बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 644, कुल 760 में से
संदर्भ में पढ़ें६१६ बृहत्संहिता
एवं यथोक्ते यात्राकाले यः प्रक्रमणं करोति राजा गमनमारभते, सोऽणुना स्वल्पेनापि
पौरुषेण सैन्येन युक्तो भवति। तथाऽपि वृत्तस्यौपच्छन्दसिकस्य। वृत्तं क्रिया, औपच्छन्दसि-
कस्य वेदोक्तस्य वृत्तस्य पारं याति।
एतदुक्तं भवति—सर्वथा विजिगीषुणा सुस्थितैर्ग्रहैः स्वल्पतन्त्रेणापि यातव्यम्। तत्र
गतो मानयशोवित्तं लभते। तथा च सिद्धार्थो यात्राकार आह—
मानमाज्ञायशोवित्तं सुस्थितैः प्रसवन् ग्रहैः।
विन्दते दुःस्थितैस्त्वेतैस्तद्विपर्ययमश्नुते।।
असुस्थितैस्तु पुनः पुष्टतन्त्रेणापि न यातव्यम्। अमुमेवार्थं नन्दी आह—
दैवोपहता यात्रा कथञ्चिदपि भवति यातुश्चेत्।
क्षितिपस्यानुपकारा सर्वस्य विनाशनीया स्यात्।।
तस्मादतिसामर्थ्ये प्रवर्त्तमानेऽपि दैवहीनेन।
यात्रोद्यमो न कार्यः स्वसुखोदयमिच्छता राज्ञा।।
वृत्तमेतदौपच्छन्दसिकम्। तल्लक्षणम्—
र्यावन्ते शेषमूर्द्धसाम्यादौपच्छन्दसिकं वदन्ति सन्तः।
रेफयकारावन्ते भवतः। रलमध्यः। य आदिलघुः। शेषं लक्षणं वैतालीसमम्। षण्मात्रा
अयुक्पादेऽष्टौ समे च। सन्तः पण्डिता वदन्ति कथयन्त्यौपच्छन्दसिकम्। न्यासः प्रसिद्धः।
अधुनाऽऽदित्यदिने यानि कर्माणि कारयेत् तानि दण्डकपादेनाह—
उपचयभवनोपयातस्य भानोर्दिने कारयेद्धे-
मताम्राश्वकाष्ठास्थिचर्मोर्णिकाद्रिद्रुमत्वग्-
नखव्यालचौरायुधीयाटवीक्रूरराजोपसेवा-
भिषेकौषधक्षौमपण्यादिगोपालकान्तार-
वैद्याश्मकूटावदाताभिविख्यातशूराहवश्लाघ्य-
याय्यग्निकर्माणि सिद्ध्यन्ति लग्नस्थिते वा रवौ।
जन्मराशि से उपचय ( ३, ६, १०, ११ ) भवन या लग्न में स्थित सूर्य हो और
सूर्यवार हो तो सोना, ताँबा, घोड़ा, लकड़ी, हड्डी, चमड़ा, ऊनी वस्त्र, पर्वत, वृक्ष, त्वचा,
नख, सर्प, चोर, खड्ग-सम्बन्धी, वन, क्रूर, राजा का आराधन, राजा आदि का
अभिषेक, औषध, क्षौम, क्रय-विक्रय आदि, वन में उत्पन्न हुये द्रव्यों के ग्रहण-पोषण
आदि, गोपाल, मरुभूमि, वैद्य, पत्थर, दम्भ, सत्कुलोत्पन्न, कीर्तियुक्त, शूर, युद्ध में
कथनीय, गमनशील, अग्निकर्म-इन सब वस्तुओं से सम्बन्धित कर्मों की सिद्धि होती है।
उपचयभवनोपयातस्येति। भानोरादित्यस्योपचयभवनोपयातस्य जन्मराशितस्त्रिषडेका-
दशदशमस्थानानामन्यतमस्थानस्थस्य दिने तद्वासरे कारयेद् विदध्यात्। हेम सुवर्णम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA