बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 651, कुल 760 में से
संदर्भ में पढ़ेंग्रहगोचराध्यायः ६२३
आदिशेच्च व्रतं पुत्रे बीजान् सर्वांश्च वापयेत्।
योजयेच्छकटं चात्र दिने देवगुरोः शुभे॥ इति॥६२॥
अथ शुक्रदिने यानि कार्याणि क्रियन्ते तानि समुद्रदण्डकप्रथमाङ्घ्रेनाह—
भृगुसुतदिवसे च चित्रवस्त्रवृष्यवेश्य-
कामिनीविलासहासयौवनोपभोगरम्यभूमयः ।
स्फटिकरजतमन्मथोपचारवाहनेक्षुशारद-
प्रकारगोवणिक्कृषीवलौषधाम्बुजानि च।
शुक्रवार में चित्र कर्म, वस्त्र, वीर्य-वृद्धि के लिये प्रयोग, वेश्या, कामासक्त स्त्री,
विलास, उपहास, यौवनोपभोग (स्त्रीप्रसङ्ग आदि), चाँदी, कामदेव का उपचार, वाहन,
इक्षु (ईख = गन्ना), शारदीय धान्य, वाणिज्य, खेती, औषध, जलज (कमल आदि)—
इन वस्तुओं से सम्बन्धित कार्य सिद्ध होते हैं।
भृगुसुतदिवस इति। भृगुसुतदिवसे शुक्रदिने च। चित्रं चित्रकर्म। वस्त्रमम्बरम्।
वृष्यप्रयोगो रेतोवृद्धिकरः। वेश्या पण्यस्त्री। कामिनी कामासक्ताङ्गना। विलासः क्रीडनम्।
हास उपहासः। यौवनोपभोगो रतादिः। रम्या रमणीया भूमय उपवनादि। स्फटिकः स्फटिको-
पलम्। रजतं रौप्यम्। मन्मथोपचारः कामोपचरणम्। वाहनमश्वादि। इक्षुः प्रसिद्धः। शारद-
प्रकारो धान्यानि। वणिक्कर्माणि। कृषिकर्माणि। औषधं प्रसिद्धम्। अम्बुजं जलजं पद्मादि।
एतानि कार्याणि। तथा च समाससंहितायाम्—
कलागन्धर्वकर्माणि रत्नकर्माणि यानि च।
तानि कार्याणि दिवसे सदा दैत्यगुरोः शुभे॥
तथा च यवनेश्वरः—
गान्धर्वविद्यामणिरत्नगन्धगोभूमिशय्याम्बरभूषणानाम् ।
स्त्रीपण्यकोशोत्सववन्दनानां क्रियाविधिः शुक्रदिने प्रशस्तः॥
तथा च गर्गः—
गजमश्वं प्रयुञ्जीत कर्णबन्धे नियोजयेत्।
पिबेत् सुरां च मद्यं च प्रचरेत् कुसुमाम्बरम्॥
गन्धांश्च विविधानद्यात् कामयेच्च वराङ्गनाः।
द्यूते च सहसा प्रीतिं तिलं तैलं च योजयेत्॥
मङ्गलं स्थापयेदेव रोपयेच्चैव पादपान्।
सर्वमेतद्यथोद्दिष्टं कुर्याच्छुक्रदिने शुभे॥
अथ सौरस्य दिने यानि कर्माणि क्रियन्ते तानि समुद्रदण्डकापरार्धेनाह—
सवितृसुतदिने च कारयेन्महिष्यजोष्ट्रकृष्ण-
लोहदासवृद्धनीचकर्मपक्षिचोरपाशिकान् ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA