बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 645, कुल 760 में से
संदर्भ में पढ़ेंताम्रमुडुम्बरम्। अश्वास्तुरगाः। काष्ठं प्रसिद्धं दारु। अस्थि प्रसिद्धम्। चर्म व्याघ्रादिचर्म।
और्णिकः कम्बलः। चर्मोर्मिकेति पाठान्तरम्। ऊर्मिका जलधिवेला। अद्रिः प्रसिद्धः।
द्रुमो वृक्षः। त्वक् प्रसिद्धो द्रव्यविशेषः, सुगन्धद्रव्यम्। नखः शुक्तिः। व्यालः सर्पः। चौर-
स्तस्करः। आयुधः खड्गादिस्तस्मिन् हितमायुधीयम्। अटवी अरण्यम्। क्रूरं वञ्चनकर्म
दुर्गादि। राजोपसेवा नृपाराधनम्। अभिषेको नृपादेः। औषधं भेषजम्। क्षौमः क्षुमासम्भवः।
पण्यादि क्रयविक्रयम्। केचिद्द्रव्यादि पठन्ति। वने भवो वन्यः। तद्द्रव्याणां तज्जातानां
वा प्राणिनां ग्रहणपोषणादि। गोपालो गोरक्षकः। कान्तारो मरुभूमिः। वैद्यः कायचिकित्सकः।
अश्मा पाषाणः। कूटं दम्भः। अवदातः सत्कुलजः। अभिविख्यातः कीर्तियुक्तः। शूरः
संग्रामप्रियः। आहवश्लाघ्यः संग्रामे कथनीयः। यायी गमनशीलः। अग्निकर्माणि अग्न्या-
श्रितकार्याणि। एतेषां वस्तूनां सम्बन्धीनि यानि कार्याणि तानि रविदिने लग्नस्थिते प्राग्लग्नगे
वा रवौ सिद्ध्यन्ति। तथा च समाससंहितायाम्—
नृपाग्निपशुकर्माणि युद्धकार्याणि यानि च।
सूर्यस्य दिवसे प्राज्ञस्तानि सर्वाणि कारयेत्॥
तथा च यवनेश्वरः—
नृपप्रतिष्ठायुधयुद्धयोधहेमाग्निगोमूत्रभिषक्प्रयोगान् ।
रवेर्दिने वन्यमृगार्दनादि प्रशस्यते द्विङ्भयकृच्च कर्म॥
तथा च गर्गः—
क्रौर्यं शाठ्यं नृपाद्भेदं शत्रूणां चैव बन्धनम्।
अध्वानं च विवाहं च निधिकार्यं च कारयेत्॥
तनुशुद्धिसिराकर्म बडवाश्वविमोचनम्।
सर्वमेतद् यथोद्दिष्टं कारयेद् रविवासरे॥
अथ चन्द्रस्य दिने यानि कर्माणि क्रियन्ते तानि द्वितीयदण्डकपादेनाह—
शिशिरकिरणवासरे तस्य वाप्युद्गमे केन्द्र-
संस्थेऽथवा भूषणं शङ्खमुक्ताब्जरूप्याम्बु-
यज्ञेक्षुभोज्याङ्गनाक्षीरसुस्निग्धवृक्षक्षुपानूप-
धान्यद्रवद्रव्यविप्राध्वगीतक्रियाशृङ्गिकृष्यादि-
सेनाधिपाक्रन्दभूपालसौभाग्यनक्तञ्चर-
श्लैष्मिकद्रव्यमातुल्यपुष्पाम्बरारम्भसिद्धिर्भवेत् ॥
चन्द्रवार में अथवा कर्क लग्न या केन्द्रस्थित चन्द्र हो तो भूषण, शङ्ख, मोती,
कमल, चाँदी, जल, यज्ञ, इक्षु ( ईख = गन्ना ), भोज्य, स्त्री, दूध, सुस्निग्ध वृक्ष
( अखरोट आदि ) तृण, जलप्राय देश, धान्य, अवलेह, ब्राह्मण, मार्ग, गानकर्म, शृङ्गी
( हरिण आदि ), कृषि आदि, सेनाधिप, पार्ष्णिग्राह ( पार्श्वरक्षक ), राजा, जनप्रियता,