बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
ग्रहगोचाराध्यायः ५८९
यदि जन्मराशि से द्वितीय में बुध हो तो अनादर और धन का लाभ, तृतीय में हो तो
मित्र का लाभ कराने वाला, राजा और शत्रु के भय से शङ्कित होकर अपने दुश्चरित्रों के
कारण भागने वाला होता है। यह द्रुतपद छन्द है॥२०॥
धनगते द्वितीयस्थानस्थे शशिसुते बुधे। परिभवोऽसम्मानो भवति। सहजगे तृतीयस्थानस्थे
बुधे सुहृदयाप्तिर्मित्रलाभो भवति। स्वैरात्मीयैर्दुश्चरितैः। नृपतिशत्रुभयशङ्कितचित्तः। नृपती
राजा। शत्रुररिः। तद्भयैः शङ्कितं सञ्जातशङ्कं चित्तं मनो यस्य। तथाभूतो द्रुतपदं त्वरितपदं
व्रजति गच्छति। सापराधत्वात् सभयत्वाच्च। वृत्तमेतद् द्रुतपदम्। तल्लक्षणम्—
द्रुतपदं नभजयैः कथितं तत्।
नस्त्रिलघुः। भ आदिगुरुः। जो गुरुमध्यः। आदिलघुर्यः। एतैर्द्रुतपदमेतद् वृत्तं कथितम्।
न्यासः— न भ ज य
।।। ऽ।। ।ऽ। ।ऽऽ
अथ चतुर्थपञ्चमस्थस्य बुधस्य फलं रुचिरयाऽऽह—
चतुर्थगे स्वजनकुटुम्बवृद्धयो धनागमो भवति च शीतरश्मिजे।
सुतस्थिते तनयकलत्रविग्रहो निषेवते न च रुचिरामपि स्त्रियम्॥२१॥
यदि जन्मराशि से चतुर्थ में बुध हो तो अपने जन और बन्धुओं की वृद्धि एवं धन
की प्राप्ति होती है। पञ्चम में हो तो पुत्र और स्त्री के साथ कलह और अपने उद्वेग के
कारण सुन्दरी स्त्री का भी उपभोग नहीं होता है। यह रुचिरा छन्द है॥२१॥
चतुर्थगे शीतरश्मिजे चन्द्रपुत्रे बुधे। स्वजनकुटुम्बवृद्धयः। स्वजना आत्मीयजनाः।
कुटुम्बा ज्ञातयः। एषां वृद्धयः। धनागमश्च भवति। सुतस्थिते पञ्चमस्थानस्थिते बुधे।
तनयकलत्रविग्रहः। तनयाः पुत्राः। कलत्रं भार्या। तैः सह विग्रहः कलहः। रुचिरां शोभना-
मपि स्त्रियं रामां न निषेवते नोपभुङ्क्ते। सोद्वेगत्वात्। वृत्तमिदं रुचिरा। तल्लक्षणम्—
जभौ सजौ गिति रुचिरा चतुर्ग्रहैः।
जो गुरुमध्यः। भ आदिगुरुः। सोऽन्तगुरुः। पुनर्जकारः। अन्ते गुरुः। इत्येवंप्रकारः।
चतुर्ग्रहैः। चतुर्थवर्णैर्नवमवर्णैश्च विरामः॥२१॥
न्यासः— ज भ स ज गु
।ऽ। ऽ।। ।।ऽ ।ऽ। ऽ
अथ षष्ठसप्तमाष्टमस्थस्य बुधस्य फलं प्रहर्षण्याऽऽह—
सौभाग्यं विजयमथोन्नतिं च षष्ठे वैवर्ण्यं कलहमतीव सप्तमे ज्ञः।
मृत्युस्थे जयसुतवस्त्रवित्तलाभा नैपुण्यं भवति मतिप्रहर्षणीयम्॥२२॥
यदि जन्मराशि से छठी राशि में बुध हो तो सौभाग्य, विजय और उन्नति कराता है।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५९० बृहत्संहिता
सातवीं राशि में हो तो विवर्णता और कलह कराता है। आठवीं राशि में हो तो विजय,
पुत्र-वस्त्र और धन का लाभ तथा हर्षित करने वाली निपुणता का लाभ कराता है। यह
प्रहर्षणी छन्द है।।२२।।
षष्ठे षष्ठस्थाने ज्ञो बुधः। सौभाग्यं सर्वजनवाल्लभ्यम्। विजयं विशेषजयम्। अथशब्दः
पादपूरणे। उन्नतिं शत्रूणामजितत्वं च कुरुते। सप्तमे सप्तमस्थाने। वैवर्ण्यं विवर्णताम्।
अतीवात्यर्थम्। कलहं विरोधं च करोति। मृत्युस्थेऽष्टमस्थानस्थे। जयः। सुताः पुत्राः।
वस्त्राण्यम्बराणि। वित्तं धनम्। एतेषां लाभा भवन्ति। मतिप्रहर्षणीयम्। येन बुद्धेः प्रहर्ष-
मुत्पद्यते तथाभूतं नैपुण्यं कलासु सूक्ष्मदर्शितत्वं भवति। प्रहर्षणीयं वृत्तमेतत्। तल्लक्षणम्—
म्नौ ज्रौ गस्त्रिकदशकैः प्रहर्षणीयम्।
म्स्त्रिगुरुः। नस्त्रिलघुः। जो गुरुमध्यः। रलमध्यः। अन्ते गुरुः। त्रिकदशकैर्विरामः,
त्रिभिर्दशभिश्च यतिर्यस्य तत् प्रहर्षणीयम्।।२२।।
न्यासः— म न ज र गु
ऽऽऽ ।।। ।ऽ। ऽ।ऽ ऽ
अथ नवमदशमस्थस्य बुधस्य फलं दोधकेनाह—
विघ्नकरो नवमः शशिपुत्रः कर्मगतो रिपुहा धनदश्च।
सप्रमदं शयनं च विधत्ते तद्गृहदोऽथकथां स्तरणं च ॥२३॥
यदि नवीं राशि में बुध हो तो विघ्नकारक, दशवीं राशि में हो तो शत्रुनाशक, धन
देने वाला तथा स्त्री, शय्या, स्त्री के सोने का सुन्दर गृह, ऐतिहासिक वार्त्ता और सुन्दर
आस्तरण ( बिछौना ) देता है। यह दोधक छन्द है।।२३।।
नवमस्थानस्थः शशिपुत्रो बुधो विघ्नकरः सर्वकार्याणां विघ्नं करोति। कर्मगतो दशम-
स्थानस्थो रिपुहा शत्रुहर्त्ता धनदश्च भवति। सप्रमदं सस्त्रीकं शयनं शय्यां च विधत्ते ददाति।
तद्गृहदः, तस्याः प्रमदाया यद्गृहं वेश्म तद्ददाति। अथशब्दश्चार्थे। कथां चैतिहासिकां
ददाति। स्तरणं शय्यापृष्ठं च ददाति। केचित् कुथास्तरणमितिच्छन्ति। कुथो वारण-
कम्बलस्तदेवास्तरणम्। वृत्तमेतद्दोधकम्। तल्लक्षणम्—
भौ तु भगौ गिति दोधकमेतत्।
भ आदिगुरुः। द्वौ भकारौ। पुनर्भकारः। अन्ते गुरुद्वयम्।।२३।।
न्यासः— भ भ भ गु
ऽ।। ऽ।। ऽ।। ऽऽ
अथैकादशद्वादशस्थस्य बुधस्य फलं मालिन्याऽऽह—
धनसुतसुखयोषिन्मित्रवाहाप्तितुष्टि-
स्तुहिनकिरणपुत्रे लाभगे मृष्टवाक्यः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
(9th house)
Wait! "भङ्गापवादाध्वपरिश्रमान्तारायापकारी" is Pada 1! "नवमर्क्षसंस्थः।" is Pada 2!
10. क्रियाप्रसिद्धिं दशमेऽर्थलाभं विस्रब्धमानं च बुधो ददाति॥ (10th house)
11. एकादशे मानचतुष्पदस्त्रीवित्तार्थसौभाग्यविनोदकर्ता। (11th house)
12. बुधोऽन्त्यराशौ विचरंश्च कुर्यादुद्वेजनं कार्यपरिश्रमं च॥ इति॥२४॥ (12th house)
It covers all 12 houses (राशिसंस्थ बुध फल):
- House 1: स्थाने शशाङ्कस्य शशाङ्कसूनुः सौभाग्यविद्यामतिमानहर्ता।
- House 2: द्वितीयसंस्थस्त्वपवादशोकस्वैरक्रियामन्वतिदैन्यकारी ॥
- House 3: तृतीयगो बन्धुविरोधरोधव्यापत्तिकर्ता द्रविणस्य सौम्यः।
- House 4: चतुर्थगो मानगुणप्रशंसाप्रमोदयोषिद्धनलाभकारी॥
- House 5: नैष्ठान्यमुद्वेगमनर्थचर्यां कुर्याद् बुधः पञ्चमगोऽरतं च।
- House 6: षष्ठे विवृद्धिं मनसः प्रहर्षमुत्साहलाभोपचयं करोति
५९२ बृहत्संहिता
अथ जीवस्य फलमाह। तत्रादौ जन्मराशिगतस्य द्वितीयस्थस्य च फलं भ्रमरविल-
सितयाऽऽह—
जीवे जन्मन्यपगतधनधीः स्थानभ्रष्टो बहुकलहयुतः ।
प्राप्यार्थेऽर्थान् व्यरिरपि कुरुते कान्तास्याब्जे भ्रमरविलसितम् ॥२५॥
जिसके जन्मराशि में बृहस्पति हो, उसके धन और बुद्धि का नाश, स्थान का नाश
तथा वह अनेक प्रकार के विरोध से युत होता है। जिसके द्वितीय राशि में बृहस्पति हो,
वह धनों को प्राप्त करके शत्रुरहित होकर स्त्री के मुखकमल पर भ्रमर की तरह विलास
करता है। यह भ्रमरविलसिता छन्द है॥२५॥
जीवे बृहस्पतौ जन्मनि जन्मराशिव्यवस्थिते। पुरुषोऽपगतधनधीर्भवति। अपगतं
नष्टं धनं वित्तं धीर्बुद्धिश्च यस्य। स्थानभ्रष्टः स्वस्थानाच्च्युतः। बहुकलहयुतः प्रभूतविरोधैर्युतः
समेतश्च भवति। अर्थे द्वितीयस्थाने अर्थान् धनानि प्राप्य लब्ध्वा व्यरिरपि विगतशत्रुरपि
कान्तास्याब्जे कान्ता वल्लभा तस्या आस्यं मुखम्। तदेवाब्जं पद्मम्। तत्र भ्रमरवत् षट्पद-
वद्विलसितं क्रीडां कुरुते परिचुम्बत इत्यर्थः। वृत्तमेतद् भ्रमरविलसितम्। तल्लक्षणम्—
मो भ्नौ ल्गान्ताऽभ्रमरविलसिता।
मस्त्रिगुरुः। भ आदिगुरुः। नस्त्रिलघुः। लघुगुरू अन्ते। अभ्रमरविलसिता ॥२५॥
न्यासः— म भ न ल गु
ऽऽऽ ऽ।। ।।। । ऽ
अथ तृतीयस्थानस्थस्य चतुर्थस्थस्य च गुरोः फलं मत्तमयूरेणाह—
स्थानभ्रंशात् कार्यविघाताच्च तृतीयेऽ -
नैकैः क्लेशैर्बन्धुजनोत्थैश्च चतुर्थे।
जीवे शान्तिं पीडितचित्तश्च स विन्देद्
नैव ग्रामे नापि वने मत्तमयूरे ॥२६॥
जिसके तृतीय स्थान में बृहस्पति हो, वह स्थाननाश और कार्यों के नाश से पीड़ित
चित्त वाला होता है। चतुर्थ स्थान में हो तो अनेक प्रकार के क्लेश और बन्धुओं से
पीड़ित चित्त वाला होता है तथा उसको न तो गाँव में और न ही मतवाले मयूरों से युत
वन में शान्ति मिलती है। यह मत्तमयूर छन्द है॥२६॥
तृतीयस्थानस्थे जीवे गुरौ। स्थानभ्रंशात् स्वस्थानव्ययात् कार्याणां विघातान्नाशाच्च
पीडितचित्तो भवति। चतुर्थे जीवे अनेकैः क्लेशैर्बन्धुजनोत्थैः स्वजनोत्पादितैः पीडितचित्तो
व्यथितमनाः। नैव ग्रामे पुरादौ नापि वनेऽरण्ये। किंविशिष्टे? मत्ता मयूरा यस्मिन् तथाभूते।
शान्तिं विश्रामं स विन्देल्लभते। वृत्तमेतन्मत्तमयूरम्। तल्लक्षणम्—
म्तौ यसौ गान्तं सैव यतिर्मत्तमयूरम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहगोचराध्यायः ५९३
मस्त्रिगुरुः। तोऽन्तलघुः। य आदिलघुः। सोऽन्तगुरुः। अन्ते गुरुः। सैव पूर्वोक्ता
यतिश्चतुर्गहैरिति ।। २६ ।।
न्यासः— म त य स गु
ऽऽऽ ऽऽ। ।ऽऽ ।।ऽ ऽ
अथ पञ्चमस्थस्य गुरोः फलं मणिगुणनिकरेणाह—
जनयति च तनयभवनमुपगतः परिजनशुभसुतकरितुरगवृषान् ।
सकनकपुरगृहयुवतिवसनकृन्मणिगुणनिकरकृदपि विबुधगुरुः ॥ २७॥
पञ्चम भवनगत बृहस्पति परिजन, धर्मादि, पुत्र, हाथी, घोड़ा और बैल का लाभ
तथा सुवर्ण, नगर, गृह, स्त्री, वस्त्र और मणियों के समूहों का लाभ करता है। यह
मणिगुणनिकर छन्द है।।२७।।
विबुधो देवाः। तेषां गुरुर्जीवः। तनयभवनं पञ्चमस्थानमुपगतः प्राप्तः। परिजनः
परिचारजनः। शुभं धर्मादि। सुताः पुत्राः। करिणो गजाः। तुरगा अश्वाः। वृषा बलीवर्दाः।
एतान् जनयति ददातीत्यर्थः। सकनकेति। कनकेन सुवर्णेन युक्तानि। पुरं नगरम्। तत्र
गृहं वेश्म। युवतिः स्त्री। वसनान्यम्बराणि च। एतानि करोति। मणीनां रत्नानाम्, गुणानां
विद्याशौर्यादीनां निकरः समूहस्तं करोति। वृत्तमेतन्मणिगुणनिकरः। तल्लक्षणम्—
वसुमुनियतिरिति मणिगुणनिकरः।
वसवोऽष्टौ। मुनयः सप्त। एतैर्विरमैः। त्रयोदशलघवः। अन्ते लघुगुरू।।२७।।
न्यासः— ला गु
।।।।।।।।।।।।।। ऽ
अथ षष्ठगतस्य गुरोः फलं हरिणप्लुतेनाह—
न सखीवदनं तिलकोज्ज्वलं न च वनं शिखिकोकिलनादितम् ।
हरिणप्लुतशावविचित्रितं रिपुगते मनसः सुखदं गुरौ ॥ २८॥
जिसके छठे स्थान में बृहस्पति हो, उसके गृह में सखी का मुख तिलक से उज्ज्वल
नहीं होता तथा मयूर और कोकिलों से शब्दायमान, मृगों के कूदने-फाँदने से और हरिण
शिशुओं से रम्य वन भी उसके मन के लिये आनन्ददायक नहीं होता है। यह हरिणप्लुत
छन्द है।।२८।।
गुरौ जीवे रिपुगते षष्ठस्थानसंश्रिते सखीवदनमालीवक्त्रं तिलकोज्ज्वलं तमालपत्रोपशोभितं
मनसश्चेतसो न सुखदं सुखं न ददाति। न च वनमरण्यमुपवनं शिखिकोकिलनादितम्।
शिखिभिर्मयूरैः। कोकिलैः परभृतैः। नादितं कृतशब्दम्। हरिणप्लुतैर्मृगाणां प्लवनैः। हरिण-
शावैः, हरिणशिशुभिश्च। विचित्रितं रम्यम्। मनसश्चेतसः। सुखदं सुखं ददाति। वृत्तमेतद्ध-
रिणप्लुतम्। तल्लक्षणम्—
बृ० भ० द्वि०-३८
५९४ बृहत्संहिता
त्रिसकारचितैर्भवतो लगौ नभभरैश्च गणैर्हरिणप्लुतम् ।।
सोऽन्तगुरुः। सकारत्रितयम्। त्रिसकारचितैश्च परात्परतो लगौ लघुगुरू भवत एकपादे।
द्वितीये नस्त्रिलघुः। भ आदिगुरुः। द्वौ भकारौ। रलमध्यः। एतैर्गणैर्हरिणप्लुतम् ।। २८ ।।
न्यासः— स स स ल गु
। । ऽ । । ऽ । । ऽ । ऽ
न भ भ र
।।। ऽ।। ऽ।। ऽ।ऽ
अथ सप्तमगस्य गुरोः फलं ललितपदेनाह—
त्रिदशगुरुः शयनं रतिभोगं धनमशनं कुसुमान्युपवाह्यम्।
जनयति सप्तमराशिमुपेतो ललितपदां च गिरं धिषणां च ॥२९॥
यदि बृहस्पति सातवीं राशि में स्थित हो तो शय्या, सुरतभोग, धन, भोजन, वाहन
तथा ललित पद वाली वाणी और बुद्धि करता है। यह ललितपद छन्द है॥२९॥
त्रिदशगुरुर्जीवः। सप्तमराशिमुपेतः प्राप्तः। शयनं शय्याम्। रतिभोगं सुरतभोगम्।
धनं वित्तम्। अशनं भोजनम्। कुसुमानि पुष्पाणि। उपवाह्यमश्वादिकं जनयति ददाति।
गिरं वाचं ललितपदाम्, ललितानि च पदानि सुप्तिङन्तानि यस्यास्तथाभूतां धिषणां
बुद्धिं च जनयति। ललितपदं वृत्तमेतत्। तल्लक्षणम्—
ललितपदं नजयैर्भवतीह।
नस्त्रिलघुः। जो गुरुमध्यः। पुनरपि जकारः। य आदिलघुः। एतैर्ललितपदं भवति॥२९॥
न्यासः— न ज ज य
।।। ।ऽ। ।ऽ। ।ऽऽ
अथाष्टमनवमस्थस्य गुरोः फलं शालिन्याऽऽह—
बन्धं व्याधिं चाष्टमे शोकमग्रं मार्गक्लेशान् मृत्युतुल्यांश्च रोगान्।
नैपुण्याज्ञापुत्रकर्मार्थसिद्धिं धर्मे जीवः शालिनीनां च लाभम् ॥३०॥
यदि जन्मराशि से अष्टम राशि में बृहस्पति हो तो बन्धन, पीड़ा, कठोरता, शोक,
मार्ग में क्लेश और मृत्युसम रोग करता है। नवम राशि में हो तो समस्त कार्यों में
निपुणता, आदेश, पुत्र, कार्य और अर्थ की सिद्धि तथा धान्ययुत भूमि का लाभ करता
है। यह शालिनी छन्द है॥३०॥
जीवो बृहस्पतिरष्टमे स्थाने। बन्धं बन्धनम्। व्याधिं पीडाम्। उग्रं तीव्रम्। शोकं दुःखम्।
मार्गे पथि। क्लेशान् कृच्छ्रान्। मृत्युतुल्यान् मरणसमांश्च रोगान् गदांश्च करोति। धर्मे
नवमे नैपुण्यं सर्वकार्याणाम्। आज्ञां प्रभुत्वम्। पुत्राणां सुतानां कर्मणां कार्याणामर्थानां
ग्रहगोचराध्यायः ५९५
वित्तानां च सिद्धिं करोति। शालयो विद्यन्ते यासु ताः शालिन्यः। अत्रानुक्तमपि भूमिग्रहणं
विज्ञायते। सस्ययुक्तानां भूमीनां लाभं करोतीत्यर्थः। अथवा स्वगुणैर्य्याः स्त्रियः शालन्ते
श्लाघन्ते तासां लाभं करोति। शालिनीवृत्तमेतत्। तल्लक्षणम्—
मात् तौ गौ चेच्छालिनी वेदलोकैः।
मस्त्रिगुरुः। तोऽन्तगुरुः। पुनस्तकारः, अन्तगुरुद्वयम्। वेदैश्चतुर्भिर्लोकैः सप्तभिर्विरामौ
भवतः, सा शालिनी।।३०।।
यथा न्यासः— म त त गु
ऽऽऽ ऽऽ। ऽऽ। ऽऽ
अधुना दशमैकादशद्वादशस्थस्य गुरोः फलं रथोद्धतयाऽऽह—
स्थानकल्यधनहा दशर्क्षगस्तत्प्रदो भवति लाभगो गुरुः।
द्वादशेऽध्वनि विलोमदुःखभाग् याति यद्यपि नरो रथोद्धतः ।।३१।।
दशम राशि में स्थित बृहस्पति स्थान, आरोग्य और धन का नाश करने वाला होता
है। एकादश राशि में स्थित बृहस्पति स्थान, आरोग्य और धन को देने वाला होता है।
द्वादश राशि में स्थित बृहस्पति हो तो रथ पर चढ़ा हुआ मनुष्य भी मार्ग में कुपथ-गमन
के कारण दुःख भोगता है। यह रथोद्धता छन्द है।।३१।।
गुरुर्जीवो दशर्क्षगो दशमस्थानगतः। स्थानहा स्थानहन्ता। कल्यहा आरोग्यहन्ता।
धनहा वित्तहा वित्तहन्ता भवति। लाभगः, एकादशगतस्तत्प्रदः। तदिति स्थानादीनां परामर्शः।
तान्येव ददाति। स्थानकल्यधनप्रदो भवति। द्वादशे जीवे। अध्वनि पथि विलोमदुःखभाग्
विलोमेन अपथि गमनेन दुःखं भजत। नरः पुरुषो यद्यपि रथोद्धतो याति रथेनोद्धतेनोपयुक्तेन
यद्यपि गच्छति, तथापि विलोमदुःखभाग् भवति। वृत्तमेतद्रथोद्धता। तल्लक्षणम्—
रो नरौ लघुयुता रथोद्धता।
रलमध्यः। नस्त्रिलघुः। पुनरपि रेफः। लघुगुरू अन्ते।
न्यासः— र न र ल गु
ऽ।ऽ ।।। ऽ।ऽ । ऽ
तथा च यवनेश्वरः—
मोहार्थनाशस्थितिमानभङ्गग्रामाध्वरुग्जातिविरोधवैरान् ।
गुरुः शशिस्थानगतः करोति स्थानात्मजाज्ञाधनदो द्वितीये।।
गुरुस्तृतीये स्वजनार्थनाशक्रियावधाध्वश्रमवञ्चनाकृत्।
विमानसेष्टापचयापवादबन्धुक्षयोद्वेगकरश्चतुर्थे ।।
भृत्याम्बरस्थानसुवर्णमानपुत्रप्रदः पञ्चमगोऽरिजित्च।
षष्ठे गुरुर्बन्धुविवादवैरत्रासप्रचेष्टाफलहानिकारी।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
५९६ बृहत्संहिता
जामित्रगः स्त्रीवसनान्नपानसौमुख्यसुस्फीतकलाध्वकर्ता।
जीवोऽष्टमस्थो वधभङ्गबन्धव्याधिश्रमानर्थविवादकारी।।
करोति जीवो नवमे सुतस्त्रीभूस्थानमानार्थसमृद्धिमग्र्याम्।
मेषूरणस्थोऽक्षिरुगिष्टहानिश्लेष्माययाससुतान्तकारी ।।
एकादशे भूभवनात्मजस्त्रीहिरण्यधान्याम्बरवाहनानाम्।
दाता गुरुर्द्वादशगोऽथ चन्द्राद्विदेशचर्याश्रमशोककारी।। इति।।३१।।
अथ शुक्रस्य गोचरः। तत्रादावेवास्य जन्मगतस्य फलं विलासिन्याऽऽह—
प्रथमगृहोपगो भृगुसुतः स्मरोपकरणैः
सुरभिमनोज्ञगन्धकुसुमाम्बरैरुपचयम् ।
शयनगृहासनाशनयुतस्य चानुकुरुते
समद्विलासिनीमुखसरोजषट्चरणताम् ।।३२।।
जन्मराशि में स्थित शुक्र कामदेव के उपकरणों ( शयन, भूषण, आच्छादन,
अनुलेपन, गीत, वाद्य और नृत्यों ), चित्ताह्लादक, सुगन्ध द्रव्य, पुष्प और वस्त्र से लाभ
कराता है तथा शय्या, गृह, आसन और भोजनों से युत पुरुष को मद्यपान से मतवाली
विलासिनी स्त्री के मुखकमल पर भ्रमरत्व का अनुभव कराता है। यह विलासिनी छन्द
है।।३२।।
भृगुसुतः शुक्रः। प्रथमगृहोपगो जन्मराशिगः। स्मरोपकरणैः कामोपकरणैः। शयन-
भूषणाच्छादनानुलेपनैर्गीतवाद्यनृत्यैः। तथा सुरभिभिः सुगन्धैः, मनोज्ञैश्चित्ताह्लादकैः। गन्धै-
र्गन्धद्रव्यैः। कुसुमैः पुष्पैः। अम्बरैर्वस्त्रैश्च उपचयं लाभं करोति। शयनेनास्तरणेन। गृहेण
वेश्मनाऽऽसनेन पर्यङ्केणाशनेन भोजनेन च युतो भवति। एवंविधस्य शयनगृहासनाशनयुतस्य
पुंसः समद्विलासिनीमुखसरोजषट्चरणतामनुकुरुते। समदा या विलासिनी मद्यपानेन समदा
प्रमत्ता। तस्या मुखसरोजे वदनारविन्दे षट्चरणतां भ्रमरत्वमनुकुरुते विदधाति। परिचुम्बना-
दिकमनुददातीत्यर्थः। वृत्तमेतद्विलासिनी। तल्लक्षणम्—
भवति विलासिनी यदि नजौ भजौ भलगुरू।
नस्त्रिलघुः। जो मध्यगुरुः। भ आदिगुरुः। पुनर्जकारः। पुनर्भकारः। अन्ते लघु-
गुरू।।३२।।
न्यासः— न ज भ ज भ ल गु
।।। ।ऽ। ऽ।। ।ऽ। ऽ।। । ऽ
अथ द्वितीयस्थस्य शुक्रस्य फलं वसन्ततिलकेनाह—
शुक्रे द्वितीयगृहगे प्रसवार्थधान्य-
भूपालसन्न्रतकुटुम्बहितान्यवाप्य ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहगोचराध्यायः ५९७
संसेवते कुसुमरत्नविभूषितश्च
कामं वसन्ततिलकद्युतिमूर्धजोऽपि ॥३३॥
यदि द्वितीय राशि में शुक्र हो तो सन्तान, धन, धान्य, राजप्रियता और बन्धुओं से
हित कार्यों को प्राप्त करके पुष्प और रत्नों से विभूषित होकर वसन्ततिलका वृक्ष के
पुष्पसमान अति श्वेत बाल होने पर भी कामदेव की सेवा करता है। यह वसन्ततिलका
छन्द है॥३३॥
शुक्रे द्वितीयगृहगे द्वितीयस्थानस्थे। प्रसवोऽपत्यम्। अर्थो धनम्। धान्यं शालयः।
भूपालसन्नतः। भूपालो राजा सन्नतः सम्यग् नतः प्रह्वो भवति। राजवाल्लभ्यम्। कुटुम्बेभ्यो
हितम्। एतान्यवाप्य प्राप्य। कुसुमैः पुष्पैः। रत्नैर्मणिभिश्च। विभूषितोऽलङ्कृतः। कामं
मैथुनं संसेवते। कीदृशः? वसन्ततिलकद्युतिमूर्धजोऽपि, वसन्ततिलको वृक्षस्तस्य पुष्पमतीव
श्वेतवर्णं भवति। वसन्ततिलकसदृशी द्युतिः कान्तिर्मूर्धजेषु यस्य। अनभिप्रेतकामोऽपि
कामं संसेवते। जरादितोऽपि स्त्रीष्वनुरतो भवतीत्यर्थः। वृत्तमेतद्वसन्ततिलकम्। तल्लक्षणम्—
न्द्वौ जौ वसन्ततिलकं गुरुद्वयं चेत्।
तोऽन्तलघुः। भ आदिगुरुः। जो गुरुमध्यः। जकारद्वयम्। अन्ते गुरुद्वयम्॥३३॥
न्यासः— त भ ज ज गु
ऽऽ। ऽ।। ।ऽ। ।ऽ। ऽऽ
अथ तृतीयचतुर्थस्थस्य शुक्रस्य फलमिन्द्रवज्रयाऽऽह—
आज्ञार्थमानास्पदभूतिवस्त्रशत्रुक्षयान् दैत्यगुरुस्तृतीये।
दत्ते चतुर्थश्च सुहृत्समाजं रुद्रेन्द्रवज्रप्रतिमाञ्च शक्तिम् ॥३४॥
तृतीय राशिगत शुक्र प्रभुत्व, धन, मान, स्थान, समृद्धि, वस्त्र और शत्रु का नाश
करता है। चतुर्थ राशिगत शुक्र मित्रों के साथ समागम तथा शिव, इन्द्र और वज्र की
तरह शक्ति करता है। यह इन्द्रवज्रा छन्द है॥३४॥
दैत्यगुरुः शुक्रः। तृतीये स्थाने आज्ञां प्रभुत्वम्। अर्थं धनम्। मानं पूजाम्। आस्पदं
स्थानम्। भूतिं समृद्धिम्। वस्त्रमम्बरम्। शत्रुक्षयं रिपुविनाशम्। दत्ते ददाति। चतुर्थश्चतुर्थ-
स्थानस्थश्च। सुहृद्भिर्मित्रैः समाजं संयोगम्। तथा रुद्रप्रतिमां महेश्वरतुल्यामिन्द्रप्रतिमां शक्र-
तुल्यां वज्रप्रतिमां कुलिशप्रतिमां शक्तिं सामर्थ्यं च ददाति। वृत्तमेतदिन्द्रवज्रा। तल्लक्षणम्—
तौ जौ गुरू चेद्भवतीन्द्रवज्रा।
तोऽन्तलघुः। द्वौ तकारौ। जो गुरुमध्यः। अन्ते गुरुद्वयम्॥३४॥
न्यासः— त त ज गु
ऽऽ। ऽऽ। ।ऽ। ऽऽ
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
५९८ बृहत्संहिता
अथ पञ्चमस्थस्य शुक्रस्यानवसितयाऽऽह—
जनयति शुक्रः पञ्चमसंस्थो गुरुपरितोषं बन्धुजनाप्तिम् ।
सुतधनलब्धिं मित्रसहायाननवसितत्वं चारिबलेषु ॥३५॥
पञ्चम राशिगत शुक्र अधिक सन्तोष, बन्धुओं की प्राप्ति, पुत्र और धन का लाभ
तथा शत्रु के सैन्यों में अनवस्थिति करता है। यह अनवसिता छन्द है।।३५।।
शुक्रः पञ्चमसंस्थः पञ्चमस्थानसंस्थो गुरुपरितोषं जनयति उत्पादयति। गुरवः परितुष्टा
भवन्तीत्यर्थः। बन्धुजनाप्तिं बन्धुजनप्राप्तिम्। सुतानां पुत्राणां धनानां वित्तानां लब्धिं प्राप्तिम्।
मित्राणि सहायान् सार्थिनश्च लभते। अरिबलेषु शत्रुसैन्येषु अनवसितत्वमनवस्थितिं च
जनयत्युत्पादयति। शत्रूणामभावो भवतीत्यर्थः। अनवसितावृत्तमेतत्। तल्लक्षणम्—
अनवसिता न्यौ भगौ च यदि स्यात्।
नस्त्रिलघुः। य आदि लघुः। भ आदिगुरुः। अन्ते गुरुद्वयम्।।३५।।
न्यासः— न य भ गु
।।। ।ऽऽ ऽ।। ऽऽ
अथ षष्ठसप्तमाष्टमस्थस्य शुक्रस्य फलं लक्ष्म्याऽऽह—
षष्ठो भृगुः परिभवरोगतापदः स्त्रीहेतुकं जनयति सप्तमोऽशुभम् ।
यातोऽष्टमं भवनपरिच्छदप्रदो लक्ष्मीवतीमुपनयति स्त्रियं च सः ॥३६॥
षष्ठ राशिगत शुक्र अनादर, रोग और सन्ताप करता है। सप्तम राशिगत शुक्र स्त्री के
सम्बन्ध को लेकर अनिष्ट करता है। अष्टम राशिगत शुक्र गृह और वस्त्र देने वाला तथा
लक्ष्मीवती स्त्री का लाभ कराने वाला होता है। यह लक्ष्मी छन्द है।।३६।।
भृगुः शुक्रः। षष्ठः षष्ठस्थानस्थः। परिभवोऽसम्मानम्। रोगो गदः। तापः सन्तापः।
एतान् ददाति। सप्तमः स्त्रीहेतुकं योषित्निमित्तमशुभमनिष्टं जनयत्युत्पादयति। अष्टमं यातः
प्राप्तो भवनपरिच्छदप्रदः, भवनं गृहम्, परिच्छदः परिवार एतौ प्रददाति। लक्ष्मीः श्रीर्विद्यते
यस्याः सा लक्ष्मीवती। स पुरुषो लक्ष्मीवतीं स्त्रियमुपनयति प्राप्नोति। वृत्तमेतल्लक्ष्मीः।
तल्लक्षणम्—
लक्ष्मीरियं तभसजगैरुदाहृता।
तोऽन्तलघुः। भ आदिगुरुः। सोऽन्तगुरुः। जो गुरमध्यः। अन्ते गुरुः। एतैरूदा-
हृता।।३६।।
न्यासः— त भ स ज गु
ऽऽ। ऽ।। ।।ऽ ।ऽ। ऽ
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA
ग्रहगोचराध्यायः ५९९
अथ नवमदशमस्थस्य शुक्रस्य फलं प्रमिताक्षरयाऽऽह—
नवमे तु धर्मवनितासुखभाग् भृगुजेऽर्थवस्त्रनिचयश्च भवेत्।
दशमेऽवमानकलहान् नियमात् प्रमिताक्षराण्यपि वदन् लभते ॥३७॥
जिसके नवम राशि में शुक्र स्थित हो वह धर्म, स्त्री और सुख भोगने वाला तथा
धन और वस्त्रों से युत होता है। जिसके दशम राशिगत शुक्र हो, वह मनुष्य परिमित
भाषण करने पर भी अपमान और कलह का लाभ करता है। यह प्रमिताक्षरा छन्द
है॥३७॥
नवमे नवमस्थानगते भृगुजे शुक्रे। धर्मस्य वनितानां स्त्रीणां सुखस्य च भागी भवति।
तथार्थनिचयो धनसमूहो वस्त्रनिचयोऽम्बरसमूहश्च भवेत्। दशमे शुक्रे अवमानं पराभवः।
कलहा विरोधाः। एतान् नियमान्निश्चयाल्लभते। स पुरुषो वदन्नपि जल्पन्नपि अर्थितया
प्रमितानि स्वल्पानि अक्षराणि वर्णान् लभते, न बहुवक्तृतां लभत इत्यर्थः। वृत्तमेतत्
प्रमिताक्षरा। तल्लक्षणम्—
प्रमिताक्षरा सजयुतावथ सौ।
सोऽन्तगुरुः। जो गुरुमध्यः। ताभ्यां युक्तौ द्वौ सकारौ॥३७॥
न्यासः— स ज स स
। । ऽ । ऽ । । । ऽ । । ऽ
अथैकादशद्वादशस्थस्य शुक्रस्य फलं स्थिरेणाह—
उपान्त्यगो भृगोः सुतः सुहृद्धनान्नगन्धदः।
धनाम्बरागमोऽन्त्यगः स्थिरस्तु नाम्बरागमः ॥३८॥
एकादश राशिगत शुक्र मित्र, धन, अन्न और सुगन्ध द्रव्य देने वाला होता है।
द्वादश राशिगत शुक्र धन और वस्त्रों का लाभ कराने वाला होता है; किन्तु वस्त्र का लाभ
स्थिर नहीं रखता। यह स्थिर छन्द है॥३८॥
भृगोः सुतः शुक्रः। उपान्त्यगः। अन्त्यस्य समीपमुपान्त्यमेकादशम्। तत्र यदा गतः।
सुहृन्मित्रम्। धनं वित्तम्। अन्नमशनम्। गन्धाः सुगन्धद्रव्याणि। एतान् ददाति। अन्त्यगा
द्वादशस्थानगतः। धनाम्बरागमः। धनं वित्तम्। अम्बरं वस्त्रम्। एतयोरागमो लाभः। अम्बरा-
गमः स्थिरो न भवति। अम्बरमपहियत इति। वृत्तमेतत् स्थिरम्। तल्लक्षणम्—
लगौ स्थिरः प्रकीर्तितः।
लगौ लघुगुरुर्लघुगुरुरिति यत्र क्रमेण संस्थितम्।
न्यासः— ल गु ल गु ल गु ल गु
। ऽ । ऽ । ऽ । ऽ
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
? Actually, it is a horizontal line spanning the first two strokes: ¯over।।, and then a bar over ऽ? It is just the traditional notation for ganas, where an arc or bar is placed over the syllables. Let's see: Under न्यासः— स स स सThere is: ¯¯¯\ ¯¯¯\ ¯¯¯\ ¯¯¯`
।।ऽ ।।ऽ ।।ऽ ।।ऽ
Wait, look at the characters:
IIऽ IIऽ IIऽ IIऽ or ।।ऽ ।।ऽ ।।ऽ ।।ऽ
Wait, they are Roman I or Devanagari danda? They look like ।। or II.
Let's provide it cleanly as:
⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ –
or with the dandas and S:
।।ऽ ।।ऽ ।।ऽ ।।ऽ
अथ द्वितीयस्थस्य सौरस्य फलं वंशपत्रपतितेनाह—
चारवशाद् द्वितीयगृहगे दिनकरतनये
रूपसुखापवर्जिततनुर्विगतमदबलः ।
CC-0. JK Sanskrit Academy,
ग्रहगोचराध्यायः ६०१
अन्यगुणैः कृतं वसुचयं तदपि खलु भव-
त्यम्ब्विव वंशपत्रपतितं न बहु न च चिरम् ॥४०॥
जिस मनुष्य के चारवश जन्मराशि से द्वितीय राशि में शनि हो, वह रूप तथा सुख
से रहित शरीर वाला, अहंकाररहित और निर्बल होता है। अन्य विद्या आदि गुणों से धन
को इकट्ठा करने पर भी वंशपत्र पर पतित जलबिन्दु की तरह वह पर्याप्त नहीं होता और
चिरकाल तक नहीं ठहरता। यह वंशपत्रपतित छन्द है॥४०॥
दिनकरतनये शनैश्चरे। चारवशाच्चारक्रमेण। द्वितीयगृहे द्वितीयस्थानगते। रूपसुखा-
पवर्जिततनुः, रूपेण सुवेषेण सुखेन चापवर्जिता तनुः शरीरं यस्य सः। तथा विगतमदबलः,
विगतं नष्टं मदो दर्प बलं वीर्यं च यस्य। अन्यगुणैरपरैर्विद्यादिकैर्गुणैः कृतमर्जितं वसुचयं
धनसमूहो यदि भवति तदपि खलु न बहु प्रभूतं पर्याप्तम् न च चिरं चिरकालं भवति।
खलुशब्दः समुच्चये
६०२ बृहत्संहिता
तल्लक्षणम्—
स्याद्भरना रनौ च गुरु नाम सात्र ललिता।
भ आदिगुरुः। रलमध्यः। नस्त्रिलघुः। पुना रेफनकारौ। अन्ते गुरुः। सा वृत्तजातिः।
अत्रास्मिन् छन्दसि ललिता नाम स्याद् भवेत्॥४१॥
न्यासः— भ र न र न गु
⌒ ⌒ ⌒ ⌒ ⌒ ⌒
ऽ।। ऽ।ऽ ।।। ऽ।ऽ ।।। ऽ
अथ चतुर्थस्य सौरस्य फलं भुजङ्गप्रयातेनाह—
चतुर्थं गृहं सूर्यपुत्रेऽभ्युपेते सुहृद्वित्तभार्यादिभिर्विप्रयुक्तः।
भवत्यस्य सर्वत्र चासाधु दुष्टं भुजङ्गप्रयातानुकारञ्च चित्तम्॥४२॥
जिसके चतुर्थ गृह में शनि हो, वह मित्र, धन, स्त्री आदि (पुत्र और बन्धु) से
रहित होता है तथा उसका चित्त सर्वत्र असाधु, दुष्ट और भुजङ्ग (सर्प) के प्रयात
(गमन) का अनुकरण करने वाला (अति कुटिल) होता है। यह भुजङ्गप्रयात छन्द
है॥४२॥
सूर्यपुत्रे सौरे चतुर्थगृहं वेदस्थानमभ्युपेते प्राप्ते। सुहृद्भिर्मित्रैः। वित्तेन धनेन। भार्यया
स्त्रिया। आदिग्रहणात् पुत्रैर्बन्धुभिश्च। एतैर्विप्रयुक्तो रहितो भवति। अस्य नरस्य चित्तं मनः।
सर्वत्र सर्वस्मिन्नेव। असाध्वशोभनम्। दुष्टं पापादिष्वनुरतम्। भुजङ्गप्रयातानुकारं च भवति।
भुजङ्गस्य सर्पस्य प्रयातं गमनमनुकरोति। अतिकुटिलचित्तो भवतीत्यर्थः। वृत्तमेतद् भुजङ्ग-
प्रयातम्। तल्लक्षणम्—
भुजङ्गप्रयातं चतुर्भिर्यकारैः।
य आदिलघुः। चतुर्भिर्यकारैर्भुजङ्गप्रयातं भवति॥४२॥
न्यासः— य य य य
⌒ ⌒ ⌒ ⌒
।ऽऽ ।ऽऽ ।ऽऽ ।ऽऽ
अथ पञ्चमषष्ठस्थस्य सौरस्य फलं पुटयाऽऽह—
सुतधनपरिहीणः पञ्चमस्थे प्रचुरकलहयुक्तश्चार्कपुत्रे।
विनिहतरिपुरोगः षष्ठयाते पिबति च वनितास्यं श्रीपुटोष्ठम्॥४३॥
जिसके पञ्चम राशिगत शनि हो वह पुत्र तथा धनों से रहित और कलहों से युत
होता है। षष्ठ राशिगत शनि हो तो शत्रुरहित, नीरोग और सुन्दर ओठों से युत स्त्री के मुख
का पान करने वाला होता है। यह पुटा छन्द है॥४३॥
अर्कपुत्रे शनैश्चरे। पञ्चमस्थे सुतस्थानप्राप्ते। सुतैः पुत्रैः। धनैर्वित्तैश्च परिहीणो रहितः।
प्रचुरेण प्रभूतेन कलहेन विरोधेन च युक्तः। षष्ठयाते षष्ठस्थानस्थे विनिहतरिपुरोगः, विनिहता
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
नष्टा रिपवः शत्रवो रोगा गदाश्च यस्य। तथाभूतो वनितास्यं स्त्रीमुखं पिबत्यास्वादयति।
कीदृशम्? श्रीपुटोष्ठम्, श्रीर्लक्ष्मीः पुटा संश्लिष्टा लग्ना ओष्ठयोर्दन्तच्छदयोर्यस्मिन् मुखे
तच्छ्रीपुटोष्ठम्। वृत्तमेतत् पुटा। तल्लक्षणम्—
वसुजलधिविरामौ नौ पुटा म्यौ।
नस्त्रिलघुः। द्वौ नकारौ। मस्त्रिगुरुः। यश्चादिलघुः। वसवोऽष्टौ। जलधयश्चत्वारः।
एतैर्विरामौ॥४३॥
न्यासः— न न म य
।।। ।।। ऽऽऽ ।ऽऽ
अथ सप्तमाष्टमनवस्थस्य सौरस्य फलं वैश्वदेव्याऽऽह—
गच्छत्यध्वानं सप्तमे चाष्टमे च हीनः स्त्रीपुत्रैः सूर्यजे दीनचेष्टः।
तद्वद्धर्मस्थे वैरहृद्रोगबन्धैर्धर्मोऽप्युच्छिद्येद् वैश्वदेवीक्रियाद्यः॥४४॥
जिसके जन्मराशि से सप्तम या अष्टम गृहगत शनि हो, वह मार्ग में गमन करता है
तथा स्त्री, पुत्र से हीन और दीन चेष्टा से युत होता है। नवम राशिगत शनि हो तो पूर्ववत्
फल होता है तथा द्वेष और हृदय के रोग से उसका वैश्वदेवी क्रिया आदि धर्म नष्ट होता
है। यह वैश्वदेवी छन्द है॥४४॥
सप्तमस्थानस्थे शनैश्चरे। अध्वानं गच्छति पथि व्रजति। अष्टमे शनैश्चरे चशब्दादध्वानमेव
गच्छति। हीनो वर्जितः। स्त्रीपुत्रैर्भार्यासुतैः। दीनचेष्टश्च भवति। दीना चेष्टा क्रिया यस्य।
धर्मस्थे नवमस्थानस्थे। तद्वत् तेनैव प्रकारेण। गच्छत्यध्वानं हीनः स्त्रीपुत्रैर्दीनचेष्टश्च भवति।
वैरैर्द्वेषैः। हृद्रोगैर्जठरगदैः। बन्धैर्बन्धनैश्च। वैश्वदेवीक्रियाद्यः, वैश्वदेवी क्रिया आद्या प्रथमा
यस्मिन् तथाभूतो धर्मोऽप्युच्छिद्येतन्नश्यति। वैश्वदेवी वृत्तमेतत्। तल्लक्षणम्—
मौ यौ पञ्चाश्वैर्वैश्वदेवीति नाम्ना।
मस्त्रिगुरुः। द्वौ मकारौ। य आदिलघुः। द्वौ यकारौ। पञ्चभिः। अश्वैश्च सप्तभिः। एतैर्वि-
रामौ भवतः॥४४॥
न्यासः— म म य य
ऽऽऽ ऽऽऽ ।ऽऽ ।ऽऽ
अथ दशमैकादशद्वादशस्थस्य सौरस्य फलमूर्म्मिमालयाऽऽह—
कर्मप्राप्तिर्दशमेऽर्थक्षयश्च विद्याकीर्त्योः परिहानिश्च सौरे।
तैक्ष्ण्यं लाभे परयोषार्थलाभश्चान्त्ये प्राप्नोत्यपि शोकोर्मिमालाम्॥४५॥
दशम राशिगत शनि हो तो कर्म का लाभ तथा धन, विद्या और कीर्ति का नाश
होता है। एकादश राशि में शनि हो तो कठोर स्वभाव तथा दूसरे की स्त्री और धन का
६०४ बृहत्संहिता
लाभ होता है। द्वादश राशि में शनि हो तो शोक की ऊर्मि ( तरंगों ) की माला
( समुदाय ) की प्राप्ति होती है। यह ऊर्मिमाला छन्द है।।४५।।
दशमे दशमस्थानस्थे सौरे शनैश्चरे। कर्मणां प्राप्तिः सिद्धिः। अर्थस्य धनस्य च
क्षयो विनाशो भवति। विद्या शास्त्रम्। कीर्तिर्यशः। एतयोः परिहानिश्च भवति। लाभे एकादशे
तैक्ष्ण्यमुग्रस्वभावता। परयोषार्थलाभः परेषामन्येषां सम्बन्धिन्यो या योषाः स्त्रियः। तासाम्;
परार्थानां परधनानां च लाभः प्राप्तिर्भवति। अन्त्ये द्वादशस्थे सौरे। शोकोर्मिमालां प्राप्नोति।
शोकानां दुःखानार्मूर्मयः कल्लोलास्तेषां या माला निचयंस्तां प्राप्नोति। ऊर्मिमाला वृत्तमेतत्।
तल्लक्षणम्—
म्भौ तो गौ चेत् कथिता सोर्मिमाला।
मस्त्रिगुरुः। भ आदिगुरुः। तोऽन्तलघुः। अन्ते गुरुद्वयम्।
न्यासः— म भ त गु
ऽऽऽ ऽ।। ऽऽ। ऽऽ
तथा च यवनेश्वरः—
बन्धाध्वशस्त्रानिलरुग्विषार्तिं विडम्बनास्त्रीसुतवित्तनाशम्।
स्थाने विधत्ते शशिनोऽर्कपुत्रस्ततो व्ययायासकरो द्वितीये।।
तृतीयगोऽरिक्षयमानहर्षसौभाग्यबहागमदोऽर्कसूनुः।
चतुर्थगो बन्धुवधावमानच्छायाविधाताध्वभयार्तिकारी।।
स्थितिक्रियारम्भसुतार्थनाशस्वबन्धुविद्वेषविवादकारी ।
शनैश्चरः पञ्चमगोऽथ षष्ठे शत्रुक्षयामोदसुतार्थदाता।।
छायाविधातश्रमगुह्यरोगस्त्रीमित्रनाशाध्वकृदर्कसूनुः।
जामित्रसंस्थोऽष्टमगोऽथ शोकक्षुद्वन्धुभृत्यव्यसनार्तिकारी।।
व्याध्यध्ववैरश्रमवित्तनाशक्षुत्क्लेशदः स्यान्नवमर्क्षसंस्थः।
ऐश्वर्यचेष्टाफलसञ्चयघ्नो मेषूरणे व्याध्यपकीर्तिकृच्च।।
यशःपरस्त्रीधनभृत्यलाभक्रियासमृद्धिस्थितिमानदस्तु ।
एकादशे द्वादशगस्तु चेष्टानैपुण्यकीर्तिद्युतिमानहर्ताः।। इति।।४५।।
नन्वत्र यद्गोचरफलं ग्रहाणामुक्तं तत् कस्यचित् फलस्य निष्फलता यात्यत्र किमिति
विपर्ययो दृश्यत इत्येतदर्थं हेतूपन्यासं वितानेनाह—
अपि कालमपेक्ष्य च पात्रं शुभकृद्विदधात्यनुरूपम्।
न मधौ बहु कं कुडवे वा विसृजत्यपि मेघवितानः ॥४६॥
जिस तरह वसन्तकाल में मेघसमुदाय से बहुत जल की वृष्टि होने पर भी कुडव
( प्रस्थांघ्रितुल्य पात्र ) में बहुत जल नहीं होता है, उसी तरह शुभ करने वाला ग्रह
काल और पात्र के अनुरूप फल करता है। यह वितान छन्द है।।४६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहगोचराध्यायः ६०५
शुभकृच्छुभफलाप्रदो ग्रहः। कालं शुभदशाकालं वर्तमानमपेक्ष्य यत्र पुरुषं वाप्यपेक्ष्य
तदनुरूपं फलं विदधाति करोति। एतदुक्तं भवति—शोभना यस्य दशा वर्तते, तस्य ग्रह-
गोचरानुकूलाः शुभं फलं प्रयच्छन्ति। तथा च पुरुषस्य यत् फलं सम्भाव्यते तस्यैव शोभनं
फलं प्रयच्छति, नापात्रस्य। अत्र दृष्टान्तमाह—न मधौ बहु कमिति। मधौ वसन्ते मेघवि-
तानो घनसमूहः कं पयो विसृजत्युत्सृजत्यपि कुडवे भाण्डविशेषे पात्रे न बहु वर्षति।
वाशब्दोऽत्र इवार्थे। यथा न तत्र प्रभूतं वर्षति। यतो मधौ तत्कालं जलं कुडवमापने तन्न
पर्याप्तमिति। वृत्तमेतद्वितानम्। तल्लक्षणम्—
त्रिसगैरपि विद्धि वितानम्।
सोऽन्तगुरुः। सकारत्रयम्। अन्ते गुरुः। एतद्वितानं विद्धि जानीहि।।४६।।
न्यासः— स स स गु
।।ऽ ।।ऽ ।।ऽ ऽ
अथ गोचराशुभस्थानस्थितानां ग्रहाणां पूजनं भुजङ्गविजृम्भितेनाह—
रक्तैः पुष्पैर्गन्धैस्ताम्रैः कनक
कनकवृषभकुलकुसुमैर्दि
६०६ बृहत्संहिता
शुक्रश्च मदप्रदैर्मन्मथोद्दीपनैर्गन्धकुसुमधूपवलिभिश्च पूज्यः। चशब्दात् श्वेतैश्च। सौरिः शनैश्चरः।
कृष्णद्रव्यैः सर्वैर्गन्धकुसुमोपहारैः पूज्यः। सौम्यो बुधः। मणिभिः। रजतेन रौप्येण। तिलक-
कुसुमैस्तिलपुष्पैः पूज्यः। गुरवः परिपीतकैः पीतवर्णकुसुमगन्धोपहारैश्च। एतैर्ग्रहैः प्रीतैः
परितुष्टैः पीडा न स्यान्न भवेत्। येन पुरुषेण ग्रहाः पूजिताः स यद्युच्चादुन्नतादध एव पतति।
यदि वा भुजङ्गानां सर्पाणां विजृम्भितं विशति सर्पाणां क्रीडासक्तानां मध्ये प्रविशति
तथाऽपि तस्य पीडा न स्यात्। वृत्तमेतद् भुजङ्गविजृम्भितम्, तल्लक्षणम्—
मौतो ना रः सल्पाः प्राहुर्वसुमदनदहनमुनिभिर्भुजङ्गविजृम्भितम्।
मस्त्रिगुरुः। द्वौ म
ग्रहगोचराध्यायः ६०७
न्यासः— स ज स ल न स ज गु
⎴ ⎴ ⎴ - ⎴ ⎴ ⎴ ⎴
।।ऽ ।ऽ। ।।ऽ । ।।। ।।ऽ ।ऽ। ऽ
भ न ज ल गु स ज स ज गु
⎴ ⎴ ⎴ - ⎴ ⎴ ⎴ ⎴ ⎴ ⎴
ऽ।। ।।। ।ऽ। । ऽ ।।ऽ ।ऽ। ।।ऽ ।ऽ। ऽ
अधुना गोचरोक्तस्य फलस्य रविभौमयोः शशिसौर्योश्च प्रधानकालं गीत्युपगीतिलक्षणं
चाह—
रविभौमौ पूर्वार्धे शशिसौरौ कथयतोऽन्त्यगौ राशेः ।
सदसल्लक्षणमार्यागीत्युपगीत्योर्यथासङ्ख्यम् ॥४९॥
सूर्य, मंगल राशि के पूर्वार्ध में एवं चन्द्र और शनि
६०८ बृहत्संहिता
उपगीति की मात्राओं के गण की तरह या साधुओं के समागम की तरह बुध राशि
के आदि और अन्त में समान फल देता है। अर्थात् जैसे उपगीति छन्द में दोनों अर्ध
तुल्य लक्षण-लक्षित होते हैं तथा जैसे साधुओं का समागम सदा एक-सा रहता है,
उसी तरह बुध राशि के आदि और अन्त में तुल्य फल देता है। यह उपगीति छन्द
है।।५०।।
आदौ राशिप्रवेशकाले यादृक् शुभो वाऽशुभः सौम्यो बुधो भवति तादृशः पश्चाद्रा-
श्यन्तेऽपि। यत उक्तम्—
शशितनयः फलदस्तु सर्वकालम्। इति।
एवं राश्याद्यन्तयोस्तुल्यफलमुपगीतिमात्राणां गणवत्। उपगीतिरार्या। तस्या मात्राणां
ये गणाश्चतुर्भागास्तेषां यथाऽऽद्यन्तयोः समता तथा बुधस्य। अथवा यथा सत्सम्प्रयोगः
सतां साधूनां सम्प्रयोगः समागमः। यादृगादौ भवति तादृगन्ते न कदाचिद्विरूपता। उपगीति-
वृत्तमिदम्।
आर्याद्वितीयदलेत्याद्यस्या लक्षणम्। न्यासः प्रसिद्धः।।५०।।
अधुना जीवगोचरफलस्योपदेशनायार्यालक्षणमाह—
आर्याणामपि कुरुते विनाशमन्तर्गुरुर्विषमसंस्थः।
गण इव षष्ठे दृष्टः स सर्वलघुतां जनं नयति ।।५१।।
जिस तरह विषम गण में स्थित अन्तर्गुरु वाला ( मध्य गुरु वाला = जगण ) आर्या
छन्द का और विषम स्थित ( अप्रसन्न ) गण ( देवताविशेष ) उत्तम पुरुषों का भी नाश
करता है, उसी तरह विषम स्थित गुरु राशि के मध्य भाग में उत्तम पुरुषों का भी नाश
करता है तथा जैसे आर्या छन्द के षष्ठ गण में स्थित जगण सर्वलघुत्व ( चारो लघुता )
को प्राप्त होता है, उसी तरह षष्ठ राशिस्थ गुरु जन को सर्वलघुत्व ( लोगों में गौरवहीन )
करता है। यह आर्या छन्द है।।५१।।
आर्याणां साधूनामपि गुरुर्जीवो विषमसंस्थोऽन्तर्मध्ये मध्यमराशौ मध्यभागे प्राप्तो
विनाशं करोति, अशुभं फलं विदधाति। शुक्लोऽप्येवमेव वेदितव्यो गुरुग्रहणात्। यतः
सोऽपि राशेर्मध्ये फलं ददाति। उक्तं च—
'गुरुभृगुजौ भवनस्य मध्ययातौ' इति।
यथा गणो देवविशेषो यात्रायां गणयोगविधावुक्तः—'अनर्चितास्ते नृपतिं सवाहनं
विनाशयन्ति' इत्यादि। स गणो विषमस्थोऽप्रसन्नः। आर्याणामपि विनाशं करोति। तद्वदिति।
स एव गुरुः षष्ठे स्थाने गतो दृष्टः। जन्मराशेः षष्ठस्थानप्राप्तौ विलोकितश्च जनं पुरुषं
सर्वलघुतां सर्वत्राल्पतां नयति। स पुरुषः सर्वत्र गौरवरहितो भवतीत्यर्थः। अथ द्वितीयोऽर्थो
व्याख्यायते—आर्यावृत्तविशेषः। आर्याणामन्तर्गुरुर्जगणो दृष्टस्तत्र भवति। अथ तस्या
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA