सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 633, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 633

ग्रहगोचराध्यायः ६०५
शुभकृच्छुभफलाप्रदो ग्रहः। कालं शुभदशाकालं वर्तमानमपेक्ष्य यत्र पुरुषं वाप्यपेक्ष्य
तदनुरूपं फलं विदधाति करोति। एतदुक्तं भवति—शोभना यस्य दशा वर्तते, तस्य ग्रह-
गोचरानुकूलाः शुभं फलं प्रयच्छन्ति। तथा च पुरुषस्य यत् फलं सम्भाव्यते तस्यैव शोभनं
फलं प्रयच्छति, नापात्रस्य। अत्र दृष्टान्तमाह—न मधौ बहु कमिति। मधौ वसन्ते मेघवि-
तानो घनसमूहः कं पयो विसृजत्युत्सृजत्यपि कुडवे भाण्डविशेषे पात्रे न बहु वर्षति।
वाशब्दोऽत्र इवार्थे। यथा न तत्र प्रभूतं वर्षति। यतो मधौ तत्कालं जलं कुडवमापने तन्न
पर्याप्तमिति। वृत्तमेतद्वितानम्। तल्लक्षणम्—
त्रिसगैरपि विद्धि वितानम्।
सोऽन्तगुरुः। सकारत्रयम्। अन्ते गुरुः। एतद्वितानं विद्धि जानीहि।।४६।।
न्यासः— स स स गु
।।ऽ ।।ऽ ।।ऽ ऽ
अथ गोचराशुभस्थानस्थितानां ग्रहाणां पूजनं भुजङ्गविजृम्भितेनाह—
रक्तैः पुष्पैर्गन्धैस्ताम्रैः कनक
कनकवृषभकुलकुसुमैर्दि