बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 581, कुल 760 में से
संदर्भ में पढ़ेंकरणगुणाध्यायः ५५३
एकः पापश्चन्द्राद् द्वितीयेऽन्यो द्वादशे यदि भवति तदा स पापयोर्मध्यगतो भवति।
त्यक्त्वा च व्यतिपातवैधृतिदिनमिति। यस्मिन् दिने व्यतिपातो भवति। तद् व्यतिपात-
दिनम्। यस्मिन् दिने वैधृतिर्भवति तद्वैधृतिदिनम्। एवं व्यतिपातवैधृतिदिनं त्यक्त्वा
विहाय। उक्तं च—
न वैधृतिदिने कुर्याद्व्यतीपातयुतेऽहनि।
विष्टिं करणं रिक्तां च तिथिं चतुर्थी नवमीं चतुर्दशीं च त्यक्त्वा विहाय। उक्तं च—
रिक्तासु च न कर्तव्यं न विष्टिदिवसे तथा।
क्रूराहायनेति। क्रूरस्याहः क्रूराहः पापग्रहवासरः। तस्मिन् पापदिने न कर्तव्यम्।
अर्थादिवं शुभग्रहदिने कर्तव्यम्। उक्तं च—
आग्नेयग्रहवासरेषु कलहः प्रीतिस्तु सत्सूतमा।
केचित् स्थैर्यमुशन्ति सौरदिवसं चन्द्रे ससापत्न्यकम्।। इति।
क्रूरमयनं दक्षिणायनम्। तत्र न कार्यम्। उत्तरायणेऽर्थादेव कार्यम्। उक्तं च—
उत्तरां भजमानेन काष्ठां वै सप्तसप्तिना।
चतुर्णामपि वर्णानां विवाहः श्रेष्ठ उच्यते।।
पौषचैत्रविरह इति। पौषमासं चैत्रं च वर्जयित्वा पौषचैत्रयोर्न कार्यः। नन्वत्र पौषो
दक्षिणायने भवति; दक्षिणायननिषेधात् पौषस्यापि निषेधं प्राप्नोति। तत्किमर्थमुक्तं पौषविरह
इति। अथोच्यते, अयमभिप्राय आचार्यस्य। यथा दक्षिणायनेऽपि कार्तिकमार्गशीर्षयोः कर्तव्यः।
उत्तरायणे सिद्धेऽपि विवाहविधौ चैत्रो न कार्यः। तथा च—
माघफाल्गुनवैशाखा ऐन्द्रसौम्यनिलास्तथा।
षडेते पूजिता मासाश्चातुर्वर्ण्येऽपि नित्यशः।।
एषूढा सुभगा साध्वी पुत्रिणी धर्मवत्सला।
धनिनी देवभक्ता च यथासङ्ख्यं प्रकीर्तिता।।
आषाढचैत्रपौषाश्च नभस्यः श्रावणस्तथा।
कुत्सिताः सर्ववर्णानां विवाहेषु मनीषिभिः।।
आषाढे नष्टशौचा तु खला सन्तानवर्जिता।
वैशाखे सर्वसामान्या चैत्रे चातृप्तमैथुना।।
पौषे भर्तृविहीना स्यान्नभस्येऽपि च दुर्भगा।
एवमाश्वयुजोढा तु श्रावणे तु मृतप्रजा।।
लग्नांशके मानुषे। द्विपदाख्ये मिथुनकन्यातुलानामन्यतमे कार्यः। अनेनैतत् प्रतिपादितं
भवति—यथा सर्व एव राशयो द्विपदनवांशकोदयगताः पाणिग्रहणे शस्ताः। तस्मिंश्च
मानुषांशके स्वामिदृष्टे। उक्तं च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA