सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

५०२ बृहत्संहिता
स्युर्भवेयुः। तद्यथा—अ आ इ ई उ ऊ ए ऐ ओ औ अं अः रवेः। क ख ग घ ङ
भौमस्य। च छ ज झ ञ शुक्रस्य। ट ठ ड ढ ण बुधस्य। त थ द ध न गुरोः। प फ
ब भ म सौरस्य। य र ल व श ष स ह चन्द्रस्य।।३।।
अथ राशिवशेन द्रेष्काणवशेन च नामाक्षरसंख्याज्ञानमाह—
द्रेष्काणवृद्ध्या प्रवदन्ति नाम त्रिपञ्चसप्ताक्षरमोजराशौ ।
युग्मे तु विन्द्याद् द्विचतुष्कषट्कं नामाक्षराणि ग्रहदृष्टिवृद्ध्या ॥४॥
द्रेष्काण की वृद्धि से नाम कहते हैं; जैसे—विषम राशि के प्रथम द्रेष्काण में तीन
अक्षरों का, द्वितीय द्रेष्काण में पाँच अक्षरों का और तृतीय द्रेष्काण में सात अक्षरों का
नाम जानना चाहिये। साथ ही सम राशि के प्रथम द्रेष्काण में दो अक्षरों का, द्वितीय
द्रेष्काण में चार अक्षरों का और तृतीय द्रेष्काण में छः अक्षरों का नाम जानना चाहिये।
ग्रहदृष्टि की वृद्धि से नामाक्षर होते हैं। यहाँ पर दो प्रकार से नामाक्षर लाते हैं, प्रथम—
स्थितिवश और द्वितीय—दृष्टिवश। दृष्टिवश नामाक्षर लाने में दृष्टिबल का विचार करना
चाहिये।।४।।
द्रेष्काणो राशित्रिभागः। तस्य वृद्ध्या वर्धनेनौजराशौ विषमर्क्षे त्रिपञ्चसप्ताक्षरं नाम।
प्रथमे त्र्यक्षरम्, द्वितीये पञ्चाक्षरम्, तृतीये सप्ताक्षरमिति। युग्मे समराशौ लग्नगते प्रथमे
द्रेष्काणे द्व्यक्षरं नाम विन्द्याज्जानीयात्। द्वितीये चतुष्कं चतुरक्षरम्। तृतीये षट्कं षडक्षरम्।
तानि च नामाक्षराणि नामवर्णा ग्रहदृष्टिवृद्ध्या। यतः केन्द्रस्थराशिभिरक्षराण्यानीयन्ते। केन्द्र-
चतुष्टयस्य प्रस्तुतत्वात् किल योगद्वयेनाक्षिप्तमिदं शास्त्रम्। तत्रैकः स्थितियोगः, द्वितीयो
दृष्टियोगः। स्थितियोगं परिहृत्य दृष्टियोगेनानीयन्ते। दृष्टियोगे तु बलाबलविचारः। उक्तं च—
त्रिदशत्रिकोणचतुरस्रसप्तमान्यवलोकयन्ति चरणाभिवृद्धितः।
रविजामरेज्यरुधिराः परे च ये क्रमशो भवन्ति किल वीक्षणेऽधिकाः।। इति।
एवं ग्रहदर्शनवृद्ध्या नामाक्षराण्यानीयन्ते।।४।।
अथ नवांशकवशेन नामाक्षरसङ्ख्याज्ञानमाह—
वर्गोत्तमे द्व्यक्षरकं चरांशे स्थिरर्क्षभागे चतुरक्षरं तत् ।
ओजेषु चैभ्यो विषमाक्षराणि स्युर्द्विस्वभावेषु तु राशिवच्च ॥५॥
चर राशि में प्रथम नवांश, स्थिर राशि में पञ्चम नवांश और द्विस्वभाव राशि में
नवम नवांश वर्गोत्तम संज्ञक हैं। यदि सम राशियों में चर राशि का वर्गोत्तम नवांश हो तो
दो अक्षरों का, स्थिर राशि का वर्गोत्तम नवांश हो तो चार अक्षरों का, विषम राशियों में
चर राशि का वर्गोत्तम नवांश हो तो तीन अक्षरों का और स्थिर राशि का वर्गोत्तम नवांश
हो तो पाँच अक्षरों का नाम होता है। द्विस्वभाव राशियों में राशि की तरह ही नामाक्षरों
की भी संख्या होती है। जैसे—द्विस्वभाव राशियों में विषम राशि ( मिथुन या धनु )
वर्गोत्तम नवांश हो तो तीन या सात अक्षरों का और सम राशि ( कन्या या मीन ) का
नवांश हो तो चार-छः अक्षरों का नाम होता है।।५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनोत्तराध्यायः ५०३
'वर्गोत्तमाश्चरगृहादिषु पूर्वमध्यपर्यन्तगाः' इति। वर्गोत्तमाख्या नवांशका उक्ताः। अग्रत
ओजशब्दकरणादिह समराशावेव ज्ञायते। समराशौ कर्कटे मकरे वा यदा वर्गोत्तमश्चरांशो
भवति, तदा द्वयक्षरं नाम। स्थिरर्क्षभागे स्थिरराशौ वृषसिंहवृश्चिककुम्भानामन्यतमे यदा
स्थिरांशो वर्गोत्तमो भवति, तदा चतुरक्षरं नाम। ओजेषु विषमराशिषु मेषे तुले वा एभ्यो
वर्गोत्तमांशकेभ्यो विषमाक्षराणि स्युर्भवेयुः। एतदुक्तं भवति-यदा विषमराशौ वर्गोत्तमश्चरांशो
भवति, तदा विषमाक्षराणि त्रीणि नाम्नि भवेयुः। अथ तस्मिन्नेव वर्गोत्तमः स्थिरांशो भवति,
तदा विषमाणि पञ्चाक्षराणि नाम्नि भवेयुः। द्विस्वभावेषु राशिवच्च, द्विस्वभावेषु द्विमूर्तिषु
लग्नेषु राशिवद्राशितुल्यं स्यात्। एतदुक्तं भवति-द्विस्वभावेषु मिथुनधनुषोरन्यतरे यदि
विषमांशको वर्गोत्तमो भवति, तदा त्र्यक्षरं सप्ताक्षरं नामेति। अथ द्विस्वभावेषु समो वर्गोत्-
मांशो भवति कन्यामीनयोरन्यतरस्तदा चतुरक्षरं नाम षडक्षरं नाम। यत उक्तम्-
त्रिपञ्चसप्ताक्षरमोजराशौ युग्मे तु विन्द्याद् द्विचतुष्कषट्कम्।। इति।
वर्गोत्तमांशो यस्मिन् द्रेष्काणभागे स्थितस्तद्वशाद् वाच्यमिति।।५।।
अत्रैव विशेषमाह-
द्विमूर्तिसंज्ञे तु वदेद् द्विनाम सौम्येक्षिते द्विप्रकृतौ च राशौ ।
यावान् गणः स्वोदयगोंऽशकानां तावान् ग्रहः संग्रहकेऽक्षराणाम् ।।६।।
द्विस्वभाव राशि या सौम्य ( बुध ) से दृष्ट द्विस्वभाव राशि में दो नाम कहना चाहिये
तथा लग्नराशि में जितने नवांशों की संख्या व्यतीत हो गई हो, उतनी नामाक्षरों की संख्या
कहनी चाहिये ।।६।।
द्विमूर्तिसंज्ञे द्विस्वभावे राशौ द्विनाम वदेद् ब्रूयात्। द्वे नामनी यस्य। तथा द्विप्रकृतौ
द्विस्वभावराशौ सौम्येक्षिते बुधसन्दृष्टे, चशब्दाद् द्विनाम वदेत्। यत्परिमाणस्य यावान्
अंशकानां नवभागानां गणः समूहः स्वोदयगः प्रश्नसमयेऽतिक्रान्तस्तावनेव गणः समूहो-
ऽक्षराणां वर्णानां संग्रहके नाम्नि भवति।।६।।
अथ संयोगाक्षरमाह-
संयोगमादौ बहुलेषु विन्द्यात् कूटेषु संयोगपरं वदन्ति ।
स्वोच्चांशके द्विष्कृतमृक्षयोगाद् गुर्वक्षरं तद्भवनांशके स्यात् ।।७।।
बहुल ( विषम राशियों ) में नाम के आदि को संयुक्ताक्षर जानना चाहिये। जैसे-
श्रीधर, क्षीर, स्मर आदि। कूट ( सम राशियों ) में नाम के अन्त में संयुक्ताक्षर कहते
हैं। जैसे-पद्म, धर्म, वत्स आदि। अपने उच्चांश में राशि के योग से एक अक्षर दो बार
आता है। यथा-विषम राशि में अपना उच्चांश हो तो प्रथम आदि विषम अक्षर दो बार
आता है। जैसे-दरद, दामोदर आदि। यदि सम राशि में अपना उच्चांश हो तो द्वितीय
आदि सम अक्षर दो बार आता है; जैसे-देवदत्त, धराधर आदि। लग्नस्थित नवांश राशि
में गुरु अक्षर होता है। जैसे-लग्नस्थित नवांश विषम राशि में हो तो नाम का विषम
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५०४ बृहत्संहिता
अक्षर संयुक्त होता है; जैसे—कपित्थ, अश्वत्थ आदि। सम राशि में हो तो सम अक्षर
संयुक्त होता है, जैसे—घग्घ, शुद्ध, शुद्धोदन आदि।।७।।
बहुलेष्वोजेषु विषमराशिषु नाम्नामादौ प्रथममेव संयोगं संयोगाक्षरं विन्द्याज्जानीयात्।
वर्णद्वयसंयोगः संश्लेषः। हलोऽनन्तराः संयोग इति केचित्। बहुभेदाः केचित्। द्विकृताः
केचिद् गुरवः। केचित् संयोगान्तवद् द्विकृताः; यथा—यप्पा, वल्ला, यस्सा, लस्सा।
गुरवो द्वाभ्यां प्रकाराभ्यां भवन्ति। वर्गाक्षरैः स्वतनुना। प्रथमप्रथमैः। तृतीयतृतीयैः। पञ्चम-
पञ्चमैः। प्रथमप्रथमैर्यथा—कक्कः, दत्तः, कुट्टः। तृतीयतृतीयैर्यथा—लल्लः, गग्गः, दद्दः,
जज्जः। पञ्चमपञ्चमैः—शङ्गुः, ण्णणः, धम्मः। परतनुना प्रथमद्वितीयैस्तृतीयचतुर्थैश्च। प्रथम-
द्वितीयैर्यथा—खुक्खः, इच्छः, दित्यः। तृतीयचतुर्थैर्यथा—वाग्घः, दाड्डः, शुद्धः। एते गुरवः।
अन्येषां यथा परतनुना। पञ्चमप्रथमैः पञ्चमद्वितीयैः पञ्चमतृतीयैः पञ्चमचतुर्थैश्च। एते संयोगा
एव। पञ्चमप्रथमैर्यथा—षङ्कः। पञ्चमद्वितीयैर्यथा—शङ्खः। पञ्चमतृतीयैर्यथा—शृङ्गम।
पञ्चमचतुर्थैर्यथा—सङ्घः। केचिदन्यथा कथयन्ति, यथा—स्वतनुना संयोगास्तेऽपि द्विकृता
उच्यन्ते। यथा धम्मः, दत्तः, कक्कः। प्रथमद्वितीयैस्तृतीयचतुर्थैश्च संयोगः। संयोगसंज्ञास्ते
गुरव उच्यन्ते। अन्ये ये संज्ञास्ते संयोगा एव न भवन्ति, यथा—धर्मः, वत्सः। आदि-
संयोगो यथा—श्रीधरः, क्षीरः, स्मर इति। एवं संयोगमादौ बहुलेषु विन्द्यादिति। कूटेषु
संयोगपरं वदन्ति। कूटेषु समराशिषु संयोगपरम्। संयोगः परो यस्मिंस्तत्संयोगपरं वदन्ति
कथयन्ति तन्नारायणादयः। द्व्यक्षरे नाम्नि यथा—पद्मम्, धर्मः, वत्स इत्येवमादयः। चतुरक्षरे
नाम्नि यथा—वसुदत्तः, वसुगुप्त इत्येवमादयः। स्वोच्चांशके द्विकृतमिति। स्वश्चा-
सावुच्चांशः स्वोच्चांशः।
अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः।
दशशिखिमनुयुक्तिथीन्द्रियाशैस्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः।। इति।
तस्मिन् स्वोच्चांशके द्विकृतमक्षरं नाम्नि भवति। द्वौ वारौ कृतौ द्विकृतौ। कथम्?
ऋक्षयोगाद्राशियोगाद्धेतोः। अक्षरदाता ग्रहः स्वोच्चांशकस्थो द्विकृतमक्षरं करोति। एतदुक्तं
भवति—पृच्छालग्ने यद्योजराशिस्तदौजाक्षरं द्विकृतं भवति, यथा—दरदः, दामोदरः।
अथ युग्मराशिस्तदा युग्माक्षरं द्विकृतं भवति, यथा—देवदेवः, धराधरः। द्व्यक्षरे यथा—
कप्पः, यप्पः, वल्ल इत्येवमादयः। गुर्वक्षरं तद्भवनांशके स्यात्। गुर्वक्षरं यस्मिन् नाम्नि
तद्गुर्वक्षरम्। तदित्यनेन लग्नं परामृश्यते। तस्य भवनस्यांशकः। तस्मिन्नक्षरे सति गुर्वक्षरं
स्याद्भवेत्। अत्र ऋक्षयोगादिभिर्वर्तते। ओजराशौ ओजाक्षरमेव गुर्वक्षरं भवति—कपित्थः,
अश्वत्थः। युग्मराशौ युग्माक्षरमेव, यथा—खुक्खः, घग्घः, शुद्धः। चतुरक्षरे शुद्धोदन
इत्येवमादयः।।७।।
अन्यदपि विशेषमाह—
मात्रादियुक् स्याद् ग्रहयुक्तिकोणे द्रेष्काणपर्यायवदक्षरेषु।
नभोबलेषूर्ध्वमथोऽम्बुजेषु ज्ञेयो विसर्गोऽस्तबलान्वितेषु ।।८।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

लग्न से पञ्चम या नवम स्थान ग्रहों ( सूर्यादि ) से युत हो तो नाम के आदि का
अक्षर मात्रायुक्त होता है तथा द्रेष्काण के पर्यायतुल्य अक्षर मात्रा से युक्त होता है।
यथा—सम राशि का द्रेष्काण हो तो सम अक्षर मात्रायुक्त होता है। जैसे—ईश्वर आदि।
विषम राशि का द्रेष्काण हो तो विषम अक्षर मात्रायुक्त होता है, जैसे—श्रीधर आदि।
यदि लग्न से दशम स्थान बली हो तो ऊर्ध्व मात्रा से युक्त नाम के आदि का अक्षर
श्रीधर, वासुदेव, वैश्रवण, शौण्ड आदि एवं चतुर्थ स्थान बली हो तो अधोमात्रायुत नाम
के आदि का अक्षर ( सुहिरण्य, शूरवर्मा आदि ) और सप्तम स्थान बली हो तो विसर्गयुत
नाम के आदि का अक्षर होता है॥८॥
पृच्छालग्नस्य मेषादेस्त्रिकोणे नवमे पञ्चमे वा स्थाने ग्रहैरादित्यादिभिर्युग्योगो यथा
भवति तथा मात्रादियुक् स्यात्। नाम्नो मात्राभिरादौ प्रथमं युग्योगः स्याद्भवेत्। यथा—
शिवः। द्रेष्काणपर्यायवदक्षरेष्विति। द्रेष्काणानां पर्यायो द्रेष्काणपर्यायः। प्रसिद्धोच्चारणम्।
स यथा भवति तद्वदक्षरेषु मात्रादियोगो भवति। युग्मद्रेष्काणेषु युग्माक्षरेषु मात्रादियोगो भवति।
ओजाक्षरेषु यथा—श्रीधरः। युग्मेषु यथा—ईश्वरः। नभोबलेषूर्ध्वमिति। नभसि दशमे स्थाने
राशयो ये बलिनस्ते नभोबलिनः। तथा चोक्तम्—
मनुष्यरूपा बलिनो विलग्नाश्चतुष्पदाश्चाकरमध्यसंस्थाः।
जलोद्भवाख्या बलिनो जलस्थाः कीटोऽस्तगो व्योमतले द्विमूर्ताः॥
अथ—
कण्टककेन्द्रचतुष्टयसंज्ञाः सप्तमलग्नचतुर्थखभानाम्।
तेषु यथा विहितेषु बलाढ्याः कीटनराम्बुचराः पशवश्च।। इति।
तेषु नभोबलेषूर्ध्वमात्राक्षरमुशन्ति कथयन्ति। यथा—श्रीवत्सः, वासुदेवः, वैश्रवणः,
शौण्डः। अधोऽम्बुजेष्विति। अम्बुजेषु चतुर्थस्थानेषु बलवत्सु अधोमात्राक्षरं भवति।
यथा—सुहिरण्यः, शूरवर्मा। ज्ञेयो विसर्गोऽस्तबलान्वितेष्विति। अस्तबलान्वितेषु सप्तमे
स्थाने बलवति विसर्गो विसर्जनीयो ज्ञेयो ज्ञातव्यः॥८॥
अन्यदप्याह—
शीर्षोदयेषूर्ध्वमुशन्ति मात्रामधश्च पृष्ठोदयशब्दितेषु।
तीर्यक्च विन्द्यादुभयोदये तां दीर्घेषु दीर्घामितरेषु चान्याम् ॥९॥
शीर्षोदय राशि लग्न में हो तो ऊर्ध्व मात्रा ( ओ, औ ), पृष्ठोदय राशि लग्न में हो
तो अधो मात्रा ( उ, ऊ ), उभयोदय राशि लग्न में हो तो तिर्यक् मात्रा ( ए, ऐ ) और
दीर्घ राशि ( सिंह, कन्या, तुला और वृश्चिक ) लग्न में हो तो दीर्घ मात्रा ( आ, ई, ऊ,
ऐ, ओ, औ ) होती है। अन्य राशि ( मध्य = मिथुन, कर्क, धनु और मकर, ह्रस्व =
मेष, वृष, कुम्भ और मीन ) लग्न में हो तो अन्य मात्रा ( अ, इ और उ ) होती
है॥९॥

५०६ बृहत्संहिता
शीर्षोदया मूर्धोदयाः। तथा चोक्तम्—
शीर्षोदया मानुषसर्वरूपाः ससिंहकीटा यवनैर्निरुक्ताः।
मत्स्यद्वयं तूभयतः प्रवृत्तं पृष्ठेन शेषास्तु सदोदयन्ति।।
तथा च—
गोजाश्विकर्किमिथुनाः समृगा निशाख्याः
पृष्ठोदया विमिथुनाः कथितास्त एव।
शीर्षोदया दिनबलाश्च भवन्ति शेषा
लग्नं समेत्युभयतः पृथुरोमयुग्मम्।। इति।
एवं शीर्षोदयेषु लग्नेषूर्ध्वं मात्रामुशन्ति कथयन्ति। यथा—ओ औ। पृष्ठोदयशब्दिता
ये राशयस्तेषु पृष्ठोदयसंज्ञितेष्वधो मात्रामुशन्ति कथयन्ति, यथा—उ ऊ। तिर्यक्
चेति। उभयोदयो मीनस्तस्मिन् तां मात्रां तिर्यक् च विन्द्याद् जानीयात्। ए ऐ। यथा—
देवदेव, ऐन्द्र इत्यादि। दीर्घेषु दीर्घामिति। दीर्घेष्वायतेषु राशिषु। तां मात्रां दीर्घां
विन्द्यात्। यथा—आ ई ऊ ए ऐ ओ औ। इतरेष्वन्येषु मध्यह्रस्वेष्वितोऽन्यां परिशिष्टां
ह्रस्वामिति। यथा—अ इ उ। अत्र दीर्घाः सिंहकन्यातुलवृश्चिकाः। मध्या मिथुनकर्कि-
धन्विमकराः। ह्रस्वा मेषवृषकुम्भमीनाः। तथा चोक्तम्—
आद्यन्तराश्योरुदयप्रमाणं द्वौ द्वौ मुहूर्त्तौ नियतं प्रदिष्टम्।
क्रमोत्क्रमाभ्यामतिपञ्चमं स्याच्चक्रार्द्धयोर्विद्ध्युदयप्रमाणम्।।
एवं प्रमाणानि गृहाणि बुद्ध्या ह्रस्वानि मध्यानि तथायतानि।
चक्राङ्गभेदैः सदृशीकृतानि मार्गप्रमाणान्यपि कल्पयन्ति।। इति।
तथा च—
पूर्वार्धे विषयादयः कृतगुणा मानं प्रतीपं च तत्। इति।।९।।
अत्रैव विशेषमाह—
प्राग्लग्नतोयास्तनभःस्थितेषु भेष्वंशकेभ्योऽक्षरसंग्रहः स्यात्।
क्रूरोऽक्षरं हन्ति चतुष्टयस्थो दृष्ट्यापि मात्राञ्च त्रिकोणगो वा।।१०।।
लग्न, चतुर्थ, सप्तम और दशम स्थानस्थित नवांशों के द्वारा नामाक्षरों का संग्रह
होता है तथा पाप ग्रह केन्द्र या त्रिकोण में स्थित हो तो अथवा पाप ग्रह की दृष्टि से भी
अक्षर का नाश होता है।।१०।।
प्राग्लग्नं विलग्नम्। तोयसंज्ञश्चतुर्थः। अस्तः सप्तमः। नभःसंज्ञो दशमः। एतेषु स्थानेषु
स्थिता राशयः। भशब्देन राशय उच्यन्ते। तेषु भेषु तथाभूतेष्वेव येऽंशका नवभागास्तेभ्यो-
ऽक्षरसंग्रहो वर्णसमुच्चयो नाम्नि स्यात्। क्रूरोऽक्षरमिति। क्रूरः पापो ग्रहश्चतुष्टयस्थः केन्द्र-
स्थोऽक्षरं वर्णं हन्त्यपहरति। स एव क्रूरस्त्रिकोणगो दृष्ट्या दर्शनेनापि मात्रां हन्ति। नव-
पञ्चमे त्रिकोण इति। अपिशब्दः समुच्चये। वाशब्दो विकल्पे।।१०।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

शाकुनोत्तराध्यायः ५०७
अन्यद्विशेषमाह—
शुभग्रहस्तूर्जितवीर्यभागी स्थानांशतुल्याक्षरदः स चोक्तः।
पश्यन् स्थितः केन्द्रत्रिकोणयोर्वा स्वोच्चेऽपि वर्णद्वयमात्मभागे ॥११॥
अत्यन्त वीर्यशाली शुभ ग्रह जिस राशि के जितने संख्यक नवांश पर स्थित हो,
तत्तुल्य अक्षरों को देता है। वही अत्यन्त बलशाली शुभ ग्रह केन्द्र, त्रिकोण, अपने उच्च
या अपने नवांश में स्थित होकर देखा जाता हो तो दो अक्षर देता है॥११॥
शुभग्रहः सौम्यः। तुशब्दः समुच्चये। स चोर्जितमतीव वीर्य भजति तच्छीलः। ऊर्जित-
वीर्यभागी। स च स्थानांशतुल्याक्षरदः। यस्मिन् स्थाने यावत्संख्यांशे नवभागे स्थित-
स्तत्तुल्याक्षराणि ददाति। एवं तत्तुल्याक्षरद उक्तः कथितः। पश्यन् स्थित इति। अथवा
स एव शुभग्रह ऊर्जितवीर्यभागी केन्द्रेषु त्रिकोणयोर्नवपञ्चमयोर्वा स्थितः पश्यन्नवलोकयन्।
स्वोच्चे आत्मीयोच्चराशौ वा स्थितः पश्यन्नात्मभागे स्वे नवांशके स्थितः पश्यन् वर्णद्वय-
मक्षरद्वयमपि ददाति। अपिशब्दो विकल्पार्थः॥११॥
अन्यद्विशेषमाह—
क्षेत्रेश्वरे क्षीणबलेऽशके च मात्राक्षरं नाशमुपैति तज्जम्।
असम्भवेऽप्युद्भवमेति तस्मिन् वर्गाद्यमुच्चांशयुजीशदृष्टे ॥१२॥
लग्न का स्वामी और नवांश बलहीन हो तो उस उत्पन्न मात्राक्षर का नाश होता है।
यदि वही लग्नस्वामी और नवांश असम्भव (बलहीन का असम्भव अर्थात् बली) हो
और उच्चस्थित नवांशस्वामी से देखा जाता हो तो मात्राक्षर की उत्पत्ति होती है॥१२॥
क्षेत्रेश्वरे लग्नस्वामिनि क्षीणबले परिक्षीणवीर्ये क्षीणांशके क्षीणनवभागे तज्जं मात्राक्षरं
नाशमुपैति। मात्रा चाक्षरं च तन्मात्राक्षरम्। तस्माज्जातम् उत्पन्नं तज्जम्। नाशमुपैति क्षयं
प्राप्नोति। असम्भवेऽपीति। तस्मिन्नेव क्षीणेश्वरे क्षीणबलांशके चासम्भवे तस्य मात्राक्षरस्य
नाश उद्भवमेत्युद्भूतिमेति लभते। किं वर्गाद्यं वर्गप्रथमम्, तस्मिन्। कीदृशे? उच्चांशयुजि
उच्चस्थे तथेशदृष्टे स्वामिनावलोकिते॥१२॥
अनिश्चयीकरणमाह—
केन्द्रे यथास्थानबलप्रकर्षं क्षेत्रस्य तत्क्षेत्रपतेश्च बुद्ध्वा।
कार्योऽक्षराणामनुपूर्वयोगो मात्रादिसंयोगविकल्पना च ॥१३॥
केन्द्र में तथा राशि और राशिपति का स्थान और बल की उत्कृष्टता को जान कर
अक्षरों का आनुपूर्वीक संयोग करना चाहिये। साथ ही मात्रा आदि के संयोग की भी
कल्पना करनी चाहिये॥१३॥
केन्द्रे लग्नचतुर्थसप्तमदशमानामन्यतमे। क्षेत्रस्य राशेः। तत्क्षेत्रपतेश्च तत्स्वामिनः।
यथास्थानबलप्रकर्षम्, स्थानं च बलं च स्थानबले तयोः प्रकर्ष उत्कृष्टता। स्थानबलेन
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५०८ बृहत्संहिता
प्रथमो लभ्यते, दृष्टिबलेन द्वितीयादयः । एवं बुद्ध्वा ततोऽक्षराणां वर्णानामनुपूर्व्योगः ।
अनुपूर्वेण अनुक्रमेण योगः संयोगः कार्यः कर्तव्यः । तथा मात्रादिसंयोगविकल्पना च कार्या ।
मात्रा आदिर्यस्य स मात्रादिसंयोगस्तस्य विकल्पना संयोगविकल्पना आदिसंयोगोऽन्तसंयोगश्च ।
एतदुक्तं भवति—अधोमात्रा ऊर्ध्वमात्रास्तिर्यङ्मात्राश्च संयोगविकल्पनया कार्याः ।।१३।।
अथांशकक्रमेण राशीनामक्षराण्याह—
तत्रादिराश्यादिचतुर्विलग्नमाद्यंशकादिक्रमपर्ययेण ।
ग्रहांशकेभ्यः स्वगणाक्षराणामन्वर्थने प्राप्तिरियं विधार्या ।।१४।।
वहाँ प्रथम लग्नराशि, फिर उससे चतुर्थ राशि आदि के प्रथम नवांश आदि क्रम से
नवांशाधिपति ग्रहों के अपने-अपने वर्गाक्षरों के संयोजन में यह निष्पत्ति करनी चाहिये।
अग्रिम पद्य से इसका अर्थ स्पष्ट होता है।।१४।।
तत्र तस्मिन्नामानयने । आदिराश्यादि । आदिराशिर्मेषस्तदादि तत्प्रथमं यच्चतुर्विलग्नं
मेषकर्कितुलामकराख्यं तस्याद्यंशकादिक्रमपर्ययेण, प्रथमनवांशकपरिपाट्या ग्रहांशकेभ्यो
नवग्रहभागेभ्यः स्वगणाक्षराणां स्ववर्गकथितवर्णानां ‘कवर्गपूर्वान् कुजशुक्रचान्द्रिजीवार्क-
जानाम्’ इत्यनेन विहितानामन्वर्थने प्राप्तिर्निष्पत्तिरियं विधार्या कर्तव्या।।१४।।
अथादिराश्यादिक्रमेण वर्णानाह—
मेषे ककारो हिबुके यकारस्तुले चकारो मकरे पकारः ।
मेषे छकारो हिबुकेऽप्यकारस्तुले खकारो मकरे फकारः ।।१५।।
जैसे कि लग्न में मेष राशि और प्रथम नवांश हो तो उससे चतुर्थ-चतुर्थ क्रम से
मेष, कर्क, तुला और मकर राशियाँ हुईं। मेष में प्रथम नवांश का स्वामी मंगल होता है।
उसके वर्ग का प्रथम अक्षर ककार आता है। चतुर्थ राशि ( कर्क ) का प्रथम नवांश
स्वामी चन्द्र है, उसके वर्ग का प्रथम अक्षर यकार आता है। सप्तम राशि ( तुला ) का
स्वामी शुक्र है, उसके वर्ग का प्रथम अक्षर चकार आता है और दशम राशि ( मकर )
का स्वामी शनि है, उसके वर्ग का प्रथम अक्षर पकार आता है। यदि मेष राशि के लग्न
में द्वितीय नवांश हो तो मेष राशि में द्वितीय नवांश-स्वामी शुक्र के वर्ग का द्वितीय अक्षर
छकार, चतुर्थ राशि ( कर्क ) में द्वितीय नवांश-स्वामी सूर्य के वर्ग का प्रथम अक्षर
अकार, सप्तम राशि तुला में द्वितीय-नवांश स्वामी मंगल के वर्ग का द्वितीय अक्षर
खकार और दशम राशि ( मकर ) में द्वितीय नवांश-स्वामी शनि के वर्ग का द्वितीय
अक्षर फकार आता है।।१५।।
मेषे लग्ने केन्द्रस्था मेषकर्कितुलमकरा भवन्ति। एत एव स्वांशेनोदयं कुर्वन्ति।
तत्र मेषस्य प्रथमो नवांशो मेष एव तस्य स्वामी भौमः। मेषस्य प्रथमनवांशकत्वाद्वौमवर्गात्
प्रथममक्षरं ककारमापतति। हिबुके चतुर्थे कर्कटकस्तस्य स्वामी चन्द्रः, तस्यापि प्रथमन-
वांशकोदयत्वाच्चन्द्राद्यवर्गात् प्रथमं वर्गाक्षरं यकारमापपति। सप्तमस्थाने तुलो भवति।

शाकुनोत्तराध्यायः ५०९
तस्य स्वामी शुक्रः। तत्रप्रथमनवांशत्वाच्छौक्रवर्गात् प्रथममक्षरं चकारमापतति। दशमस्थाने
मकरो भवति। तस्य स्वामी शनैश्चरः। तत्रप्रथमनवांशकोदयत्वाच्छनैश्चरात् पवर्गत् प्रथममक्षरं
पकारमापतति। अत एवोक्तम्—
मेषे ककारो हिबुके यकारस्तुले चकारो मकरे पकारः।
एवं द्वितीयादिष्वंशकेषु स्वामिविहितवर्गक्रमगणनयांशकतुल्यं वर्णं ग्राह्यम्।
मृदुबुद्धिप्रबोधनायास्माभिः किञ्चित् क्रियते। तत्र मेषद्वितीयनवांशकस्य शुक्रोऽधिपतिस्तद्वर्गाद्
द्वितीयमक्षरं छकारमापतति। कर्कटकद्वितीयस्य सूर्योऽधिपतिस्तद्वर्गात् प्रथममक्षरमकार-
मापतति। तुलद्वितीयस्य भौमोऽधिपतिस्तद्वर्गाद् द्वितीयमक्षरं खकारमापतति। मकरद्वितीय-
नवांशकस्य सौरोऽधिपतिस्तदीयवर्गाद् द्वितीयमक्षरं फकारमापतति। अत एवोक्तम्—
मेषे छकारो हिबुकेऽप्यकारस्तुलं खकारो मकरे फकारः।। इति।। १५५।।
अन्येष्वप्याह—
मेषे टकारो हिबुके ठकारस्तुले तकारो मकरे थकारः।
मेषे तु रेफो हिबुके जकारस्तुले बकारो मकरे गकारः ॥ १५६ ॥
यदि मेष लग्न में तृतीय नवांश हो तो मेष राशि में तृतीय नवांशाधिपति बुध के वर्ग
का प्रथम अक्षर टकार, चतुर्थ राशि ( कर्क ) में तृतीय नवांशाधिपति बुध के वर्ग का
द्वितीय अक्षर ठकार, सप्तम राशि ( तुला ) में तृतीय नवांशाधिपति बृहस्पति के वर्ग का
प्रथम अक्षर तकार और दशम राशि ( मकर ) में तृतीय नवांशाधिपति बृहस्पति के वर्ग
का द्वितीय अक्षर थकार आता है। मेष राशि के लग्न में चतुर्थ नवांश हो तो मेष राशि
में चतुर्थ नवांशाधिपति चन्द्र के वर्ग का द्वितीय अक्षर रकार, चतुर्थ राशि ( कर्क ) में
चतुर्थ नवांशाधिपति शुक्र के वर्ग का तृतीय अक्षर जकार, सप्तम राशि ( तुला ) में
चतुर्थ नवांशाधिपति शनि के वर्ग का तृतीय अक्षर वकार, दशम राशि ( मकर ) में
चतुर्थ नवांशाधिपति मंगल के वर्ग का तृतीय अक्षर गकार आता है॥१५६॥
मेषे तृतीयनवांशकस्य बुधोऽधिपतिस्तदीयवर्गात् प्रथममक्षरं टकारमापतति। कर्कटक-
तृतीयनवांशकस्य बुध एवाधिपतिस्तदीयवर्गाद् द्वितीयमक्षरं ठकारमापतति। तुलतृतीय-
नवांशकस्य जीवोऽधिपतिस्तदीयवर्गात् प्रथममक्षरं तकारमापतति। मकरतृतीयनवांशकस्य
जीवोऽधिपतिस्तदीयवर्गाद् द्वितीयमक्षरं थकारमापतति। अत एवोक्तम्—
मेषे टकारो हिबुके ठकारस्तुले तकारो मकरे थकारः।
मेषस्य चतुर्थनवांशकाधिपतिश्चन्द्रस्तदीयवर्गाद् द्वितीयमक्षरं रेफमापतति। कर्कटक-
चतुर्थनवांशकाधिपतिः शुक्रस्तदीयवर्गात् तृतीयमक्षरं जकारमापतति। तुलस्य चतुर्थनवांश-
काधिपतिः सौरस्तदीयवर्गात् तृतीयमक्षरं बकारमापतति। मकरस्य चतुर्थनवांशाधिपतिर्भौम-
स्तदीयवर्गात् तृतीयमक्षरं गकारमापतति। अत एवोक्तम्—
मेषे तु रेफो हिबुके जकारस्तुले बकारो मकरे गकारः।। इति।। १५६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५१० बृहत्संहिता
अन्येष्वप्याह—
आकारमाद्येऽम्बुगते घकारमस्ते भकारं मकरे झकारम् ।
लग्ने डकारं हिबुके दकारमस्ते धकारं मकरे ढकारम् ।।१७।।
मेष लग्न में पञ्चम नवांश हो तो मेष में पञ्चम नवांशाधिपति सूर्य के वर्ग का
द्वितीय अक्षर आकार, चतुर्थ राशि ( कर्क ) में पञ्चम नवांशाधिपति मंगल के वर्ग का
चतुर्थ अक्षर घकार, सप्तम राशि ( तुला ) में पञ्चम नवांशाधिपति शनि के वर्ग का
चतुर्थ अक्षर मकार और दशम राशि ( मकर ) में पञ्चम नवांशाधिपति शुक्र के वर्ग का
चतुर्थ अक्षर झकार आता है। मेष लग्न में षष्ठ नवांश हो तो मेष में षष्ठ नवांशाधिपति
बुध के वर्ग का तृतीय अक्षर डकार, चतुर्थ राशि ( कर्क ) में षष्ठ नवांशाधिपति बृहस्पति
के वर्ग का तृतीय अक्षर दकार, सप्तम राशि ( तुला ) में षष्ठ नवांशाधिपति के वर्ग का
चतुर्थ अक्षर धकार और दशम राशि ( मकर ) में षष्ठ नवांशाधिपति बुध के वर्ग का
चतुर्थ अक्षर ढकार आता है।।१७।।
मेषे पञ्चमनवांशकस्याधिपतिः सूर्यस्तदीयवर्गाद् द्वितीयमक्षरमाकारमापतति। कर्कटे
पञ्चमनवांशकाधिपतिर्भौमस्तदीयवर्गाच्चतुर्थमक्षरं घकारमापतति। तुल पञ्चमनवांशकस्य
सौरोऽधिपतिस्तद्वर्गाच्चतुर्थमक्षरं भकारमापतति। मकरे पञ्चमनवांशकस्य शुक्रोऽधिपति-
स्तदीयवर्गाच्चतुर्थमक्षरं झकारमापतति। अत एवोक्तम्—
अकारमाद्येऽम्बुगते घकारमस्ते भकारं मकरे झकारम्।
मेषे षष्ठनवांशकस्य बुधोऽधिपतिस्तदीयवर्गात् तृतीयवर्गात् तृतीयमक्षरं डकारमापतति।
कर्कटके षष्ठनवांशाधिपतिर्जीवस्तदीयवर्गात् तृतीयमक्षरं दकारमापतति। तुले षष्ठनवांशा-
धिपतिर्जीव एव तदीयवर्गाच्चतुर्थमक्षरं ढकारमापतति। अत एवोक्तम्—
लग्ने डकारं हिबुके दकारमस्ते धकारं मकरे ढकारम्।। इति।।१७।।
अन्येष्वप्याह—
लग्ने जकारो हिबुको मकारस्तुले ङकारो मकरे लकारः ।
लग्ने ककारो हिबुके पकारस्तुले चकारो मकरे इकारः ।।१८।।
मेष लग्न में सप्तम नवांश हो तो मेष में सप्तम नवांशाधिपति शुक्र के वर्ग का
पञ्चम अक्षर जकार, चतुर्थ राशि ( कर्क ) में सप्तम नवांशाधिपति शनि के वर्ग का
पञ्चम अक्षर मकार, सप्तम राशि ( तुला ) में सप्तम नवांशाधिपति मंगल के वर्ग का
पञ्चम अक्षर ङकार और दशम राशि ( मकर ) में सप्तम नवांशाधिपति चन्द्र के वर्ग
का तृतीय अक्षर लकार आता है। मेष लग्न में अष्टम नवांश हो तो मेष में अष्टम
नवांशाधिपति मंगल के वर्ग का प्रथम अक्षर ककार, चतुर्थ राशि ( कर्क ) में अष्टम
नवांशाधिपति शनि के वर्ग का प्रथम अक्षर पकार, सप्तम राशि ( तुला ) में अष्टम
नवांशाधिपति शुक्र के वर्ग का प्रथम अक्षर चकार और दशम राशि ( मकर ) में अष्टम
नवांशाधिपति सूर्य के वर्ग का तृतीय अक्षर इकार आता है।।१८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनोत्तराध्यायः ५११
मेषस्य सप्तनवांशकाधिपतिः शुक्रस्तदीयवर्गात् पञ्चममक्षरं जकारमापतति। कर्कटस्य
सप्तनवांशकाधिपतिः सौरस्तदीयवर्गात् पञ्चममक्षरं मकारमापतति। तुलस्य सप्तनवांश-
काधिपतिर्भौमस्तदीयवर्गात् पञ्चममक्षरं ङकारमापतति। मकरस्य सप्तनवांशकाधिपति-
श्चन्द्रस्तद्वर्गात् तृतीयमक्षरं लकारमापतति। अत एवोक्तम्—
लग्ने जकारो हिबुके मकारस्तुले ङकारो मकरे लकारः।
मेषस्याष्टमनवांशकाधिपतिर्भौमस्तद्वर्गात् प्रथममक्षरं ककारमापतति। कर्कटस्याष्ट-
मनवांशकाधिपतिः सौरस्तद्वर्गात् प्रथममक्षरं पकारमापतति। तुलस्याष्टमनवांशकाधिपतिः
शुक्रस्तद्वर्गात् प्रथममक्षरं चकारमापतति। मकरस्याष्टमनवांशकाधिपतिः सूर्यस्तद्वर्गात् तृतीय-
मक्षरमिकारमापतति। अत एवोक्तम्—
लग्ने ककारो हिबुके पकारः। इत्यादि।।१८।।
अन्येष्वप्याह—
लग्ने नकारो हिबुके तकारस्तुले णकारो मकरे टकारः।
इत्येतदुक्तं चरसंज्ञकस्य वक्ष्ये स्थिराख्यस्य चतुष्टयस्य ।।१९।।
मेष लग्न में नवम नवांश हो तो मेष में नवम नवांशाधिपति गुरु के वर्ग का पञ्चम
अक्षर नकार, चतुर्थ राशि ( कर्क ) में नवम नवांशाधिपति गुरु के वर्ग का प्रथम अक्षर
तकार, सप्तम राशि ( तुला ) में नवम नवांशाधिपति बुध के वर्ग का पञ्चम अक्षर
णकार और दशम राशि ( मकर ) में नवम नवांशाधिपति बुध के वर्ग का प्रथम अक्षर
टकार आता है। यह चरसंज्ञक चार राशियों के लिये कहा गया है। अब स्थिरसंज्ञक चार
राशियों के लिये कहता हूँ।।१९।।
मेषस्य नवमनवांशकाधिपतिर्जीवस्तदीयवर्गात् पञ्चममक्षरं नकारमापतति। कर्कटस्य
नवमनवांशकाधिपतिर्जीवस्तदीयवर्गात् प्रथममक्षरं तकारमापतति। तुलस्य नवमनवांशका-
धिपतिर्बुधस्तदीयवर्गात् पञ्चममक्षरं णकारमापतति। मकरस्य नवमनवांशकाधिपतिर्बुध-
स्तद्वर्गात् प्रथममक्षरं टकारमापतति। अत एवोक्तम्—
लग्ने नकारो हिबुके तकारस्तुले णकारो मकरे टकारः। इत्यादि।
इत्येतदुक्तमिति। इत्यनेन प्रकारेणैतदुक्तम्। तच्चरसंज्ञकस्य चतुष्टयस्य। स्थिर-
संज्ञकस्य वृषसिंहवृश्चिककुम्भाख्यस्येदानीं वक्ष्ये कथयिष्ये।।१९।।
अधुना तदेवाह—
वृषे फकारो हिबुके खकारः कीटे वकारो नृघटे छकारंः।
आद्यांशकेभ्यो मतिमान् विदध्यादनुक्रमेण स्थिरसंज्ञकेषु ।।२०।।
वृष लग्न में प्रथम नवांश हो तो वृष में प्रथम नवांशाधिपति शनि के वर्ग का
द्वितीय अक्षर फकार, चतुर्थ राशि ( सिंह ) में प्रथम नवांशाधिपति मङ्गल के वर्ग का
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५१२ बृहत्संहिता
द्वितीय अक्षर खकार, सप्तम राशि ( वृश्चिक ) में प्रथम नवांशाधिपति चन्द्र के वर्ग का
चतुर्थ अक्षर वकार, दशम राशि ( कुम्भ ) में प्रथम नवांशाधिपति शुक्र के वर्ग का
द्वितीय अक्षर छकार आता है। इस तरह स्थिरसंज्ञक राशियों के प्रथम नवांश में वर्णों का
विन्यास करना चाहिये।।२०।।
स्थिरसंज्ञा वृषसिंहवृश्चिककुम्भाः। ते च यथासङ्ख्यं मकरमेषकर्कटतुलेभ्य उदयं यान्ति।
वृषस्य प्रथमनवांशको मकरस्तत्स्वामी सौरस्तदीयद्वितीयमक्षरं फकारमापतति। सिंहस्य
प्रथमनवांशको मेषस्तत्स्वामी भौमस्तदीयाद्वर्गाद् द्वितीयमक्षरं खकारमापतति। वृश्चिकस्य
प्रथमनवांशकः कर्को तस्य स्वामी चन्द्रस्तदीयाद्यवर्गाच्चतुर्थमक्षरं वकारमापतति। कुम्भस्य
प्रथमनवांशकस्तुलस्तत्स्वामी शुक्रस्तदीयवर्गाद् द्वितीयमक्षरं छकारमापतति। अत एवोक्तम्—
वृषे फकारो हिबुके खकारः कीटे वकारो नृघटे छकारः।
एवं स्थिरसंज्ञकेषु स्थिरराशिषु मतिमान् पण्डित आद्यांशकेषु प्रथमनवांशकेष्वनुक्रमेण
परिपाट्या विदध्यात् कारयेत्।।२०।।
अथान्येष्वाह—
लग्ने बकारो हिबुके जकार ईकारमस्तेऽम्बरगे गकारः।
वृषे थकारो हिबुके टकारः कीटे डकारो नृघटे दकारः ।।२१।।
वृष लग्न में द्वितीय नवांश हो तो वृष में द्वितीय नवांशाधिपति शनि के वर्ग का
तृतीय अक्षर वकार, चतुर्थ राशि ( सिंह ) में द्वितीय नवांशाधिपति शुक्र के वर्ग का
तृतीय अक्षर जकार, सप्तम राशि ( वृश्चिक ) में द्वितीय नवांशाधिपति सूर्य के वर्ग का
चतुर्थ अक्षर ईकार और दशम राशि ( कुम्भ ) में द्वितीय नवांशाधिपति मंगल के वर्ग
का तृतीय अक्षर गकार आता है। वृष लग्न में तृतीय नवांश हो तो वृष में तृतीय नवांशा-
धिपति गुरु के वर्ग का द्वितीय अक्षर थकार, चतुर्थ राशि ( सिंह ) में तृतीय नवांशाधिपति
बुध के वर्ग का प्रथम अक्षर टकार, सप्तम राशि ( वृश्चिक ) में तृतीय नवांशाधिपति
बुध के वर्ग का प्रथम अक्षर डकार और दशम राशि ( कुम्भ ) में तृतीय नवांशाधिपति
बृहस्पति के वर्ग का तृतीय अक्षर दकार आता है।।२१।।
वृषद्वितीयनवांशकस्य सौरः स्वामी तदीयवर्गात् तृतीयमक्षरं बकारमापतति। सिंह-
द्वितीयनवांशकस्य स्वामी शुक्रस्तदीयवर्गात् तृतीयमक्षरं जकारमापतति। वृश्चिकद्वितीय-
नवांशकस्य स्वामी सूर्यस्तदीयवर्गाच्चतुर्थमक्षरमीकारमापतति। कुम्भस्य द्वितीयनवांशकस्वामी
भौमस्तदीयवर्गात् तृतीयमक्षरं गकारमापतति। अत एवोक्तम्—
लग्ने बकारो हिबुके जकार ईकारमस्तेऽम्बरगे गकारः।
वृषतृतीयनवांशकस्वामी जीवस्तदीयवर्गाद् द्वितीयमक्षरं थकारमापतति। सिंहस्य
तृतीयनवांशकस्वामी बुधस्तद्वर्गात् प्रथममक्षरं टकारमापतति। वृश्चिकस्य तृतीयनवांशकस्वामी
बुधस्तदीयवर्गात् तृतीयमक्षरं डकारमापतति। कुम्भस्य तृतीयनवांशकस्वामी जीवस्तदीयवर्गात्

शाकुनोत्तराध्यायः ५१३
तृतीयमक्षरं दकारमापतति। अत एवोक्तम्-
वृषे थकारो हिबुके टकारः कीटे डकारो नृघटे दकारः। इति।।२१।।
अन्येष्वपि-
वृषे घकारो हिबुके शकारः कीटे झकारो नृघटे भकारः ।
लग्ने जकारो हिबुके उकारः कीटे ङकारो नृघटे मकारः ।।२२।।
वृष लग्न में चतुर्थ नवांश हो तो वृष में चतुर्थ नवांशाधिपति मंगल के वर्ग का
चतुर्थ अक्षर घकार, चतुर्थ राशि ( सिंह ) में चतुर्थ नवांशाधिपति चन्द्र के वर्ग का
पञ्चम अक्षर शकार, सप्तम राशि ( वृश्चिक ) में चतुर्थ नवांशाधिपति शुक्र के वर्ग का
चतुर्थ अक्षर झकार और दशम राशि ( कुम्भ ) में पञ्चम नवांशाधिपति शनि के वर्ग का
चतुर्थ अक्षर भकार आता है। वृष लग्न में पञ्चम नवांश हो तो वृष में पञ्चम नवांशाधिपति
शुक्र के वर्ग का पञ्चम अक्षर जकार, चतुर्थ राशि ( सिंह ) में पञ्चम नवांशाधिपति सूर्य
के वर्ग का पञ्चम अक्षर उकार, सप्तम राशि ( वृश्चिक ) में पञ्चम नवांशाधिपति मङ्गल
के वर्ग का पञ्चम अक्षर ङकार और दशम राशि ( कुम्भ ) में पञ्चम नवांशाधिपति शनि
के वर्ग का पञ्चम अक्षर मकार आता है।।२२।।
वृषस्य चतुर्थनवांशकाधिपो भौमस्तदीयवर्गाच्चतुर्थमक्षरं घकारमापतति। सिंहस्य
चतुर्थनवांशकाधिपतिश्चन्द्रस्तदीयवर्गात् पञ्चममक्षरं शकारमापतति। वृश्चिकस्य चतुर्थ-
नवांशकाधिपतिः शुक्रस्तदीयवर्गाच्चतुर्थमक्षरं झकारमापतति। कुम्भस्य चतुर्थनवांशकाधिपतिः
सौरस्तदीयवर्गाच्चतुर्थमक्षरं भकारमापतति। अत एवोक्तम्-
वृषे घकारो हिबुके शकारः कीटे झकारो नृघटे भकारः।
वृषस्य पञ्चमनवांशकाधिपतिः शुक्रस्तदीयवर्गात् पञ्चममक्षरं जकारमापतति। सिंहस्य
पञ्चमनवांशकाधिपतिः सूर्यस्तदीयवर्गात् पञ्चममक्षरमुकारमापतति। वृश्चिकस्य पञ्चम-
नवांशकाधिपतिर्भौमस्तदीयवर्गात् पञ्चममक्षरं ङकारमापतति। कुम्भस्य पञ्चमनवांशकाधिपतिः
सौरस्तदीयवर्गात् पञ्चममक्षरं मकारमापतति। अत एवोक्तम्-
लग्ने जकारो हिबुके उकारः कीटे ङकारो नृघटे मकारः।। इति।।२२।।
अन्येष्वप्याह-
लग्ने ढकारोऽथ जले णकारश्चास्ते धकारोऽम्बरगे नकारः ।
वृषे षकारो हिबुके चकारः कीटे पकारो नृघटे ककारः ।।२३।।
वृष लग्न में षष्ठ नवांश हो तो वृष में षष्ठ नवांशाधिपति बुध के वर्ग का चतुर्थ
अक्षर ढकार, चतुर्थ राशि ( सिंह ) में षष्ठ नवांशाधिपति बुध के वर्ग का पञ्चम अक्षर
णकार, सप्तम राशि ( वृश्चिक ) में षष्ठ नवांशाधिपति बृहस्पति के वर्ग का चतुर्थ अक्षर
धकार और दशम राशि ( कुम्भ ) में षष्ठ नवांशाधिपति बृहस्पति के वर्ग का पञ्चम
बृ० भ० द्वि०-३३

५१४ बृहत्संहिता
अक्षर नकार आता है। वृष लग्न में सप्तम नवांश हो तो वृष में सप्तम नवांशाधिपति
चन्द्र के वर्ग का षष्ठ अक्षर षकार, चतुर्थ राशि ( सिंह ) में सप्तम नवांशाधिपति शुक्र
के वर्ग का प्रथम अक्षर चकार, सप्तम राशि ( वृश्चिक ) में सप्तम नवांशाधिपति शनि
के वर्ग का प्रथम अक्षर पकार और दशम राशि ( कुम्भ ) में सप्तम नवांशाधिपति
मंगल के वर्ग का प्रथम अक्षर ककार आता है।।२३।।
वृषस्य षष्ठनवांशकाधिपतिर्बुधस्तदीयवर्गाच्चतुर्थमक्षरं ढकारमापतति। सिंहस्य षष्ठ-
नवांशाधिपतिर्बुधस्तदीयवर्गात् पञ्चममक्षरं णकारमापतति। वृश्चिकस्य षष्ठनवांशकाधिपति-
र्जीवस्तदीयवर्गाच्चतुर्थमक्षरं धकारमापतति। कुम्भस्य षष्ठनवांशाधिपतिर्जीवस्तदीयवर्गात्
पञ्चममक्षरं नकारमापतति। अत एवोक्तम्—
लग्ने ढकारोऽथ जले णकारश्चास्ते धकारोऽम्बरगे नकारः।
वृषस्य सप्तमनवांशकाधिपतिश्चन्द्रस्तदीयवर्गात् षष्ठमक्षरं षकारमापतति। सिंहस्य
सप्तमनवांशकाधिपतिः शुक्रस्तदीयवर्गात् प्रथममक्षरं चकारमापतति। वृश्चिकस्य सप्तम-
नवांशकाधिपतिः सौरस्तदीयवर्गात् प्रथममक्षरं पकारमापतति। कुम्भस्य सप्तमनवांशका-
धिपतिर्भौमस्तदीयवर्गात् प्रथममक्षरं ककारमापतति। अत एवोक्तम्—
वृषे षकारो हिबुके चकारः कीटे पकारो नृघटे ककारः।। इति।।२३।।
अन्येष्वप्याह—
ऊकारमाहुर्वृषभे जले खमस्ते फकारो नृघटे छकारः।
अन्त्ये वृषे टं तमुशन्ति सिंहे थं सप्तगे ठं प्रवदन्ति कुम्भे ।।२४।।
वृष लग्न में अष्टम नवांश हो तो वृष में अष्टम नवांशाधिपति सूर्य के वर्ग का षष्ठ
अक्षर ऊकार, चतुर्थ राशि ( सिंह ) में अष्टम नवांशाधिपति मंगल के वर्ग का द्वितीय
अक्षर खकार, सप्तम राशि ( वृश्चिक ) में अष्टम नवांशाधिपति शनि के वर्ग का द्वितीय
अक्षर फकार और दशम राशि ( कुम्भ ) में अष्टम नवांशाधिपति शुक्र के वर्ग का द्वितीय
अक्षर छकार आता है। वृष लग्न में नवम नवांश हो तो वृष में नवम नवांशाधिपति बुध
के वर्ग का प्रथम अक्षर टकार, सप्तम राशि ( वृश्चिक ) में नवम नवांशाधिपति बृहस्पति
के वर्ग का द्वितीय अक्षर थकार और दशम राशि ( कुम्भ ) में नवम नवांशाधिपति बुध
के वर्ग का द्वितीय अक्षर ठकार आता है।।२४।।
वृषस्याष्टमनवांशकाधिपतिः सूर्यस्तदीयवर्गात् षष्ठमक्षरमूकारमापतति। सिंहस्याष्ट-
मनवांशकाधिपतिर्भौमस्तदीयवर्गाद् द्वितीयमक्षरं खकारमापतति। वृश्चिकस्याष्टमनवांशका-
धिपतिः शनिस्तदीयवर्गाद् द्वितीयमक्षरं फकारमापतति। कुम्भस्याष्टमनवांशकाधिपतिः
शुक्रस्तदीयवर्गाद् द्वितीयमक्षरं छकारमापतति। अत एवोक्तम्—
ऊकारमाहुर्वृषभे जले खमस्ते फकारो नृघटे छकारः।
वृषस्य नवमनवांशकाधिपतिर्बुधस्तदीयवर्गात् प्रथममक्षरं टकारमापतति। सिंहस्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनोत्तराध्यायः ५१५
नवमनवांशकाधिपतिर्जीवस्तदीयवर्गात् प्रथममक्षरं तकारमापतति। वृश्चिकस्य नवमनवांशका-
धिपतिर्जीवस्तदीयवर्गाद् द्वितीयमक्षरं थकारमापतति। कुम्भस्य नवमनवांशकाधिपतिर्बुध-
स्तदीयवर्गाद् द्वितीयमक्षरं ठकारमापतति। अत एवोक्तम्—
अन्त्ये वृषे टं तमुशन्ति सिंहे थं सप्तगे ठं प्रवदन्ति कुम्भे।। इति।।२४।।
अथ द्विस्वभावेष्वाह—
द्विमूर्तिसंज्ञे मिथुने जकारः षष्ठे बकारः प्रथमांशके स्यात् ।
धनुर्धरेऽस्तोपगते गकारो मीनद्वये चाम्बरगे सकारः ॥२५॥
द्विस्वभाव राशि मिथुन लग्न में प्रथम नवांश हो तो मिथुन में प्रथम नवांशाधिपति
शुक्र के वर्ग का तृतीय अक्षर जकार, चतुर्थ राशि ( कन्या ) में प्रथम नवांशाधिपति
शनि के वर्ग का तृतीय अक्षर बकार, सप्तम राशि ( धनु ) में प्रथम नवांशाधिपति
मंगल के वर्ग का तृतीय अक्षर गकार और दशम राशि ( मीन ) में प्रथम नवांशाधिपति
चन्द्र के वर्ग का सप्तम अक्षर सकार आता है।।२५।।
द्विमूर्तिसंज्ञा मिथुनकन्याधन्वन्मीनाः। तुलमकरमेषकर्कटेभ्य उदयं यान्ति। मिथुनस्य
प्रथमनवांशकस्तुलस्तस्य स्वामी शुक्रस्तदीयाच्चवर्गात् तृतीयमक्षरं जकारमापतति।
कन्यायाः प्रथमनवांशको मकरस्तस्य स्वामी सौरस्तदीयात् पवर्गात् तृतीयमक्षरं बकार-
मापपतति। धनुषः प्रथमनवांशको मेषस्तस्य स्वामी भौमस्तदीयवर्गात् तृतीयमक्षरं गकार-
मापपतति। मीनस्य प्रथमनवांशकः कर्कटस्तस्य स्वामी चन्द्रस्तदीयवर्गात् सप्तममक्षरं
सकारमापतति। अत एवोक्तम्—
द्विमूर्तिसंज्ञे मिथुने जकारः षष्ठे बकारः प्रथमांशके स्यात्।
धनुर्धरेऽस्तोपगते गकारो मीनद्वये चाम्बरगे सकारः।। इति।।२५।।
अन्येष्वप्याह—
लग्ने घकारो हिबुके भकारश्चास्ते झकारोऽम्बरमध्यगे ई ।
लग्ने दकारो हिबुके धकारमस्ते डकारं विदुरम्बरे ढम् ।।२६।।
मिथुन लग्न में द्वितीय नवांश हो तो मिथुन में द्वितीय नवांशाधिपति मंगल के वर्ग
का चतुर्थ अक्षर घकार, चतुर्थ राशि ( कन्या ) में द्वितीय नवांशाधिपति शनि के वर्ग का
चतुर्थ अक्षर भकार, सप्तम राशि ( धनु ) में द्वितीय नवांशाधिपति शुक्र के वर्ग का
चतुर्थ अक्षर झकार और दशम राशि ( मीन ) में द्वितीय नवांशाधिपति सूर्य के वर्ग का
चतुर्थ अक्षर ईकार आता है। मिथुन लग्न में तृतीय नवांश हो तो मिथुन में तृतीय
नवांशाधिपति बृहस्पति के वर्ग का तृतीय अक्षर दकार, चतुर्थ राशि ( कन्या ) में तृतीय
नवांशाधिपति बृहस्पति के वर्ग का चतुर्थ अक्षर धकार, सप्तम राशि ( धनु ) में तृतीय
नवांशाधिपति बुध के वर्ग का तृतीय अक्षर डकार और दशम राशि ( मीन ) में तृतीय
नवांशाधिपति बुध के वर्ग का चतुर्थ अक्षर ढकार आता है।।२६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५१६ बृहत्संहिता
मिथुनस्य द्वितीयनवांशस्वामी भौमस्तदीयवर्गाच्चतुर्थमक्षरं घकारमापतति। कन्याया
द्वितीयनवांशकस्वामी सौरस्तदीयवर्गाच्चतुर्थमक्षरं भकारमापतति। धन्विनो द्वितीयनवांशक-
स्वामी शुक्रस्तदीयवर्गाच्चतुर्थमक्षरं झकारमापतति। मीनस्य द्वितीयनवांशकस्वामी सूर्य-
स्तदीयवर्गाच्चतुर्थमक्षरमीकारमापतति। अत एवोक्तम्—
लग्ने घकारो हिबुके मकारश्चास्ते झकारोऽम्बरमध्यगे ई।
मिथुनतृतीयनवांशकाधिपतिर्जीवस्तदीयवर्गात् तृतीयमक्षरं दकारमापतति। कन्या-
तृतीयनवांशकपतिर्जीवस्तदीयवर्गाच्चतुर्थमक्षरं धकारमापतति। धन्विनस्तृतीयनवांशाका-
धिपतिर्बुधस्तदीयवर्गात् तृतीयमक्षरं डकारमापतति। मीनस्य तृतीयनवांशकाधिपतिर्बुधस्त-
दीयवर्गाच्चतुर्थमक्षरं ढकारमापतति। अत एवोक्तम्—
लग्ने दकारो हिबुके धकारमस्ते डकारं विदुरम्बरे ढम्। इति।।२६।।
अन्येष्वाह—
लग्ने मकारो हिबुके ङकारश्चास्ते हकारोऽम्बरगे अकारः ।
लग्ने पकारो जलगे चकार ऐकारमस्तेऽम्बरगे ककारः ।।२७।।
मिथुन लग्न में चतुर्थ नवांश हो तो मिथुन में चतुर्थ नवांशाधिपति शनि के वर्ग का
पञ्चम अक्षर मकार, चतुर्थ राशि ( कन्या ) में चतुर्थ नवांशाधिपति मंगल के वर्ग का
पञ्चम अक्षर ङकार, सप्तम राशि ( धनु ) में चतुर्थ नवांशाधिपति चन्द्र के वर्ग का
अष्टम अक्षर हकार और दशम राशि ( मीन ) में चतुर्थ नवांशाधिपति शुक्र के वर्ग का
पञ्चम अक्षर ञकार आता है। मिथुन लग्न में पञ्चम नवांश हो तो मिथुन में पञ्चम
नवांशाधिपति शनि के वर्ग का प्रथम अक्षर पकार, चतुर्थ राशि ( कन्या ) में पञ्चम
नवांशाधिपति शुक्र के वर्ग का प्रथम अक्षर चकार, सप्तम राशि ( धनु ) में पञ्चम
नवांशाधिपति सूर्य के वर्ग का अष्टम अक्षर ऐकार और दशम राशि ( मीन ) में पञ्चम
नवांशाधिपति मंगल के वर्ग का प्रथम अक्षर ककार आता है।।२७।।
मिथुनस्य चतुर्थनवांशकस्वामी सौरस्तदीयवर्गात् पञ्चममक्षरं मकारमापतति। कन्या-
याश्चतुर्थनवांशकस्वामी भौमस्तदीयवर्गात् पञ्चममक्षरं ङकारमापतति। धन्विनश्चतुर्थनवांशका-
धिपतिश्चन्द्रस्तदीयवर्गादष्टममक्षरं हकारमापतति। मीनस्य चतुर्थनवांशाकाधिपतिः शुक्रस्तदीय-
वर्गात् पञ्चममक्षरं ञकारमापतति। अत एवोक्तम्—
लग्ने मकारो हिबुके ङकारश्चास्ते हकारोऽम्बरगे अकारः।
मिथुनस्य पञ्चमनवांशाकाधिपतिः सौरस्तदीयवर्गात् प्रथममक्षरं पकारमापतति। कन्यायाः
पञ्चमनवांशकाधिपतिः शुक्रस्तदीयवर्गात् प्रथममक्षरं चकारमापतति। धनुषः पञ्चमनवांशाका-
धिपतिः सूर्यस्तदीयवर्गादष्टममक्षरमैकारमापतति। मीनस्य पञ्चमनवांशाकाधिपतिर्भौमस्तदीय-
वर्गात् प्रथममक्षरं ककारमापतति। अत एवोक्तम्—
लग्ने पकारो जलगे चकार ऐकारमस्तेऽम्बरगे ककारः। इति।।२७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनोत्तराध्यायः ५१७
अन्येष्व्वाह—
प्राग्लग्नगे नं जलगे णमाहुरस्तं गते टं नभसि स्थिते तम्।
प्राग्लग्नगे खं जलगे यमाहुरस्तं गते छं नभसि स्थिते फम् ॥२८॥
मिथुन लग्न में षष्ठ नवांश हो तो मिथुन में षष्ठ नवांशाधिपति बृहस्पति के वर्ग का
पञ्चम अक्षर नकार, चतुर्थ राशि ( कन्या ) में षष्ठ नवांशाधिपति बुध के वर्ग का पञ्चम
अक्षर णकार, सप्तम राशि ( धनु ) में षष्ठ नवांशाधिपति बुध के वर्ग का प्रथम अक्षर
टकार और दमश राशि ( मीन ) में षष्ठ नवांशाधिपति के वर्ग का प्रथम अक्षर तकार
आता है। मिथुन लग्न में सप्तम नवांश हो तो मिथुन में सप्तम नवांशाधिपति मंगल के
वर्ग का द्वितीय अक्षर खकार, चतुर्थ राशि ( कन्या ) में सप्तम नवांशाधिपति शुक्र के
वर्ग का द्वितीय अक्षर छकार और दशम राशि ( मीन ) में सप्तम नवांशाधिपति शनि के
वर्ग का द्वितीय अक्षर फकार आता है॥२८॥
मिथुनस्य षष्ठनवांशकाधिपतिर्जीवस्तदीयवर्गात् पञ्चममक्षरं नकारमापतति। कन्यायाः
षष्ठनवांशकाधिपतिर्बुधस्तदीयवर्गात् पञ्चममक्षरं णकारमापतति। धन्विनः षष्ठनवांश-
काधिपतिर्बुधस्तदीयवर्गात् प्रथममक्षरं टकारमापतति। मीनस्य षष्ठनवांशकाधिपतिर्जीवस्त-
दीयवर्गात् प्रथममक्षरं तकारमापतति। अत एवोक्तम्—
प्राग्लग्नगे नं जलगे णमाहुरस्तं गते टं नभसि स्थिते तम्।
मिथुनस्य सप्तमनवांशकाधिपतिर्भौमस्तदीयवर्गाद् द्वितीयमक्षरं खकारमापतति। कन्यायाः
सप्तमनवांशकाधिपतिश्चन्द्रस्तदीयवर्गात् प्रथममक्षरं यकारमापतति। धन्विनः सप्तमनवांशा-
धिपतिः शुक्रस्तदीयवर्गाद् द्वितीयमक्षरं छकारमापतति। मीनस्य सप्तमनवांशकाधिपतिः
सौरस्तदीयवर्गाद् द्वितीयमक्षरं फकारमापतति। अत एवोक्तम्—
प्राग्लग्नगे खं जलगे यमाहुरस्तं गते छं नभसि स्थिते फम्। इति॥२८॥
अन्येष्व्वाह—
लग्ने जमोकारमथाम्बुसंस्थे गमस्तसंस्थे विदुरम्बरे बम्।
ठं लग्नगेऽन्त्ये हिबुकाश्रिते डं थमस्तगे दं नभसि स्थिते वै ॥२९॥
मिथुन लग्न में अष्टम नवांश हो तो मिथुन में अष्टम नवांशाधिपति शुक्र के वर्ग का
तृतीय अक्षर जकार, चतुर्थ राशि ( कन्या ) में अष्टम नवांशाधिपति सूर्य के वर्ग का
नवम अक्षर ओकार, सप्तम राशि ( धनु ) में अष्टम नवांशाधिपति मंगल के वर्ग का
तृतीय अक्षर गकार और दशम राशि ( मीन ) में अष्टम नवांशाधिपति शनि के वर्ग का
तृतीय अक्षर बकार आता है। मिथुन लग्न में नवम नवांश हो तो मिथुन में नवम
नवांशाधिपति बुध के वर्ग का द्वितीय अक्षर ठकार, चतुर्थ राशि ( कन्या ) में नवम
नवांशाधिपति बुध के वर्ग का तृतीय अक्षर डकार, सप्तम राशि ( धनु ) में नवम
नवांशाधिपति बृहस्पति के वर्ग का द्वितीय अक्षर थकार और दशम राशि ( मीन ) में
नवम नवांशाधिपति बृहस्पति के वर्ग का तृतीय अक्षर दकार आता है॥२९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५१८ बृहत्संहिता
मिथुनस्याष्टमनवांशकाधिपतिः शुक्रस्तदीयवर्गात् तृतीयमक्षरं जकारमापतति। कन्याया
अष्टमनवांशकाधिपतिः सूर्यस्तदीयवर्गान्नवममक्षरमोकारमापतति। धन्विनोऽष्टमनवांशका-
धिपतिर्भौमस्तदीयवर्गात् तृतीयमक्षरं गकारमापतति। मीनस्याष्टमनवांशकाधिपतिः सौरस्त-
दीयवर्गात् तृतीयमक्षरं बकारमापतति। अत एवोक्तम्—
लग्ने जमोकारमथाम्बुसंस्थे गमस्तसंस्थे विदुरम्बरे बम्।
मिथुनस्य नवमनवांशकाधिपतिर्बुधस्तदीयवर्गाद् द्वितीयमक्षरं ठकारमापतति। कन्याया
नवमनवांशकाधिपतिर्बुधस्तदीयवर्गात् तृतीयमक्षरं डकारमापतति। धन्विनो नवमनवांशका-
धिपतिर्जीवस्तदीयवर्गाद् द्वितीयमक्षरं थकारमापतति। मीनस्य नवमनवांशकाधिपति-
र्जीवस्तदीयवर्गात् तृतीयमक्षरं दकारमापतति। अत एवोक्तम्—
ठं लग्नेऽन्त्ये हिबुकाश्रिते डं थमस्तगे दं नभसि स्थिते वै। इति।।२९।।
अत्र प्रविभागमाह—
एवं विकल्पोऽक्षरसंग्रहोऽयं नाम्नां निरुद्दिष्टविधान उक्तः।
सर्वेषु लग्नेषु च केचिदेवमिच्छन्ति पूर्वोक्तविधानवत्तु ॥३०॥
इस तरह यह नामाक्षरों के संग्रहों की निर्विशेष विधि कही गई है। कोई-कोई
आचार्य मेष आदि सभी लग्नों में पूर्वोक्त विधि को करने के लिये कहते हैं।।३०।।
एवमनेनानन्तरोक्तेन प्रकारेण विकल्पो विकल्पनाम यस्याक्षरसंग्रहस्य वर्णसंघातस्य
सोऽयं नाम्नामभिधानानां निर्विशेषेणोद्दिष्टमुक्तं विधानं विधिर्येन। उक्तः कथितः। सर्वेष्वखिलेषु
लग्नेषु मेषादिषु राशिषु केचिदाचार्या एवमनेन प्रकारेणेच्छन्ति वाञ्छन्ति। पूर्वोक्तविधानवत्
तु। पूर्वोक्तेन प्रागुद्दिष्टेन विधानेन तुल्यं वर्तत इति पूर्वोक्तविधानवत्। मेषे ककार इत्यादि-
नेति।।३०।।
अत्रैव नामानयने प्रकारान्तरमाह—
केन्द्राणि वा केन्द्रगतांशकैः स्वैः
पृथक्पृथक् सङ्गुणितानि कृत्वा ।
त्रिकृद्विभक्तं विदुरक्षरं तत्
क्षेत्रेश्वरस्यांशापरिक्रमस्वम् ॥३१॥
केन्द्रगत मेषादि राशि के नवांशसंख्या से केन्द्रगत राशि के अक्षरों को गुणा करके
नव का भाग देने से जो शेष बचे तत्तुल्य नवांशाधिपति क्रम से अक्षर जानना चाहिये।
यहाँ पर आचार्य के कहने का अभिप्राय यह है कि चर आदि तीनों केन्द्रों में मंगल आदि
पाँच ग्रहों के छः-छः नवांश होते हैं तथा नव नवांश में नव अक्षर होते हैं; अतः यहाँ
-पर 'नव नवांश में नव अक्षर तो छः नवांश में क्या' इस त्रैराशिक से छः अक्षर आते हैं।
अतः चर राशि के प्रथम नवांश में अपने वर्ग का प्रथम अक्षर, द्वितीय में द्वितीय, तृतीय
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

भवन्ति, नान्यानि। केन्द्राणि च लग्नचतुर्थसप्तमदशमानि।
वाशब्दो भावान्तरोक्तविकल्पप्रदर्शनार्थः। मेषे ककार इत्येतच्चक्रं प्रागुक्तं प्रदर्शितम्।

Now check lines 19 to 35:
वा केन्द्रगतांशकैः स्वैरिति। केन्द्रेषु चतुर्षु ये गताः समवस्थिता अंशका नवगास्तै-
रात्मीयैः पृथक् पृथक् प्रत्येकं संगुणितानि संहतानि कृत्वा विधाय। एतदुक्तं भवति—
केन्द्रस्थितं राशिं मेषादिकं नवांशैर्नवभिर्विभज्य यद्भवति तावत्सङ्ख्यमङ्कं संस्थाप्योदित-
नवांशकैः स्वैर्गुणयेत्। ततस्तत्केन्द्रचतुष्टयं त्रिकृता त्रिकृत्या भक्तं कार्यम्। त्रयाणां कृतिर्वर्ग-
स्त्रिकृद् नव इत्यर्थः। तया विभक्तं विभाजितम्। तदक्षरं वर्णं विदुर्जानते। यल्लब्धं तदक्षरम्।
कस्य? क्षेत्रेश्वरस्य राश्यधिपतेः। अंशपरिक्रमेण नवांशपरिपाट्या स्वमात्मीयम्। अयमभि

५२० बृहत्संहिता

मेषवृषमिथुनकर्कसिंहकन्यातुलावृश्चि०धनुमकरकुम्भमीन
कफजपखबचवगपछस
छबघअजभखईझफगई
टथदठटधतडडथदढ
रघमजशङबझहगभञ
आञपघउचभङऐझमक
डढनदणणधधटढनत
ञषखमचयङपछलकफ
कऊजपखओचठगइछब
नटठततडणथथटठद
अथ व्याप्तिदर्शनार्थमाह—
सञ्चिन्तितप्रार्थितनिर्गतेषु नष्टक्षतस्त्रीरतिभोजनेषु ।
स्वप्नर्क्षचिन्तापुरुषादिवर्गेष्वेतेषु नामान्युपलक्षयेत ॥३२॥
सञ्चिन्तित ( मन से चिन्तित ) कार्यों की परिकल्पना, पार्थित ( वाणी से युक्त ),
निर्गत ( निर्गमन ), नष्ट वस्तु, क्षत, स्त्री, रति ( स्त्री के साथ रमण ), भोजन ( आहारविशेष
मांस आदि ), स्वप्न, नक्षत्र, चिन्ता और पुरुष आदियों के नामों को जानना चाहिये।
यहाँ पर चारो केन्द्रों को प्रस्तुत होने के कारण लग्न आदि क्रम से सञ्चिन्तित आदि के
नामों को जानना चाहिये। जैसे—लग्न से सञ्चिन्तित, चतुर्थ से प्रार्थित, सप्तम से निर्गत,
दशम से नष्ट वस्तु; फिर लग्न से क्षत, चतुर्थ से स्त्री, सप्तम से रति, दशम से भोजन;
फिर लग्न से स्वप्न, चतुर्थ से नक्षत्र, सप्तम से चिन्ता और दशम से पुरुषादि के नामों
को जानना चाहिये। यहाँ तक यवनेश्वरकृत अक्षरकोश है॥३२॥
सञ्चिन्तितं मनसा पदार्थानां परिकल्पनम्। प्रार्थितं वाचोक्तम्। इदं सम्पद्यतामिति।
निर्गतं निर्गमनम्। नष्टं दृष्टिविषयादपहृतं यद्वस्तु। क्षतं हिंसितम्। स्त्रीरतिरुत्तमादिस्त्रिया
सह रमणम्। भोजनमाहारविशेषो मांसादि। एतेषु पदार्थेषु। तथा स्वप्नं सुप्तस्य स्वप्नावस्थायां
नानाप्रकारवस्तुदर्शनम्। ऋक्षं नक्षत्रं तज्ज्ञानम्। चिन्ता मनसा परिकल्पनम्। पुरुषादिः,
पुरुषो नर आदिर्येषाम्। आदिग्रहणात् स्त्रीनपुंसकयोर्ग्रहणम्। पुरुषादीनां वर्गेषु समूहेषु
एतेषु नामान्यभिधानान्युपलक्षयेत विन्द्यात्। कथम्? यथासंख्यं केन्द्रचतुष्टयस्य प्रस्तुतत्वात्।
अत्र यथासंख्यं प्रदर्श्यते। लग्नादारभ्य सञ्चिन्तितनामान्युपलक्षयेत्। चतुर्थादारभ्य प्रार्थितना-
मान्युपलक्षयेत्। सप्तमादारभ्य निर्गतनामान्युपलक्षयेत्। दशमादारभ्य नष्टनामान्युपलक्षयेत्।
पुनर्निवृत्य लग्नादारभ्य क्षतनामान्युपलक्षयेत्। चतुर्थादारभ्य स्त्रीनामान्युपलक्षयेत्। सप्तमा-
दारभ्य रतिनामान्युपलक्षयेत्। दशमादारभ्य भोजननामान्युपलक्षयेत्। पुनर्निवृत्य लग्नादारभ्य
स्वप्ननामान्युपलक्षयेत्। चतुर्थादारभ्य ऋक्षनामान्युपलक्षयेत्। सप्तमादारभ्य चिन्तानामा-
न्युपलक्षयेत्। दशमादारभ्य पुरुषादिनामान्युपलक्षयेदिति। भद्रम्॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनोत्तराध्यायः ५२१
रचिताक्षरकोशस्य टीका शिष्यहितावहा।
भट्टोत्पलेन सुस्पष्टा श्लोकैः खाङ्गाश्विसम्मितैः।। इति।। ३२।।
एवमेव गतेऽक्षरकोशे आगतस्य नामानयनमाह—
द्व्यक्षरं चरगृहांशकोदये नाम चास्य चतुरक्षरं स्थिरे।
नामयुग्ममपि च द्विमूर्तिषु त्र्यक्षरं भवति चास्य पञ्चभिः ॥१४॥
चर लग्न और चर नवांश में आगन्तुक या प्रश्नकर्ता के दो अक्षर का नाम तथा
स्थिर लग्न और स्थिर नवांश में चार अक्षर का नाम होता है। द्विस्वभाव राशि के लग्न
और नवांश में दो नाम होते हैं; उनमें एक तीन अक्षर का और दूसरा पाँच अक्षर का होता
है।।१४।।
यस्मिन् तस्मिन् राशौ लग्नगते चरगृहांशकोदये तत्कालं तस्य चरराश्यंशको लग्न-
गतो भवति, तदा तस्यागन्तुः प्रष्टुर्वा द्व्यक्षरं नाम। लग्ननवांशयोर्भेदे यो बलवांस्तद्वशात्नाम।
एवं स्थिरलग्ने स्थिरनवांशकोदये च चतुरक्षरं नाम। द्विमूर्तिषु द्विस्वभावेषु लग्नगतेषु
तन्नवांशकेषु चास्य नामयुग्मं नामद्वितयं भवति। तत्रैकं नाम त्र्यक्षरम्। द्वितीयं पञ्चभिरक्षरैर्भवति।
एवं चरलग्ने चरांशके विज्ञेयम्।।१४।।
अथ नामवर्णानयनमाह—
काद्यास्तु वर्गाः कुजशुक्रसौम्यजीवार्कजानां क्रमशः प्रदिष्टाः ।
वर्णाष्टकं यादि च शीतरश्मेरवेरकारात् क्रमशः स्वराः स्युः ॥१५॥
नामानि चाग्न्यम्बुकुमारविष्णुशक्रेन्द्रपत्नीचतुराननानाम् ।
तुल्यानि सूर्यात् क्रमशो विचिन्त्य द्वित्र्यादिवर्णैर्घटयेत् स्वबुद्ध्या ॥१६॥
मंगल शुक्र, बुध, बृहस्पति और शनि के क्रम से कवर्ग आदि हैं। जैसे—मंगल के
कवर्ग, शुक्र के चवर्ग, बुध के टवर्ग, बृहस्पति के तवर्ग और शनि के पवर्ग हैं तथा चन्द्र
के यकार आदि आठ वर्ण ( य, र, ल, व, श, ष, स, ह ) और रवि के अकार आदि
बारह स्वर ( अ आ इ ई उ ऊ ए ऐ ओ औ अं अः ) हैं।
प्रयोजन—लग्न, चतुर्थ, सप्तम, दशम—इन चारो स्थानों में जो वर्तमान नवांशा-
धिपतियों के अक्षर हों, उनको क्रम से स्थापन करके नाम-रचना करनी चाहिये। जो ग्रह
वर्गोत्तम, स्वराशि, स्वद्रेष्काण, स्वनवांश या स्वोच्च में स्थित या बली हो, वह अपने
अक्षर को द्विगुणित और त्रिगुणित करके देता है तथा जो वर्गोत्तम आदि से वर्जित हो,
वह अपने अक्षर का नाश करता है। यदि लग्न या नवांश का पति सूर्य हो तो अग्नि-
पर्याय, चन्द्र हो तो अम्बुपर्याय, बुध हो तो विष्णुपर्याय, बृहस्पति हो तो इन्द्रपर्याय,
शुक्र हो तो इन्द्राणीपर्याय, शनि हो तो ब्रह्मपर्याय के नाम होते हैं। सूर्य आदि ग्रहों के
क्रम से विचार करके दो, तीन आदि अक्षरों के नामों की अपनी बुद्धि से कल्पना करनी
चाहिये।।१५-१६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA