सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 643, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 643

ग्रहगोचराध्यायः ६१५
उदयसमये यः स्निग्धांशुर्महाप्रकृतिस्थितो।
यदि च निहतो निर्घातोल्काज्रोग्रहमर्दनैः।।
स्वभवनगतः स्वोच्चप्राप्तः शुभग्रहवीक्षितः।। इति।
एतस्माद्विपरीतस्थिता असुस्थिता दुःस्थिताः। तैस्तथाभूतैर्यत् कर्म प्रारब्धं तदेव
कर्म तान् बुधान् विनिहन्ति घातयति। आत्मविवृद्ध्यर्थमारब्धमात्मन एव हानिं करोति।
यथा वैतालीयं वेतालनिमित्तं कर्म वैतालीयम्। अयथाकृतमविधानेन कृतं तानेव साधकान्
हन्ति। यैरात्मविवृद्ध्यर्थं रसरसायनविधिविलासार्थं कृतमविधिना तानेव हन्ति। वृत्तमेत-
द्वैतालीयम्। तल्लक्षणम्—'लाः षट् र्ल्याः' इत्यादि।।५९
सुस्थितैर्ग्रहैर्यत् कर्म क्रियते तदल्पप्रयत्नेन सिद्ध्यतीत्येतदौपच्छन्दसिकेनाह—
सौस्थित्यमवेक्ष्य यो ग्रहेभ्यः काले प्रक्रमणं करोति राजा।
अणुनापि स पौरुषेण वृत्तस्यौपच्छन्दसिकस्य याति पारम् ॥६०॥
सुस्थित ग्रहों को देखकर जो राजा शत्रु के ऊपर आक्रमण करता है, वह अल्प
सैन्य से युत होने पर भी औपच्छन्दसिक वृत्त ( वेदोक्त क्रिया ) का पार जाता है। यह
औपच्छन्दसिक छन्द है।।६०।।
ग्रहाणां सुस्थितत्वमाचार्येणोक्तम्—
उदयसमये यः स्निग्धांशुरित्यादि।
अमुमेवार्थं सिद्धार्थी यात्राकारः स्पष्टतरमाह—
स्वराशिं वा स्ववर्गं वा त्रिवर्गगृहाणि वा।
स्वोच्चं वा भवनं यातो विचरन् प्राकृतीं गतिम्।।
वपुष्मान् वर्णवान् भास्वान् बलैः सर्वैः समन्वितः।
बलिभिः कारकैर्मित्रैर्ग्रहः समवलोकितः।।
दिवि भौमान्तरिक्षैश्च यश्चोत्पातैरपीडितः।
स्वजन्मस्थं च वर्गं च मार्गं चोपगतः शुभः।।
योऽनुकूलो विजेता वा स ज्ञेयः सुस्थितो ग्रहः।
यथोक्तविपरीतो यो विज्ञातव्यः स दुःस्थितः।।
इत्येवं प्रकारं सौस्थित्यं ग्रहेभ्योऽवेक्ष्य निरूप्य काले यथोक्ते यात्राकाले प्रक्रमणं
यात्रां करोति। यात्राकालोऽभिहित आचार्येणैव, तथा च—
यात्राऽजसिंहतुरगोपगता वरिष्ठा मध्या शनैश्चरबुधोशनसां गृहेषु।
भानौ कुलीरशशिवृश्चिकगेऽतिदीर्घा शस्ता तु देवलमतेऽध्वनि पृष्ठतोऽर्के।।
तथा—
यात्रा नृपस्य शरदीष्टफला मधौ च छिद्रे रिपोर्न नियमोऽत्र च केचिदाहुः।
छिद्रेऽप्यरेर्भवति दैवयुतस्य सिद्धिः सामान्यमामिषमिदं प्रतिभूमिपानाम्।। इति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA