बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 655, कुल 760 में से
संदर्भ में पढ़ेंरूपसत्राध्यायः ६२७
वक्त्रम्। स्वातिर्द्विजा दशनाः। हसितं शतभिषगथ। अथशब्दश्चार्थे। नासिका मघा। नेत्रे
द्वे चक्षुषी मृगशिरः।
चित्रा ललाटसंस्थेति। ललाटे मुखपृष्ठे संस्था चित्रा। भरण्यः शिरः। आर्द्रा
शिरोरुहाः केशाः। अयं नक्षत्रपुरुषको रूपमिच्छद्भिः शोभनं रूपमभिलषद्भिः पुम्भिः
कर्तव्यः।।१-५।।
अथ कस्मिन् काले रूपसत्राख्यं व्रतं गृहीतव्यमित्येतदाह—
चैत्रस्य बहुलपक्षे ह्यष्टम्यां मूलसंयुते चन्द्रे।
ह्युपवासः कर्तव्यो विष्णुं सम्पूज्य धिष्ण्यं च ।।६।।
चैत्र शुक्ल अष्टमी में यदि मूल नक्षत्र और चन्द्रवार हो तो उस दिन विष्णु और
नक्षत्र की पूजा करके प्रथम उपवास प्रारम्भ करके जैसे-जैसे रोहिणी आदि आता जाय
वैसे-वैसे आर्द्रा तक उपवास करना चाहिये।।६।।
चैत्रमासस्य बहुलपक्षे कृष्णपक्षे अष्टम्यां तिथौ मूलसंयुते चन्द्रे चन्द्रवासरे। मूलं
नक्षत्रं तत्र यदि भवति तस्मिन् दिने प्रथमत उपवासः कर्तव्यः विष्णुं नारायणं धिष्ण्यं
नक्षत्रं च सम्पूज्याभ्यर्च्य, ततो यथा यथा रोहिण्यादीनि नक्षत्राणि भवन्ति तथा तथोपवासः
कर्तव्यो यावदार्द्राम्। तथा च गर्गः—
अष्टम्यां मधुमासस्य कृष्णपक्षे तु नैर्ऋते।
नक्षत्रे चन्द्रवारे तु मुहूर्ते तु गुणान्विते।।
प्रारम्भेद्रूपसत्राख्यं व्रतं धर्मात्मकः पुमान्।
येन पूर्णेन मनुजो रूपशोभामवाप्नुयात्।। इति।।६।।
अथ व्रतार्थं कर्तव्यं तदाह—
दद्याद् व्रते समाप्ते घृतपूर्णं भाजनं सुवर्णयुतम्।
विप्राय कालविदुषे सरत्नवस्त्रं स्वशक्त्या च ।।७।।
व्रत समाप्त होने के बाद अपनी शक्ति के अनुसार कालज्ञ ब्राह्मण के लिये सुवर्ण,
रत्न और वस्त्रों के साथ घृत से पूर्ण पात्र दान करना चाहिये।।७।।
ततो व्रते रूपसत्राख्ये समाप्ते निष्पन्ने घृतपरिपूर्णं भाजनमाज्यपरिपूर्णं पात्रं सुवर्णयुक्तं
काञ्चनसंयुक्तं विप्राय ब्राह्मणाय कालविदुषे कालज्ञाय दद्यात् प्रतिपादयेत्। सरत्नवस्त्रं
रत्नवस्त्रसहितम्, स्वशक्त्याऽऽत्मीयशक्त्या विभवानुसारेण दद्यात्।।७।।
अन्नैः क्षीरघृतोत्कटैः सह गुडैर्विप्रान् समभ्यर्चयेद्
दद्यात् तेषु सुवर्णवस्त्ररजतं लावण्यमिच्छन्नरः।
पादर्क्षात् प्रभृति क्रमादुपवसन्नृक्षैर्क्षनामस्वपि
कुर्यात् केशवपूजनं स्वविधिना धिष्ण्यस्य पूजां तथा ॥८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA