां तिथौ मूलसंयुते चन्द्रे चन्द्रवासरे। मूलं
नक्षत्रं तत्र यदि भवति तस्मिन् दिने प्रथमत उपवासः कर्तव्यः विष्णुं नारायणं धिष्ण्यं
नक्षत्रं च सम्पूज्याभ्यर्च्य, ततो यथा यथा रोहिण्यादीनि नक्षत्राणि भवन्ति तथा तथोपवासः
कर्तव्यो यावदार्द्राम्। तथा च गर्गः—
अष्टम्यां मधुमासस्य कृष्णपक्षे तु नैर्ऋते।
नक्षत्रे चन्द्रवारे तु मुहूर्ते तु गुणान्विते।।
प्रारम्भेद्रूपसत्राख्यं व्रतं धर्मात्मकः पुमान्।
येन पूर्णेन मनुजो रूपशोभामवाप्नुयात्।। इति।।६।।
अथ व्रतार्थं कर्तव्यं तदाह—
दद्याद् व्रते समाप्ते घृतपूर्णं भाजनं सुवर्णयुतम्।
विप्राय कालविदुषे सरत्नवस्त्रं स्वशक्त्या च ।।७।।
व्रत समाप्त होने के बाद अपनी शक्ति के अनुसार कालज्ञ ब्राह्मण के लिये सुवर्ण,
रत्न और वस्त्रों के साथ घृत से पूर्ण पात्र दान करना चाहिये।।७।।
ततो व्रते रूपसत्राख्ये समाप्ते निष्पन्ने घृतपरिपूर्णं भाजनमाज्यपरिपूर्णं पात्रं सुवर्णयुक्तं
काञ्चनसंयुक्तं विप्राय ब्राह्मणाय कालविदुषे कालज्ञाय दद्यात् प्रतिपादयेत्। सरत्नवस्त्रं
रत्नवस्त्रसहितम्, स्वशक्त्याऽऽत्मीयशक्त्या विभवानुसारेण दद्यात्।।७।।
अन्नैः क्षीरघृतोत्कटैः सह गुडैर्विप्रान् समभ्यर्चयेद्
दद्यात् तेषु सुवर्णवस्त्ररजतं लावण्यमिच्छन्नरः।
पादर्क्षात् प्रभृति क्रमादुपवसन्नृक्षैर्क्षनामस्वपि
कुर्यात् केशवपूजनं स्वविधिना धिष्ण्यस्य पूजां तथा ॥८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA