बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
५४६ बृहत्संहिता
यत्समानदैवतनक्षत्रं तन्नक्षत्रवत् कर्माणयारभेत। विशेषोपदेशमुपदेश्यामः—तत्र श्वेतमैत्रात्म-
सहरोहिणीषु रोहिणीव सर्वं साधनम्। इष्टिव्रताधानाध्ययनानि। सारभटे अभिचारवधवादान्।
अभिजिति सर्वकर्माणि। बले नृपतिबलसमारम्भाः। जयेऽन्नप्रमाणम्। गन्धर्वे गान्धर्वरति-
विवाहाः। ध्यानपदेऽभिषेकभूषणमङ्गल्यानि। सन्ध्ययोस्तु पूर्वाऽग्निदेवता पश्चिमा रौद्री तयोर्न
किञ्चित् कर्मारम्भो नान्यत्र नियमात् प्रयतमुपतिष्ठन्नोपासीत। पश्चिमायां विशेषतश्चाग्नौ न
प्रविशेन्नाश्नीयान्न मैथुनमभिगच्छेत्'।।१-३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ तिथिकर्मगुणो
नामैकोनशततमोऽध्यायः ॥९९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ करणगुणाध्यायः
अथ करणगुणाध्यायो व्याख्यायते। तत्रादावेव सप्त चलकरणानि भवन्ति, तेषां
नामान्यधिपतींश्चाह—
वववालवकौलवतैतिलाख्यगरवणिजविष्टिसंज्ञानाम्।
पतयः स्युरिन्द्रकमलजमित्रार्यमभूश्रियः सयमाः ॥१॥
वव, वालव, कौलव, तैतिल, गर, वणिज, विष्टि—ये सात चल करण हैं। इनके
क्रम से इन्द्र, ब्रह्मा, मित्र, अर्यमा, भूमि, श्री और यम स्वामी होते हैं।।१।।
ववादीनां करणानामिन्द्रादयः सयमाः पतयः स्वामिनः, तद्यथा—ववस्येन्द्रोऽधिपतिः।
वालवस्य कमलजो ब्रह्मा। कौलवस्य मित्रः। तैतिलाख्यस्यार्यमा। गरस्य भूर्भूमिः।
वणिजस्य श्रीर्लक्ष्मीः। विष्टेर्यमः।।१।।
अथ स्थिरकरणानां नामान्यधिपतींश्चाह—
कृष्णचतुर्दश्यर्धाद् ध्रुवाणि शकुनिश्चतुष्पदं नागम्।
किंस्तुघ्नमिति च तेषां कलिवृषफणिमारुताः पतयः ॥२॥
कृष्ण पक्ष की चतुर्दशी के उत्तरार्ध में शकुनि, अमावास्या के पूर्वार्ध में नाग, उत्तरार्ध
में चतुष्पद और शुक्ल पक्ष की प्रतिपदा के पूर्वार्ध में किंस्तुघ्न करण होता है। ये चार
स्थिर करण हैं। इनके स्वामी क्रम से कलि, वृष, सर्प और पवन हैं।।२।।
कृष्णचतुर्दशीद्वितीयार्द्धादारभ्य ध्रुवाणि स्थिराणि करणानि शकुन्यादीनि भवन्ति,
तद्यथा—कृष्णचतुर्दश्यामपरभागे शकुनिः। चतुष्पदनागावमावास्यायाम्। किंस्तुघ्नः प्रति-
पत्पूर्वभागे। एतानि स्थिराणि मासेन सकृदेव भवन्ति। प्रतिपद्यपरभागे ववः। वालवकौलवौ
द्वितीयायाम्। तैतिलगरौ तृतीयायाम्। वणिग्विष्टी चतुर्थ्याम्। पुनरपि वववालवौ पञ्चम्याम्।
अतः करणे द्वे प्रतिदिनं यावदष्टमीपूर्वभागे विष्टिः। अपरभागे ववः। नवम्यां वालवकौलवौ,
दशम्यां तैतिलाख्यगरौ। एकादश्यां वणिग्विष्टी। द्वादश्यां वववालवौ। त्रयोदश्यां कौलव-
तैतिलौ। चतुर्दश्यां गरवणिजौ। पौर्णमास्यां प्राग्भागे विष्टिः। अपरे ववः। ततः प्रतिपदादि
प्रत्यहं द्वे द्वे करणे यावत्तृतीयायामपरभागे विष्टिः। ततः क्रमेण करणषट्कम्। सप्तम्यां
प्राग्भागे विष्टिः। ततो ववादिकरणषट्कं यावत् त्रयोदशीम्। चतुर्दशीपूर्वभागे विष्टिः।
अपरभागे शकुनिरिति। एवमेतानि चलकरणानि मासमध्ये प्रत्येकमष्टौ वारान् भवन्ति।
स्थिरकरणानि मासेन सकृदेव। नियताः पतय इति। तेषां शकुनिचतुष्पदनागकिंस्तुघ्नानां
यथाक्रमेण कलिवृषफणिमारुताः पतयो भवन्ति, तद्यथा—शकुनेः कलिः। चतुष्पदस्य
वृषः। नागस्य फणी सर्पः। किंस्तुघ्नस्य मारुतो वायुः।।२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५४८ बृहत्संहिता
अथैतैर्यत् कर्तव्यं तदाह—
कुर्याद्ववे शुभचरस्थिरपौष्टिकानि
धर्मक्रियाद्विजहितानि च वालवाख्ये।
सम्प्रीतिमित्रवरणानि च कौलवे स्युः
सौभाग्यसंश्रयगृहाणि च तैतिलाख्ये ॥३॥
कृषीबीजगृहाश्रयजानि गरे वणिजि ध्रुवकार्यवणिग्युतयः ।
न हि विष्टिकृतं विदधाति शुभं परघातविषादिषु सिद्धिकरम् ॥४॥
वव करण में शुभ ( धर्म आदि ), चर ( अल्प समय में होने वाला ), स्थिर ( बहुत
देर तक ठहरने वाला ) और पुष्टि ( शरीर-पुष्टिकारक ) कार्य करना शुभ होता है।
वालव करण में धर्मक्रिया और ब्राह्मणों के हित का कार्य करना शुभ है। कौलव करण
में प्रीति ( किसी के साथ स्नेह ), मित्र और वरण ( कन्यावरण ) करना शुभ है। तैतिल
करण में सौभाग्य ( जिस कार्य को करने से सबका प्रिय हो ), संश्रय और गृहसम्बन्धी
कार्य करना शुभ है। गर करण में खेती, बीज और आश्रमसम्बन्धी कार्य करना शुभ है।
वणिज करण में स्थिर कार्य, वाणिज्य और युतिं ( किसी के साथ संयोग ) सम्बन्धी
कार्य करना शुभ है। विष्टि करण में किया हुआ कोई भी कार्य शुभ नहीं होता है; किन्तु
केवल शत्रुओं का नाश, विष आदि का प्रयोग और अग्निदाह आदि कार्य करना शुभ
है॥३-४॥
कुर्याद्वव इति । वत्रे ववाख्ये करणे। शुभानि प्रशस्तानि यानि धर्मादीनि कार्याणि।
तथा चराणि स्वल्पकालसाध्यानि क्षिप्रोपयोगीनि। स्थिराणि कालान्तरस्थायीनि। तथा
पौष्टिकानि शरीरपुष्टिं यानि जनयन्ति। तानि कुर्यात्। वालवाख्ये धर्मक्रिया धर्मसमायुक्ताः
क्रियाः। तथा द्विजानां ब्राह्मणानां च हितान्यनुकूलानि कार्याणि। सम्प्रीतिः केनचित् स्नेहः।
मित्रं सुहृत्। वरणं कन्यावरणम्। एतानि च कार्याणि कौलवे स्युर्भवेयुः। सौभाग्यं सुभगत्वं
येन कर्मणा सर्वजनवाल्लभ्यं भवति तत्सौभाग्यम्। संश्रयः कश्चित् पधानजन· संश्लिष्यते।
गृहं भवनम्। एतानि तैतिलाख्ये कार्याणि।
कृषिबीजेति । कृषिः कर्षणम्। बीजानि प्रसिद्धानि यान्युप्यन्ते। गृहाश्रयजम्। गृहं
वेश्म आश्रित्य यज्जायत उत्पद्यते। एतानि सर्वाणि गरे कार्याणि। ध्रुवाणि स्थिराणि
यानि कार्याणि। वणिग् वाणिज्यम्। युतिः केनचित् सह संयोगः। एतान्येव वणिजि
कार्याणि। विष्टिकृतं न हि शुभं श्रेयस्करं फलं विदधाति करोति; केवलं पराणां शत्रूणां
घाते निपाते विषादिषु विषप्रयोगेऽग्निदाहादौ च सिद्धिकरम्॥३-४॥
तथा स्थिरकरणैर्यत् कर्तव्यं तदाह—
कार्यं पौष्टिकमौषधादि शकुनौ मूलानि मन्त्रास्तथा
गोकार्याणि चतुष्पदे द्विजपितॄनुद्दिश्य राज्यानि च।
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA
करणगुणाध्यायः ५४९
नागे स्थावरदारुणानि हरणं दौर्भाग्यकर्माप्यतः
किंस्तुघ्ने शुभमिष्टिपूष्टिकरणं मङ्गल्यसिद्धिक्रियाः ॥५॥
शकुनि करण में पौष्टिक कार्य, औषधिसंवन आदि, मूल (जड़ को लेना, रोपना,
खाना) और मन्त्रसाधनसम्बन्धी कार्य करना शुभ है। चतुष्पद करण में गाय, ब्राह्मण,
पितर और राज्यसम्बन्धी कार्य करना शुभ है। नाग करण में स्थावर, दारुण, हरण और
दौर्भाग्य (जिस कार्य को करने से दूसरे से द्वेष उत्पन्न हो, उसके) सम्बन्धी कार्य
करना शुभ है तथा किंस्तुघ्न करण में धर्म, इष्टि (पुत्रकाम्य आदि), पुष्टि (शरीरपुष्टि),
मंगल (विवाह आदि) और सिद्धिक्रिया (जिस क्रिया को करने से कार्य की सिद्धि
हो, उसके) सम्बन्धी कार्य करना शुभ है॥५॥
कार्यं पौष्टिकमिति । पौष्टिकं शरीरपुष्टिकराम् । औषधं यद्व्याधिविनाशायोपयुज्यते ।
आदिग्रहणादन्यौषधादीनां ग्रहणं पचनं पाचनम्। मूलानि मूलकर्माणि। मूलानां ग्रहणं
रोपणं भक्षणं च। तथा मन्त्रा मन्त्रसाधनानि। एतत् सर्वं शकुनौ कार्यम्। गोकार्याणि गवां
सम्बन्धीनि यानि कार्याणि शुभं ग्रहणं दानेन तत्पालनं च। तथा द्विजान् ब्राह्मणान् पितृनु-
द्दिश्य तदर्थं यानि तानि चतुष्पदे कार्याणि। राज्यानि राजकार्याणि। स्थावरं स्थावराश्रयं
कार्यम्। दारुणानि क्रूराणि च यानि कार्याणि परोपतापकराणि। हरणं परधनदारस्थावरादीनाम्।
दौर्भाग्यकर्माणि दुर्भगत्वं सर्वजनद्वेष्यं यैरवाप्यते तानि नागे कार्याणि। शुभं धर्मसंयुक्तं
कर्म। इष्टयः पुत्रकाम्यादयः। पुष्टिकरणं शरीरपोषणम्। मङ्गल्यानि विवाहादीनि। सिद्धिक्रिया
याभिः क्रियाभिरेते सिद्ध्यन्ति। सर्वमेतत् किंस्तुघ्ने कार्यम्। तथा च गर्गः—
आद्यं तु शकुनिर्नाम रात्रौ कृष्णचतुर्दशी।
आदानग्रहणे चैवमिष्टमन्त्र पलायनम्॥
योधानां शकुनानां च ग्रहणं पोषणं तथा।
चिकित्सा चैव युद्धं च सर्वमेतत् प्रशस्यते॥
ततश्चतुष्पदं नाम कृष्णपञ्चदशी दिवा।
चतुष्पदानां सर्वेषां कर्मारम्भेषु शस्यते॥
पितृंश्च पूजयेद्देव प्रेतकार्यं च कारयेत्।
नष्टं दृष्टिपथाल्लब्धं ब्रूयादत्र न संशयः॥
नागं तु करणं रात्रौ कृष्णपञ्चदशी भवेत्।
तत्रावमर्दसाध्यानि प्रसह्य हरणानि च॥
भेदनानि च कर्माणि मूलानि च फलानि च।
कर्माणि चोदनीयानि सर्वाण्येव प्रकल्पयेत्॥
अतः परं प्रवक्ष्यामि किंस्तुघ्नं करणं ध्रुवम्।
तत्तु शुक्लप्रतिपदि दिवसे प्रतिपद्यते॥
५५० बृहत्संहिता
तस्मिन् दिव्यानि कार्याणि वैश्वदेवमथानलम्।
प्राजापत्यं च यत् कर्म सर्वमत्र प्रयोजयेत्।।
इत्येतानि निबद्धानि ध्रुवाणि करणानि च।
अतः परं प्रवक्ष्यामि ववान्यान्यानि सप्त वै।।
ववं च बालवं चैव कौलवं तैतिलं तथा।
गराख्यं वणिजं चैव विष्टिर्ज्ञेया तु सप्तमी।।
ववे तु ध्रुवकर्माणि क्षिप्राण्यपि च कारयेत्।
निर्याणे च प्रवेशे च तद्धि सर्वार्थसाधकम्।।
बालवं ब्राह्मणानां तु सर्वारम्भेषु शस्यते।
अनारम्भोऽत्र वर्णानां शेषाणामिति निश्चयः।।
मित्रयुक्तञ्च यत्कर्म यच्च स्यात्सिद्धिकारकम्।
स्थावराणि च सर्वाणि कौलवे सम्प्रयोजयेत्।।
तैतिलेन च कर्तव्यं राजद्वारिकमेव यत्।
अलङ्कारांश्च विविधान् सर्वाधिकरणानि च।।
गरादिना च कर्तव्यं कर्म गृहसमुद्भवम्।
कृषिं प्रवेशं वस्तूनां ग्रहणं क्षेत्रकर्मणाम्।।
सर्वकार्याणि वणिजि विवादोत्थानि कारयेत्।
पण्यविक्रयणं चैव शस्त्रारम्भं च कारयेत्।।
विष्टिर्नामेह करणं येन कर्म न कारयेत्।
यत्नेनापि कृतं कर्म भवत्यल्पफलोदयम्।। इति।।५।।
अथ कर्णवेधनक्षत्राण्याह—
लाभे तृतीये च शुभैः समेते पापैर्विहीने शुभराशिलग्ने।
वेध्यौ च कर्णावमरेज्यलग्ने पुष्येन्दुचित्राहरिपौष्णभेषु ।।६।।
लग्न से ग्यारहवें और तीसरे में शुभ ग्रह हों, शुभ ग्रह की राशि ( वृष, मिथुन,
कन्या, तुला, धनु और मीन ) लग्न में हो, पाप ग्रह ( सूर्य, मंगल और शनि ) से रहित
होकर लग्न बृहस्पति से युत हो तथा पुष्य, मृगशिरा, चित्रा, श्रवण और रेवती नक्षत्रों में
कर्णवेध शुभ होता है।।६।।
लाभस्थानमेकादशम्। तृतीयं प्रसिद्धम्। लाभे तृतीये च स्थाने शुभैः शुभग्रहैर्बुध-
जीवशुक्रैः। समेते संयुक्ते। शुभराशिलग्ने पापैर्विहीने। शुभा राशयो वृषमिथुनकन्या-
तुलाधन्विमीनाः। शुक्लपक्षे कर्कटश्च। एतेषामन्यतमे लग्ने। पापैः पापग्रहैरादित्याङ्गारक-
शनैश्चरैर्विहीने रहिते। अमरेज्यो बृहस्पतिस्तस्मिन् लग्ने लग्नगते। कर्णावत्र वेध्यौ वेधनार्हौ।
एवं लग्नशुद्धिमभिधायाधुना नक्षत्राण्याह—पुष्येन्दुचित्राहरिपौष्णभेष्विति। पुष्यस्तिष्यः।
इन्दुर्मृगशिरः। चित्रा। हरिः श्रवणः। पौष्णभं रेवती। एतेषु नक्षत्रेषु कर्णौ वेध्याविति।।६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
करणगुणाध्यायः ५५१
इदानीं संक्षेपेणावसरप्राप्तं विवाहपटलमाह—
रोहिण्युत्तररेवतीमृगशिरोमूलानुराधामघा-
हस्तस्वातिषु षष्ठतौलिमिथुनेषूद्यत्सु पाणिग्रहः ।
सप्ताष्टान्त्यबहिःशुभैरुडुपतावेकादशद्वित्रिगे
क्रूरैस्त्र्यायषडष्टगैर्न तु भृगौ षष्ठे कुजे चाष्टमे ॥७॥
दम्पत्योर्द्विनवाष्टराशिरहिते चारानुकूले रवौ
चन्द्रे चार्ककुजार्किशुक्रवियुते मध्येऽथवा पापयोः ।
त्यक्त्वा च व्यतिपातवैधृतिदिनं विष्टिं च रिक्तां तिथिं
क्रूराहायनपौषचैत्रविरहे लग्नांशके मानुषे ॥८॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां करणगुणो
नाम शततमोऽध्यायः ॥१००॥
रोहिणी, तीनों उत्तरा, रेवती, मृगशिरा, मूल, अनुराधा, मघा, हस्त और स्वाती
नक्षत्रों में; कन्या, तुला और मिथुन लग्नों में एवं सप्तम, अष्टम और द्वादश स्थानों से
भिन्न स्थानों में शुभ ग्रह हों, एकादश, द्वितीय या तृतीय स्थानों में चन्द्र हो, तृतीय, षष्ठ
और एकादश में पाप ग्रह हों तथा षष्ठ में शुक्र और अष्टम में मंगल न हो तो विवाह शुभ
होता है। वर, कन्या दोनों में से किसी एक की राशि से दूसरे की राशि दूसरी, नवीं और
आठवीं न हो अर्थात् द्विर्द्वादश, नवमपञ्चम और षट्काष्टक राशि से रहित राशि हो, सूर्य
चारानुकूल ( तृतीय, षष्ठ, दशम या एकादश स्थान में स्थित ) हो, सूर्य, मंगल, शनि
या शुक्र से वियुत या दो पापग्रहों के मध्य में चन्द्र हो तथा व्यतिपात और वैधृति योग,
विष्टि करण, रिक्ता तिथि, पाप वार, क्रूरायन ( दक्षिणायन ), चैत्र और पौष मास—इन
सबों को छोड़ कर मानुष ( द्विपदसंज्ञक लग्न = मिथुन, कन्या और तुला ) में विवाह
शुभ होता है। यहाँ पर पौष और चैत्र मास का निषेध कर रहे हैं; किन्तु दक्षिणायन में ही
पौष को होने के कारण दक्षिणायन के निषेध से ही पौष का निषेध हो जाता है; फिर पौष
का निषेध क्यों किया? यहाँ आचार्य का अभिप्राय यह है कि दक्षिणायन में स्थित
कार्त्तिक और मार्गशीर्ष में विवाह करना चाहिये; लेकिन उत्तरायन में स्थित चैत्र में
विवाह नहीं करना चाहिये॥७-८॥
इति 'विमला'हिन्दीटीकायां करणगुणाध्यायः शततमः ॥१००॥
रोहिण्युत्तररेवतीति । रोहिणी। उत्तरत्रयम्। उत्तरफल्गुन्युत्तराषाढोत्तरभद्रपदा चेति।
रेवती। मृगशिरः। मूलम्। अनुराधा। मघा। हस्तः। स्वातिः। एतेषु नक्षत्रेषु पाणिग्रहो विवाहः
कार्यः। तथा षष्ठतौलिमिथुनेषूद्यत्सु । षष्ठः कन्या। तौली तुलः। मिथुनः प्रसिद्धः । एते-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५५२ बृहत्संहिता
षूद्यत्सूदयं गच्छत्सु लग्नतां प्राप्तेष्वित्यर्थः। उक्तं च—
हस्तोत्तरास्वातिमघानुराधाप्राजेशपौष्णोन्दवनैर्ऋतेषु ।
उद्वाहसौभाग्यसुखानि कन्या प्राप्नोति शेषैः सुतभर्तृशोकम् ।।
कन्यातुलाजन्ममिथुनेषु साध्वी शेषेष्वसाध्वी धनवर्जिता च।
अन्येषु भेषु द्विपदांश इष्टः कन्यादिलग्नेषु न चान्त्यभागः ।। इति।
एतानि नक्षत्राणि लग्नानि चाभिधाय ग्रहकुण्डलिकामह—सप्ताष्टान्त्यबहिःशुभै-
रिति। शुभग्रहैर्बुधजीवशुक्रैः। सप्ताष्टान्त्यबहिःस्थितैः। सप्तममष्टममन्त्यं च द्वादशस्थानं
बहिःकृत्वा वर्जयित्वान्यत्र स्थितैः। लग्नद्वितीयतृतीयचतुर्थपञ्चमषष्ठनवमदशमैकादशस्थानेषु
स्थितैरित्यर्थः। उडुपतौ चन्द्रे एकादशद्वितीयतृतीयस्थानानामन्यतमस्थानगते। क्रूरैः पापग्रहैरा-
दित्याङ्गारकशनैश्चरैः। त्र्यायषडष्टगैः। त्रिस्तृतीयम्। आयमेकादशम्। षडष्टके षष्ठाष्टमस्थाने
प्रसिद्धे। एतेषु स्थानेषु एतैः संस्थितैः पापैः, न तु भृगौ षष्ठे सौम्यत्वाच्छुक्रस्य षष्ठे
शुभं फलं प्रागभिहितं तस्यानेन प्रतिषेधः कार्यः। कुजेऽष्टमे च। उक्तं च—
सौम्यान् व्ययास्तनिधनेष्वरिभे च शुक्लं
हित्वा स्थितस्त्रिधनलाभगतः शशाङ्कः ।
पापास्त्रिषड्निधनलाभगता विवाहे
हित्वाऽष्टमं क्षितिजमिष्टफलानि दद्युः ।। इति।
अथ कन्याकुमारयोः परस्परमानुकूल्यमह—दम्पत्योर्द्विनवाष्टराशिरहित इति।
दम्पत्योर्जायापत्योः। द्विद्वादशनवमपञ्चमाष्टषष्ठराशिभी रहिते वर्जिते। परस्परं यदि द्विद्वादशे
नवमपञ्चमे षष्ठाष्टमे न भवतः। एकराशी तृतीयैकादशराशी चतुर्थदशमराशी सप्तमराशी
भवतस्तदा कार्य इत्यर्थः। उक्तं च—
त्रिकोणषष्ठाष्टधनव्ययेषु पापप्रदानं शुभमन्यभेषु।
चारानुकूले रवौ। रवावादित्ये चारानुकूले चारस्य जन्मराशेस्तृतीयषष्ठदशमैका-
दशस्थानानामन्यतमस्थ इत्यर्थः। कन्यायाश्चन्द्रे गोचरानुकूले। उक्तं च—
गोचरशुद्धाविन्दुं कन्याया यत्नतः शुभं वीक्ष्य।
तिग्मकिरणं च पुंसां शेषैर्बलैरपि विवाहः ।।
अथ समागमफलं प्रदर्शयति—चन्द्रे चार्ककुजार्किशुक्रवियुत इति। अर्क
आदित्यः। कुजोऽङ्गारकः। आर्किः सौरः। शुक्नो भार्गवः। एतैर्वियुते रहिते चन्द्रे। एतेषा-
मन्यतमेन सह मार्गस्थो यदि न भवति। अथैदिवं बुधगुरुयुक्तश्चन्द्रमाः शुभः। उक्तं च—
नान्यैः समेतः शुभकृच्छशाङ्कः केषाञ्चिदिष्टो बुधजीवयुक्तः।। इति।
मध्येऽथवा पापयोः। पापग्रहयोर्मध्येऽन्तश्चन्द्रो यदि न भवति। उक्तं च—
मध्ये पापग्रहयोः पाणिग्रहणे शशी न सौख्यकरः।
तस्माद्यत्नात् चन्द्रः कन्यायाः सुस्थितो देयः ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
करणगुणाध्यायः ५५३
एकः पापश्चन्द्राद् द्वितीयेऽन्यो द्वादशे यदि भवति तदा स पापयोर्मध्यगतो भवति।
त्यक्त्वा च व्यतिपातवैधृतिदिनमिति। यस्मिन् दिने व्यतिपातो भवति। तद् व्यतिपात-
दिनम्। यस्मिन् दिने वैधृतिर्भवति तद्वैधृतिदिनम्। एवं व्यतिपातवैधृतिदिनं त्यक्त्वा
विहाय। उक्तं च—
न वैधृतिदिने कुर्याद्व्यतीपातयुतेऽहनि।
विष्टिं करणं रिक्तां च तिथिं चतुर्थी नवमीं चतुर्दशीं च त्यक्त्वा विहाय। उक्तं च—
रिक्तासु च न कर्तव्यं न विष्टिदिवसे तथा।
क्रूराहायनेति। क्रूरस्याहः क्रूराहः पापग्रहवासरः। तस्मिन् पापदिने न कर्तव्यम्।
अर्थादिवं शुभग्रहदिने कर्तव्यम्। उक्तं च—
आग्नेयग्रहवासरेषु कलहः प्रीतिस्तु सत्सूतमा।
केचित् स्थैर्यमुशन्ति सौरदिवसं चन्द्रे ससापत्न्यकम्।। इति।
क्रूरमयनं दक्षिणायनम्। तत्र न कार्यम्। उत्तरायणेऽर्थादेव कार्यम्। उक्तं च—
उत्तरां भजमानेन काष्ठां वै सप्तसप्तिना।
चतुर्णामपि वर्णानां विवाहः श्रेष्ठ उच्यते।।
पौषचैत्रविरह इति। पौषमासं चैत्रं च वर्जयित्वा पौषचैत्रयोर्न कार्यः। नन्वत्र पौषो
दक्षिणायने भवति; दक्षिणायननिषेधात् पौषस्यापि निषेधं प्राप्नोति। तत्किमर्थमुक्तं पौषविरह
इति। अथोच्यते, अयमभिप्राय आचार्यस्य। यथा दक्षिणायनेऽपि कार्तिकमार्गशीर्षयोः कर्तव्यः।
उत्तरायणे सिद्धेऽपि विवाहविधौ चैत्रो न कार्यः। तथा च—
माघफाल्गुनवैशाखा ऐन्द्रसौम्यनिलास्तथा।
षडेते पूजिता मासाश्चातुर्वर्ण्येऽपि नित्यशः।।
एषूढा सुभगा साध्वी पुत्रिणी धर्मवत्सला।
धनिनी देवभक्ता च यथासङ्ख्यं प्रकीर्तिता।।
आषाढचैत्रपौषाश्च नभस्यः श्रावणस्तथा।
कुत्सिताः सर्ववर्णानां विवाहेषु मनीषिभिः।।
आषाढे नष्टशौचा तु खला सन्तानवर्जिता।
वैशाखे सर्वसामान्या चैत्रे चातृप्तमैथुना।।
पौषे भर्तृविहीना स्यान्नभस्येऽपि च दुर्भगा।
एवमाश्वयुजोढा तु श्रावणे तु मृतप्रजा।।
लग्नांशके मानुषे। द्विपदाख्ये मिथुनकन्यातुलानामन्यतमे कार्यः। अनेनैतत् प्रतिपादितं
भवति—यथा सर्व एव राशयो द्विपदनवांशकोदयगताः पाणिग्रहणे शस्ताः। तस्मिंश्च
मानुषांशके स्वामिदृष्टे। उक्तं च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५५४ बृहत्संहिता
द्विपदभवनं प्राप्तो योंऽशः शुभाऽन्यगृहोदये।
द्विपदभवनेष्वप्यन्यांशा भवन्त्यशुभावहाः।।
तथा च—
विलग्नांशः स्वनाथेन यद्युद्वाहे न दृश्यते।
पुंविनाशस्ततोऽस्तांशो यद्येवं योषितस्ततः।।
लग्नांशकादस्तांशकस्यापि स्वामिदृष्टिर्विधेयेति।।७-८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ करणगुणो
नाम शततमोऽध्यायः ।।१००।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ नक्षत्रजातकाध्यायः
अथ नक्षत्रजातकाध्यायो व्याख्यायते। तत्रादावेवाश्विनीभरण्योर्जातस्य स्वभावमाह—
प्रियभूषणः स्वरूपः सुभगो दक्षोऽश्विनीषु मतिमांश्च।
कृतनिश्चयसत्यारुग्दक्षः सुखितश्च भरणीषु ॥१॥
जिस मनुष्य का अश्विनी नक्षत्र में जन्म हो, वह अलङ्करण का स्नेही, सुन्दर, सबों
का प्रिय, सब कार्य करने में चतुर और बुद्धिमान होता है। भरणी नक्षत्र में उत्पन्न जातक
जिस कार्य का प्रारम्भ करे, उसको सिद्ध करने वाला, सत्य बोलने वाला, नीरोग, चतुर
और सुखी होता है।।१।।
प्रियभूषणोऽलङ्करणवल्लभः। स्वरूपः शोभनाकृतिः। सुभगः सर्वजनवल्लभः। दक्षः
शीघ्रकारी। मतिमान् बुद्धिमान्। अष्टाङ्गबुद्धियुक्तः।
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा।
ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः।। इति।
एवंविधोऽश्विनीजातो भवति। तारकापेक्षया च बहुवचनम्। तथा च पराशरः—
विज्ञानवानरोगो भिषक् प्रदातार्थभृत्यवनितेशः।
दक्षः क्षितिपतिसेवी जातः स्यादाश्विने शूरः।।
कृतनिश्चय इति। कृतनिश्चयः कार्याणामन्तगः। सत्यः सत्यवाक्। अरुक् स्वच्छदेहः।
दक्षः शीघ्रकारी। सुखितः सञ्जातसुखः। एवंविधो भरणीषु जातो भवति। तथा च पराशरः—
धीरः क्रूरोऽनृतवाक् परवित्तहरो नरश्चपलबुद्धिः।
बहुशत्रुपुत्रभृत्यो याम्ये प्रियमांसमद्यश्च।। इति।।१।।
अथ कृत्तिकारोहिण्योर्जातस्य स्वरूपमाह—
बहुभुक् परदाररतस्तेजस्वी कृत्तिकासु विख्यातः।
रोहिण्यां सत्यशुचिः प्रियंवदः स्थिरः स्वरूपश्च ॥२॥
कृत्तिका नक्षत्र में उत्पन्न जातक बहुत भोजन करने वाला, दूसरों की स्त्रियों के
साथ रमण करने वाला, तेजस्वी ( किसी का नहीं सहने वाला ) और विख्यात होता
है। रोहिणी नक्षत्र में उत्पन्न जातक सत्य बोलने वाला, पवित्र, प्रिय बोलने वाला, स्थिर
बुद्धि वाला और सुन्दर रूप वाला होता है।।२।।
बहुभुक्, यः प्रभूतं भुङ्क्ते। परदाररतः परस्त्रीषु रतः। तेजस्वी सहिष्णुः। विख्यातः
कीर्तियुक्तः। एवंविधः कृत्तिकासु जातो भवति। तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५५६ बृहत्संहिता
धर्ममतिर्बहुवित् स्वाध्यायाभिजनरूपसम्पन्नः।
अकृपणमतिः शशियुते जातः स्यादग्निदैवत्ये।।
रोहिण्यामिति । सत्यः सत्यवाक्। शुचिः शास्त्रोक्तशौचानुष्ठानपरो धनाद्यलुब्धश्च।
प्रियंवदोऽभिमतवक्ता। स्थिर एकमतिः। स्वरूपः शोभनाकृतिः। एवंविधो रोहिण्यां जातो
भवति। तथा च पराशरः—
सुतधनपशुमान् विद्वान् दाता धीरोऽल्पवाक् स्थिरमतिश्च।
वृषभगतिस्तेजस्वी प्राजापत्ये नरो जातः।। इति।।२।।
चपलश्चतुरो भीरुः पटुरुत्साही धनी मृगे भोगी ।
शठगर्वितचण्डकृतघ्नहिंस्रपापश्च रौद्रर्क्षे ॥३॥
मृगशिरा में उत्पन्न जातक चञ्चल, चतुर, भय से पीड़ित, पटु, उत्साही, धनी और
भोगी होता है। आर्द्रा नक्षत्र में उत्पन्न जातक शठ ( परोपकार से रहित ), अभिमानी,
दूसरे के कृत्यों का नाश करने वाला, जन्तुओं का वध करने वाला और पापी होता
है।।३।।
चपलोऽनेकमतिः। चतुरो दक्षः। भीरुर्भयार्तः। पटुः प्रवक्ता। उत्साही सोद्यमः। धनी
धनवान्। भोगी भोगसंयुक्तः। एवंविधो मृगशिरसि जातो भवति। तथा च पराशरः—
अतिशीलरूपदृष्टः सौम्यमतिः सोद्यमः श्रुतिरहस्यः।
चपलमत्तिः सुविनीतो जातः स्यादिन्दुदैवत्ये।।
शठगर्वितैतेति । शठः परकार्यविमुखः। गर्वितो मानी। चण्डः प्रकोपनः। कृतघ्नो
निरुपकारशीलः। हिंस्रः क्रूरः। पापः पापसमेतः। एवंविधो रौद्रर्क्षे आर्द्रायां जातो भवति।
तथा च पराशरः—
रौद्रः क्रूरः क्रोधी परदारार्थापहारशीलश्च।
वाग् निष्ठुरोऽतिधीरो जातः स्याद् रुद्रदैवत्ये।। इति।।३।।
अथ पुनर्वसुजातस्य स्वरूपमाह—
दान्तः सुखी सुशीलो दुर्मेधा रोगभाक् पिपासुश्च ।
अल्पेन च सन्तुष्टः पुनर्वसौ जायते मनुजः ॥४॥
पुनर्वसु नक्षत्र में उत्पन्न जातक इन्द्रियों को वश में रखने वाला, सुखी, सुन्दर
स्वभाव वाला, दुर्बुद्धि, रोगी, तृष्णा से युत और थोड़े ही से प्रसन्न होने वाला होता
है।।४।।
दान्तो दमसंयुक्तो जितेन्द्रियः। सुखी सुखितः। सुशीलः शोभनचरित्रः। दुर्मेधा
दुष्टमतिः। रोगभाग् रोगपीडितः। पिपासुस्तृषार्तः। अल्पेन स्तोकमात्रेण सन्तुष्टो हृष्टः।
एवंविधो मनुष्यः पुनर्वसौ जायत उत्पद्यते। तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
नक्षत्रजातकाध्यायः ५५७
क्षयवृद्धिभावनायां यशांसि विदिशो भवन्ति कृच्छ्राणि।
व्याधिबहुलो बहुसुतः पुनर्वसौ जायते मनुजः॥ इति॥४॥
अथ तिष्याश्लेषयोर्जातस्य स्वरूपमाह—
शान्तात्मा सुभगः पण्डितो धनी धर्मसंश्रितः पुष्ये।
शठसर्वभक्ष्यपापः कृतघ्नधूर्तश्च भौजङ्गे ॥५॥
पुष्य नक्षत्र में उत्पन्न जातक शान्त प्रकृति वाला, सबों का प्रिय, पण्डित, धनी और
धर्म से युत होता है। आश्लेषा में उत्पन्न जातक शठ, खाद्य और अखाद्य सबों को खाने
वाला, पापी, अन्य के कृत्यों को नाश करने वाला एवं धूर्त होता है॥५॥
शान्तात्मा जितेन्द्रियः। सुभगः सर्वजनप्रियः। पण्डितः शास्त्रवित्। धनी वित्तवान्।
धर्मसंश्रितो धार्मिकः। एवंविधः पुष्ये जातो भवति। तथा च पराशरः—
द्युतिकान्तिसत्त्वयुक्तो बहुश्रुतो दारदासधनचेष्टः।
विपुलकुलवंशकर्ता व
५५८ बृहत्संहिता
बहुभाग्योऽल्पापत्यः सुभगः प्रियदर्शनो नरोऽल्पधनः।
नातिप्रबुद्धबुद्धिः परभाग्यविभुर्भवति भाग्ये।। इति।।६।।
अथोत्तरफल्गुनीहस्तयोर्जातस्य स्वरूपमाह—
सुभगो विद्याप्तधनो भोगी सुखभाग् द्वितीयफल्गुन्याम्।
उत्साही धृष्टः पानपोऽघृणी तस्करो हस्ते ॥७॥
उत्तरफाल्गुनी नक्षत्र में उत्पन्न जातक सबों का प्रिय, विद्या से धनोपार्जन करने
वाला, भोगी और सुखी होता है। हस्त नक्षत्र में उत्पन्न जातक उत्साही, प्रतिभा से युक्त,
निर्लज्ज, मद्यपान करने वाला, अघृणी (निर्दयी) और तस्कर (चोर) होता है।।४।।
सुभगः सर्वजनप्रियः। विद्याप्तधनो विद्यायाऽऽप्तं धनं वित्तं येन। भोगी भोगवान्।
सुखभाक् सुखी। एवंविधो द्वितीयफल्गुन्यामुत्तरफल्गुन्यां जातो भवति। तथा च पराशरः—
हयगजरथप्रयायी दाता भोक्ता विहाररतिशीलः।
मृदुवाग्गीतरतिः स्यादार्यम्णे मानवो विद्वान्।।
उत्साही धृष्ट इति। उत्साही सोद्यमः। धृष्टः प्रगल्भः। पानपः पानसक्तः। अघृणी
निर्दयः। तस्करश्चौरः। एवंविधो हस्ते जातो भवति। तथा च पराशरः—
उपचितकरचरणभुजो बहुविधधनधान्यताग्रणीः सेर्ष्यः।
धर्मार्थकामभागी हस्ते सुतवान् नरो जातः।। इति।।७।।
अथ चित्रास्वात्योर्जातस्य स्वरूपमाह—
चित्राम्बरमाल्यधरः सुलोचनाङ्गश्च चित्रायाम्।
दान्तो वणिक् तृषालुः प्रियवाग्धर्माश्रितः स्वातौ ॥८॥
चित्रा नक्षत्र में उत्पन्न जातक अनेक रंग के वस्त्र और माला को धारण करने वाला,
सुन्दर नेत्र और सुन्दर शरीर वाला होता है। स्वाती नक्षत्र में उत्पन्न जातक इन्द्रियों को
वश में रखने वाला, व्यापार करने वाला, दयालु, प्रिय बोलने वाला और धर्म के
आश्रय में रहने वाला होता है।।८।।
चित्राणि नानाप्रकाराणि अम्बराणि वस्त्राणि माल्यानि च धारयति। सुलोचनाङ्गः
शुभे लोचने अक्षिणी अङ्गान्यवयवानि च यस्य। एवंविधश्चित्रायां जातो भवति। तथा च
पराशरः—
वेदार्थशास्त्रकुशलः पशुमानत्यन्तशिल्पकर्मा च।
चित्राक्षश्चित्रायां सुभगश्च नरस्त्रिपुत्रश्च।।
दान्तो वणिगिति। दान्तो जितेन्द्रियः। वणिक् क्रयविक्रयकुशलः। तृषालुस्तृषार्तस्तृषां
न सहते। अन्ये कृपालुर्दयालुरितीच्छन्ति। प्रियवागभिमतवक्ता। धर्माश्रितो धर्मपरः।
एवंविधः स्वातौ जातो भवति। तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
नक्षत्रजातकाध्यायः ५५९
बहुजनभर्ता वक्ता त्रिवर्गभोक्ता प्रियो महोत्साहः ।
वामाचारोऽल्परिपुः स्वातौ जातः कुलाग्र्यश्च ।। इति ।। ८ ।।
अथ विशाखानुराधयोर्जातस्य स्वरूपमाह—
ईर्षुर्लुब्धो द्युतिमान् वचनपटुः कलहकृद्विशाखासु ।
आढ्यो विदेशवासी क्षुधालुरटनोऽनुराधासु ॥ ९॥
विशाखा नक्षत्र में उत्पन्न जातक दूसरे की उन्नति में मत्सर, कान्तिमान, बोलने में
चतुर और झगड़ालू होता है। अनुराधा नक्षत्र में उत्पन्न जातक धनवान, परदेश में रहने
वाला, अधिक क्षुधा से पीड़ित और भ्रमण करने वाला होता है।। ९ ।।
ईर्षुः परद्विट् मत्सरः। लब्धो लोभाभिभूतः। द्युतिमान् कान्तियुक्तः। वचनपटुः सम्भाषण-
दक्षः। कलहकृत् कलहशीलः। एवंविधो विशाखासु जातो भवति। तथा च पराशरः—
श्रीमानीज्याभिरतः प्राज्ञोऽनुपसाधुकृत् कृतार्थपतिः।
तीक्ष्णोऽभिमानयुक्तश्चैन्द्राग्नौ ख्यातकीर्तिश्च ।।
आढ्य इति । आढ्य ईश्वरः। विदेशवासी परदेशनिवसनशीलः। क्षुधालुः क्षुधां
बुभुक्षां न सहते। अटनः परिभ्रमणशीलः। एवंविधोऽनुराधासु जातो भवति। तथा च पराशरः—
स्थिरमित्रस्तेजस्वी सुतवानत्यन्तसौख्यभागी च।
ज्ञातिष्वग्र्योऽर्थपरो जातः स्याद् मित्रदैवत्ये।। इति ।। ९ ।।
अथ ज्येष्ठामूलयोर्जातस्य स्वरूपमाह—
ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुरकोपः ।
मूले मानी धनवान् सुखी न हिंस्रः स्थिरो भोगी ॥ १० ॥
ज्येष्ठा नक्षत्र में उत्पन्न जातक अधिक मित्रों से रहित, सन्तुष्ट, धर्म करने वाला और
अधिक क्रोध करने वाला होता है। मूल नक्षत्र में उत्पन्न जातक मानी, धनवान, सुखी,
हिंसा कर्म से रहित, स्थिर बुद्धि वाला और भोगी होता है।। १० ।।
न बहुमित्रः स्वल्पसुहृत्। सन्तुष्टः सन्तोषशीलः। धर्मकृद्धर्मानुरतः। प्रचुरकोपः
क्रोधशीलः। एवंविधो ज्येष्ठासु जातो भवति। तथा च पराशरः—
ज्ञातिषु गुणेषु राजसु पूजां प्राप्नोति नाशयति शत्रून्।
तेजोऽधिकोऽर्थभागी जातः स्यादिन्द्रदैवत्ये।।
मूले मानी धनवानिति । मानी गर्वितः। धनवान् वित्तवान्। सुखी सुखितः। न
हिंस्रोऽक्रूरः। स्थिर एकमतिः। भोगी भोगवान्। एवंविधो मूले जातो भवति। तथा च पराशरः—
धनधान्याढ्यो दाता परवित्तहरो नरः कलहशीलः।
क्रूरः परोपतापी मूले मूलोपजीवी च।। इति ।। १० ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५६० बृहत्संहिता
अथ पूर्वाषाढोत्तराषाढयोर्जातस्य स्वरूपमाह—
इष्टानन्दकलत्रो वीरो दृढसौहृदश्च जलदेवे।
वैश्वे विनीतधार्मिकबहुमित्रकृतज्ञसुभगश्च ॥११॥
पूर्वाषाढ़ा नक्षत्र में उत्पन्न जातक अपने अभीष्ट आनन्द देने वाली स्त्री से युत,
अभिमानी और अच्छे मित्रों से युत होता है। उत्तराषाढ़ा नक्षत्र में उत्पन्न जातक विशेष
नम्र स्वभाव वाला, धार्मिक, बहुत मित्रों से युत, दूसरे से किये गये उपकार को मानने
वाला और सबका प्रिय होता है॥११॥
इष्टं वल्लभं सानन्दं कलत्रं भार्या यस्य। वीरः सङ्ग्रामशूरः। केचिद् मानी गर्वीती-
च्छन्ति। दृढसौहृदः स्थिरमित्रः। एवंविधो जलदेवे पूर्वाषाढायां जातो भवति। तथा च
पराशरः—
सलिलपथकर्मसिद्धः क्लेशसहिष्णुः परस्य दारेच्छुः।
नित्यमकल्पशरीरः प्रियमद्यः पूर्वाषाढासु॥
वैश्वे विनीत इति। विनीतो विनयोपेतः। धार्मिको धर्मपरः। बहुमित्रः प्रभूतसुहृत्।
कृतज्ञः प्रत्युपकारनिरतः। सुभगः सर्वजनप्रियः। एवंविधो वैश्वे उत्तराषाढायां जातो
भवति। तथा च पराशरः—
यानोद्यानवनरतिः प्रवाससुरतीर्थसाधुसेवी च।
बहुशिल्पार्थः प्रियवाग् जातः स्याद् वैश्वदेवे च॥
अथ श्रवणधनिष्ठयोर्जातस्य स्वरूपमाह—
श्रीमान् श्रवणे श्रुतवानुदारदारो धनान्वितः ख्यातः।
दाताऽऽढ्यशूरगीतप्रियो धनिष्ठासु धनलुब्धः ॥१२॥
श्रवण नक्षत्र में उत्पन्न जातक श्रीमान्, पण्डित, उदार, स्त्री से युत, धनी और विख्यात
होता है। धनिष्ठा नक्षत्र में उत्पन्न जातक दानी, धनी, गीत-वाद्यादि का प्रेमी और लोभी
होता है॥१२॥
श्रीमानीश्वरः। श्रुतवाक् पण्डितः। उदारदार उदारेषु दारः। अथवोदारा दारा यस्य।
उदारा दातारः। धनान्वितो धनसंयुक्तः। ख्यातः कीर्तियुक्तः। एवंविधो श्रवणे जातो
भवति। तथा च पराशरः—
ज्ञातिश्रेष्ठो धनवान् दानरुचिर्भवति दक्षिणो दक्षः।
नित्यमरोगशरीरः श्रवणे हतशत्रुपक्षश्च॥
दाताऽऽढ्यशूरेति। दाता दानशीलः। आढ्य ईश्वरः। शूरः सङ्ग्रामप्रियः। गीतप्रियो
स्वरगीतरतिः। धनलुब्धो वित्तलोभाभिभूतः। एवंविधो धनिष्ठासु जातो भवति। तथा च
पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
नक्षत्रजातकाध्यायः ५६१
धनधान्यसञ्चयानामीशः स्यान्नृपतिसत्कृतो यज्वा।
अक्लेशभाग् जितरिपुः श्रविष्ठायाभीष्टतारश्च।। इति।।१२।।
अथ शतभिषक्पूर्वभद्रपदयोर्जातस्य स्वरूपमाह—
स्फुटवाग्व्यसनी रिपुहा साहसिकः शतभिषक्सु दुर्ग्राह्यः ।
भद्रपदासूद्विग्नः स्त्रीजितधनपटुरदाता च ॥१३॥
शतभिषा नक्षत्र में उत्पन्न जातक स्पष्ट बोलने वाला, अनेक व्यसन में आसक्त,
शत्रुओं का नाश करने वाला, साहसी और कष्ट से किसी के वश में आने वाला होता है।
पूर्वभाद्र में उत्पन्न जातक दुःखित चित्त वाला, स्त्री के वश में रहने वाला, धनी, पण्डित
और कृपण होता है।।१३।।
स्फुटवाग् निष्ठुरभाषी। व्यसनी भूषणादिव्यसनोपेतः। रिपुहा शत्रुहर्ता। साहसिकः
असमीक्षितवीर्यवान्। दुर्ग्राह्यो दुराराध्यः। एवंविधः शतभिषक्सु जातो भवति। तथा च
पराशरः—
परदारमद्यसेवी क्लेशसहो वारुणे नरो धीरः।
स्थिरसञ्चयः स्थिरसुहृद्विषक्रियापण्डितो रोगी।।
भद्रपदास्विति। उद्विग्नः दुःखितः। स्त्रीजितधनः स्त्रिया जितं धनं यस्य स्त्रीभिर्वा।
पटुः प्रवक्ता। अदाता च लुब्धः। एवंविधो भद्रपदास जातो भवति। तथा च पराशरः—
दारुणकर्मा क्रोधी निशाचरस्तीक्ष्णविक्रमश्चपलः।
विषमः प्रसह्य हन्ता प्राक्प्रौष्ठपदे भवति जातः।। इति।।१३।।
अथोत्तरभद्रपदारेवत्योर्जातस्य स्वरूपमाह—
वक्ता सुखी प्रजावान् जितशत्रुर्धार्मिको द्वितीयासु ।
सम्पूर्णाङ्गः सुभगः शूरः शुचिरर्थवान् पौष्णे ॥१४॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां नक्षत्रजातकं
नामैकशततमोऽध्यायः ॥१०१॥
उत्तरभाद्रपदा में उत्पन्न जातक वक्ता, सुखी, सन्तति से युक्त, शत्रुओं को जीतने
वाला और धर्माचरण करने वाला होता है। रेवती नक्षत्र में उत्पन्न जातक सम्पूर्ण अंगों से
युक्त, सबका प्रिय, पवित्र और धनवान होता है।
विशेष—अश्विनी नक्षत्र के प्रथम चरण में जन्म हो तो चोर, द्वितीय में थोड़ा काम
करने वाला, तृतीय में सबका प्रिय और चतुर्थ में जन्म हो तो दीर्घायु होता है। भरणी के
प्रथम चरण में जन्म हो तो त्यागी, द्वितीय में भोगी, तृतीय में पाप कर्म करने वाला और
चतुर्थ चरण में जन्म हो तो दरिद्र होता है। कृत्तिका नक्षत्र के प्रथम चरण में जन्म हो तो
बृ० भ० द्वि०-३६
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५६२ बृहत्संहिता
तेजस्वी, द्वितीय में शास्त्र का ज्ञाता, तृतीय में शूर और चतुर्थ में सन्तानयुक्त होता है।
रोहिणी नक्षत्र के प्रथम चरण में जन्म हो तो सौभाग्य से युक्त, द्वितीय में पीड़ायुक्त,
तृतीय में भययुक्त और चतुर्थ में सत्यवक्ता होता है। मृगशिरा नक्षत्र के प्रथम चरण में
जन्म हो तो राजा, द्वितीय में चोर, तृतीय में भोगी और चतुर्थ में जन्म हो तो अन्न-धन
से युक्त होता है। आर्द्रा नक्षत्र में प्रथम चरण में जन्म हो तो व्यय करने वाला, द्वितीय
में दरिद्र, तृतीय में अल्पायु और चतुर्थ चरण में जन्म हो तो चोर होता है। पुनर्वसु नक्षत्र
के प्रथम चरण में जन्म हो तो सुखी, द्वितीय में विद्वान्, तृतीय में रोगी और चतुर्थ चरण
में जन्म हो तो मिथ्यावादी होता है। पुष्य नक्षत्र के प्रथम चरण में जन्म हो तो दीर्घायु,
द्वितीय में चोर, तृतीय में भोगी और चतुर्थ में जन्म हो तो धनी होता है। आश्लेषा के
प्रथम चरण में जन्म हो तो सन्तान से रहित, द्वितीय में भृत्यकर्म करने वाला, तृतीय में
रोगी और चतुर्थ में जन्म हो तो अभागा होता है। मघा के प्रथम चरण में जन्म हो तो पुत्र
से रहित, द्वितीय में पुत्र से युत, तृतीय में रोगी और चतुर्थ चरण में जन्म हो तो पण्डित
होता है। पूर्वफाल्गुनी नक्षत्र के प्रथम चरण में जन्म हो तो समर्थ, द्वितीय में धार्मिक,
तृतीय में राजा या राजतुल्य और चतुर्थ चरण में जन्म हो तो अल्पायु होता है। उत्तर-
फाल्गुनी के प्रथम चरण में जन्म हो तो पण्डित, द्वितीय में राजा, तृतीय में विजयी और
चतुर्थ चरण में जन्म हो तो धर्मात्मा होता है। हस्त नक्षत्र के प्रथम चरण में जन्म हो तो
शूर, द्वितीय में वक्ता, तृतीय में रोगी और चतुर्थ चरण में जन्म हो तो श्रीमान् होता है।
चित्रा के प्रथम चरण में जन्म हो तो चोर, द्वितीय में चित्र बनाने वाला, तृतीय में परस्त्री
के साथ गमन करने वाला और चतुर्थ में जन्म हो तो पाँव में पीड़ा से युक्त होता है।
स्वाती नक्षत्र के प्रथम चरण में जन्म हो तो चोर, द्वितीय में अल्पायु, तृतीय में धर्मात्मा
और चतुर्थ में जन्म हो तो राजा या राजतुल्य होता है। विशाखा नक्षत्र के प्रथम चरण में
जन्म हो तो नीति को जानने वाला, द्वितीय में शास्त्र को जानने वाला, तृतीय में बोलने
वाला और चतुर्थ में जन्म हो तो दीर्घायु होता है। मूल नक्षत्र के प्रथम चरण में जन्म हो
तो भोगी, द्वितीय में त्याग करने वाला, तृतीय में अच्छे मित्र वाला हौर चतुर्थ जन्म हो
तो राजा या राजतुल्य होता है। पूर्वाषाढ़ा नक्षत्र के प्रथम चरण में जन्म हो तो श्रेष्ठ
विचार वाला, द्वितीय में राजा या राजतुल्य, तृतीय में सबों का प्रिय और चतुर्थ चरण में
जन्म हो तो बाजा बजाने वाला होता है। उत्तराषाढ़ा नक्षत्र के प्रथम चरण में जन्म हो तो
राजा या राजतुल्य, द्वितीय में खराब मित्र वाला, तृतीय में अभिमानी और चतुर्थ में जन्म
हो तो धर्मात्मा होता है। श्रवण नक्षत्र के सब चरणों का फल शुभ है। पूर्वभाद्रपदा
नक्षत्र के प्रथम चरण में जन्म हो तो शूर, द्वितीय में चोर, तृतीय में सन्मति वाला और
चतुर्थ में जन्म हो तो भोगी होता है। उत्तरभाद्रपदा नक्षत्र के प्रथम चरण में जन्म हो तो
राजा या राजतुल्य, द्वितीय में चोर, तृतीय में पुत्रवान एवं चतुर्थ में जन्म हो तो दुःख से
रहित होता है। रेवती नक्षत्र के प्रथम चरण में जन्म हो तो ज्ञानी, द्वितीय में चोर, तृतीय
में विजयी और चतुर्थ में जन्म हो तो युद्धस्थान में कष्ट पाने वाला होता है। जिस ग्रन्थ
नक्षत्रजातकाध्यायः ५६३
से उद्धृत कर यहाँ मैंने जो उपर्युक्त प्रमाण लिखा है उसमें धनिष्ठा, अनुराधा, ज्येष्ठा और
शतभिषा-इन चार नक्षत्रों का फल नहीं कहा गया है; अतः मैंने भी उनका फल नहीं
लिखा है।।१४।।
इति 'विमला' हिन्दीटीकायां नक्षत्रजातकाध्याय एकोत्तरशततमः ॥१०१॥
वक्ता सम्भाषणदक्षः। सुखी सुखभाक्। प्रजावान् पुत्रपौत्रदौहित्रसंयुक्तः। जितशत्रुर्जिताः
शत्रवो रिपवो येन। धार्मिका धर्मरतः। एवंविधो द्वितीयासूत्तरासु जातो भवति। तथा च
पराशरः—
नृपसत्कृता बहुसुतः प्रदानशीला जले सततभीरुः।
ईज्याध्ययनरतिः स्यादाहिर्बुध्न्ये नरो जातः।।
सम्पूर्णाङ्ग इति सम्पूर्णाङ्गोऽविकलावयवः। सुभगः सौभाग्ययुतः। शूरः सङ्ग्रामप्रियः।
शुचिः शौचयुक्तः परस्वाद्यलुब्धः। अर्थवान् धनोपेतः। एवंविधः पौष्णे रेवत्यां जातो
भवति। तथा च पराशरः—
सर्वार्थभुक् प्रदाता प्रवासनिरतो विशुद्धकुलशीलः।
गोमाननल्पपुत्रः पौष्णे विद्वान् नरो जातः।। इति।।१४।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ नक्षत्रजातकं
नामैकशततमोऽध्यायः ॥१०१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ राशिविभागाध्यायः
अथ राशिविभागो व्याख्यायते। तत्रादावेव मेषवृषयोर्नक्षत्रजातप्रविभागमाह--
अश्विन्योऽथ भरण्यो बहुलापादश्च कीर्त्यते मेषः।
वृषभो बहुलाशेषं रोहिण्योऽर्धं च मृगशिरसः ॥१॥
अश्विनी का चार पाद, भरणी का चार पाद और कृत्तिका का आद्य पाद मेष राशि
का तथा कृत्तिका का शेष तीन पाद, रोहिणी का चार पाद और मृगशिरा का प्रथम दो
पाद वृष राशि होता है॥१॥
अश्विन्यः सकलाः पादचतुष्टयम्। अथशब्दश्चार्थे। भरण्यः सकला एव पादचतुष्टयम्।
बहुला कृत्तिका। तस्याश्चतुर्थमंशम्। एष मेष इति मेषराशिः कीर्त्यते कथ्यते। अत्र नक्षत्रं
चतुष्पादम्। पादमृक्षद्वयं राशिर्भवति। एवं नक्षत्रे नवपादाः प्रत्येकस्य राशेः प्रमाणम्।
उक्तं च—
मेषाश्विप्रथमा नवर्क्षचरणाश्चक्रस्थिता राशयः। इति।
बहुलाशेषं कृत्तिकापादत्रयम्। रोहिणी सकला। अर्धं च मृगशिरसो मृगशिरसः पादद्वयं
वृषभो राशिः कीर्त्यते॥१॥
अथ मिथुनकर्कटयोर्नक्षत्रविभागमाह—
मृगशिरसोऽर्धं रौद्रं पुनर्वसोरंशकत्रयं मिथुनः।
पादश्च पुनर्वसुतस्तिष्यः श्लेषा च कर्कटकः ॥२॥
मृगशिरा का शेष दो पाद, आर्द्रा का चार पाद और पुनर्वसु का प्रथम तीन पाद
मिथुन राशि का तथा पुनर्वसु का शेष एक पाद, पुष्य का चार पाद और अश्लेषा का
चार पाद कर्कट राशि का होता है॥२॥
मृगशिरसोऽर्धं पादद्वयम्। रौद्रमार्द्रा सकला। पुनर्वसोरंशकत्रयम्। एष मिथुनराशिः।
पादश्चेति। पुनर्वसुतः पुनर्वसोः पादः तिष्यः सकलः। श्लेषा च सकला। एष कर्कट-
राशिः॥२॥
सिंहकन्ययोर्नक्षत्रविभागमाह—
सिंहोऽथ मघा पूर्वा च फल्गुनीपाद उत्तरायाश्च।
तत्परिशेषं हस्तश्चित्राद्यर्धं च कन्याख्यः ॥३॥
मघा का चार पाद, पूर्वफाल्गुनी का चार पाद और उत्तरफाल्गुनी का प्रथम एक
पाद सिंह राशि का तथा उत्तरफाल्गुनी का शेष तीन पाद, हस्त का चार पाद और चित्रा
का आद्य दो पाद कन्या राशि का होता है॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
राशिविभागाध्यायः ५६५
मघा सकला। पूर्वा च फल्गुनी सकला। उत्तरायाश्च पादः। इति सिंहः। तत्परिशेष-
मिति। तदित्युत्तरायाः परामर्शः। तत्परिशेषमुत्तरापादत्रयम्। हस्तः सकलः। चित्राया अर्धं
प्रथमं पादद्वयम्। इति कन्याराशिः।।३।।
अथ तुलावृश्चिकयोर्नक्षत्रविभागमाह—
तौलिनी चित्रान्त्यर्धं स्वातिः पादत्रयं विशाखायाः।
अलिनी विशाखापादस्तथानुराधान्विता ज्येष्ठा।।४।।
चित्रा का शेष दो पाद, स्वाति का चार पाद और विशाखा का आद्य तीन पाद तुला
राशि का तथा विशाखा का शेष एक पाद, अनुराधा का चार पाद और ज्येष्ठा का चार
पाद वृश्चिक राशि का होता है।।४।।
चित्राया अन्त्यमर्धं पश्चिमं पादद्वयम्। स्वातिः सकला। विशाखायाः पादत्रयम्। एतत्तौ-
लिनि तुले स्थितम्। विशाखायाः पश्चिमः पादः। अनुराधा सकला। तथा तयान्विता संयुक्ता
ज्येष्ठा सकलैव। एतदलिनि वृश्चिके।।४।।
अथ धन्विमकरयोर्नक्षत्रविभागमाह—
मूलमषाढा पूर्वा प्रथमश्चाप्युत्तरांशको धन्वी।
मकरस्तत्परिशेषं श्रवणः पूर्वं धनिष्ठार्धम् ।।५।।
मूल का चार पाद, पूर्वाषाढ़ा का चार पाद और उत्तराषाढ़ा का प्रथम एक पाद धनु
राशि का तथा उत्तराषाढ़ा का शेष तीन पाद, श्रवण का चार पाद और धनिष्ठा का प्रथम
दो पाद मकर राशि का होता है।।५।।
मूलं सकलम्। आषाढा पूर्वा सकलैव। उत्तरांशकः प्रथम आद्यपादः। एष धन्वी।
मकरस्तत्परिशेषमिति। तदित्युत्तरायाः परामर्शः। तत्परिशेषमुत्तरापादत्रयमन्त्यम्। श्रवणः
सकलः। पूर्वं धनिष्ठार्धम्। धनिष्ठाया आद्यं पादद्वयम्। एष मकरः।।५।।
अथ कुम्भमीनयोर्नक्षत्रविभागमाह—
कुम्भोऽन्त्यधनिष्ठार्धं शतभिषगंशत्रयं च पूर्व्याः।
भद्रपदायाः शेषं तथोत्तरा रेवती च झषः।।६।।
धनिष्ठा का शेष दो पाद, शतभिषा का चार पाद और पूर्वाभाद्रपदा का प्रथम तीन
पाद कुम्भ राशि का तथा पूर्वाभाद्रपदा का शेष एक पाद, उत्तरभाद्रपदा का चार पाद
और रेवती का चार पाद मीन राशि का होता है।।६।।
धनिष्ठायामन्त्यमर्धं पश्चिमं पादद्वयम्। शतभिषक् सकला। पूर्व्या अंशत्रयमाद्यं
पादत्रयम्। एष कुम्भः। भद्रपदायाः शेषमिति। भद्रपदायाः पूर्वभद्रपदायाः शेषमेकमंशम्।
तथोत्तरा सकला। रेवती च सकलैव। एष झषो मीन इति।।६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA