बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 650, कुल 760 में से
संदर्भ में पढ़ें६२२ बृहत्संहिता
शास्त्रमनोज्ञबलप्रदसत्यगिरः ।
व्रतहवनधनानि च सिद्धिकराणि तथा
रुचिराणि च वर्णकदण्डकवत् ॥६२॥
बृहस्पति दिन में सोना, चाँदी, घोड़ा, हाथी, बैल, वैद्य, औषधि, ब्राह्मणों का तर्पण,
पितृश्राद्ध, देवताओं का कार्य, पुरःस्थित ( पदाति ), छत्र, चामर, भूषण, राजा, देवगृह,
देवप्रतिष्ठा, गृहप्रतिष्ठा, धर्माश्रय, मंगल, शास्त्र, सुन्दर, बलप्रद, सत्य वचन, व्रत ( चान्द्रायण
आदि ), हवन, धन—इन सभी वस्तुओं से सम्बन्धित कार्य वर्णक ( सर्प आदि ) से
युत मनोहर दण्ड की तरह सिद्ध और सुन्दर होते हैं। यह वर्णकदण्डक छन्द है॥६२॥
सुरगुरुदिवस इति । सुरगुरुदिवसे बृहस्पतिदिने कनकं सुवर्णम्। रजतं रौप्यम्।
तुरगा अश्वाः। करिणो हस्तिनः। वृषभा दान्ताः। भिषग्वैद्यः। ओषधयः प्रसिद्धाः। अथवा
भिषगोषधयो वैद्यप्रणीतानि द्रव्याणि। द्विजानां ब्राह्मणानां तर्पणम्। पितॄणां श्राद्धम्।
सुराणां देवानां च कार्याणि। पुरःस्थितोऽग्रस्थितः पदातिः। घर्मनिवारणं छत्रादिकम्। चामरं
वालव्यजनम्। भूषणमलङ्करणम्। भूपतयो राजानः। विबुधभवनं देवगृहम्। अथवा विबुधानां
प्रतिष्ठा। भवनानां गृहाणां च प्रतिष्ठा। धर्मसमाश्रयो धर्माश्रयणम्। मङ्गलं शुभकार्यम्।
शास्त्रं प्रसिद्धम्। मनोज्ञश्चित्ताह्लादकः। बलप्रदं मांसाद्याहारः। सत्यगिरः सत्ययुक्ता वाचः।
व्रतं चान्द्रायणादि। हवनमग्नौ। धनं वित्तम्। एवमादिकानि सम्बन्धीनि यानि कर्माणि
सिद्धिकराणि सिद्धिप्रदानि। तथा रुचिराणि श्रेष्ठानि चान्यानि। कथं रुचिराणि? वर्णक-
दण्डकवत्। वर्णकेन नागादिना यथा रुचिरं स्फुटतरं दण्डकं तद्वद्यानि रुचिराणि। एतद्वर्णक-
दण्डकं नाम दण्डकं नद्वयेन सप्तभिर्भैर्गुरुणा च।
न्यासः— न न भ भ भ भ भ भ भ गु
⏞ ⏞ ⏞ ⏞ ⏞ ⏞ ⏞ ⏞ ⏞
। । । । । । ऽ । । ऽ । । ऽ । । ऽ । । ऽ । । ऽ । । ऽ । । ऽ
तथा च समाससंहितायाम्—
शान्तिपौष्टिककर्माणि तथा ज्ञानाश्रितानि च।
तानि कृत्स्नं विधेयानि दिने देवगुरोः शुभे॥
तथा च यवनेश्वरः—
दिने गुरोर्धार्मिकपौष्टिकेज्याबाध्याभिधेयक्रतुमुण्डनादि।
क्रियाश्रिता धर्मसुवर्णवस्त्रदेहाश्रयाश्चाश्वरथाश्रयाश्च।।
तथा च गर्गः—
यज्ञं च विविधं कुर्यात् तपांसि च विशेषतः।
यज्ञे यज्ञे तपस्तेपे छादयेत् कारयेद् गृहम्।।
आरभेद् भारतं चेदं ज्योतिषं च विशेषतः।
ग्राहयेन्नववस्त्राणि यात्रां दद्यान्नृपस्य च।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA